अथ पञ्चमहेतुनिरूपणम्
अथास्य श्रीवैखानससूत्रस्य सर्वोत्तमत्वे तत्सूत्रोक्तधर्मानुष्ठातॄणामपि सर्वोत्कृष्टत्वे च इतरसूत्रिषु मुख्यत्वेनानुपपन्नं निषेकादिसंस्कारादिमत्त्वमस्य सूत्रस्य मुख्यते एवोपपद्यत इति ज्ञापयितुं निषेकादिसंस्कारादिमत्वादिति पञ्चमो हेतुर्निरूप्यते । यथा -
‘अथ निषेकादिसंस्कारान् व्याख्यास्यामः ऋतुसङ्गमने’ त्युक्रम्य ‘पाणिग्रहणा’ नीत्यन्तेन शारीरसंस्कारा निषेकसंस्कारपूर्वकत्वेन प्रतिपादिताः ।
ननु – जातकोपनयनविवाहानान्तरभाविनो निषेकस्य कथमाडित्वं प्रतिपाद्यते? । तथा ‘ब्राह्मणोऽस्य मुखमासीत्’ ‘मनसा त्वेव भूतानि पूर्वं दक्षोऽसृजत्तदा’ इत्यादिश्रुतिस्मृतिषु निषेकेन विना उत्पत्तिदर्शनाच्च निषेकस्य किमर्थमादित्वं प्रतिपाद्यते? । जातकस्याडित्वं श्रीभारते चारगम्यते ।
जातकर्मादिभिर्यैस्तु सङ्कारैः संस्कृतश्शुचिः । वेदाध्ययनसम्पन्नष्षट्सु कर्मस्ववस्थितः ॥
शौचाचाररतस्सम्यक् भिक्षार्थी च गुरुप्रियः । नित्यव्रतस्सत्यपरः स वै ब्राह्मण उच्यते ॥ इति
एवं हरिवंशे- क्व दाराः क्वच संसर्गः क्वच भावविपर्ययः । यदियं ब्रह्मणा सृष्टा मनस मानसी प्रजा ॥
यद्यस्ति तपसो वीर्यं युष्माकं विदितात्मनाम् । सृजध्वं मानसान् पुत्रान् प्राजापत्येन कर्मणा ॥
इति निषेकं विनापि उत्पत्तिः श्रूयते इति निषेकस्यादित्वं न सम्भवति इति चेत् – तदसत् । निषेकविरहेऽपि उत्पत्तिस्सम्भवतीत्येतन्नोपपद्यते । तपोबलाद्योगबलाच्च भगवतो नारायणस्य ब्रह्मणो महर्शीणां वा मानसप्रजासृष्टौ शक्तिस्सम्भवति । नन्येषाम् । यथा –
श्रीविष्णुपुराणे- सङ्कल्पद्दर्शनात् स्पर्शात् पूर्वेषामभवन् प्रजाः । तपोविशेषैरिद्धानां तदाऽत्यन्ततपस्विनाम् ॥
युगे युगे भवन्त्येते दक्षाद्या मुनिसत्तमाः । पुनश्चैव निरुद्ध्यन्ते विद्वांस्तत्र न मुह्यति ॥
कानिष्ट्यं श्र्यैष्ठ्यमप्येषां पूर्वं नास्ति द्विजोत्तम । ता एव गरीयोऽभूत् प्रभावश्चैव कारणम् ॥ इति
रुद्रोपत्तिरपि निषेकेनेति श्रूयते । शतपथे – ‘अभूद्वा इदं सर्वं प्रतिष्ठा’ इत्यारभ्य ‘भूतानाञ्च प्रजापतिस्संवत्सरायादिक्षत भूतानां ग्रहपरिरासीदुषा पत्नी’ इत्यादिकमुक्त्वा ‘भूतानां पतिः संवत्सर उषसि रेतोऽसिञ्चत् संवत्सरे कुमारोऽजायत तस्य रुद्रस्य नाम करोती’ त्यादी ।
निषेकक्रियाप्रकारोपि श्रूयते हि । ‘नग्नं कृत्वोरुमुपप्रवर्तयति यदा हि नग्न उरुर्भवत्यथ मिथुनीभवतोऽथ रेतस्सिच्यतेऽथ प्रजाः प्रजायन्ते’ इति, ‘रेतस एव सिक्तस्य बहुशो रूपाणि विकरोति स वै प्रजायते श्वः श्वो भूयान् भवती’ति, ‘रेतो मूत्रं विजहाति योनिं प्रविशदिन्द्रियं गर्भो जरायुणा वृतः उल्बं जहाति जन्मना’ इति । मुण्डोपनिषदि-पुमान् रेतस्सिञ्चति योषितायां बह्व्यः प्रजास्सृजमानास्सरूपाः’ इति । छान्दोग्ये-योषा वा व गौतमाग्नि ‘रित्यारभ्य’ तस्या उपस्थ एव समिद्यदन्तः करोति तेऽर्चिषा अभिनन्दा विस्फुलिङ्गास्तस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भस्सम्भवती’ ति च ।
श्रीविष्णुपुराणेः – प्रजास्सृजेति व्यादिष्टः पूर्वं दक्षस्स्वयम्भुवा । यथा ससर्ज भूतानि तथा शृणु महामते ॥
मनसा त्वेव भूतानि पूर्वं दक्षोऽसृजत्तदा । देवान् ऋषींस्तु गन्धर्वानुसुरान् पन्नगांस्तथा ॥
यदाऽस्य सृजमानस्य न व्यर्धन्त ताः प्रजाः । ततस्सञ्चित्य बहुशः सृष्टिहेतोः प्रजापतिः ॥
मैथुनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः । ततः प्रभृति मैत्रेय प्रजा मैथुनसम्भवाः ॥
भारते – न चैषां मैथुनो धर्मो बभूव भरतर्षभ ! । सङ्कल्पादेव चैतेषां गर्भस्समुपपद्यते ॥
तत्र त्रेतायुगे काले संस्पर्शाज्जायते प्रजा । न ह्यभून्मैथुनो धर्मस्तेषामपि नराधिप ॥
द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप । तथा कलियुगे काले द्वन्द्वमापेदिरे जनाः ॥ इति
एवं श्रुतिस्मृतिषु सृष्टिकालादारभ्य निषेकादेवोत्परिति श्रवणात् निषेकेन विना उत्पादनसामर्थ्याभावाच्च निषेकादिमत्वादित्युक्तम् ।
अत्रापस्तम्बीया एवमाहुः । निषेको नाम गर्भाधानमेव, निषेकगर्भाधानयोः पर्यायत्वात् गर्भाधानातिरेकेण निषेकशब्दस्यार्थान्तरासम्भवाच्च । गर्भाधानशब्दस्यार्थे विचायमाणे ‘गर्भोऽस्मिन्नाधीयत’ इति व्युत्पत्त्या ‘इन्द्रियं वै गर्भ’ इति श्रुत्यनुसारेण रेतस्सेचनमेव गर्भाधानमित्यवगतेः निषेकादित्वमस्माकमप्यस्तीति ।
अत्र बोधायनीयां प्रत्यवतिष्ठन्ते । ‘यदुक्तं निषेको नाम गर्भाधानम् निषेकगर्भाधानयोः पर्यायत्वा’ दिति – तदसत् । निषेकगर्भाधानयोः पृथक्तेन प्रतिपादनात् पर्यायत्वं न घटते । यथा – ‘चतुर्थ्यां स्नातायां निशायामलङ्कृत्य शयनेऽभिमन्त्रयते’ विष्णुर्योनि’ मित्युपक्रम्य ‘अथैनामुपैति – त्वां पूषन्नि’ इत् । एवं निषेक उक्तः । अथ-गर्भाधानविधिं व्याख्यास्यामः पुर्वपक्षे पुण्ये नक्षत्रे ब्राह्मणानन्तेन परिविष्य पुण्याहं वाचयित्वा अथ देवयजनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति – प्रवेधसे कवये मेध्याये’ ति । इति गुभाधानमुक्तम् । एवं निषेकगर्भाधानयोः पृथक्त्वेन कीर्तनात् निषेक एव गर्भाधानमिति वक्तुमयुक्तम् । किञ्च आपस्तम्बसूत्रे निषेकपूर्वकत्वेनानुक्तत्वात् चत्वारिंशत्संस्काअपरिगणने अगृहीतत्वाच्च तेषां निषेकाद्यास्संस्कारा न भवन्तीति ।
अत्र आपस्तम्बीया ऊचुः । यद्यस्माकं निषेकाद्याः संस्कारा न भवन्तीत्युच्यते तर्हि युष्माकमपि तथैव, भवत्सूत्रेपि ‘यतो एतद्भुतः प्राहुत आहुतः शूलगवो बलिहरणं प्रत्यवरोहणमष्टका पार्वणहोम’ इतीत्यारभ्य विवाहाद्येवोक्तम् – नतु निषेकादित्वेन । किञ्च सूत्रोपक्रमे संस्कारगणनायामपि निषेकस्तु संस्कारत्वेन वा शब्दमात्रेण वा न प्रतिपादितः । किञ्च ‘चतुर्थ्यां स्नातायोमित्यदिना पृथक्त्वेन विधीयमानस्य गर्भाधानस्य लक्षणप्रतिपादनाभावात् विशिष्य कालनिरूपणाभावाच्च (वैखानसे सूत्रे एव निषेकादित्वेन उक्तत्वाच्च वैखानसानामेव निषेकादित्वम्,) आवयेः उभयोरपि निषेकाद्यास्संस्कारा न भवन्ति इति । अयमेव सिद्धान्तः ।
तथा च – निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः । गर्भाधानमृतौ पुंसस्स्वनं स्पन्दानात्पुरा ॥
इति याज्ञवल्क्योक्तौ तेशामितिशब्देन ‘मुख्ये सम्भवत्यमुख्यकल्पनायोगा’ दिति न्यायेन मुख्यत्वेन श्रीवैखानससूत्रे एव निषेकादित्वस्य विद्यमानत्वात् वैखानस एव परामृश्यन्ते इति – तेषामेव निषेकादित्वम्, इतरेषां निषेकादित्वं न सम्भवति । अपि तु गर्भाधानादित्वमेव । अयमेव याज्ञवल्क्याभिप्रायः ।
अथोच्येते । गर्भाधानलक्षणमनुक्तं विशिष्य कालश्चानुक्त इति यदुक्तम् तत्रोच्यते – सर्वेषां कारणभूतेन परमाचार्येण विखनसा प्रणीते श्रीवैखानससूत्रे ‘अथ गृहीतगर्भालिङ्गानि शरीराटोपः सक्थिसीअनं द्वेषो भर्तुररुचिराहारे लालाप्रकोपः खरता वाचः स्फुरणं योनेरिति गर्भस्य दैवानुबण्धं ज्ञात्वा आपूर्यमाणपक्षे पुण्ये पुन्नाम्नि शुभे नक्षत्रे’ इत्यादिना गर्भाधानलक्षणकालयोरपि वैखानससूत्रे प्रतिपादित्वाट्
वेदे वैखानसे सूत्रे यो धर्मःपरिकिर्तितः । सर्वैः स धर्मोऽनुष्ठेयो नात्र कार्या विचारणा ॥
इति भृगुणोक्तत्वात् ‘अनुक्तमन्यतो ग्राह्य’ मिति न्यायात् विखनसः आचार्यत्वेन भारतादिषु प्रतिपादितत्वाच्च अनुरक्तांशेषु वैखानसोक्तप्रकारेण अस्माभिरपि कर्तुं युक्तमिति । एतदेव युक्तरम् । तथाहि –
आपस्तम्बादीनामाचार्येण बोधायनेन स्वशिष्यान् प्रति ‘अथात्र पाकयज्ञानां प्रायश्चित्ति’ रित्यारभ्य ‘व्याहृतीनां प्रयोगे अयथाकृतं यथाकृतं भावतीत्याचार्या ब्रुवते । तत्राप्युदाहरन्ति’ इति, ‘चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरामुपैति प्रजानिःश्रेयसमृतुगमनमित्याचार्याः, सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीति बोधायनः यच्चादौ यञ्चर्ताविति शालीकि’ रिति – ‘अथास्यातिथयोभवन्ति गुरोस्समानवृत्तिर्वैखानसः स्नातको राजा वा धर्मयुक्तः तेषामभ्युत्थायाऽसनं पाद्यमर्हणमर्ध्यं वा प्रयुञ्जीत’ इति – ‘एतमग्निहोत्रं सायमुपक्रं प्रातरपवर्गमाचार्या ब्रुवते तत्रोदाहरन्ति’ इति, ‘वैखानसानां न द्रुह्येत्’ इत्यादिसूत्रेषु ‘आचार्या ब्रुवते’ इति निर्दिष्टः आचार्यः वैखानस एवेति वक्तुं युक्त – मन्वादीनां शारीरसंस्कारवक्तृत्वाभावात्, बोधायनेन प्रतिपादितस्य वैखानससूत्रे विद्यमानत्वात्, ‘गुरोः समानवृत्तिर्वैखानसः’ इति बोधायनेनैवोक्तत्वात्, ‘विखनसाचार्ये’ ति भारतेप्रतिपादितत्वाच्च । तथा च सर्वेषां काअणभूतेन विखनसा प्रणीतत्वात् तत्सूत्रोक्त प्रकारेण सर्वैः कर्तुं युक्तमेव । किञ्च अरण्यादिपात्रलक्षणमपि तत्रैव प्रतिपादितम् ।
अन्येऽप्याहुः । ‘अस्माकमपि निषेकादित्वं समानमिति । तदप्यसत् । गर्भाधानशब्दस्यार्थे विचार्यमाणे’ योनिं प्रविशदिन्द्रियं गर्भॊ जरायुणा वृत’ इति प्रमाणेन गर्भगोले प्रविष्टस्य रेतस एव गर्भशब्दवाच्यत्वमवगम्यते । नत्वितरस्य केवलरेतसः । तथा – ‘आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु’ इति निषेकक्रियानन्तरभावित्वात् गर्भाधानस्य, निषेकस्य तु प्रत्यार्तवङ्कर्तुं व्योम्यतासम्भवात् अधृतरेतसः स्नावदोषप्रसङ्गात् श्रुतिस्मृतिविरोधात् प्रत्यक्षविरोधाच्च निषेक एव गर्भाधानमिति वक्तुमयुक्तम् ।
अथ निषेकादित्वे को विशेष इति चेत् – उच्यते । निषेकादिक्रियावतामेव श्रोत्रियत्वं धर्मशास्त्राधिकारित्वं ब्रह्मशरीरित्वञ्च बोधायनादिभिरुक्तम् । यथा-
निषेके गर्भसंस्कारे जाटकर्मक्रियासु च । विधिवत्संस्कृता मन्त्रैः चीर्णा व्रतसमापनात् ॥
श्रोत्रिया इति विज्ञेयाः शाखापाराश्च ये द्विजाः । विधिवत् गृह्यते पाणिमृतौ चीर्णव्रतास्तुते ॥
मन्त्रवत्सम्प्रयोगेन ब्राह्मण्यां गर्भमादधुः । निषेकाद्याः श्मशानान्ताः सत्क्रिया ब्राह्मणाश्रिताः ॥ इति
याज्ञवल्क्यः – निषेकाद्याः श्मशानान्ताः तेषां वै मन्त्रतः क्रियाः । गर्भाधानमृतौ पुंसस्सवनं स्पन्दनात्पुरा ॥ इति
मनुः – निषेकादिश्मशानन्ताः मन्त्रैर्यस्योदितः क्रियाः । तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्यचित् ॥ इति
अत्र मनुवाक्ये ‘यस्य – तस्य – कस्यचित्’ इत्यादिशब्दानां वैयर्थ्यप्रसङ्गात् ‘सर्वेषां निषेकादित्वं समानमिति वक्तुमयुक्तम् ।
आश्वमेधिके भगवान् – वैदिकैः कर्मभिः पुण्यैः निषेकादिर्द्विजन्मनाम् । कार्यः शरीरसंस्कार पावनः प्रेत्य चेह च ॥
गार्मैहोम्मैर्जातकर्मनामचौलोपनायनईः । स्वाध्यायैश्च तपोभिश्च विवाहस्नातकव्रतैः ॥ महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ इति
एवमम्यत्रापि द्रष्टव्यम् ॥ बोधयनेन- ‘यतो एतद्भुत’ मित्यादिना सूत्रादौ विवाहपूर्वकत्वेनोक्तम् । आपस्तम्बेन ‘अथ कर्माण्याचाराद्यानि गृह्यन्ते’ इत्याअभ्य ‘उपनयनं व्याख्या स्याम’ इति । भारद्वाजसत्याषाढाभ्यामाश्वलायनेन च ‘उक्तानि वैतानिका’ नीत्यारभ्य वैश्वदेवपूर्वकत्वेन । द्राह्यायणेन ‘अथातो गृह्यकर्माणि, उदगयनपुर्वपक्ष’ इत्यारभ्य आचारादित्वेन । कात्यायनश्च ‘अथातो गृह्यस्थालीपाकानां कर्मे’ त्यारभ्य प्रतिपादितवान् । ‘अथ निषेकादिसंस्कारान् व्याख्यास्याम’ इत्यारभ्य निषेकपूर्वकत्वेन भगवता विखनसैव प्रतिपादितम् ।
एवं च निषेकपुर्वकत्वेनोक्तत्वादस्य सूत्रस्य सर्वसूत्रोत्तमत्वं एतत्सूत्रोक्तधर्मानुष्ठानेनैव तत्सूत्रिणां सर्वोत्कृष्टत्वञ्चोपपद्यते इति श्रुतिस्मृतिपुराणादिमुखेन प्रतिपादितमिति निरूपितः पञ्चमो हेतुः ।
इति पञ्चमहेतुनिरूपणम्