अथ षष्ठहेतुनिरूपणम्
अथेदानीं श्रीवैखानससूत्रोक्तधर्मानुष्ठातृणामेव सर्वेभ्यः श्रेष्ठतमत्वं सूत्रान्तरेष्वनुक्तं श्रुतिसिद्धाष्टादशसंस्कारवत्वं क्रियाभहुल्यञ्च सम्भवतीति ज्ञापयितुं ‘अष्टादशसंस्कारप्र्तिपादकत्वा’ दिति षष्ठो हेतुर्निरूप्पय्ते । तथा हि –
अथ निषेकादिसंस्कारान् व्याख्यास्यामः ऋतुसङ्गमन-गर्भाधान-पुंसवनसीमन्त-विष्णुबलि जातकर्मो त्थान-नामकरणा-न्नप्राशन-प्रवासाघमन-पिण्डवर्धनचौलो-पनयन-पारायण-त्रतबन्धविसर्गो-पाकर्म-समावर्तन-पाणिग्रहणानीत्यष्टदशसंस्काराश्शारीराः’ इति अष्टादशसंस्काराः सूत्रे प्रतिपादिताः । एते च श्रुतिसिद्धाः । यथा मुण्डोपनिषदि – ‘प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति’ इति ।
अत्र केचिदेवमूचुः ‘यज्ञस्यत्विजष्षोडश सदस्यस्सप्तदशः यजमानोऽष्टादशः’ इति श्रुत्यनुसारेण ‘अष्टादशोक्तमवरं येषुकर्मे’ त्यत्र यजमानादय एव विवक्षिता इति । तदसत्- ‘अष्टादशोक्तमवरं कर्मयेषु’ इत्युक्तत्वात् । ऋग्विम्यजमानादयो हि यागकर्तारः न तु कर्म । ‘येषु’ इत्यस्य पदस्य येषु सूत्रेप्वित्यर्थः । अवरं कर्म जातकादयः, स्मार्तकर्मत्वात् । आत्मगुणरहिता याघदयः जातकर्मादयश्च अदृढाः प्लवाः संसारोत्तारका न भवन्ति । तथा च अत्र अदृढप्लवत्वेन निन्दिताः संस्काराः यागादयश्च आत्मगुणरहिता एव विवक्षिताह् । तत्सहितानां तेषां मोक्षसाधकत्वात् । यथा –
गौतमधर्मेः – यस्य तु खलु चत्वारिंशत्संस्कारा न चाष्टावात्मगुणाः न स ब्रह्मणस्सायुज्यं सालोक्यञ्च गच्छति । यस्य खलु चत्वारिंशत्संस्काराणामेक देशोप्यष्टावात्मगुणाः अथ स ब्रह्मणस्सायुज्यं सालिक्यञ्च गच्छति गच्छती’ ति ।
अष्टावात्मगुणाः – दया समस्तभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गल्यमकार्पण्यमस्पृहे’ ति । तल्लक्षणानि तु –
अबन्धौ बन्धुवर्गे वा मित्रे द्वेष्टरि वा तथा । आपन्ने रक्षणं यत्तु दयैषा परिकीर्तिता ॥
बाह्ये वाऽभ्यन्तरे वापि दुःख उत्पादिते परैः । न प्रकुप्यति नो हन्ति सा क्षमा परिकीर्तिता ॥
सगुणान् गुणिनो हन्ति स्तौति मन्दगुणानपि । नान्यदोषेषु रमते साऽनसूया प्रकीर्तिता ॥
अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः । स्वधर्मेच व्यवस्थानं शौचमेतदुदाहृतम् ॥
शरीरं पीड्यते येन सुशुभेनापि कर्मणा । अन्यन्तं तन्नकर्तव्यमनायासस्स उच्यते ॥
प्रशस्ताचरणं नित्यमप्रशस्तविसर्जनम् । एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥
स्तोकादपि प्रदातव्यमदीनेनान्तरात्मना । अहन्यहनि यत्किञ्चिदकार्पण्यं तदुच्यते ॥
यथोत्पन्नेषु सन्तोषः कर्तव्यस्स्वागतैर्धनईः । परार्थान् नाभिभाषेत साऽस्पृहा परिकीर्तिताह् ॥ इति
प्रसङ्गादिदमुक्तम् । प्रकृतमनुसरामः ।
अथ अष्टादशस्मृत्युक्तानि अष्टादशपुराणेशूक्तानीति वा मुण्दक श्रुत्यर्थोऽस्तु इति चेत् – तदप्यसत् – स्मृतिपुराणादिषु अष्टादशकर्मेति विशिष्यानुक्तत्वात् । अत्र अष्टादशोक्तमवरं कर्म येष्वि’ ति सामान्येनोक्तत्वात् ततोक्तानां योगादीनामप्यपवर्गप्रापकत्वाभावात् पुनरपि जरामृत्युप्रापकत्वाञ्च न स्मृतिपुराणेशूक्तानीति वक्तुं युक्तम् । किञ्च –
पाद्मपुराणे – ‘वैष्णवं नाअदीयञ्च तथा भागवतं शुभम् । गारुडाञ्च तथा पाद्मं वाराहं शुभदर्शने ! ॥
सात्त्विकानि पुराणानि विज्ञेयानि च षट् पृथक् । ब्रह्माण्डं ब्रह्मकरिवर्तं माकण्डेयं तथैव च ॥
भविष्यद्वामनं ब्राह्मण् राजसनि च षड्विधाः । मात्स्यं कौर्मं तथा लैङ्गं शैवं स्कान्दं तथैव च ॥ आग्नेयञ्च षडेतानि तामसनि निबोध मे ॥ इति
मत्स्ये- सङ्कीर्णास्तामसाश्चैव राजसास्सात्त्विकास्तथा । कल्पाश्चतुरिधाः प्रोक्ताः ब्रह्मणो दिवसाश्च ते । यस्मिन् कल्पे तु यत्प्रोक्तं पुराणं ब्रह्मणा पुरा ॥
तस्य तस्य तु माहात्म्यं तेन रूपेण वर्तते । सङ्कीर्णेषु सरस्वत्याः पितॄणाञ्च निगद्यते ॥
अग्नेश्शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते । राजसेषु तु माहात्म्यमधिकं ब्रह्मणो विदुः ॥
सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः । तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम् ॥ इति
पाद्मे- वासिष्ठञ्चैव हारीतं व्यासं पाराशरं तथा । भारद्वाजं काश्यपीयं स्मृतिषट्कन्तु सात्त्विकम् ॥
मानवं याज्ञवल्क्यञ्च आत्रेयं दाक्ष्यमेव च । कात्यायनं वैष्णवञ्च स्मृतिषट्कन्तु राजसम् ॥
गौतमं बार्हस्पत्यञ्च सांवर्तञ्च यमस्मृतिः । शाम्भमौशनसञ्चैव स्मृतिषट्कन्तु तामसम् ॥ इति
तथा-
सात्त्विका मोक्षदा ज्ञेया राजसाः स्वर्गदाः स्मृताः । तथैव तामसा देवि निरयप्राप्तिर्हेतवः ॥
इत्यादिवचनसिद्धसात्विकपुराणेशु प्रतिपादितानां भगवदाराधनादीनां मोक्षहेतुत्वस्मरणात्, सामान्येन अष्टादशपुराणोक्तकर्मणा जीर्णप्लवसादृश्यं वक्तुं न शक्यम् । अन्यथा स्वर्गमोक्षनिरयाणामेकरूपत्वाङ्गीकारापातात् । अतः श्रीमद्वैखानससूत्रोक्ताष्टादशसंस्कारा एवेत्यवगन्तव्यम् । बोधायनसूत्रे संस्कारसङ्ख्या न कृता । आपस्तम्बादिनापिपञ्चमहायज्ञानां नित्यहोमस्य च पाकयज्ञत्वेनाङ्गीकारात् एते षोडसंस्कारा इति विविच्यानुक्तत्वात् अपरसंस्काअप्रतिपादनाभावाञ्च न तत्रोक्ताः गृहीतुं शक्याः ।
श्रीवैखानसे तु क्रियाबाहुल्यमप्यस्ति । तथा हि । अष्टादशसंस्काराः पाकयज्~आश्च पृथक्त्वेनोपपादिताः । वर्षवर्धनाद्यास्तु विशेषाः । पञ्चमहायज्ञसहिता द्वाविंशद्यज्ञाः – पञ्चमहायज्ञानामेकत्वम् । अपरश्चाष्टादशव्यतिरिक्त इति ।
क्रियाबाहुल्येन किमाधिक्यमिति चेत् – उच्यते । मुण्डोपनिषदि ‘क्रियावानेष ब्रह्माविदां वरिष्ठः’ इति ‘क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत’ इति च श्रूयते ।
बोधायनः – तस्माद्यः कश्चन क्रियावान् सतामनुमताचारस्स श्रोत्रियस्स एव विज्ञेयस्स एव विज्ञेयः’ इति । किञ्च-कर्मभूयस्त्वात् फलभूयस्त्वञ्च ‘यथोपसनं फल’ मिति न्यायात् सिद्ध्यति । अतः-अष्टादशसंस्कारप्रतिपादकत्वादस्य सूत्रस्य श्रेष्ठत्वं एतत्सूत्रिणां सर्वोत्कृष्टत्वञ्चोपपद्यत इति निरूपितः षष्ठो हेतुः ।
इति षष्ठहेतुनिरूपणम् ।