०८

अथ अष्टमहेतुनिरूपणम्

इदानीं तावत् श्रुतिस्मृतिपुराणादिभिः सर्वोत्तरत्वेनावगतस्य श्रीवैखानसूत्रस्य अखिलशिष्टपरिगृहीतत्वमस्तीति दर्शयितुं मन्वाद्यैः स्वीकृतत्वादिति अष्टमो हेतुः । निरूप्यते । तथाहि –

मनुः – ‘अतः परं प्रवक्ष्यामि धर्मं वैखानसाश्रयम् । इत्यारभ्य पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा । कालपक्वैः स्वयं शीर्णैर्वैखानसमते स्थितः ॥ इति

व्यासः – मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः । वर्तयन्ति यथान्यायं वैखानसमते स्थिताः ॥ इति ।

गौतमः – श्रामणकेनाग्निमाधायाऽग्राम्यभोजी । इति ।

यमः – श्रामणकेन विधानेन सायं प्रातरुपस्पृशेत् ॥ इति ।

शङ्खलिखितौ – श्रामणकेनाग्निमाधाय काले कुरुविन्द – वेणु – श्यामाकनीवारादिभिर्वर्तयेत्’ इति ।

हारीतः – वानप्रस्थो ग्राम्या ओषधीः परिवर्जयेत् । त्रेताग्नीनां स्थाने श्रामणं वाऽग्निमाधाय वल्कलशाणचर्मकुशमुञ्जविदलकं वा वसानो वैखानसप्रोक्तेन विधिना वानप्रस्थो विखना भवति । अनुज्ञायिकोऽनुप्रस्थायिक’ श्वेति ।

वसिष्ठः – श्रामणकेनाग्निमाधायाऽहिताग्निर्वृक्षमूलिकः । इति ।

बोधायनः – वानप्रस्थो वैखानसशास्त्रसमुदाचार इति ।

आपस्तम्बः – ‘एकाग्निरनिकेतः स्या’ दिति । अस्य धर्मकपर्दी- ‘गार्हपत्यादीनां त्रेताग्नीनां स्थाने यस्यैकोऽग्निः औपासन एव-वैखानससूत्रे दृष्टत्वात् । पाणिग्रहणनिमित्वद्वादौपासनस्य ।

जैमिनीयसूत्रे सौमिकचातुर्मास्यप्रकरणे । ‘भारद्वाजपूर्वं यथा वैखानसपूर्वे पञ्च’मेति

अत्रोभयत्र अत्रिव्याख्यानम् – ‘षोडशर्त्विजा मध्ये भारद्वाजसूत्रिणं प्रस्तोतारं वैखानससूत्रिणं प्रतिहर्तारं वरयेत्’ इति ।

कपिञ्जलसंहितायम् – याजनाध्यापनयुतः शिष्यानुग्रहकारकः । आचार्य इति विज्ञेयो मन्त्रतन्त्रपरायणः ॥

आश्रमे वा वने वापि पुत्रदारसमाहितः । अष्टाक्षरपरो नित्यं स वैखानस उच्यते ॥

ग्राम्यधर्माणि सर्वाणि वर्जयेद्वनवासकः । वल्कलाजिनसंवीतः स मौनीत्यभिधीयते ॥ इति

पाद्मे द्वादशाक्षरप्रकरणे – ………………………………….. पुत्रदाअसमन्वितः । वने वा पत्तने वापि जपेद्वैखानसः शुचिः ॥

वियुक्तः पुत्रदाअद्यैः स्वयमेव वने स्थितः ॥ इति

अन्यैरप्येवमेवोक्तम् । अखिलशिष्टपरिग्रहे को विशेष इति चेत्-अखिलशिष्टपरिग्रहात् प्रामाण्यातिशयोऽस्तीत्यवगम्यते ।

आश्वमेधिके- धर्म जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः । द्वितीयं धर्मशास्त्रं हि तृतीयं लोकसङ्ग्रहः ॥ इति

मनुः – विद्वद्भिस्सेवितं सम्यक् नित्यमद्वेषपरागिभिः । हृदयेनाऽभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥ इति

याज्ञवल्क्यः – चत्वारो वेदधर्मज्ञाः पर्षत् त्रैविद्यमेव वा । सा व्रूते यं स धर्मः स्यादेको वाऽध्यात्मवित्तमः ॥ इति

वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् । यस्य प्रमाणं न भवेत्प्रमाणं कस्तस्य कुर्याद्वच्नं प्रमाणम् ॥

न यस्य वेदा न च धर्मशास्त्रं न वृद्धवाक्यं च भवेत्प्रमाणम् । सोऽधर्मकृद्दुष्टहतो दुरात्मा स्वात्माऽपि तस्यैव भवेत्प्रमाणम् ॥

स्मृतिरपि वेदमूलत्वे त्रेधा निवाहः कृतः । नित्यानुमेयश्रुतिमूलत्वं प्राभाकराः । ‘तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्त इत्युत्सन्नशाखामूलत्वमापस्तम्बाद्याः । तत्प्रभाकरादिभिः दूषितं भाष्यकारानभिमतञ्च । प्राभाकरपक्षेपि नियानुमेयश्रुतिमूलत्वे अक्षरशो वा आनुपूर्वीविशेषविशिष्टत्वेन वा । अक्षरश इति यद्युच्यते तर्हि कटतपयादीनामपि नित्यानुमेयश्रुतिमूलत्वात् स्मृतित्वं स्यात् । आनुपूर्वीविशेषविशिष्टत्वेनेति चेत् नित्यानुमेयत्वं भज्येतेति । उत्सन्नशाखामूलत्वमिति पक्षे शाखासु तत्रतत्रोत्सन्ना वा उतैका शाखा उत्सन्ना वा । तत्रतत्रेति चेत् न – पदक्रमादिरूपेणाधीयमानत्वादुत्सन्नशाखामूलत्वं न घटते एकैवोत्सन्नेति चेत् – न – विष्णोरंशावतारस्य तपोयोगबलोपेतस्य सर्ववेदसाक्षात्कारवतो व्यासस्य अज्ञाताशासम्भवेन एकस्यापि शिष्यस्य तदध्यापनसामर्थ्यसम्भवात् तथा वक्तुमयुक्तत्वादिति । अतो विप्रकीर्णशाखामूलत्वं वक्तव्यम् । तथोक्तम् –

दुर्बोधा वैदिकाशशब्दाः प्रकीर्णत्वाञ्च ये खिलाः । तद्ज्ञैस्त एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः ॥ इति

अतः श्रुतिस्मृतिपुराणादिभिः प्रामाणत्वेनावगतस्य श्रीवैखानससूत्रस्य अखिलशिष्टप्रिग्रहात् प्रामाण्यातिशयोऽस्तीति ‘मन्वाद्यैस्स्वीकृतत्वा’ दिति निरूपितोऽष्टमो हेतुः ।

इत्यष्टमहेतुनिरूपणम् ।