अथ दशमहेतुनिरूपणम्
अथास्य श्रीवैखानसूत्रस्य श्रीमन्नारायणैकपरत्वाद् तत्सूत्रानुष्ठानवतामेव भगवत्प्रियतमत्वमुपपद्यतैति प्रतिपादनाय ‘भगवत्प्रियतमत्वोपपत्ते’ रिति दशमहेतुर्निरूप्यते –
छन्दोगब्राह्मणे – ‘वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन्’ इति । अत्र इन्द्रशब्दः परमात्मपर इति पूर्वमेवोक्तम् ।
वाराहे – अश्वत्थः कपिला गावः तुलसी विखनास्तथा । चत्वारो मत्प्रिया राजन्! तेषां वैखानसो वरः ॥ इति
यत्र वैखानसा विप्रा यत्र सन्ति गवां गणाः । यत्र बिल्वाः पलाशाश्च तत्र सन्निहितो हरिः ॥ इति
कौर्मे- मच्चिता मद्गतप्राणा मयि सङ्गतमानसाः । अनन्यशरणा राजन् तस्माद्वैखानसा वराः ॥ इति
पाञ्चरात्रे पौष्करे- विप्रा वैखानसाख्या ये ते भक्तास्तत्त्वमुच्यते । एकान्तिनः सुसत्वस्था देहान्तं नान्ययाजिनः ॥
कर्तव्यमिति देवेशं संयजन्ते फलं विना । प्राप्नुवन्ति च देहान्ते वासुदेवत्वमब्जज ॥ इति
बृहन्नारादीये – देवार्चनपरा ये च ये च तत्साधका नराः । पूजां दृष्ट्वानुमेदन्ते ते वै भागवतोत्तमाः ॥
यस्तु भोगतया विष्णोः सत्कृत्यं कुरुते सदा । स भवेत्परमैकान्ती महाभागवतोत्तमः ॥
य ऐकान्त्यगता विष्णौ भगवत्यात्मभावने । ते वैष्णवा भागवतास्सन्त इत्यपि कीर्तिताः ॥
मन्मानसाश्च मद्भक्ता मम पूजासु लोलुपाः । मत्कथाश्रवणे सक्तास्ते वै भागवताः स्मृताः ॥ इति
येऽर्चयन्ति नरा भक्त्या नारायणमनामयम् । तानर्चयन्ति विबुधा ब्रह्माद्या देवतागणाः ॥
मयि भक्तिपरो यस्तु मद्याजी मत्परायणः । मद्ध्यानी स्वकुलं सर्वं नयत्यच्युतरूपताम् ॥
येऽर्चयन्ति सदा विष्णुं न ते प्राकृतमानुषाः । विष्णुलोकात्समुत्पन्नास्ते देवा नात्र संशयः ॥
नाविष्णुर्जायते विष्णुर्ना विष्णुर्विष्णुमर्चयेत् । रूपद्वयं हरेः प्रोक्तं बिम्बमर्चक एव च ॥
बिम्बेत्वावाहनादूर्ध्वं सदा सन्निहितोऽर्चके । अर्चकस्तु प्रसन्नात्मा हरिरेव न संशयः ॥
कलिः कृतयुगस्तेषां क्लेशाश्चैव सुखावहाः । येषां शरीरमनिशं हरिशुश्रूषणे रतम् ॥ इति
भागवते – सा वागनन्तरस्य गुणाण् गृणीते करौ च तत्कर्मकरौ मनश्च । स्मरेवसन्तं स्थिरजङ्गमेषु श्रुणोति तत्पुण्यकथास्स कर्णः ॥
शिरश्च तस्याङ्घ्रिषु नम्रमाणं तमेव यः पश्यति तद्धि चक्षुः । अङ्गानि विष्णोरथ तज्जनानां पादोदकं यानि वहन्ति नित्यम् ॥
हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः । पादोदकञ्च निर्माल्यं यस्य मूर्ध्नि स वैष्णवः ॥ इति
श्रुतिरपि – तदस्य प्रियमभिपाथो अश्याम् नरो यत्र देवयवो मदन्ति उरुक्रमस्य स हि बह्दुरित्था विष्णोः पदे परमे मध्व उत्सः इति । अस्यार्थः-विष्णोः प्रियं तत्पाथः निवेदितमन्नादिकम् अभ्यश्याम् । देवयवो नराः देवाराधकाः यत्र मदन्ति यस्मिन् निवेदिततीर्थप्रसादादिके स्वीकृते मदन्ति हृष्टा भवन्ति । यद्वा ब्रह्मादीनपि न गणयन्ति । इत्था इत्थं प्रतिदिनं वर्तमानः उरुक्रमस्य विष्णोर्बन्धुः जात्येकवचनम् । स एवातीवाभिमतः परमे सर्वोत्कृष्टे मध्वे मधुवत् भोग्यतमे विष्णोः पदे उत्स उत्सुकः । यद्वा उत्कृष्टः ॥
श्रुत्यन्तरे – विष्णुनाशितमश्नन्ति विष्णुना पीतं पिबन्ति विष्णुना घ्रातं जिघ्रन्ति विष्णुना रसितं रसयन्ति तस्माद्विद्वाँ सो विष्णूपहृतं भक्षयेयुः इति ।
भागवते – त्वयोपभुक्तस्रग्गन्धवासोऽलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास्तव मायां तरेमहि ॥ इति
हारीतः – कृपादत्तं हस्तगतं विष्णुभुक्तोझ्जितन्तु यत् । उपवासछलान्नात्ति तेन भुक्तं सुरोपमम् ॥ इति
भृगुः – हविः कृत्वा चतुर्भागमूर्ध्वभागौ निवेदयेत् । अधस्तादेकभागेन होम बलिमथाचरेत् ॥
यदंशं पात्रसंशिष्टं पूजकायैव निर्मितम् । अग्निकार्यावशिष्टञ्च बलिशिष्टञ्च यद्धविः । सर्वं तत्पूजकायैव प्रोक्तमेवं मनीषिभिः ॥ इति
यज्ञाधिकरे भृगुः – आत्मनश्च चतुर्थाशं वैश्वदेवार्थमर्चकः । आदाय वैश्वदेवान्ते शिष्टान्नं भोजयेत्पुनः ॥
बलिशेषं होमशेषं वैश्वदेवे विशेषतः । गृह्णीयाद्वैश्वदेवार्थं भोजनार्थञ्च ऋत्विजः ॥ इति
काश्यपः – सर्वहविःपात्रेषु शिष्टमन्नं सर्वं भगवन्निवेदितमपूपादिकञ्च पूजका गृह्णीयुः। यथा गुरोरुच्छिष्टं पुत्रशिष्यभृत्यानां भोज्यं, तथा सर्वस्य रक्षितुः सौम्यमूर्तेः सर्वव्यापिनो विष्णोः जगद्गुरोर्निवेदितम—विश्वं चतुर्वर्णानां भक्तिमतां सर्वेषां भोज्यम्, अभक्तिमतामभोज्यम् । इति
श्रीपाञ्चरात्रे ईश्वरसंहितायाम् – समाराधनाध्याये _ स्कन्दः – त्वया निषेध आख्यातो मन्त्रदत्तस्य वस्तुनः सर्वस्य पत्रपुष्पान्नपूर्वस्य परमेश्वर ॥
तस्येदानीं प्रदानञ्च प्राशनञ्च प्रशंससि । किमेतदत्र मे जाटस्संशयः परमेश्वर ॥
ईश्वरः – प्रदान प्राशनं पुत्र उपभोग्यत्वमेव च । शैवे पाशुपते दृष्टमचिरादेव पापकृत् ॥
तत्पुनर्वैष्णवे मार्गे वर्तते व्यत्ययेन तु । अनन्तफलदं दानात् प्राशनात् कोष्ठशुद्धिकृत् ॥ इति
तत्रैव-देवताचने – कर्षं नयति पापानि पुण्यवृद्धिं करोति च । दानैर्धर्मैः तथा पुण्यैस्तापोर्भिश्च न तत्फलम् ॥
भगवद्भक्तिपूतानां यत्फलं प्रापणादनात् ॥ इति
अन्यत्र – सत्सङ्गदेवार्चनसत्कथासु परोपदेशे च रतो मनुष्यः । स याति विष्णोः परमं पदं यद्देहावसानेऽच्युततुल्यतेजाः ॥ इति
अन्यत्र – नारायणैकनिष्ठा ये सात्त्विकास्तान् निबोधत । पुरुषा राजसाश्चैव नानादैवतयाजिनः ॥
बाह्या निर्देवताश्चैव तामसाः परिकीर्तिताः । रजस्तमोऽभिभूतानां न तु मोक्षः कथञ्चन ॥ इति
पुराणान्तरे – यत्रैव पूज्यते विष्णुर्विधिना प्रयतैर्नरैः । न तत्र ह्याधिदौर्गत्यव्याधिचौरादेकं भयम् ॥ इति
किञ्च – नित्यमुक्तोपभोग्यत्वात्परव्यूहात्मनो हरेः । तत्कालसन्निकृष्टैकलक्ष्यत्वाद्विभवात्मनः ॥
विशुद्धैर्योगसंसिद्धैश्चिन्त्यत्वादन्तरात्मनः । अर्चामन्येव सर्वेषामधिकारो निरङ्कुशः ॥
अर्चावतारविषये ममाप्युद्देशतस्तथा । उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैरपि ॥
एवं पञ्चप्रकारोऽहमात्मनां पततामघः पुर्वस्मादपि पूर्वस्मात् ज्यायांश्चैवोत्तरोत्तरः ॥
सौलभ्यतं जगत्स्वामी सुलभोह्युत्तरोत्तरः ॥
इति प्रतिपादितरित्या भगवतः परत्वदिषु सौलभ्याभावात् अखिललोकसमु-ज्जीवनार्थमर्चावतारः । तदेकपरत्वाद्वैखानसाः तत्प्रियतमाः । एतदृशनारायणैक- परत्वाभावाद्बोधायनस्य आपस्तम्बादीनाञ न कथञ्चदपि परमिकान्तित्वं भगवत्प्रियतमत्वञ्च सम्भवति ।
एवं च वैखानसानामेव परमैकान्तित्वं भागवत्प्रियतमत्वञ्चोपपद्यते इति सर्वं समञ्जसमिति दशमो हेतुर्निरूपितः ।
इति दशमहेतुनिरूपणम् ।
इति श्रीरमणवेङ्कटाचलेश्वरपादारविन्दसपर्यानिरतस्य सर्वतन्त्रस्वतन्त्रस्य श्रीनिवासमखिवेदान्तदेशिकस्य कृतिषु श्रीवैखानससूत्र- तात्पर्यचिन्तामणौ दशविवहेतुनिरूपणम् उपोद्धातभागः समाप्त ।