अथ द्वितीयहेतुनिरूपणम्
अथास्य वैखानससूत्रस्य सर्वसूत्राणामादित्वं निरूप्यते । तथा हि –
ब्रह्मकैर्वर्ते- यथा मुनीनां विखना आदिभूत उदाहृतः । सूत्राणां तत्प्रणीतन्तु तथा श्रेष्ठतमं स्मृतम् ॥ इति ।
पुरातन्त्रे भृगुः – वेदानां व्यासनादर्वाक् प्राग्रूपं मिलितन्तु यत् । तान्तु वैखानसीं शाखामिति वेदविदो विदुः ॥ इत्यारभ्य
वैष्णवं सूत्रमेतद्धि सर्वसिद्धिकरं परम् । आद्यत्वात्सर्वसूत्र्नां वैष्णवत्वाच्च तत्तु वै ॥
मयाऽनुवर्तितं तद्वत्काश्यपात्रिमरीचिभिः ॥ इति
स्कान्दे च – वैखानसीं महाशाखां स्वसूत्रे विनियुक्तवान् । पद्मभूह् परमो धाता तस्मिन्नाराधनत्रयम् ॥ उक्तवान् निगमार्थानामाचारं प्रविभागशः ॥ इति ।
सूत्रार्थपर्यालोचनयाऽपि सर्वसूत्रादित्वमस्यावगम्यते । यथा- ‘मुखादिन्द्र-श्चाग्निश्चे’ ति भगवन्मुखादग्निसृष्टिः श्रूयते, तथा-
आश्रमेधिके – भगवद्वचनम् । ‘प्रथमं मन्मुखात्सृष्टो लोकार्थे पचनः प्रभुः । सृष्टमात्रो जगत्सर्वमत्तुमैच्छत्पुरा खलु ॥
ततः प्रशमितस्सोऽयमुपासीनो मया पुरा । सततोपासनात्सोऽयमौपासन इति स्मृतः’ ॥ इति
एवं परमपुरुषमुखाज्जातस्यौपासनाग्नेः कुण्डविधानादिकमत्रैव सूत्रे प्रतिपादितम् ।
किञ्च नवग्रहमखे सवितृमण्डलस्य चतुरश्रत्वमुच्यते ‘चतुरश्रं वृत्त’ मित्यादिना (सूत्रे) । आदौ चतुरश्रस्य सतो रविमण्डलस्य कालान्तरे वृत्तत्वकल्पनं प्रमाणैरवगम्यते यथा –
विष्णुपुराणे – तेजसस्शमनञ्चास्य विश्वकर्मा चकार ह । भ्रमिमारोप्य सूर्यन्तु तस्य तेजोऽवशातनम् ॥
कृतवानष्टमं भागं स व्यशाटयदव्ययम् । यत्सूर्याद्वैष्णवं तेजश्शातितं विश्वकर्मणा ॥
जाज्ज्वल्यमानमपतत् तद्भूमौ मुनिसत्तम । इति ।
एवं च सूर्यसावर्णिकमन्वन्तरमारभ्य रविमण्डलस्य वृत्ताकारप्रतीतिः । तदनुसारेण बोधायनादिभिः वृत्ताकारत्वं रविमण्डलस्योक्तम् । ततः पूर्वं चतुरश्रत्वमेव । तदेवास्मिन् सूत्रे प्रतिपादितम् ।
एवं ‘वानप्रस्थो वैखानशास्त्रसमुदाचारो वैखानस’ इति वैखानससूत्रमनुस्मृत्य तृतीयाश्रमधर्मान् बोधायनः प्रतिपादयति ।
तथा आग्निवैश्यसूत्रे ‘अथातस्सूत्रगणानां व्याख्यास्यामः । बोधायनमापस्तम्बं सत्याषाठं द्राह्यायणमाघस्त्यं शाकल्यमाश्वलायनं शाम्भवीयं कात्यायनमिति नवानि पूर्वसूत्राणि । वैखानस शौनकीयं भारद्वाजमाग्निवैश्यं जैमिनीयं *वाधूलं माध्यन्दिनं हिरण्यकेशीयं कौषीतकमिति नवान्यपरसूत्राणि । एवमष्टादशसूत्राण्यष्टादशसूत्रकाराश्च । एतानि चतुर्वेदमूलानि । पूर्वसूत्राणि शारीराणि सामान्यानिभवन्ति । उत्तरसूत्राणि वैखानसादीनि विष्णुसम्बन्धीनि दैविकानि’ ति वैखानससूत्रस्यादित्वं वैष्णवत्वञ्चोच्यते ।
अस्य सूत्रस्याधिक्यं च ‘ये वैखानससूत्रेण संस्कृतास्तु द्विजातय’ इत्यादिना पूर्वमेव प्रतिपादितम् ।
अतः सर्वसूत्राणामादिरिदं सूत्रमिति सिद्धम् । ततः सर्वसूत्रोत्तमत्व`ज्चास्योपपद्यते इति निरूपितो द्वितीयो हेतुः ।
इति द्वितीयहेतुनिरूपणम् ।