अथ चतुर्थहेतुनिरूपणम्
इदानीं तावत् वैखानससूत्रोक्तधर्मानुष्ठानेन अनतस्थिरफलप्रात्प्तिः सत्कुलीनत्वं फलभूयस्त्वमपि भवतीति ज्ञापयितुं ‘समन्त्रकसर्वक्रियाप्रतिपादकत्वा’ इति चतुर्थोहेतुनिरूप्यते । तद्यथा –
अत्र सूत्र नित्यानुष्ठानविधौ ‘इन्द्रोऽहमुभाभ्यामि’ त्यारभ्य करप्रक्षालनादीनि समन्त्रकत्वेनोक्तानि । ब्रह्मयज्ञे ‘ऋतञ्च सत्याञ्चे’ त्यादि विशेषः । पुण्याहे समन्त्रकत्वं स्पष्टम् । सूत्रान्तरेष्वनुक्तमौपासनाग्निकुण्डविधानं प्रतिपादितम् । आघारविधौ समन्त्रकत्वं सिद्धम् । अन्तहोमे तथैव । नान्दीमुखपूर्वकोपनयनादिषु शारीरेषु संस्कारेषु समन्स्त्रकत्वं प्रत्यक्षम् । स्थालीपाकादिषु ‘पूर्वव’ दित्यनेन पूर्वं विस्तरेण प्रतिपादितस्याघारविधेः प्रयोगसौकर्यार्थं सङ्क्षेपेण प्रतिपादनम् ।
अपरक्रियायामप्यस्ति समन्त्रकत्वम् । तत्र क्वचित् ‘तूष्णी’ मित्युक्त्वत्वात् समन्त्रकत्वं नास्तीति स्वयमेवांशक्य प्रकारान्तरेण समन्त्रकत्वं प्रत्यपादयत् । तत्र तत्र क्वचित् मन्त्रयोग्यताभावेपि विहितविषये सर्वत्र समन्त्रकत्वमस्तीत्यवगम्यते । सूत्रान्तरेषु विहितविषयेष्वपि समन्त्रकत्वानुक्तेः तेषां समन्त्रकसर्वक्रियात्वं नास्ति । तत्र अपरक्रियायामपि सूत्रान्तरानपेक्षा दृश्यते । बोधायनेन अग्निमुखादिषु परिधिपरिस्तरणादिक्षेपणं तूष्णीमेवोक्तम् ।
समन्त्रकत्वेन कर्मणामुक्तौ को विशेष इति चेत् – उच्यते । कर्मणां मन्त्रवत्त्वेहि वीर्यवत्तरत्वं कर्माराध्यभगवर्प्तीणनद्वारा अनन्तस्थिरफलप्राप्तिः सत्कुलीनत्वञ्च भवन्तीति स्मृतिपुराणादिष्ववगम्यते । यथा –
छोन्दोग्ये- यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ ति । तत्रैवं व्याख्यातम् । ‘मन्त्रप्रकाशितानि कर्माणि क्रियन्ते नामन्त्रकमस्ति कर्मे’ ति ।
आथर्वणे- ऋग्यजुस्सामाख्या मन्त्रेषु कर्मणि कवयो यान्यपश्यन्निति ।
आरण्यपर्वणिः- व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः । क्रियामन्त्रैश्च संयुक्तो ब्राह्मणस्सयान्न संशयः ॥ इति
तत्रैव – गुणाभावे फलं न्यूनं भवत्यफलमेव वा । अनारम्भे तु न फलं न गुणो दृश्यते ह्युत ॥ इति
बृहन्नारदीये- अमन्त्रतो हविर्युत्तु हूयते जाटवेदसे । अपात्रे दीयते यच्च तद्धोरं भॊगसाधनम् ॥
हुतं हविश्चाशुचिनां दत्तं यत्कर्म यत्कृतम् । तत्सर्वं तव भागार्हमधःपातफलप्रद ॥
इति बलिचक्रवर्तिनं प्रति भगवता वामनेनोक्तम् ।
बोधायनः – गोभिरश्वैश्च यानैश्च कृष्या राज्पसेवया । कुलान्यकुलतां यात्नि यानि हीनानि मन्त्रतः ॥
मन्त्रतस्सुसमृद्धानि कुलान्यल्पधनान्यपि । कुलसङ्ख्याञ्च गच्छन्ति कर्षन्ति च महद्यशः ॥ इति
मनुरपि- कुविवाहैःक्रियालोपैः वेदानध्ययनेन च । कुलान्यकुलतां यात्नि ब्राह्मणातिक्रमेण च ॥
शिल्पेन व्यवहारेण शुद्धापत्यैश्च केवलैः । ग्मिरश्वैश्च यानैश्च कृष्या राजोपसेवया ॥
अयाज्ययजनाच्चैव नास्तिक्येन च कर्मणा । कुलान्यकुलतां यात्नि यानि हीनानि मन्त्रतः ॥
मन्त्रतस्तु समृद्धानि कुलान्यल्पधनानि च । कुलसङ्ख्याञ्च गच्छन्ति कर्षन्ति च महद्यशः ॥ इति
‘मन्त्रपृतन्तु यच्छ्राद्ध’ मिति सोमोत्पत्तौ स्मर्यते ।
श्रीगीतायाञ्च- ‘विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ इत्युक्तम् ।
यथोपासनं फलमिति च श्रुतिसिद्धं ‘यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भव’ तीति ।
अतः शारीरेषु संस्कारेषु समन्त्रकसर्वक्रियाप्रतिपादनात् पूर्णत्वं पूर्णत्वादेव सर्वसूत्रोतमत्वं चास्य सूत्रस्य सिद्धमिति निरूपितः चतुर्थो हेतुः ।
इति चतुर्थहेतुनिरूपणम् ।