०३

अथ तृतीयहेतुनिरूपणम्

अथास्य श्रीवैखानससूत्रस्य सूत्रान्तरापेक्षयॆ वैलक्षण्यापादकं प्रत्यक्ष-श्रुतिमूलकत्वमस्तीति ज्ञापयितुं ‘सर्वकर्मसु श्रुतिमार्गानुसारित्वा’ दिति तृतीयो हेतुर्निरूप्यते । तथाहि-

शुद्धाच—विधौ ‘यत्तूरिचामति तेन ऋचः प्रीणाति’ इत्यादिश्रुत्यनुसारेण सूत्रे ‘ऋग्वेदः प्रीणा’ त्वित्यादिना शुद्धाचमनमुक्तम् । ननु बोधायनेनापि शुद्धाचमनविधिरुत्क इति चेत् सत्यम् । ‘आचमनविधिं व्याख्यास्यामः’ इत्यारभ्य ‘गोकर्णबद्धहस्तेन त्रिराचामेत्, प्रथमं यत्पिबति तेन ऋग्वेदं प्रीणातिम् यद्द्वितीयं तेन यजुर्वेदं यत्तृतीयं तेन सामवेदं प्रीणाती’ त्याचमनेन ऋग्वेदादीनां प्रीतिर्भवतीत्युक्तम् । न तु मन्त्रः ।

श्रुतिस्मृतिसूत्रविहितस्य सन्ध्योपासनस्य प्रधानभूतमर्ध्यप्रदानादिकमत्रैव प्रतिपादितम् । ‘प्रातस्सूर्यश्चेत्यादिनाऽऽचम्य आपो हिष्ठादिभिस्तिसृभिः प्रोक्ष्य गायत्र्याऽपोभिमन्त्र्य आदित्याभिमुखं विक्षिप्य प्रदक्षिणं करोति’ इत्यादि ।

बोधायनेनापि सन्ध्यावन्दनविधिरुक्तः इति चेत् नैवम् । ‘अथातस्सन्ध्योपासनविधिं व्याख्यास्यामः तीरं गत्वा प्रयतोऽभिषिक्तः प्रयतो वाऽनाभिषिक्तः प्रक्षालितपादपाणिरप आचम्य सुरभिमत्या अब्लिङ्गाभिर्वारुणीभिः हिरण्यवर्णाभिः पावमानीभिः व्याहृतिभिरन्यैश्च पवित्रैरात्मानं प्रोक्ष्य प्रयतो भवति । अथाप्युदाहरन्ति ।

आपोवगाहनं स्नानं विहितं सार्ववर्णिकम् । मन्त्रवत्प्रोक्षञ्चैव द्विजानामवशिष्यते ॥ इति

सर्वकर्मणाञ्चैवारम्भेषु प्राक् सन्ध्योपासनाकालाच्चैतेनैव पवित्रसमूहेनात्मानं प्रोक्ष्य प्रयतो भवति । अथाप्युदाहरन्ति । ‘दर्भेष्वासीनो दर्भान् धारयमाणः सोदकपाणिना प्रत्यङ्मुखः सावित्रीं सहस्रकृत्वः आवर्तयेत् । प्राणायामशो वा शतकृत्वः त्रिभिश्च प्राणायामैः ततो (तान्तो) ब्रह्महृदयेन वारुणीभ्यां रात्रिमुपतिष्ठते’ इत्यादिना मार्जनादिकमुक्तम् । प्रधानभूतमर्ध्यपदानादिकमनुक्तम् ।

ब्रह्मयज्ञः – तलवकारोपनिपदि ‘तस्या वा एष प्रथमः पादः ओं भूस्तत्सवित्रुवरेण्यं ओं भुवः भर्गो देवस्य धीमहि ओं सुवः धियो यो नः प्रचोदयात् इति पच्छः, ओं भूर्भुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ओं सुवः धियो यो नः प्रचोदयात् इत्यर्धर्चशः, ओं भूर्भुवस्सुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् इति समस्ताञ्च सावित्रीं जप्त्वेति यथोपदिष्टः, तथाऽत्र सूत्रेऽपि उक्तोऽस्ति ॥

आघारादिषु सर्वमपि श्रौतवत् । अत्र ब्रह्मवरणानन्तरं सोमवरणमप्युक्तमस्ति । ‘सोमोऽस्माकं ब्राह्मणानं राजा – सोमराजानो ब्राह्मणा’ इति । ‘विष्णुश्च ह वै सोमश्च ब्रह्मवाद्यमवदेतां अहं ब्राह्मणानां प्रतिष्ठेति विष्णुरब्रवीत् अहं प्रतिष्ठेति सोमः तौ प्रजापतिं प्रश्नमैतां सोऽब्रवीत् प्रजापतिः छन्दांसि विष्णुमधिमच्छन्ति नक्षत्राणि सोमं तावुभौ ब्रह्मण्याविति सोऽब्रवीत् पूजितौ पूजयन्तौ स्तुतौ स्तुन्वन्तौ प्रियौ प्रिययन्तौ ब्रह्मण्यौ ब्रह्मवित्तौ ब्राह्मणानां प्रतिष्ठातारौ भवत इति यन्मां ब्रह्मणा वक्ष्यन्ति यज्ञेषु सोऽहमिति विष्णुरब्रवीत् तस्माद्विष्णुर्यज्ञो यज्ञो ब्राह्मणानां प्रतिष्ठा इति । विज्ञायते च । ‘ब्राह्मणो वै छन्दांसी’ त्येतस्मात् ब्राह्मणात् यन्मां ब्राह्मणा वक्ष्यन्ति नक्षत्रेषु तत्राहमिति सोऽब्रवीत्, तस्मात् ब्राह्मणानां सोमो राजेति तस्माद्विज्ञायते च ब्राह्मणो वा अष्टाविंशो नक्षत्राणां तस्य वचः पुण्यमिति तावुभौ ब्रह्मण्यौ ब्रह्मवित्तौ ब्राह्मणानां प्रतिष्ठातारौ ब्राह्मणेषु प्रतिष्ठितौ य एवं ब्राह्मणपुरस्कृतानि कर्मणि करोति यज्ञस्य समृद्ध्या” इति च श्रुतिप्रसिद्धत्वात् ।

एवमत्र शात्निकपौष्टिकादिषु प्रधानकर्मत्वात् नवग्रहमखस्य पञ्चामिकुण्डविधानमुक्तम् । ‘अथ ग्रहशान्ति व्याख्यास्यामः अहायत्ता लोकयात्रा तस्मादात्मविरुद्धे प्राप्ते ग्रहान् सम्यक् पूजयती’ ति ॥

ग्रहशान्तेः कथं प्राधान्यमिति चेदुच्यते । विषुवेऽयने शुभाशुभे जन्मनक्षत्रे तद्ग्रहाणामातिथ्यं संवत्सरादपि प्रयुञ्जानः सर्वान् कामानवाप्न्ति’ इति ग्रहशान्ति कालं निरूप्य

ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः । पूजिताः पूजयन्त्येनं निर्दहन्त्यवमानिताः ॥

इत्यकरणे प्रत्यवायमपि दर्शितवान् ।

तस्मादेव सूत्रकाऐः सूर्यचन्द्रौ विना लोकप्रवृत्त्यसम्भवात् सूर्यप्रधानत्वाच्च ग्रहाणां सर्वकर्मणामादौ ग्रहपुरस्काअमुक्ता तत्र पञ्चाग्निकुण्डविधानमुपदिश्य प्रधाने सभ्ये विष्णुरूपस्य सवितुः होमः ‘सभ्ये सवितु’ रिति प्रतिपादितः ।

एवम् – ‘नारायण् परं ब्रह्म – ‘ब्रह्मैव भूतानां ज्येष्ठां तेन कोऽर्हति स्पर्धितुम् _ ‘अग्निर्वै देवानामवमो विष्णुः परमः तदन्तरेण सर्वा अन्या देवताः’ इत्यादिश्रुत्यनुसारेण ‘तस्माद्गृहे परमं विष्णुं प्रतिष्ठाप्य सायं प्राटर्होमान्तेऽर्चयति, इति नारायणपरत्वेन सूत्रान्तरेष्वनुक्तमाराधनविधिमुक्ता तत्र ‘स वा एष पुरुषः पञ्चधा पञ्चात्मा इत्यादिश्रुत्यनुसारेण पञ्चमूर्तिविधानमप्युक्तम् ॥

आघारादिषु श्रौतवदेवेति प्रत्यक्षसिद्धमिति पुर्वमेवोक्तम् । एवमन्त्रापि द्रष्टव्यम् ॥

श्रुतिमार्गानुसारित्वे को विशेष इति चेत् – उच्यते । श्रुतिमूलत्वे हि प्रामाण्यातिशयसम्भवः । यथाह –

मनः – ‘वेदस्स्मृतिस्सदाऽऽचारः स्वस्य च प्रियमात्मनः । एतच्चतुष्टयं प्राहुः साक्षाद्दर्मस्य लक्षणम् ॥

सर्वन्तु समवेक्ष्यैतदखिलं ज्ञानचक्षुषा । श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेति वै ॥ इति

श्रीभारते- वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः । वेदो नारायणस्साक्षात्स्वयम्भूरिति श्शुश्रुमः ॥ इति

प्रचेताः – अमीमांस्या बहिश्शास्त्रा ये चान्ये वेदवर्जिताः । यत्तद्ब्रूयुर्न तत्कुर्याद्वेदाद्धर्मो विधीयते ॥ इति

स्मृत्यन्तरे- धर्मं जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः । द्वितीयं धर्मशास्त्रन्तु तृतीयं लोकसङ्रहः ॥ इति

एतावता सर्वकर्मसु श्रुतिमार्गानुसारित्व रूपः तृतीयो हेतुर्निरूपितो भवति । तथाच श्रुतिमार्गानुसारित्वादस्य सूत्रस्य सर्वसूत्रोत्तमत्वं सिद्ध्यति इति निरूपितस्तृतीयो हेतुः ।

इति तृतीयहेतुनिरूपणम् ।