अथ नवमहेतुनिरूपणम्
अथेदानीमापस्तम्बादिसूत्रान्तरनिष्ठानां सूत्रकाआदारभ्य अविच्छिन्नत्वेन परम्परया एकान्तित्वं नास्तीति ज्ञापयितुं वैखानससूत्रिणामेव तत् सम्भवतीति दर्शयितुं
प्रत्यक्षमनुमानञ्च शास्त्रञ्च विविधागमम् । त्रयं सुविदितं ज्ञेयं धर्मसिद्धिमभीपसता ॥
इति मनुस्मरणानुसारेण प्रत्यक्षादिभिरवगमयितुञ्च अखिलजगदेककारणभूत-श्रीमन्नारायणैकपरत्वादिति नवमो हेतुर्निरूप्यते ।
अस्य सूत्रस्य नाआयणैकपरत्वे – उपक्रमोपसंहारावम्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥
इत्युक्तानि षड्विधानि तात्पर्यलिङ्गानि सन्ति । तथा हि- आद्यप्रश्ने प्रथमखण्डे ‘नारायणपरायण’ इत्युक्तम् । एवं ‘सदाऽऽध्यात्मरतो ध्यानयोगी नारायणपरं ब्रह्म पश्यन् धारणां धारयेदक्षरं परं ब्रह्माप्नोति- ‘नारायणपरं ब्रह्मेति श्रुतिः’ इत्युपसंहारे सान्यासविधौ प्रतिपादितम् । सन्ध्योपासनादि-पुण्याहाधारान्तहोम-नान्दीमुखॊपनयन-प्राणिग्रहणपर्यन्तेषु अन्तकर्मणि च अतोदेवादिवैष्णवा मन्त्राः विनियुक्तः । एवं आधारप्रकरणे ‘शरोऽङ्गारेऽग्नौ जुहुया’ दिति सूत्रेण इध्माधानं तैतिरीयब्राह्मणवाक्यानुसारेण परब्रह्माग्नौ विहितम् । परब्रह्मशब्दाभिधेयश्च भगवान् नारायण एवेति वेदान्तेषु निर्णीतम् । तथाहिः-
‘सदेव सोम्येदमग्र आसीत्, एकमेवाद्वितीयम्’ इत्यादिभिःप्रतिपन्न्स्य अभिन्ननिर्मितोपादानकारणस्य ‘यतो वा इमानि भूतानि जायन्ते-तद्ब्रह्मे’ त्यादिनाजगत्कारणत्वं ब्रह्मशब्दवाच्यत्वञ्च प्रतिपाद्यते । तस्य ‘सत्यं ज्ञानमनन्तं ब्रह्मे’ त्यादिना शोधकवाक्येन स्वरूपं निरूप्यते । सत्यत्वादिविशिष्टस्य तस्य ‘आनन्दो ब्रह्म’ इति निरतिशयानन्दरूपत्वं प्रतिपाद्यते । एतादृशब्रह्मरूपं वस्तु ‘नारायणपरं ब्रह्म’ ‘तत्त्वं नारायणः परः’ ‘एको ह वै नारायण आसीत्’ ‘अपहतपाप्मा दिव्यो देव एको नारायणः’ इत्यादिवाक्यैः श्रीमन्नारायण एवेति नियम्यते । एवञ्च ‘अध्यूहन्ते’ इति तैत्तिरीयवावयशेषस्थब्रह्मशब्दोऽपि नारायणपर एवेति प्रकृतसूत्रोक्तेध्माधानमपि नारायणपरमेव ।
एवमाधाने – ‘ध्यायन्नारायणमुपोष्य’ इति, अग्निहोत्रे – भूमानं विष्णुं ध्यायेत्’ इति, दर्शपूर्णमासे – ‘उदित आदित्ये ध्यायन्नारायणं ‘विष्णोर्नुक्त’मिति जपित्वा’ इति, सोमे च – ‘नारायणपरायणस्नूष्णीमास्ते’ इति च सर्वत्रापि अभ्यासेन नारायणपरत्वेनोक्तत्वात् इदं सूत्रं नारायणपरमेव ।
ननु – अत्र सूत्रे प्रवासागमने आश्वयुज्याञ्च ‘प्रदक्षिणमर्चनं प्रणामो गुहस्य – भवं ‘देवमावाह्य’ इत्युक्तत्वात् सर्वत्र नारायपरत्वमस्येति कथं वक्तुं शूक्यते इति चेत् – उच्यते । ‘अङ्गान्यन्या देवता’ इति अङ्गभूतानां ब्रह्मरुद्रादीनामपि यज्ञांशभाक्तुं भगवत्प्रसादलब्धमिति भारतादिनऽवगम्यते –
तथाहि :- ततस्ते च सुरास्सर्वे ब्रह्मा ते च महर्षयः । वेददृष्टेन विधिना वैष्णवं क्रतुमारभन् ॥
तस्मिन् सत्रे तथा ब्रह्मा स्वयं भागमकल्पयत् । देवा महार्षयश्चैव सर्वे भागानकल्पयन् ॥
ते कार्तयुगधर्माणो भागाः परमसंस्कृताः । प्रापुरादित्यवर्णं तं पुरुषं तमसः परम् ॥
श्रीभगवान्- येन यः कल्पितो भागः स तथा समुपागतः । प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम् ॥
यज्ञीये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः । कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान् ॥
यो मे यथा कल्पितवान् भागमस्मिन् महाक्रतौ । स महायज्ञभागार्हो वेदसूत्रे मया कृतः ॥ इति
श्रीभागवते – अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेशसुरेशमुख्याः । सर्वे वयं यन्नियमं प्रपन्ना मूर्ध्नाऽर्पितं लोकधुरं वहामः ॥ इति
एवं च भावादीनामपि नारायणाङ्गत्वेन पूजार्हत्वावगमात्
अङ्गभावेन देवानामर्चनं न निषिद्ध्यते । स्वतन्त्रबुद्ध्या कुर्वन् हि ब्राह्मणो नरकं व्रजेत् ॥
ब्रह्माणमिन्द्रमग्निं वा हरेरावरणम् विना । यस्तु सम्पूजयेद्विप्रः स पाषण्डी भवेद्ध्रुवम् ॥
इत्यादिना अङ्गभावेन तेषामर्चनं कुर्वतो दोषाभावस्मरणाञ्च सूत्रे तथोक्तिः ।
तथा- अन्यत्र त्वां समारोप्य यद्युपासा विधीयते । सा वृत्तिः प्रच्युता प्रोक्ता तव तत्त्वं तथैव च ॥
त्वयि सर्वं समारोप्य यद्युपासा विधीयते । सा वृत्तिः सकला ज्ञेया तव तत्त्वं तवैव हि ॥
इति ज्ञानकाण्डे कश्यपेनोपासनस्वरूपभेदप्रदर्शनात् ‘विष्णोर्नित्यार्चा सर्वदेवार्चा भावती’ ति मुख्यत्वेन सूत्रे प्रतिपादितत्वात् प्रच्युतिफलप्रदत्वाभावाच्च तेषामङ्गभावेन पूजनं युज्यते । आपस्तम्बादिसूत्रेषु सर्वसंस्काराणां सद्वारकत्वेन प्रतिपादनात् नारायणैकपरत्वेन सकृदपि स्मरणाभावात् तेषां न नारायणैकपरत्वम् ।
ननु – बोधायनेनापि ‘अथातो विष्णुप्रतिष्ठाकल्पं व्याख्यास्यामो द्वादश्यमेकादश्यां श्रोणायां वा यानि चान्यानि शुभनक्षत्राणि’ इत्यारभ्य ‘द्वादशनामभिः अमुष्मै स्वाहा अमुष्मै स्वाहा’ इत्यादिना होमादिकमुक्त्वा
त्वामेकमाद्यं पुरुषं पुरातनं नारायणं विश्वसृजं यजामहे । त्वमेव यज्ञो विहितो विधेयः त्वमात्मनाऽत्मन् प्रतिगृह्णीष्व हव्यम् ॥
इति नारायणैकपरत्वेन प्रतिपादनात् कथं तेषां नारायणैकपरत्वं नास्तीत्युच्यत इति चेत् – सत्यम् । आपस्तम्बादीनामाचार्येणनिन बोधायनेन नारायणैकपरत्वेन प्रतिष्ठादिकमनुक्तम् । किन्तु । ‘अथ रुद्रप्रतिष्ठाविधिं व्याख्यास्यामः चतुर्थ्यामष्टम्यामार्द्रायामपभरण्यां वा यानि चान्यानि शुभनक्षत्राणि’ इति प्रकृत्य ‘भवाय देवाय स्वाहे’ त्यादिभिः ‘भवस्य देवस्य पन्त्यै स्वा’ हेत्यादिभिश्च होमादिकमुक्ता
त्वामेकमाड्यं पुरुषं पुरातनं रुद्रं शिवं विश्वसृजं यजामहे । त्वमेव यज्ञो विहितो विधेयस्त्वमा- त्मनाऽऽत्मन् प्रतिगृह्णीष्व हव्य ॥
इति शिवप्रतिष्ठा, एवं ‘अथातो महादेवस्याहरहः परिचर्याविधिं व्याख्यास्यामः’ इत्यारभ्य ‘महादेवमावाहयेत्-आयातु भगवान् महादेव’ इति पृथक्तेन रुद्रपूजा च प्रतिपादिता । तथा-अन्यत्र ‘अथातोऽर्धमासेऽष्टम्यां ब्राह्मणाः स्त्रियश्चाहुः इत्यारभ्य —– प्रदोषे रुद्रं विरूपाक्षं सपनीकं ससुत सपार्षद’ मित्यादिभिः रुद्रावाहनमुक्तम् । एवं ‘आदित्यमम्बिकां विष्णुं गणनाठं महेश्वर’ मिति पञ्चपूजा च । अतः बोधायनसूत्रं नारायणैकपरं न भवति ।
अथ आपस्तम्बादयः किं नारायणैकपराः – उत रुद्रपराः आहोस्वित् नानादेवतापराः । नारायणैकपरा इति चेन्न । जातिकुलाचारादिष्वागोत्र प्रथमादारभ्य –
अथ आपस्तम्बादयः किं नारायणैकपराः – उत रुद्रपराः आहोस्वित् नानादेवतापराः । नारायणैकपरा इति चेन्न । जातिकुलाचारादिष्वागोत्र प्रथमादारभ्य –
श्वश्रूरस्य दिगम्बरव्रतवती सम्बन्धिनस्सौगताः माता चास्य पिता च पाशुपतिनौ वैशेषिको देशिकः ।
भ्राता तिष्ठति साङ्ख्ययोगसमये चार्वाकशिष्यस्सखा मिथ्याचारसमाह्वयस्स्वयमसौ विप्लाचिको वैदिकः ॥
इत्युक्तरीत्या एतेषां शैवपाशुपतवैष्णवाद्याकारेण विद्यमानत्वात् आपस्तम्बादि सूत्राण्यपि नारायणैकपराणि न भवन्ति । भगवतो नारायणस्य समाराधनविधिप्रति-पादनाभावाञ्च । नारायणैकपरञ्चेदापस्तम्बादिसूत्रं तर्हि तत्सूत्रोक्तधर्मानुष्ठातारः सर्वेऽपि नारायणैकपरा एव स्युः । ‘स्वसूत्रे विद्यमाने तु’ – ‘स्वसूत्रस्य परित्यागात्’ – ‘यस्स्वधर्मं परित्यज्य’ – विधर्मः परधर्मश्च – ‘श्रेयान् स्वधर्मो विगुणः’ इत्यादि वचनप्रतिपादितस्वसूत्रपरित्यागपरधर्मस्वीकारशाखारण्डत्वादिदोषाः प्रसज्येरन् । ‘स्वशास्त्रनिर्णये सत्ये सत्याः स्युर्लोकनिर्णया’ इति स्वसूत्रस्य प्रामाण्यबुद्धिश्च तेशामवर्जनीया ।
वैखानसानां सूत्रकारादारभ्य अविच्छिन्नत्वेन श्रीमन्नाराय्णैकपरत्वे-नाराधनादिकं प्रत्यक्षसिद्धम् । तथा च सूत्रम् – ‘गृहे देवायतने वा भक्त्या भगवन्तं नाराय्णमर्चयेत्तद्विष्णोः परमं पदं गच्छतीति विज्ञायते’ इति। इतरेष्वापस्तम्बादिषु पितृ पितामह मातुल मातामह पुत्र पौत्र भ्रातृ सम्बन्धिषुकेचिच्छैवाः केचित् पाशुपतः केचिच्छाक्ताः नानादेवतापराश्चेत्येवमाकारेण दृश्यन्ते ॥
जन्मान्तरसहस्रेषु तपोज्ञानसमाधिभिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥
इति केषाञ्चित् स्वकृतपूर्वपुण्यविशेषान्नारायणपरत्वसम्भवेऽपि स्वसूत्रकारमारभ्य स्वपर्यन्तमविच्छिन्नत्वेन तदस्तीति वकुत्ं न शक्यते । अतः –
नानाकामहतज्ञाना नानादैवतयाजिनः । नरा भावदैकान्त्ये न स्थास्यन्ति कलौ युगे ॥
आगमादनुमानाञ्च प्रत्यक्षादुपपत्तितः । परीक्ष्य निपुणं बुद्ध्या श्रद्धातव्यं विपश्चिता’ ॥
इति वायुपुराणादिवचनादागमादिभिर्निपुणं परीक्ष्य निर्णीत एवार्थः विपश्चि—अनुष्ठेयः ।
ननु-किमर्थं नारायणैकपरत्वेन सूत्रं प्रणीतमिति चेत्-उच्यते । नारायण अखिलजगदेककारणत्वात् परम्ब्रह्म परमात्मादिशब्दवाच्यत्वात् अपवर्गादिफल—त्वात् समाभ्यधिकरहितत्वाच्च नारायणैकपरत्वेन प्रणीतम् । अत्र- ‘नारायणाद्रुजायते । नारायणादिन्द्रो जायते । नारायणद्द्वादशादित्याः रुद्रावसवस्सर्वाणि च भूतानि । नारायणादेव समुत्पद्यन्ते । नारायणात्प्रलीयन्ते इत्याद्याः ‘नारायणपरं ब्रह्मेत्यारभ्य’ ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः, इत्याद्याः, ‘तमेवं विवानमृत इह भवति । नान्यः पन्था अयनाय विद्यते’ ‘उतामृतत्वस्येशानः’ इत्याद्याः, ‘न तस्य कार्यं करणञ्च विद्यते – न तत्समश्चाभ्यधिकश्च दृश्यते’ ‘परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ इत्याद्याः, ‘एष सर्वभूतान्तरात्मा दिव्यो देव एको नारायणः, इत्याद्याः, ‘एको ह वै नारायण आसीत्’ इत्याद्याः, ‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मे’ ति ‘पतिं विश्वस्यात्मेश्वर’ मित्याद्याश्च श्रुतयः प्रमाणम् ।
ननु – श्वेताश्वतरे –
‘एको हि रुद्रो न द्वितीयाय तस्थे – य इमान् लोकानीशत ईशनीभिः – विश्वाधिको रुद्रो महर्शिः – हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु – ‘उमासहायं परमं महेश्वरं त्रियम्बकं नीलकण्ठं प्रशान्तम् । ज्ञात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात्’ इत्यादिभिः रुद्रम्यापि जगत्कारणत्वादि प्रतिपाद्यत इति चेत् – उच्यते । आपाततो रुद्रपरत्वेनावगम्यमानेऽपि विचार्यमाणे नारायणपरत्वमेव । एक एव रुद्र इत्यनुपपन्नम् । ‘सहस्राणि सहस्रशो ये रुद्रा’ इत्यादिश्रुतिभिः ‘एकादशरुद्रा’ इत्यादिभिश्च अनेकरुद्राणां विद्यमानत्वावगमात् क्रूरस्य रुद्रशब्दवाच्यस्य ‘बृहत्त्वात् बृंहणत्वाच्च तद्ब्रह्मेति प्रकीर्तित’मिति ब्रह्मशब्दवाच्यत्वासम्भवात्, ‘तेषामसुराणां तिस्रः पुर आस’ न्नित्यारभ्य ‘इदमसिप्यतीति रुद्रमब्रुवन् रुद्रो वै क्रूरस्सोऽस्यत्विति, सोऽब्रवीद्वरं वृणै अहमेव पशूनामधिपतिरसाविति तस्माद्रुद्रः पशूनामधिपतिरिति’ ‘रुद्रो वा अकामयत पशुमान् स्यामिति- ‘माता रुद्राणां दुहिता वसूना’ मिति । पशुपतित्वयाचकत्वात् । ‘नैव देवो न मर्त्यः । न राजा वरुणो विभुः । नाग्निर्नेन्द्रो न पवमानः । मातृक्कच्च न विद्यते – इत्यारभ्य एतद्रुद्रस्य धनुः । दुद्रस्यत्वेव धनुरार्त्निः । शिर उत्पिपिष । स प्रवर्ग्योऽभवत् । तस्माद्यस्सप्रवर्ग्येण यज्ञन यजते । रुद्रस्य स शिरः प्रतिदधाति । नैनं रुद्र आरुको भवति ‘इत्युक्तत्वाञ्च रुद्रस्य ब्रह्मशब्दवाच्यत्वं न सम्भवति । रुद्र हर पशुपति नीलग्रीव शितिकण्ठ भव शर्व कपर्दीत्यादीनामेकत्वेन श्रूयमाणानामेकत्वं न सम्भवति । ईश्वरमहेश्वरपरममहेश्वर इति परममहेश्वरशब्दश्रवणात् । ‘शिवपको ध्येयः शिवश्शङ्करः सर्वमन्यत्परित्यज्ये’ त्यादिना शिवशब्दवाच्यादधिकत्वेन शिव तरशिवतमशब्दवाच्यस्य विद्यमानत्वात् । शम्भुशब्दस्य विश्वशम्भुत्वश्रवणात् ईशानस्य जगदीशानत्वश्रवणात् महादेवस्य ‘तमीश्वराणां परमं महेश्वरं तं देवतानां परमञ्च दैवतम्’ इति श्रवणाञ्च रुद्रादीनां परम्ब्रह्मश्ब्दवाच्यत्वं न सम्भवति ।
ननु – श्वेताश्वतरे – उमासहयविशेषित परममहेश्वरशब्दवाच्यस्य रुद्रत्वसम्भवात् परम्ब्रह्म शब्दवाच्यत्वं तस्य सम्भवतीति चेत् – न । परममहेश्वरशब्दस्य उमासहायमित्यत्र’ रुद्रादिष्वनुपपन्नत्वात् । उकारस्त्ववधारणार्थः । उ – मा सहायं लक्ष्मीसहायंलक्ष्मीसहाय परमं महेश्वरमेव त्रिलोचनत्वादिविशेषणविशिष्टं लक्ष्मीनरसिंहध्यात्वेत्यर्थः । यद्वा । देवमनुष्याद्यपेक्षया परममहेश्वरत्वात्,
सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मकाम् । स सञ्ज्ञां याति भगवान् एक एव जनार्दनः ॥
इति भगवच्छरीरभूतत्वाच्च रुद्रस्य परममएह्श्वरत्वम् । एवं भूतं रुद्रं ध्यात्वा मुनिर्मननशीलस्सन् भूतयोनि सर्वकारणकारणं समस्तरक्षकं तमसः परस्तात् गच्छति । ‘आदित्यवर्णं तमसः परस्ता’ दित्यादिभिः तमसः पारवर्तिनम्प्रकृते परं परमात्मानं नारायणं गच्छति-प्राप्नोति इत्यर्थः ।
किञ्च- अत्र ‘सनो देवः शुभया स्मृत्या संयुनक्तु । इत्यनेन
‘आरोग्यं भास्करादिच्छेत् श्रियमिच्छेद्धुताशनात् । शङ्करात् ज्ञानमन्विच्छेत् मोक्षमिच्छेज्जनार्दनात् ॥
इति ज्ञानप्रदत्वात् शङ्करोपासनमुच्यते । अतो भगवता नारायणे साम्यं ब्रह्मरुद्रादीनां नोपपद्यते ।
भारते – ये तु सामान्यनावेन मन्यन्ते पुरुषोत्तमम् । ते वैपाषण्डिनोज्ञेयास्सर्वकर्मबहिष्कृताः ॥
यस्तु नारायणं देवं सामान्येनाभिमन्यते । स याति नरकं घोरं यावच्चन्द्रादिवाकरम् ॥
यो महाद्विष्णुमन्येन हीनदेवेन दुर्मतिः । साधारणं सकृद् ब्रूते सोऽन्त्यजो नान्त्यजोऽत्यजः ॥ इति
वाराहे – अन्यदेवसमं य्त् तु मन्यन्ते मां नराधमाः । चण्डालतां व्रजन्त्याशु जन्मानि नव पञ्च च ॥ इति
श्रीभागवते – यस्तु नारायणं देवं समत्वेनावमन्यन्ते । सकृत्तेनावमानेन नरकान्नातिवर्तते ॥
अस्मादन्यं परत्वेन चिन्तयानो ह्यचेतनः । स पाष्ण्डीति विज्ञेयस्सर्वकर्मबहिष्कृतः ॥ इति ।
क्ॐअः – ‘येऽन्यं देवं परत्वेन वदन्त्यज्ञानमोहिताः । नारायणाज्जगन्नाथात् ते वै पाषण्डिनः स्मृताः ॥
यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः । समत्वेनैव वीक्षेत स पाषण्ण्डी भवेद्द्विजः ॥ इति ।
भारद्वाजः – अशुद्धा ब्रह्मरुद्राद्या जीवा विष्णोर्विभूतयः । तान्वै कुदृष्टयस्सम्यक् परत्वेनाप्युपासते ॥ इति ।
वाराहेः – अगस्त्यं प्रति रुद्रः- यो यज्ञैरिज्यते देवो यस्मात्सर्वमिदं जगत् । उत्पन्नं सर्वदा यस्मिन् लीयते सचराचरम् ॥
नारायणः परो देवः सत्त्वरूपी जनार्दनः । त्रिधाऽऽत्मानं स भगवान् ससर्ज परमेश्वरः ॥
शुद्धसत्त्वस्स्वयं जज्ञे रजस्सत्त्वादिकं विभुः । सस्र्ज नाभिकमले ब्रह्माणं कमलासनम् ॥
रजसा, तमसा युक्तं सोऽपि मां ससृजे प्रभु’रिति ॥
ननु :- सर्वपापहरञ्चेह पश्चात्संसारनाशनम् । सुवर्णरौप्यताम्राद्यैः लोहेनापि तथैव च ॥
तथा रयाङ्गमष्टाङ्गं सुनाभाञ्च सुवृत्तकम् । ज्वालाचतुष्कसंयुत्कं कृत्वा चैव विधानतः ॥
अग्नु प्रताप्य विधिवत् धारयेद्भक्तिसंयुतः ॥ इति
यज्ञोदानं तपो होमो भोजनं पितृतर्पणम् । चक्रलञ्छनहीनस्य विप्रस्य विफलं भवेत् ॥
श्राद्धे दाने व्रते यज्ञे विवाहे चोपनायने । चक्राङ्कितं विप्रमेव पूजयेदपरं न तु ॥
इत्यादिवचनैः चक्रादिनाऽनङ्कितस्य वैष्णवत्वाभावात् वैखानसानां कथं वा वैष्णवत्वमिति चेत् – उच्यते ॥
यस्य मे श्रियममितां दातुं गर्भ एव करे चक्रं धारयामि स चक्रवर्ती भावति’ इति श्रुतेः – वैखानसानां सर्वेषां गर्भवैष्णवजन्मनाम् । नारायणः स्वयं गर्भे मुद्रां धारयते निजाम् ॥ इति
सुदर्शनमभी’ त्युक्त्वा दक्षिणे तु सुदर्शनम् । ‘रविपा’ मिति वामे तु शङ्खञ्च बिभृयात्करे ॥
इति भृगुणोक्तत्वाञ्च श्रीविष्णुबलिकर्मणा वैखानसानां गर्भवैष्णवत्वादिकं प्रतिपन्नम् ।
तथा – इन्द्रियेभ्यः परा ह्यर्था ह्यर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न अप्रं किञ्चित्सा काष्ठा सा परा गतिः ॥
इत्युक्त्वा ‘अथं नवमे मासि सर्वलक्षणसम्पुर्णो भवति । पूर्वजाति स्मरति । कृताकृतञ्च कर्म भवति । शुभाशुभञ्च कर्म विन्दति ।
नानायोनिसहस्राणि दृष्टा चैव ततो मया । आहारा विविधा भुक्ताःपीताश्च विविधाः स्तनाः ॥
जातस्यैव मृतस्यैव जन्म चैव पुनः पुनः । अहो दुःखोदधौ मग्नो न पश्यामि प्रतिक्रियाम् ॥ इत्युक्ता
यदि योन्याः प्रमुच्येऽहं तं प्रपद्ये नारायणाम् । अशुभक्षयकर्तारं फलमुक्तिप्रदायक’मिति ॥
पुरुषसूक्तभाष्ये – मुद्गलोपनिषदि – ‘वामदेवोऽप्याङ्गिरसस्सन् पूर्वपूजां समारात्रिपल्यनसूयागर्भ एव शयनो ब्रह्मैव वेदयाञ्चके स गर्भं पुरो भित्वा ब्रह्मलोकमुपचक्रामतमुत्क्रामान्तमाह मध्येऽध्वानमिन्द्रः उपनिषद उवाच, भगवन् गर्भपञ्जरे एवाभिनिवेशमान अनभिज्ञातोपायोऽस्मात्कञ्चिद्धादित्या स गर्भस्सर्वोमन्यमानोऽध्वनः पारमुपगच्छसी’ तियादि । तथा च गर्भगतस्य प्रपदनविचारश्रवणाद्युपपद्यत एव ।
वैदिकतान्त्रिकभेदेन प्रपत्तिर्द्विविधा – प्रणवपुर्वकत्वेन पुरुषाद्यावाहनादिकं वैदिकम् ।
श्रुत्यन्तरे – अकारेणोच्यते विष्णुस्सर्वलोकेश्वरो हरिः । उद्धृता विष्णुना लक्ष्मीरुकारेण तथोच्यते ॥ मकाअस्तु तयोर्दास इति प्रणवलक्षणाम् ॥ इति
किञ्च । प्रणवोच्चारणमात्रेण शङ्खचक्रादिधारणमपि सम्भवतीति श्रुयते कैवल्योपनिषदि – ‘घृतोर्ध्वपुण्ड्रः कृतचक्रधारी । – परं ध्यायति यो माहात्मा । स्वरेण मन्त्रेण सदा हृदिस्थं परात्परं यन्महतो महन्त’मिति । सर्वकाअणमृताय सर्वरक्षकाय सर्वशेषिणे श्रियः पतये एव स्वाभाविकेशेषभूत इति सर्वदाऽनुसन्धानमेव वैदिकी प्रपत्तिः ।
स्वेज्जीवनेच्छा यदि ते स्वसत्तायां स्पृहा यदि । आत्मदास्यं हरेः स्वाम्यं स्वभाव्ञ्च सदा स्मरज् ॥
इत्येव सूत्रे प्रतिपादितम् । पाञ्चरात्रे तु – त्युक्त्वा त्रयीं तन्त्रमेव प्रपद्य शरणं स्थिताः ॥ इति
अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् । तदेकोपायतायाञ्चा प्रपत्तिः शरणागतिः ॥
इति च उपदिश्यते । तस्याः प्रपत्तेः सकृत्करणात् समन्त्रकत्वाभावात् तच्छेष-गत्यनुस्मरणाभावाच्च तां तान्त्रिकप्रपत्तिं विहाय ‘यदेव विद्यया करोति तदेव वीर्यवत्तरं भवती’ ति श्रुत्या वैदिकप्रपत्तिमेवोक्तवान् सूत्रकारः ।
स्कान्देः – विप्ण्वागमादितन्त्रेषु दीक्षितानां विधीयते । शङ्कचक्रगदापुर्वैरङ्कनं नान्यदेहिनाम् ॥
शिवागमादिदीक्षाणां धार्यं तिर्यक् त्रिपुण्ड्रकम् ॥ इति
विष्णुः – शङ्खचक्राद्यङ्कनञ्च गीतनृत्तादिकं तथा । एकजातेरय धर्मः न जातुस्याद्द्विजन्मनाम् ॥ इति
श्रीभागवते दशमरकन्धेः – त्रिवक्रायामुपश्लेकः पुत्रः कृष्णमनुव्रतः । शिष्यस्साक्षान्नारदस्य ददौ चित्तमखण्डितम् ॥
तेनोक्तं सात्त्वत तन्त्रं यत् ज्ञात्वा मोक्षभाग्भवेत् । यत्र स्त्रीशूद्रदासानां संस्कारो वैष्णवः स्मृतः ॥ इति
पद्मपुराणे – वेदज्ञे ब्राह्मणे नित्यं सर्वास्तिष्ठन्ति देवताः । इति तित्तिरिशाखायां श्रूयते नृपसत्तम ॥
दक्षिणेऽसे ब्राह्मणस्य शङ्खचक्रगदाधरः । हरिस्तिष्ठति वामे तु देवकीसूनुरादरात् ॥
ततो ब्राह्मणदेहोऽयं देवतागार उच्यते । तद्दाहे देवतास्सर्वे पलायन्ते दिशो दश ॥
अगारदाही स भवेत् तद्दाही ब्राह्मणाधमः । शङ्खं चक्रं मृदा यस्तु कुर्यात्तप्तायसेन वा ॥
स शूद्रवत् बहिष्कार्यः सर्वस्माद्द्विजकर्मणः । यथा श्मशानजं काष्ठमनर्हं सर्वकर्मसु ॥ तथा चक्राङ्कितो विप्रस्सर्वकर्मसु गर्हितः ॥ इति
तत्रैव- मोहाद्वा लोभतोवापि व्पिरश्चक्राङ्कितो यदि । अनर्हस्सहि विज्ञेयः श्रौतस्मार्तेषु कर्मसु ॥
क्रियास्वनर्हतामेति यथा काष्ठं श्मशानगम् । तथा चक्रादिना दग्धाः सर्वकर्मस्वनर्हताम् ॥
दग्धार्धकायो यत्रास्ति ग्रामे जनपदेऽपि वा । श्मशानं तद्धि विज्ञेयं वासानर्हं द्विजन्मनाम् ॥
इत्यादिना दूषणमुक्तम् । एतानि तप्तसक्राङ्कनविधायकानि वचनानि ‘विष्ण्वागमादितन्त्रेषु दीक्षिताना’ मित्युक्तत्वात् एकजातिविषयत्वेनोक्तत्वात् ‘नान्य देहिना’मित्युक्तत्वाञ्च तान्त्रिकागमोक्तप्रकारेण दीक्षितविषयाणीत्यवगम्यते । यद्वा विधिनिषेधवचनानां वैयर्थ्यपरिहाराय ‘वपाश्रपणीभ्यामन्वारमते तन्नैवान्वारब्धं नैवानन्वारब्धं’ ‘अवघ्नेयमेव तत् नैव प्राशितं नैवाप्राशितम्’ इत्यादिश्रुतिन्यायेन समन्त्रकत्वेन भावनारूपेण श्रीवैखानसशास्त्रे प्रतिपादितम् । यथा-
सुदर्शनमभीत्युक्त्वा दक्षिणे तु सुदर्शनम् । रविपामिति वामे च शङ्खञ्च बिभृयात्करे ॥ इति
महोपनिषदि – ब्रह्मसूक्ते – दक्षिणे तु भुजे विप्रो बि—याद्वै सुदर्शनम् । सव्ये तु शङ्खं बिभृयादिति वेदविदो विदुः ॥ इति
मोहशास्त्रत्वात् शप्तविषयत्वाञ्च पञ्चरात्रे तापविधानं उक्तमिति केचिद्वदन्ति ॥
पद्मपुराणे गौतमः – यन्मयि ब्राह्मणाभासाः ! ऋजौ कैतवमीदृशम् । अनुष्ठितं ततो वेदमार्गभ्रष्ठाश्च पापिनः ॥
कालामुखे पाञ्चरात्रे कापाले शाम्भवेऽपि च । शाक्ते च दीक्षिता यूयं भवत ब्राह्मणाधमाः ॥ इति
ब्रह्मा – बौद्धे भागवते तन्त्रे तृतीये पञ्चरात्रके । दीक्षिताश्च द्विजा नित्यं भवेयुर्निर्भया हरे ! ॥
श्रौतस्मार्तसमाचारे सद्योमुक्तिकरे शुभे । त्फ़द्भक्तिविमुखा नित्यं भवेयुः परिमोहिताः ॥
शङ्खचक्रगदापुर्ववज्रपाशाङ्कुशादिभिः । अङ्किताः श्रद्धया यूयं भवत ब्राह्मणाधमः ॥ इति
स्कान्दे – सूतसंहितायां सरस्वती प्रति रुद्रः – श्रुतिर्बलीयसीत्युक्ता प्रमाणानां सुलोचने ॥ इत्यारभ्य
पञ्चरात्रादिमार्गाणां वेदमूलत्वमास्तिके ! । न हि स्वतन्त्रतस्तेन भ्रान्तिमूलानि रूपिणि! ॥
तथापि योऽशो मार्गेण वैदिकेनाविरुद्ध्यते । सोऽशः प्रमाणमित्युक्तं केषाञ्चिदधिकारिणाम् ॥
अत्यन्तस्खलितानान्तु प्राणिनां वेदमार्गतः । पाञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः । तान्त्रिकाणां महादेवि न लभ्योऽव्यवधानतः ॥ इति प्रतिपादितम्
कौर्मे- पुरा दारुवने पुण्ये मुनयो गृहमेधिनः!
इत्य़ारभ्य मायया गोकल्पनादि शापप्राप्तिपर्यन्तमुक्त्वा – का नो वृत्तिर्महादेव शापान्नः त्रातुमर्हसि । तथा पाश्वस्थितं विष्णुं सम्प्रेक्ष्य वृषभध्वजः ॥
किमेतेषां भवेत्कार्यं प्राह पुण्यैषिणामिति । ततस्स भगवान् विष्णुः शरण्यो भक्तवत्सलः ॥
गोपतिं प्राह विपेन्द्रान् आलोक्य प्रणतान् हरिः । न वेदबाह्ये शास्त्रे च पुण्यलेशोऽपि शङ्कर ॥
सङ्गच्छते यतो धर्मो वेदादेव हि निर्बभौ । तथापि भक्तवाट्सल्यात् रक्षणीया महेश्वर ॥
आवाभ्यां सर्व एवैते विप्रा वै नात्रसंशयः । तस्माद्वै वेदबाह्यानां रक्षणार्थञ्च पापिनाम् ॥
विमोहनाय शास्त्राणि करिष्यामि वृषध्वज । एवं सञ्चोदितो रुद्रो माधवेनासुरारिणा ॥
चकार मोहशास्त्राणि केशवोऽपि शिवेरितः । कापालं यामलं वामं भैरवं पूर्वपश्चिमम् ॥
पाञ्चरात्रं पाशुपतं तथाऽन्यानि सहस्रशः । कृत्वा चाच्य च तद्देवान् कुर्वाणास्तत्र चोदितम् । पतन्ति नरके घोरे बहून् कल्पान् पुनः पुनः ॥ इत्यादिचोक्तम् ।
स्कान्दे शङ्करसंहितायाम् – नेक्षेत पूजावेलायां नरं वत्स! बहिष्कृतम् । दधीचिना गौतमेन ये शप्ता ब्राह्मणाधमः ॥ कलाववतरिपयन्ति निन्दितास्ते बहिष्कृताः ॥ इति
साम्बपुराणेः – श्रुतिभ्रष्टः स्मृतिप्रोक्तप्रायश्चिते भयं गतः । क्रमेण श्रुतिसिद्ध्यर्थं मनुष्यस्तन्त्रमाश्रयेत् ॥
धर्मशास्त्रे पुराणे च प्रोक्तं हि मरणान्तिकम् । प्रायश्चित्तं मनुष्याणां पापिष्ठानां सुदारुणम् ॥
भयं दुर्बलचित्तानां मरणे जायते भृशम् । तेषामेवाभिरक्षार्थं तदहं तन्त्रमुक्तवान् ॥
पाञ्चरात्र भागवतं तन्त्रं सात्त्वतनामकम् । वेदभ्रष्टान् समुद्दिश्य कमलापतिरब्रवीत् ॥ इति
अन्यत्र – अथांशोः सात्त्वतो नाम विष्णुभक्तः प्रतापवान् । महात्मा दाननिरतो धनुर्वेदविदां वरः ॥
स नाअदस्य वचनाद्वासुदेवार्चने रतः । शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रितम् ॥
तस्य नाम्ना तु विख्यातं सात्त्वतं नाम शोभनम् । प्रवर्तते महच्छास्त्रं कुण्डादीनां हितावहम्’ ॥ इति
वासिष्ठे – बृद्धश्रावक निर्गन्धाः पाञ्चरात्रविदो जनाः । कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः ॥
यस्यश्नन्ति हवीष्येते दुरात्मानस्तु तामसाः । न तस्य तद्भवेच्छास्त्रं प्रेत्येह च न तत्फलम् ॥ इति
लैङ्गे – नवमाध्याये युगधर्मे –
अङ्किताश्च भाविष्यन्ति देवतायुधलाञ्छनैः । नारायणमशृण्वन्ति युगान्ते समुपस्थिते ॥
अन्यानि यानि कर्माणि श्रौतानि मुनसत्तम । स्मार्तानि नाचरिष्यन्ति कलौ ब्रह्मन् नरास्सदा ॥
आग्नायं धर्मशास्त्रञ्च पुराणं भारतं मुने । अल्पमात्रमिति ब्रह्मन् वदिष्यन्ति कलौ युगे ॥
न कुर्युः श्रौतकर्माणि श्रद्धया मुनिसत्तम । स्वधर्मे रुचिता नास्ति ब्राह्मणानां कलौ युते ॥
पाञ्चरात्रं प्रशंसन्ति केचिद्भागवतं मुने । केचित्कापालमिच्छन्ति केचित्पाशुपतं मुने ॥
केचिद्बौद्धं प्रशंसन्ति केचिद्दैगम्बरं तथा । केचिल्लोकायतं ब्रह्मण् केचित्सौमं महामुने ॥
लाकुलं केचिदिच्छन्ति तथा केचित्तु भैरवम् । केचिद्वामं प्रशंसन्ति केचिच्छाक्तं तथैव च ॥
शाम्भवं केचिदिच्छन्ति यामलं भुवि केचन । अन्यानि यानि शास्त्राणि विरुद्धानि महामुने ॥
तीर्थविक्रयिणः केचिद्देवविक्रयिणः परे । क्षीरविक्रयिणः केचिदाज्यविक्रयिणः परे ॥
मांसविक्रयिणः केचित्सुराविक्रयिणः परे । पुत्रविक्रयिणः केचिद्दारविक्रयिणः परे ॥
भर्तृविक्रयिणः केचिद्भविष्यन्ति कलौ नराः ॥ इति
अतः पाञ्चरात्रोक्तं तप्तचक्रधाअणं सर्वसाधारणं न भवतीति सिद्धम् ।
अथ यदुक्तं सर्वसाधारणं न भवतीति तन्नोपपद्यते – आथर्वणे ‘चक्रं बिभर्ति वपुषाऽभितप्तं बलं देवानाममितस्य विष्णोः । स एति नाकं दुरिता विधूय प्रयात्नि यद्यतयो वीतरागाः ॥ ‘चरणं पवित्रं विततं पुराणं’ इत्यादि श्रुतिभिः सर्वसाधारणत्वेन श्रूयमाणत्वात् इति चेत् – न । तप्तचक्रधारणे प्रायश्चित्तविधानात् । अतः यथोक्तमार्गेण भावनारूपेणैव चक्राङ्कनं न तु तप्तरूपेण । सर्वसाधारणश्रुतिस्तु वैखानसेतरविषया । ‘यस्य मे श्रिय’ मित्यादिश्रुत्यविरोधेन अर्थव्यवस्थायाः कार्यत्वात् । अतः तप्तचक्राङ्कनं सर्वसाधारणं न भवति ।
किञ्च- यत्र शास्त्रगतिर्भिन्ना सर्वकर्मसु भारत । उदितेऽनुदिते चैव होमभेदे यथा भवेत् । स गरीयान् महाबाहो सर्वशास्त्रोदितादपि ॥
इति सुमन्तुस्मवणाञ्च व्यवस्थितविकल्पोत्र वक्तव्यः ॥
किञ्च ब्रह्मरुद्रादीनामपि संहारकर्ता हरिरेवेति श्रूयते । यजुषि-हरिहरन्तमनुयन्ति देवाः विश्वस्येशानं वृषभं मतीना मिति ।
ब्रह्मपुराणे – ब्रह्माणमिन्द्रं रुद्रञ्च यमं वरुणमेव च । निगृह्याहरते यस्मात्तस्माद्धरिरिहोच्यते ॥
ब्रह्मा शम्भुस्तथैर्वाकश्चन्द्रमाश्च शतक्रतुः । एवमाद्यास्तथैवन्ये युक्ता वैष्णवतेजसा ॥
जगत्कार्यावसाने तु वियुज्यन्ते च तेजसा । तेजसश्चैव ते सर्वे पञ्चत्वमुपयन्ति च ॥ इति
ननु-हरिं हरन्तमिति पूर्वॊपात्तयजुषि ईशानशब्दश्रवणात् रुद्र एव संहाअकर्तेति श्रूयत इति चेत् – तदसत् । तत्र ‘विश्वस्येशान’मिति जगन्नियामकत्वमुच्यते । तथा च ‘पतिं विश्रस्यात्मेश्वर’ मितिवत् नारायण एव अत्र प्रतिपाद्यः । ‘अस्येशाना जगतो विष्णुपत्नी’ स हरिः सुवित्तमः, ‘पेरुरिन्द्राय पिन्वत’ ‘विराडसि’, ‘बृहती श्रवसीन्द्रपत्नी धर्मपत्नी’, ‘स ब्रह्मा स शिवस्सेन्द्रः’ इत्यादि श्रुतयोत्र विभावनीयाः ।
ननु – कौर्मे अष्टमाध्याये – रामायणसङ्क्षेपे – स कृत्वा वानरशतैः लङ्काद्वारं महोदधौ । सेतुं परमधर्मात्मा रावणं हतवान् प्रभुः ॥
इति रावणवधादिकं प्रतिपाद्य सेतुमध्ये महादेवमीशानं कृत्तिवाससम् । स्थापयामास लिङ्गस्थं पूजयामास राघवः ॥
तस्य देवो महादेवः पार्वत्या सह शङ्करः । प्रत्यक्षमेव भगवान् दत्त्वान् वरमुत्तमम् ॥
इति भगवतो रुद्रोपासनमुच्यते इति चेत्-सत्यम् । रुद्रस्य तदपि भगवदूरप्रसादलब्धम् । एवं हि वाराहे प्रागितिहासे रुद्रगीतासु उच्यते । यथा – अङ्गस्त्यं प्रति रुद्रः – ब्रह्मणाऽहं पुरा सृष्टः प्रोक्तः सृज इति प्रजाः । अविज्ञाताऽसमर्थोऽहं निमग्नस्सलिले द्विज ॥ इत्यारभ्य
जलमध्ये कालमेघसङ्काशः अतिशोभनः पुण्डरीकाक्षः कश्चित् पुरुषो रुद्रेण दृष्टः कस्त्वमिति रुद्रेण पृष्टस्य तस्य प्रतिवचनम् –
अहं नारायणो देवो जलशायी सनातनः । दिव्यं चक्षुर्भवतु ते तेन मां पश्य यत्नतः ॥ इति प्रतिपाद्य
एवमुक्तस्तदा तेन यावदाश्याम्महं तनुम् । तावदङ्गुष्ठमात्रन्तु ज्वलद्भास्करतेजसम् ॥
तमेवाहं प्रपश्यामि तस्य नाभौ तु पङ्कजम् । ब्रह्माणां तत्र पश्यामि ह्यात्मानञ्च तदङ्कतः ॥
एवं दृष्ट्वा महात्मानं ततो हर्षमुपागतः । तं स्तोतुं द्विजशार्दूल मतिर्मे समजायत ॥
इत्युपक्रम्य महत्स्तोत्रमुक्त्वा अन्ते रुद्रेण भगवन्तं प्रत्यभीष्टनिवेदनं प्रतिपादितम् । यथा-
इति स्तुतो मे भगवन्ननादे जुषस्व भक्तस्य विशेषतश्च । सृष्टिंसृजस्वेति तु चोदितस्य सर्वज्ञतां देहि नमोऽस्तु विष्णो ॥ इति
एवं स्तोत्रे परिसमापिते – वरं वरव भद्रं ते देवदेव उमापते!
इति भगवता नियुक्तः रुद्रः – ब्रह्मणा चाहमुक्तस्तु प्रजास्सृज इति प्रभो । तत्र ज्ञानं प्रयच्छस्व त्रिविधं भूतभावन ॥ इति प्रार्थयामास ।
तदा श्रीभगवान्- सर्वज्ञस्त्वं व सन्देहो ज्ञानराशिरसनातनः । देवानाञ्च सदा पूज्यः सर्वदा त्वं भविष्यसि ॥ इति वरं ददौ
तदनु – एवमुक्ते पुनर्वाक्यमुवाचोमापतिर्मुदा । अन्यं देहि वरं देव प्रसिद्धं सर्वजन्तुषु ॥
मर्त्यो भूत्वा भवानेव मामाराधय केशव । मां वहस्व च देवेश वरं मत्तो गृहाण च ॥
येनाहं सर्वदेवानां पूज्यात्पूज्यतरोऽभवम् ॥ इति पुनः तेन प्रार्थितः
श्रीभगवान् – देवकार्यावतारेषु मानुष्यत्वमुपागतः । त्वामेवाराधियिष्यामि त्वञ्च मे वरदो भव ॥
यत्त्वयोक्तं वहस्वेति देवदेव उमापते । स त्वां वहामि देव त्वां मेघो भूत्वा शतं समाः ॥ इति वरमपि ददौ
एवमेव हरिर्देवः सर्वेशस्सर्वभावनः । वरदोऽभूत्पुरा मह्यं तेनाहं दैवतैर्वृतः ॥
नारायणात्परो देवो न भूतो न भविष्यति । एतद्रहस्यं देवानां पुराणान्ञ्च सत्तम ॥ इति
किञ्च, श्रीविष्णुपुराणे – देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका । लीलेयं सर्वभूतस्य तव चेष्टोपलक्षणा ॥
देवतिर्यङ्मनुष्याख्याचेष्टावन्ति स्वलीलया । जगतामुपकाराय न सा कर्मनिमित्तजा ॥ इति
एवं नृसिंहरूपिणा भगवता शरभरूपेणागतानां ब्रह्मरुद्रादीनामपि संहारादिकं नारसिंहपुराणादिष्ववगम्यते ॥ यथा –
तत्र सप्तत्रिंशाध्याये – हिरण्यकशिपोस्त्रस्तान् सेन्द्रान् देवान् बृहस्पतिः । क्षीरोदस्योत्तरं गत्वा स्तूयतां तत्र केशवः ॥ युष्मानिस्संस्तुतो विष्णुः प्रसन्नो भवति क्षणात् ॥ इत्यारभ्य
युष्मदागमनं सर्वं जानाम्यसुरमर्दनाः! । हिरण्यकविनाशार्थं स्तुतोऽहं शङ्करेण च ॥ इत्युक्त्वा
हिरण्यकवधानन्तरं- तस्य कोपाभिभूतस्य नृसिंहस्य जगत्पतेः । दृष्ट्वा भयानकं रूपं वित्रेसुर्देवदानवाः ॥
इत्यारभ्योक्तस्तोत्रानन्तरं ब्रह्मसमीपगमनादिकं प्रतिपाद्य – तस्मिन् भगवति क्रुद्धे नृसिंहे परमात्मनि । प्रवेपितं जगदिद देवेशे कुपिते भृशम् ॥
त्वत्तो हि नान्यश्शरणं देवानामिह विद्यते । नरसिंहसमुद्भूतं भयं नाशाय मे हरे ॥
इत्यादिना रुद्रपार्थनादिकमुक्त्वा हतो हिरण्यकशिपुः येन दैत्यो महाबलः । को नश्शमयिता तस्य कोपस्य हरिमेधसः ॥
त्वं मे जनयिता देव स ते जनयिता हरीः । तस्य देवस्य कश्शक्तो विष्णोर्वै निग्रहे भवेत् ॥
यद्भयात्पवते वायुः सूर्यस्तपति यद्भयात् । यद्भयाद्धरणी धत्ते निग्रहे तस्य कः प्रभुः । तथाऽप्युपायो दृश्यो मे परमेण समाधिना ॥
कृते तस्मिन् भवेच्छ्रेयः तूष्णीम्भावो न रोचते । अश्वानां महिषः शत्रुः वारणानां मृगाधिपः ॥
वानराणां तथा मेषः फणीनां गरुडः स्मृतः । मूषकानान्तु मार्जारो मृगाणां श्वा प्रकीर्तितः ॥
वायसानां दिवाभीतः सिंहानां शरभास्तथा । ततो निर्मापयिष्यामः शरभ भयशान्तये ॥
शरमोऽधिष्ठितोऽस्माभिः नृसिंह शमयिष्यति । इत्येवमुक्ता भगवान् ससर्ज शरभं तथा ॥
यस्य सन्दर्शनादेव त्रस्तमासीज्जगत्तयम् । ततस्तस्य भवानीशह् तुण्डस्थानमरोचत ॥
पृष्ठभागे चतुर्वक्तं तस्य रुद्रो न्यवेशयत् । सं मसूर्यौ नयनयोः माऋत पक्षयोर्द्वयोः ॥
पादेषु भूधरान् सर्वान् शिवस्तस्य न्यवेशयत् । एवं निर्माय शरभं भवः प्रमथनायकः ॥
जगर्ज नरसिंहं तं समुद्दिश्य भयानकम् ॥
इति शरभनिर्माणादिकं प्रतिपाद्य ततःक्षणेन शरभो नादपूरितदिङ्मुखः । अभ्याशमगमद्विष्णोः निनदन् भैरवं स्वनम् ॥
तमभ्याशगतं दृष्ट्वा नृसिंहः शरभं रुषा । जघान निशितैरुग्रैः नखरिनखवरायुधः ॥
निहते शरभे तस्मिन् रौद्रे मधुविघातिना । तुष्टुबुः पुण्डरीकाक्ष देवा देवर्षयस्तथा ॥
इति भगवता ब्रह्मरुद्राद्यधिष्ठितशरभहननं प्रतिपादितम् ।
गारुडे अष्टनवतितमाध्यायेः – हन्तुमभ्यागतं रौद्रं शरभं नरकेसरी । नखैर्विदारयामास हिरण्यकशिपं यथा ॥
निकृत्तबाहूरुशिराः वज्रकल्पमुखैर्नखैः । मेरुपृष्ठे नृसिंहेन शरभस्सहसाऽपतत् ॥ इति
पाद्मेः – तौ युध्यमानौ तु चिरं वेगेन बलवत्तरौ । विनाशं जग्मतुर्देवौ नृसिंहशरभाविति ॥
ततः क्रुद्धो महाबाहुः नृसिंहो भीम्निस्स्वनः । सहस्रकरपन्नेत्रः तस्य गात्राण्यकर्तयत् ॥
पतितं भीममत्युग्रं गतासु द्रष्टुमागताः । ऋषयोदेवगन्धर्वा यत्र् शेते भवो हरः ॥
तं दृष्ट्वा परमं जग्मुः विस्मयन्तु दिवौकसः । प्रशशंसुस्तथा कर्म नृसिंहस्य महाद्भुतम् ॥ इति
श्रीभागवते – ततस्त्वरितमादाय रुद्रं शरभरूपिणम् । विददार नखैस्तीक्ष्णैः हिरण्यकशिपुं यथा ॥ इति
किञ्च आनुशासनिके उमामहेश्वरसंवादे भागवतोऽङ्गभावेन विना रुद्रोपासनं कुर्वतां शूद्रतुल्यत्वमुक्तम् । यथा दक्षाध्वरे –
रुद्राणी - अहं ज्येष्ठा विशिष्टा च तस्मात्त्वं मां सपूजय । दक्षः – न तु ज्येष्ठा विशिष्टा त्वं मम पूज्या इमास्सुताः ॥
इत्यादिना रुद्राणीदूषणमध्वरभङ्गादिकं च प्रतिपाद्य रुद्रं प्रति शापोत्सर्गः क्रियते ।
एतद्वंशसमुद्भूतैरस्पृश्यस्त्वं भविष्यसि । नैतद्वंशेषु यः कश्चित् त्वद्भक्तो हि ज्निप्यति ॥
अज्ञानात्त्वं हि यः कश्चित् मुनिर्वा ब्राह्मणोऽपि वा । अनुजीवति चेत्तस्मात्तुल्यश्शूद्रेण गर्हितः ॥
भावेद्देवलकश्चैव रुद्रकाल्युपजीवकः ॥ इति
अतो नारायणस्य रुद्रेण समानतया बोधायनेन प्रतिपादित्वात् बोधायनाप-स्तम्बादिसूत्रेषु षड्वितात्पर्यलिङ्गाभावात् तेषां सृष्टिकालादारभ्य नारायणैकपरत्वाभावात् नानादेवतोपासकत्वदर्शनाच्च परमैकान्तित्वं न सम्भवति । एवं कात्यायन सूत्रिणामपि –
ब्राह्मवैष्णवरौद्रैस्तु सावित्रैर्मैत्रवारुणैः । तल्लिङ्गैरेव मन्त्रैस्तु अर्चयेत्तु समाहितः ॥
इति प्रतिपादनात् न परमैकान्तित्वम् ।
द्राह्यायणसूत्रे तु रुद्रविषयत्वेन कर्मारम्भे प्रपदनमुक्तम् ।
अतः श्रीमन्नारायणैकपस्त्वात् परमैकान्तित्वं श्रीमद्वैखानसानामेवेति प्रतिज्ञाकर्तुमुचिता । एवं ‘अखिलजगदेककाअणश्रीमन्नारायणैकपरत्वात्’ इति नवमहेतुर्निरूपितः ।
इति नवमहेतुनिरूपणम्