०७

अथ सप्तमहेतुनिरूपणम्

अथ श्रीवैखानससूत्रस्य इतरसूत्रापेक्षाभावात् स्वातन्त्र्यमस्तीति ज्ञापयितुं साङ्गक्रियाकलापवत्त्यादिति सप्तमो हेतुर्निरूप्यते । तथाहि – अत्रसूत्रे अष्टादशसं-स्कारः शारीराः प्रसिद्धास्साङ्गाः एव प्रतिपादिताः ।

ननु – अङ्कुरार्पणशताभिषेकाग्निद्वयसंसर्गपुत्रपरिग्रहब्रह्ममेधवृषोत्सर्जनादि-प्रतिपादनाभावात् साङ्गक्रियाकलापवत्त्वं नास्तीति चेत् – तदसत् । इयं शङ्का श्रीवैखानससूत्रस्वरूपानभिज्ञत्वकृता । इदं सूत्रमेकादशप्रश्नात्मकम् । अत्र न प्रतिपादितानीति उक्तिः, अतिरिक्तत्वेन गृह्यपरिशिष्टसद्भावाज्ञानात् । गृह्यपरिशिष्टसद्भावः कथमवगम्यते इति चेत् – उच्यते ।

‘अथाङ्कुरार्पणविधिं व्याख्यास्यामः’ इत्यारभ्य खण्डद्वयेनाङ्कुरार्पणमुक्तम् ।

सायं स्थण्डिले सहस्रं पिष्टेन सोमरूपाणि करो’ तीत्यत्र विशेषेण स्थण्डिलादिप्रतिपादितम्

‘शताभिषेकं पूर्वाह्णे पुण्याहं द्विजभोजन’ मित्यारभ्य –

सायं गोमयसंलिप्ते स्थण्डिले प्रागनुन्नते । प्राचीरेखा द्विपञ्चाशत्सङ्ख्यया तत्र सलिखेत् ॥

इत्यादिना शताभिषेकप्रयोगश्च उक्तः ।

तथा ‘धौतवस्त्रधारिणौ स्याता’ मित्यारभ्य दीपाद्यलङ्कृते गेहे व्रीहीनास्तीर्य तत्र वै । चर्माभावे कटं वापि तदूर्ध्व् दिति ॥

शेषहोमेऽनन्तहोमान्ते आसीनं तत्र चर्मणि । विसृजामि व्रतञ्चेति तद्व्रतं चर्ग सन्त्ययेत् ॥

इत्यादिना अग्निद्वयसंसर्गप्रकारश्च प्रतिपादितः ॥

पुत्रपरिग्रहप्रकाअश्च – ‘त्यागविक्रयदानेषु प्रोक्तेष्वपि ततस्स्मृतौ । एकं न दद्यान्नो गृह्यात् न स्त्री भर्त्रननुज्ञया ॥ इत्यादिना

ब्रह्ममेधविधिस्तु – संस्कारो ब्रह्मनिष्ठानां सदाचारवतामपि । ब्रह्ममेधोऽतिफलदो न सर्वेषां द्विजन्मनाम् ॥ इत्यादिना

वृषोत्सर्गविधिस्तु वृषोत्सर्गविधिं वक्ष्ये येन प्रतत्वमोचनम् । स्नात्वाऽथ वास्तुहोमान्ते प्रेतत्वस्य विमुक्तये ॥ इत्यादिभिः

एवं अत्रानुक्तानि सर्वाणि गृह्यपरिशिष्टे प्रोक्तानि इति वेदितव्यम् ॥

बोधायनादिभिरप्येते साङ्गा एव प्रतिपादिता इति चेत् – न । ‘सति कुड्ये चित्रकर्मे’ ति न्यायेन प्रधानकर्माणि प्रतिपादितानि चेत् अङ्गविचारः कर्तव्यः । सन्ध्योपासने अर्ध्यप्रदानादिकमनुक्तम् । वानप्रस्थाश्रमस्वीकरणादिकमपि न प्रतिपादितम् । वानप्रस्थाश्रमस्वीकरणास्वीकरणारण्याहरणपात्रलक्षणादिषु वैखानससूत्रापेक्षा अस्त्येव । देवताप्रतिष्ठादिकमुक्तं लक्षणमनुक्तम् ।

आपस्तम्बादिभिः सन्ध्योपासने अर्ध्यप्रदानादिकमनुक्तम् । वानप्रस्थाश्रमस्वीकरणादिकमपि न प्रतिपादितम् । वानप्रस्थाश्रमस्वीकरणास्वीकरणारण्याहरणपात्रलक्षणादिषु वैखानससूत्रापेक्षा अस्त्येव । देवताप्रतिष्ठादिकमुक्तं लक्षणमनुक्तम् ।

आपस्तम्बादिभिः सन्ध्योपासनाङ्कुरप्रतिसरदेवताराधनयज्ञोपवीतधाअणादिक-मप्यनुक्तम् । आपस्तम्बादीनामन्योन्यापेक्षा प्रसिद्धा । अन्योन्यापेक्षा नाम अस्वातन्त्र्यमङ्गहीनवत् ।

मनुः – यद्यत्परवशं कर्म तत्तद्यत्नेन वर्जयेत् । सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः ॥ इति

अनेन अनन्तस्थिरफलप्राप्तिर्दर्शिता । अतः सूत्रान्तरनैरपेक्ष्यात् सर्वसूत्रोत्तमत्वं स्वन्त्र्यञ्च घटत इति निरूपितस्सप्तमो हेतुः ।

इति सप्तमहेतुनिरूपणम् ।