०१

तत्रादौ अखिलजगत्कारणसूतेन विखनसा प्रणीतत्वादिति हेतुर्निरूप्यते ।

विखनशशब्दार्थनिर्णयः

विखना नाम कश्चिदृषिः, उत नारायणः? नारायण एव । केवलं मुनिमात्रस्य वैखानसशब्दवाच्यत्वेन प्रतिपादनाभावात् । परमात्मनो नारायणस्य विखनोवैखानसादिशब्दवाच्यत्वं श्रुतिस्मृतिपुराणादिप्ववगम्यते । यथा-

खिलश्रुतौ – ‘धेनुर्वहाणामदितिस्सुराणां ब्रह्मा ऋभूणां विखना मुनीनाम्, इति श्रूयते । अयमर्थः । वहानां अतड्डदादीनां धेनुः उत्पत्तिकारणम् । सुराणां इन्द्रादीनाम् अदितिः । ॠभूणां-

साध्या विश्वे च वसवो मरुतॊ ऋभवस्तथा । तथैवाङ्गिरसो रुद्रा आदित्याश्च तथैव च । एते देवगणाश्चाष्टौ मन्वन्तरगणेश्वराः ॥

इति भृगूक्तानां साध्यादीनां ब्रह्मा । मुनीनां मुनिशब्दवाच्यानां विखनाः । ब्रह्मणो मुनिशब्दवाच्यत्वं भारते चावगम्यते-

निशां सुप्त्वाऽथ भगवान् क्षपान्ते प्रत्यबुद्ध्यत ॥

पश्चाद्बुद्ध्वा ससर्जापः तासु वीर्यमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ॥

अहङ्कृत्या ततस्तस्मिन् ससर्ज प्रभुरीश्वरः । हिरण्यगर्भं विश्वात्मा ब्रह्माणं जलजं मुनिमिति ॥

अण्डबहुत्वाभिप्रायेण मुनीनामिति बहुवचनम् । यथा -

अण्डानान्तु सहस्राणां सहस्राण्ययुतानि च । ईदृशानामनन्तानां कोटिकोटिशतानिचे ति ॥ स्मरणात् ।

निशा चात्र प्रलयः, सा एतावतीति कुत्रावगम्यत इति चेत् ।

महाभारते- चतुर्युगसहस्राणि चतुर्युगशतानि च । प्राहुः कल्पसहस्रन्तु ब्राह्मणास्तत्त्वदर्शिनः । दशकल्पसहस्राणि अप्ययस्सां महानिशा ॥ इति ।

अनया खिलश्रुत्या भगवतो विखनश्शब्दवाच्यत्वं कथमवगम्यत इति चेत् उच्यते ।

दुर्बोधा वैदिकाशशब्दा प्रकीर्णत्वाच्च ये खिलाः । तद्ज्ञैस्त एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः ॥ इति

यदि विद्याच्चतुर्वेदान् साङ्गोपनिषदान् द्विजः । न चेत्पुराणसद्विद्या न वेदार्थविचक्षणः ॥ इति

इतिहासपुराणाभ्यां वेदं समुपबृह्मयेत् । बिभेत्यल्पुश्रुवाद्वेदो मामयं प्रतिरिष्यति ॥ इति च

स्मरणात् इतिहासपुराणाभ्यामेवार्थनिर्णयः कर्तव्यः । भारते मोक्षधर्मे नारदस्तुतौ –

‘नमस्ते देवदेवेश’ इत्यारभ्य स्तोत्रमध्ये फेनपाचार्यवालखिल्यविखनोविखनस वैखानसाचार्य अभग्नयोग अभग्नपरिसङ्ख्यान’ इति

तत्रैव - यत्तस्मिन्नुपलभ्यं ते तत्तेजस्तत्तयीमयम् । तद्वैखानः परं ब्रह्म इति वेदविदो विदः ॥ इति चोक्तम् ।

तथा नामसहस्राध्याये - ‘वैखानस्सामगायनः’ इति सार्यते ।

पञ्चरात्रे आत्मसंहितायाम् -

महाभूतेन भूतेन व्याप्तं विखनसा जगत् । तमेव शरणं गच्छ जगत्काअणमच्युतम्॥

इति शाण्डिल्येन शतानन्दमभिलक्ष्योक्तम् ।

वैखानसे आनन्दसंहितायाम् -

वेदान्ततत्त्वमीमांसाखननं कृतवात् हरिः । नाम्ना विखनसं प्रायुर्यञ्च वैखानसं तथा ॥ इति प्रोक्तम् ।

अत्र खननशब्देन सङ्कल्प उच्यते । ‘सोऽकामयत । बहुस्यां प्रजायेयेति स तपोऽतप्यत’ इत्यादि श्रुतिभ्यः । अवाप्तसमस्तकामस्यापि भगवतः सृष्टिकार्ये प्रवृत्तिर्भवति ।

ननु सत्यत्वादिसमस्तकल्याणगुणविशिष्टस्य भगवतः

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥

इति समग्रषाड्गुण्यपरिपूर्णस्य अवाप्तसमस्मकामस्य किमर्थं सृष्ट्यदिकमिति चेदुच्यते ।

अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी । मोदते भगवान् भूतैः बालः कीडनकैरिव ॥

इत्यादि भारतवचनानुसारेण लीलार्थमेवेति ।

जगत्सृष्ट्यादिलीलानुभवार्थं भगवता समष्टिसृष्टेरनन्तरं व्यष्टिसृष्टौ देवमनुष्यादिविविधविशेषसृष्ट्यर्थं चतुर्मुखसृष्टिं प्रति ध्यानं कृतम् । एषा चिदचिदात्मिका सृष्टिः भगवता क्रियते । व्यष्टिसृष्टिस्तु ब्रह्मणा । समष्टिसृष्टिर्नाम-

भूतैस्तु पञ्चभिः प्राणैः स्वान्तैर्दशभिरिन्द्रियैः । चतुर्विंशातितत्त्वानि साङ्ख्यशास्त्रविदो विदुः ॥

महान् कालः प्रधानञ्च मायाऽविद्याच पूरुषः । इति पौराणिकाः प्राहुः त्रिंशतत्त्वानि तैस्सह ॥

इति वचनात् तत्त्वसृष्टिरित्यवगम्यते । ‘स्वान्तै’ रित्यनेन ‘मनोबुद्धिरहङ्कारश्चित्तञ्च करणान्यमी’ इत्यन्तः करणचतुष्टयमुच्यते । व्यष्टिसृष्टिर्नाम – अण्डान्गर्वर्तिभूतजातसृष्टिः । ‘अजामेकां लोहितशुक्लकृष्णाम्’ ‘नित्यो नित्यानां चेतनश्चेतनाना’ मित्यादिश्रुतिभिः नित्यत्वेन श्रुतानां प्रकृतिपुरुषाणां सृष्टिर्नाम प्रलयदशायां सूक्ष्मरूपेण अविभक्तनामरूपेण च परमात्मन्येकीभूतानां सृष्टिकाले परमात्मनोऽनुप्रवेशानन्तरं स्थूलरूपवत्वं विभक्तनामरूपभाक्तुञ्च । ‘तत्सृष्टा’ । ‘तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत्’ इत्यादिश्रुतेः ।

विष्णुपुराणे - ‘तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् । अविर्भावतिरोभावजन्मनाशविकल्पवत्॥

प्रकृतिं पुरुषञ्चैव प्रविश्यात्मेच्छया हरिः क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाऽप्ययौ’ ॥ इति

गीतासु- प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । मम योनिर्महद्ब्रह्म तास्मेन् गर्भं दधाम्यहम् । सम्भवस्सर्वभूतानां ततो भवति भारत ॥

इति चॊक्तरीत्या सृष्टिकाले जगद्योनिभूतं महद्ब्रह्म तदीयं प्रकृत्याख्यमाचिद्वस्तु यत्, तस्मिन् चेतनाख्यं गर्भं योजयति । तत्कृताच्चिदचित्संसर्गात् देवादि स्थावरान्तानामचिन्मिश्राणां सर्वभूतानां सम्भवो भवति । एवमेव परमात्मना पञ्चीकृतानां भूतानामन्योन्यसंयोगादिना अण्डोप्तत्त्यादिकं श्रीविष्णुपुराणे प्रतिपाद्यते । यथा -

आकाशवायुतेजांसि सलिलं पृथिवी तथा । शब्दादिभिर्गुणैर्बह्मसंयुक्तान्युत्तरोत्तरैः ॥

शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः । नानावीर्याः पृथग्भूताः ततः ते सहतिं विना ॥

नाशक्नुवन् प्रजाः स्रष्टुमसमागम्य कृत्स्नशः । समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः ॥

एकसङ्घातलक्ष्याश्च सम्प्राप्यैक्यमशेषतः । पुरुषाधिष्ठितत्वाञ्चाप्यव्यक्तानुग्रहेण च ॥

महदाद्या विशेषान्ता झण्डमुत्पादयन्ति ते । तत्क्रमेण प्रबुद्धं तज्जलबुद्बुदवत्समम् ॥

भूतेभ्योऽण्दं महाबुद्धे प्रवृद्धमुदकेशयम् । प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानमनुत्तमम् ॥

तत्राव्यक्तस्वरूपोऽसौ व्यक्तरूपी जगत्पतिः । विष्णुर्ब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः ॥

इत्यारभ्य-

‘तस्मिन्नण्डेऽभवद्ब्रह्मा सदेवासुरमानुषः’ ।

इत्यादिभिः समष्टिसृष्ट्यदिकमुक्तम् । विशेषेण व्यष्टिसृष्टावपि ब्रह्मणोऽण्डादिषूत्पत्तिप्रकाअः श्रूयते । यथा –

महोपनिषदि – ‘अथातो महोपनिषदं व्याख्यास्यामः । एको ह वै नारायण आसी ‘दित्यारभ्य’ तस्य ध्यानान्तस्स्थस्य यज्ञस्तोममुच्यते । तस्मिन् चतुर्दशपुरुषा जायन्ते । एका कन्या । दशेन्द्रियाणि मन एकादशं तेजो द्वादशमहङ्काअः त्रयोदशः प्रणाश्चतुर्दशः आत्मा पञ्चदशः बुद्धिर्भूतानि पञ्चतन्मात्राणि पञ्चमहाभूतानि च स एकः पञ्चाविंशः पुरुषः’ ‘अथ पुनरेव नारायणस्सोऽन्यत्कामो मनसा ध्यायत तस्य ध्यानान्तस्स्थस्य ललाटात्स्वेदोऽपतत्, त इमाः प्रतता आपः, तासु तेजः, तत्तेजो हिरण्मयमण्डं तत्र ब्रह्मा चतुर्मुखोऽजायत’ इति ।

यजुषि- ‘स प्रजापतिरेकः, पुष्करपर्णे समभवत्’ इति च ।

मनौ- एवं अप एव ससर्जादौ तासु वीर्यमवासृजत्’ इत्यारभ्य तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः इति

भारते- ‘स्वपतस्तस्य देवस्य पद्मं सूर्यसमप्रभम् । नाम्यां विनिस्सृतमभूत्तत्रोत्पन्नः प्रजापतिः ॥ इतिच स्मर्यते

ननु नाभ्यामण्डे चोत्पत्तिरेकस्य कथमुपपद्यत इति चेत् – तत् कल्पान्तर इति वक्तव्यम् । तदुक्तं हयशिर उपाख्याने –

त्वतो मे मानसं जन्म प्रथमं द्विजपूजितम् । चाक्षुषं वै द्वितीयं मे आसीज्जन्म पुरातनम् ॥

त्वत्प्रसादाञ्च मे जन्म तृतीयं वाचिकं महत् । त्वत्तो मे श्रावणञ्चापि चतुर्ह्तं जन्म वै प्रभो ॥

नासिक्य्ञ्चैव मे जन्म त्वत्तः पञ्चममुच्यते । अण्डजञ्चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम् ॥

इदन्तु सप्तमं जन्म पद्मजं मेऽमितप्रभ ॥ इति ।

अतस्समस्तजगज्जन्मस्थितिध्वंसमहानन्दैकहेतोः भगवतः परब्रह्मणो नारायणस्य वैखानसादिशब्दवाच्यत्वसम्भवात् तन्नाभिनलिनसञ्जातस्य ब्रह्मणोऽपि ‘अङ्गादङ्गाचिति मन्त्रोक्तप्रकारेण भारताप्रतिपादितरीत्या च वैखानसादिशब्दवाच्यत्वमुपपद्यते ।

शान्तिपर्वणि – ‘विशेषेणाखनत् यस्मात् भावनामुनिसृष्टये । तस्माद्विखनसो नाम स आसीदण्डजः प्रियः” ॥ इति

तत्रैव सृष्टुं स तु समुद्युक्तो ब्रह्मयोनिमयः प्रभुः । खनित्वा चात्मनाऽऽत्मानं धर्मादिगुणस्ंयुतम् । ध्यानमाविश्य योगेन ह्यासीद्विखनसो मुनिः ॥ इति

श्रीभागवते – न खलु गोपिकानन्दनो भवान् अखिलदेहिनामन्तरात्मदृक् । विखनसार्थितो विश्वगुप्तये सख उदेयिवान् सात्त्वतां कुले ॥ इति

गारुडे – श्रीरङ्गमाहात्म्ये ॥ ब्रह्माऽपि दिव्यहंसेन सितमेघोपमेन च । पृष्ठतोऽऽनुययौ विष्णुं वस्त्रेणोच्छाद्य चाननम् ॥

तत्रार्चको महाभागो भगवान् विखनास्तदा । ददौ प्रसादं देवानां रङ्गनाथाभ्यनुज्ञया’ ॥ इति

श्रीवैखानसे – आनन्दसंहितायाम् ॥ अन्तर्हितानां खननाद्वेदानान्तु विशेषतः । स विभुः प्रोच्यते सर्वैः विखना ब्रह्मवादिभिः । वैखानसश्च भगवान् प्रोच्यते स पितामहः ॥ इति

व्यासनिघण्टौ – विखनसञ्च विधातारं विरिञ्चतं चतुर्मुखम्’ । इति ‘नाभिजन्माण्डजः पूर्वो विखनाः कमलासनः ॥

शतानन्दश्शतधृतिस्सत्यको हंसवाहनः । पद्मासनो विखनसश्चहर्मुख इतीरितः ॥ इति च प्रतिपादितम् ।

एवं कार्यकारणयोरभेदावगमात् प्रमाणबाहुल्याच्च भगवति नारायणे चतुर्मुखे च वैखानसशब्दप्रयोगप्रकाअः प्रतिपादितः ।

वैखानसानामुत्पत्तिप्रकारः

वैखानसानामुत्पत्तिः विशेषेण श्रूयते । यजुषि आरुणकेतुके इष्टकोपधानकथनानुवाके सृष्टिप्रकरणे – ‘आपो वा इदमासन् सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे समभवत् । तस्यान्तर्मनसि कामस्समवर्तत । इदं सृजेयमिति’ । इत्यारभ्य ‘स तपरतप्त्वा । शरीरमधूनुत । तस्य यन्मांसमाईत् । ततोऽरुणाः केतवो वातरशना ऋषय उदतिष्ठन् । येऽनखाः ते वैखानसाः । ये वालाः ते वालखिल्याः’ इति । अस्वार्थः । समष्टिसृष्टेरनन्तरं व्यष्टिसृष्टौ चतुर्मुखः देवमनुष्यादिविविधविशेषसृष्त्यर्थं मत्स्यादिरूपेणावतरिष्यमाणस्य भगवतो नारायणस्य परमवैदिकत्वेन सम्प्रतिपन्न श्रीवैखानसभगवच्छास्त्रमार्गेन समाराधनार्थञ्च स्वात्मतुल्याः प्रजास्सम्भवेयुरिति स्वान्तर्यामिणं परमात्मानं ध्योनेनानुकृतवान् । अयमेवार्थो ब्राह्मण्डेऽप्युच्यते –

ओमित्येकाक्षरं ब्रह्म व्यहरन् संस्मरन् हरिम् । पद्मासनस्थो भगवान् परमं तप आस्थितः ॥

इत्यारभ्य ब्रह्मणा बहुशः कृतं तपश्चरणमुक्तम् । तपश्चरणकाले साक्षात्कृत भगवत्स्वरूपवैभवानुभवातिशयात् भगवद्दत्तसृष्टिशक्तिलाभात् तदुपजनितविशेषवेगाच्च पुलकितसर्वाङ्गः शरीरमधूनुत-कम्पमकरोत् । ‘तस्य यन्मांसमासीत्’ मांसं- मानसमिति यावत् । ‘अर्थात्प्रकरणाल्लिङ्गादौचित्यादर्थनिर्णयः’ इत्यर्थादिभिः समीचीनार्थनिर्णयविधानात् ‘अक्षरसाम्यान्निर्ब्रूया’ दिति निरुक्तविधानाच्च ।

तथा च तस्य मनः परमात्मनि संसक्तमासीदिति यत्, तेन हेतुना तदनुग्रहस्समजनि । तेनानुगृहीतात् ब्रह्मणः अरुणाः केतवो वाटरशनाः ऋषयः उदतिष्ठन् । अरुणाः परमात्मनि वसन्तः तदितरविक्राः केतवः उच्चितस्वभावाः परमात्मप्रवणानामग्रेसराः वातरशना दिग्वाससः ऋषयः सर्वार्थदर्शिनः सनकादयः इदं विष्णुपुराणेपि- ‘सनन्दनाडयो ये च पुर्वं सृष्टास्तु वेधसा । न ते लोकेष्वसज्जन्त निरपेक्षाः प्रजाविधौ ॥

सर्वे ते योगिनो जाता वीतरागा विमत्सराः । तेष्वेव निरपेक्षेषु लोकसृष्टौ महात्मनः’ इत्यादिना प्रतिपादितम् ॥

स प्रजापतिः एवंविधा स्वकार्यासाधकान् तान् दृष्ट्वा किञ्चिद्विषादमापन्नः पुनरपि स्वकारणं भगवन्तं ध्यानपर्यायेण्द खननेनातोषयत् । ये नखा इत्यादि । भगवदनुग्रहविकसिते प्रजापतेर्मनसि वैखानसा नाम ऋषयस्सम्भूताः अत्र ये नखा इत्यत्र आद्यन्तवर्णविपर्ययो भवत् । कश्यपः पश्यको भवती तिवत् खना इत्येतत् नखा इति विपर्यस्तमिति यावत् ।

सुप्तिङुपग्रहलिङ्गनराणां कालहलचूस्वरकर्तृयङञ्च । व्यत्ययमिच्छिति शास्त्रकृदेषां सोऽपि च सिद्ध्यति वाहुलकेन ॥

इति, ‘बहुलं छन्दसी’ ति चात्र प्रमाणम् ।

अत्र ‘अनखा’ इति च्छित्त्वा केचिदेवमूचुः । अनखा इत्यनेन सौम्येन्द्रियवत्त्वमुक्तमिति ।

एवञ्च सति ‘सौम्यं जितेन्द्रियं’ ‘सुप्रसन्नेन्द्रियं’ इत्यादिना भगवच्छास्त्रेष्वाचार्यलक्षणस्य प्रतिपादितत्वात् ‘वैखानस विखनसाचार्य’ इति विष्णोराचार्यत्वेन शान्तिपर्वण्यभिहितत्वात्,

विखना इति वै विष्णुस्तज्जा वैखानसाः स्मृताः । विष्णोरेव समुत्पन्ना भृग्वाद्या मुनयस्तथा ॥

इति वचनात्, ‘गुरोस्सानवृत्तिर्वैखानस’ इति बोधायनसूत्रे उक्तत्वाच्च माघवतादिषु प्रतिपादितमाचार्यपुंस्त्वमेतेषां वैखानसानामेवेत्यवगम्यते ॥

यद्वा ‘अनघा’ इति पाठः । अनेन त्रिशुक्लत्वं सूच्यते । जन्म विद्या कर्म चेति । अद्वारकत्वेन भगवतः चतुर्मुखाच्चोप्तत्तिश्रवणात्,

तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये । आयासायापरं कर्म विद्याऽन्या शिल्पनैपुणम् ॥

इत्युक्तरीत्या अद्वारकभगवत्स्वरूपज्ञानतदाराधनविधिप्रतिपादकशास्त्रनिष्ठत्वेन च एषां त्रिशुक्लत्वम् । शुक्लवतामेवाधिक्यं आरण्यपर्वणि प्रथमाध्याये प्रतिपादितम् ॥ यथा-

‘येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च । ते सेव्यास्तैस्समास्या हि शास्त्रोभ्योऽपि गरीयसी’ ति ॥

श्रीवैखानसे आनन्दसंहितायां विखनसोत्पत्त्यादिकं प्रतिपादितम् ।

अथ सस्मार भगवान् विश्वसृष्ट्यर्थमुच्युतः । धातारं विश्वनिर्माणचतुरं चतुराननम् ॥

स्मरणानन्तरादेव प्रादुरासीत्पुरः प्रभोः । धाता समस्तजगतामुत्पत्तिकरणक्षमः ॥

तं प्राह भगवान् विष्णुः प्रणतं — स्थितम् । श्रीभ्गवानुवाच- ‘व्रहन् त्वया जगत्सर्वं कर्तव्यं —— ॥

लोके विहर्तुमिच्छामि यदहं पद्मसम्भव । ततस्त्वत्सृष्टजगतामविच्छिन्नप्रवृत्तये ॥

धर्मसंरक्षणार्थाय वेदशास्त्रार्थसिद्धये । अलसा अल्पसत्वाश्च मनुष्यास्सवल्पबुद्धयः ॥

ते परव्यूहविभवानात्मानञ्च न मेनिरे । सौलभ्याय तु भक्तानां सर्वलोकानुकम्पवा ॥

अर्चावताररूपेण लोकेऽस्मिंश्चतुरानन! अवतारं करिष्यामि मह्या लक्ष्म्या समन्वितः ॥

मदर्चायै सृज ब्रह्मन् सृष्ट्यादौ मुनिसत्तमम् । इत्याज्ञप्तस्तदा ब्रह्मा मुहूर्तं तत्सिसृक्षया ॥

चिन्तयामास तत्कर्मा क्षणमेकं महामुनिः । ऊचे न शक्नुयामेवं स्रषृमिच्छन् तथाविधम् ॥

तस्य तद्वचनं श्रुत्वा देवदेवो हरिस्स्वयम् । चिन्तयामास देवेशः स्वनिर्मलतरात्मनि ॥

वेदान्ततत्त्वमीमासाखननं कृतवान् हरिः । नाम्ना विखनसं चके तत्पदान्वर्थयोगतः ॥

तथा चिन्तयतस्तस्य मनसो द्वौ बभूक्तुः । सङ्कल्पधर्मौ, सन्नम्य प्राञ्जलिं पुरतः स्थितम् ॥

ब्रह्माणमब्रवीद्विष्णुर्भूतसृष्ट्यन्तहेतवे (कारकं )। सङ्कल्पधर्मौ भवतस्तव सृष्ट्यन्तहेतवे ॥

शुद्धसत्त्वसमुत्पन्नो निर्मितोऽयं तवाग्रतः । मुनिश्रेष्ठो महातेजा मत्कार्यकरणक्षमः ॥

मत्कार्यसाधकानेव त्वं वै स्रष्टुमथार्हसि । हृषीकेशस्य तद्वाक्यमभ्याधाय कृताञ्जलिः ॥

चतुर्मुखश्चापि तथा सनकादिमुनीश्वरन् । ध्यायन्मुखैश्चतुर्भिस्तु क्रमादसृजदब्जमूः ॥

सनत्कुमारञ्च तथा सनकञ्च सनातनम् । सनद्ननमिति ख्यातान् ब्रह्मविद्याविशारदान् ॥

ततस्ते च मुनिश्रेष्ठा ज्ञानातिशयवैभवात् । विरक्तचित्तास्सञ्जमुः कैवल्यं पदमुत्तमम् ॥

स्वकायसाधकान् ब्रह्मा सृष्टवान् पुनरेव हि । प्राणाञ्च चक्षुषस्तद्वदभिमानाञ्च कर्मणः ॥

हृदयाच्छिरसः श्रोत्नादुदानाद्व्यानतस्ततः । समानाच्च तथाऽपनादृषिश्रेष्ठानिमान् दश ॥

दक्षं मरीचिनं नीललोहितं भृगुमेव च । तथाऽङ्गिरसमत्रिञ्च पुलस्त्यं पुलहं तथा ॥

वसिष्ठञ्च क्रतुञ्चैव क्रमादसृजदब्जभूः । नव ब्रह्मणा एवैते विना स्युर्नीललोहितम् ॥

धर्मसङ्कल्पसहितास्सनकाद्या मुनीश्वराः । भृग्वादिमुनयश्चैव श्रुतिस्मृत्यादिवेदनात् ॥

शिप्या विखनसः प्रोक्तास्सर्वशास्त्रार्थपारगाः । वैखानसानां भृग्वाद्या वंशकर्तार ईरिताः ॥

सर्वेषामग्रजं श्रेष्ठमात्मपुत्रं मुनिं तथा । तं हरेः पुरत्ः कृत्वा प्रोक्तवान् कमलसनः ॥

ब्रह्मोवाच- ‘देवदेव जगन्नाथ सृष्टिस्थित्यन्तकारण । भगवंस्त्वत्प्रभावेन सृष्टोऽयं मुनिसत्तमः ॥

जातश्चिन्तयतो मत्तस्त्वत्सृष्टौ मुनयस्त्विमे । एतैरपि कृतं सर्वं जगदेतच्चराचरम् ॥

मत्पुत्रणाञ्च सर्वेषामग्रजः पुरुषोत्तमः । वैष्णवेष्वग्रजः श्रेष्ठो मुनीनां प्रथमो मुनिः ॥

विशेषखननाज्जातो विष्णोर्वैखानसस्तथा । भृग्वादीनपुनीयाथ सावित्रीमुपदेक्ष्यति ॥

परब्रह्मोपदेष्टासावयमेव गुरुस्स्मृतः । एतदुक्तप्रकारेण सर्वे वै मम सूनवः ॥

चरिष्यन्ति यथान्यायं लौकिकाध्यात्मवैदिकान् । एभिः प्रवर्तिता सृष्टिरविच्छिन्ना प्रवर्तते ॥

भवानवतरत्वत्र मम सृष्टौ जनार्दन! । शुद्धसत्त्वसमुत्पन्नो निर्मितोऽयं त्वया विमो ॥

ऋषिश्रेष्ठो महातेजाः त्वर्कर्मकरणक्षमः । तथाऽसौ खननाद्विष्णोः ध्यायादन्तश्च गर्भतः ॥

यस्मात्तव समुत्पन्नो ज्ञेयोऽसौ गर्भवैष्णवः । इत्युक्तो भगवान् प्राह मुनिश्रेष्ठं तपोनिधिम् ॥

श्रीभगवानुवाच- देवब्रह्मऋषीणान्तु मदीयाराधनं प्रति । मया सञ्चोदितो यस्मात्त्वमेव मुनिसत्तम ॥

तपोधनो भवानेव धन्योऽसि भुवनत्रये । आत्मार्थं वा परार्थं वा नित्यनैमित्तिकादि यत् ॥

तत्सर्वं मत्प्रसादेन मदीयाराधनं कुरु । अथाह स ऋषिस्तस्मै प्रणम्य जगदात्मने ॥

श्रीविखाना उवाच- भवताऽनुगृहीतोऽहं धन्योऽस्मि पुरुषोत्तम । नातः परतरं कार्यं किमप्यन्यद्दिवोकसाम् ॥

तथापि देवदेवेश स्वकर्म मुनिभिस्सदा । उदयाद्यस्तपर्यन्तं क्रियते नियतात्मभिः ॥

सर्वेषाञ्च द्विजातीनां श्रुतिस्मृतिसमीरितम् । कर्तव्यं सततं देव स्वस्वकर्म प्रयत्नतः ॥

भवदाराधनं विष्णो कथङ्कारं करोम्यहम् । त्वत्कर्म क्रियते चेत्तु कर्मलोपो भवेन्मम ॥

इत्युक्तो भगवानाह मुनिना तत्त्ववेदिना श्रीभागवानुवाच- विखनस्त्वं मुनिश्रेष्ठ मदाराधनकर्मणि ॥

स्वकर्मलोपसन्त्रासव्याकुलीकृतचेतसः । तव कर्माण्यनूनानि सन्तु नित्यं मदाज्ञया ॥

त्वद्वंशजानां सर्वेषां काले वै कृतकर्मणाम् । निषेकादिश्मशानान्ताः कार्याः मन्त्रसमन्विताः ॥

अष्टादश च कर्माणि शारीराणि प्रचक्षते । यज्ञाश्च विंशतिर्द्वौ च धर्मं वैष्णवमुत्तमम् ॥

वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः । सर्वैस्स धर्मोऽनुष्ठेयो नात्र कार्या विचारणा ॥

त्वदाज्ञयैव भृग्वाद्या नारायणपारायणाः । वदन्ति परमं धर्मं वैष्णवं श्रुतिसम्मतम् ॥

तद्धर्मनिरता ये तु ते वै भागवताः स्मृताः । मत्कर्मकारिणां तेषां कर्मलोपो न विद्यते ॥

तिस्रः कोट्यो मुनीनां तु कर्म कुर्वन्ति मे सदा । ज्ञात्वा यजूंषि साङ्गानि मन्मतास्सर्व एव ते ॥

मन्मन्त्रकल्पजातानि मत्पुराणान्यनुक्रमात् । अधीत्य सर्वकर्माणि कुर्वते ते मदर्चनम् ॥

कृताधिकारिणस्ते तु कृतसम्बन्धिनो मम । मत्प्रसादभुजसौम्या अतिप्रियतमा मम ॥

षट्कर्मनिरतास्ते वै सात्विकाहारतत्पराः । वैखानसेन सूत्रेण निषेकादिक्रियान्विताः ॥

भवन्ति मावितात्मानो मत्कर्मकरणक्षमाः । तस्माद्भागवतश्रेष्ठा मवन्त्यप्राकृता भुवि ॥

सर्वधा ‘येनखास्ते वैखानसा’ इति वेदतः । तस्माद्वैखानसास्शुद्धास्सर्वकर्मसु पूजिताः ॥

ततः प्राह मुनिश्रेष्ठस्तमेवं वादिनं हरिम् । श्रीविखाना उवाच- भगवंस्त्वत्प्रसादेन कर्म साङ्गं यथोदितम् ॥

सर्वेषां मत्कुलीनानां भवत्येव न संशयः’ ॥ इति

अतोऽत्र श्रुत्युक्तमार्गेण वैखानसानां सृष्ट्यादिकं, अद्वारकभगवद्यजनेनैतेषां नित्यकर्मानुष्ठानपूर्णत्वं च प्रतिपादितम् ।

अथ पञ्चमवेदत्वेन प्रसिद्धे महाभारते आनुशामनिकपर्वणि ८५ तमे अध्याये भृग्वादिमहर्षीणां वैखानसानाञ्चोत्पत्तिः निरूपिता ॥ यथा-

वसिष्ठः- अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् । पितामहस्य यद्धृतं ब्रह्मणः परमात्मनः ॥

देवस्य महतस्तात! वारुणीं बिभ्रतस्तनुम् । ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभोः ॥

आजग्मुर्मुनयस्सर्वे देवाश्चाग्निपुरोगमाः । यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ॥

मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः । ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः ॥

लक्षणानि सुरास्तोमा निरुक्तं सुरपङ्क्तयः । ओङ्कारश्छन्दसां नेत्रं निग्रहप्रग्रहौ तथा ॥

तथा वेदास्सोपनिषदो विद्यास्सावित्र्यथापि च । भूतं भव्यं भविष्यञ्च दधार शिरसा शिवः ॥

सञ्जुहावात्मनाऽऽत्मानं स्वयमेव तथा प्रभो । यज्ञञ्च शोभयामास बहुरूपं पिनाकधृत् ॥

द्यैर्नभः पृथिवी खञ्च तथा चैत्रैष भूपतिः । सर्वविघ्नेश्वरश्श्रीमानेष चापिविभावसुः ॥

एष ब्रह्मा शिवो रुद्रो वरुणोऽग्निः प्रजापतिः । कीर्त्यते भगवान् देवस्सर्वभूतपतिश्शिवः ॥

तस्य यज्ञः पशुपतेस्तपः क्रतव एव च । दीक्षा दीप्तव्रता देवी दिशश्च सदिगीश्वराः ॥

देवपल्यश्च कन्याश्च देवानाञ्चैव मातरः । आजम्मुस्सहितास्तत्र तदा भृगुकुलोद्वह ॥

यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः । स्वयम्भुवस्ता दृष्ट्वा तु रेतस्समपतद्भुवि ॥

तस्य शुक्रस्य निष्ष्यन्दात् पांसून् सङ्गृह्य भूमितः । प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने ॥

ततस्तस्मिन् सम्प्रवृत्ते सत्रे ज्वलितापावके । ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभुव ह ॥

स्कन्नमात्रन्तु तच्छुक्रं स्रुवेण परिगृह्य सः । आज्यवन्मन्त्रवच्चापि सोऽजुहोद्भृगुनन्दन! ॥

ततस्तु जनयामास भूतग्रामञ्च वीर्यवान् । तस्य तत्तेजसः तस्मात् जज्ञे लोकेषु तैजसम् ॥

तमसस्तामसा भावा व्यापि सत्त्वं तथॊऽभयम् । स गुणस्तेजसो नित्यस्तस्य चाकाशमेव च ॥

सर्वभूतेषु च तथा सत्त्वं तेजस्त्वथोत्तमम् । शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो ॥

पुरुषा वपुषा युक्तातस्तैस्तैः प्रसवजैर्गुणैः । भर्जनाद्भृगुरित्येवमङ्गारेभ्योऽङिरा भवत् ॥

(भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङिस भदत् । अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत् ॥

सहज्वालाभिरुत्पन्नो भृगुस्तस्माद्भृगुस्समृतः ।) मरीचिभ्यो मरीचिस्तु मारीचः काश्यपो ह्यभूत् ॥

अङ्गारेभ्येऽङिगिरास्तात वालखिल्याः कुशोच्चयात् । अत्रैवात्रेति च विमो जातमित्रं वदन्त्यपि ॥

तथाऽग्नेस्तस्य भस्मभ्यो ब्रह्मर्षिगणसम्मताः । वैखानसास्समुत्पन्नास्तपश्श्रुतगुणेप्सवः ॥

अश्रुतोऽस्य समुत्पन्नाविश्विनौ लोकसम्मतौ । शेषाः प्रजानां पतयस्स्रोतोभ्यस्तस्य जज्ञिरे ॥

ऋषयो रोमकूपेभ्यस्स्वेदाच्छन्दो बलान्मनः । एतस्मात्कारणादाहुरग्निः सर्वाश्च देवताः ॥

ऋषयश्श्रुतसम्पन्ना वेदप्रामाण्यदर्शनाट् । यानि दारुणि ते मासा निर्यासाः पक्षसञ्ज्ञिताः ॥

अहोरात्रा मुहूर्ताश्च पित्तं ज्योतिश्च वारुणम् । रौद्रं लोहितमित्याहुर्लोहितात् कनकं स्मृतम् ॥

तन्मैत्रमिति विज्ञेयं धूमाञ्च वसवस्स्मृताः । अर्चिषो याश्च? ते रुद्रास्तथाऽऽदित्या महाप्रभाः ॥

उद्दिष्टास्ते तथाऽङ्गारा ये धिण्येषु दिवि स्थिताः । आदिकर्ता च लोकस्य तत्परं ब्रह्म तद्ध्रुवम् ॥

सर्वकामदमित्याहुस्तद्रहस्यमुवाच ह । ततोऽब्रवीन्महादेवो वरुणः पवनात्मकः ॥

वरुणः – मम सत्रमिदं दिव्यमहं ग्रहपतिस्त्विह । त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः ॥

इति जानीत खगमा मम यज्ञफलं हि तत् । अग्निः- मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च ॥

ममैवैतान्यपत्यानि वरुणॊह्यवशात्मकः । ब्रह्मा- अथाब्रवील्लोकगुरुः ब्रह्मा लोकपितामहः ॥ ममैवैतान्यपत्यानि मम शुक्रं हुतं हितत् ॥

ईश्वरः- अहं कर्ता हि सत्रस्य होता शुक्रस्य चैव हि । यस्य बीजं फलं तस्य शुक्रञ्चेत्कारणं मतम् ॥

ततोऽब्रुवन् देवगणाः पितामहमुपेत्य वै । कृताञ्जलिपुटास्सर्वे शिरोभिः प्रणिपत्य वै ॥

वयञ्च भगवन्! सर्वे जगदेतच्चराचरम् । तवैव प्रसवं सर्वं तस्मादग्निर्विभावसुः ॥

वरुणश्चेश्वरो देवो लभतां काममीप्सितम् । निसर्गाद्वरुणश्चापि ब्रह्मणो यादसां पतिः ॥

जग्राह वै भृगुं पूर्वमपत्यं सूर्यवर्चसम् । ईश्वरोऽङ्गिरसञ्चाग्नेरपत्यार्थे ह्यकल्पयत् ॥

पितामहस्त्वपत्यं वै कविं जग्राह धर्मतः । तदा स वारुणिः ख्यातो भृगुः प्रसवकर्मकृत् ॥

आग्नेयस्त्वङिराः श्रीमान् कविर्ब्राह्यो महायाशाः । भार्गवाङ्गिरसौ लोके लोकसन्तानलक्षणौ ॥

एते हिप्रसवास्सर्वे प्रजानां पतयस्त्रयः । सर्वं सन्तानमेतेषामिदमित्यवधारय ॥

इत्यादिना वैखानसानामुत्पत्त्यादिकं विशेषेण प्रतिपादितम् ।

पुराणान्तरे – यज्ञे देवस्य वितते महतो वरुणस्य ह । ब्रह्मणोऽप्सरसं दृष्ट्वा रेतश्चस्कन्द कर्हिचित् ॥

तत्प्रतीक्ष्य स पर्णेन सञ्जुहाव विभावसौ । ततोऽर्चिषोऽभूद्भगवान् भृगुरङ्गारतोऽङ्गिराः ॥

अत्रैवान्वेषणादत्रिः खननाद्विखना मुनिः । खननं तत्त्वमीमांसेत्याहुः केचन सूरयः ॥

अपरे निगमार्थानां खननादिति नश्श्रुतम् । ततस्तद्वंशजा विप्रा वेदवेदाङ्गवेदिनः ॥ इति ।

‘य वालाः ते वालखिल्याः’ इत्यत्र बकाअस्थाने वकारः । ज्ञानातिशयवैभवात् कामादिदोषराहित्येन च बाला उच्यन्ते । श्रूयते हि – ‘तस्माद्ब्रह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यञ्च पाण्डित्यञ्च निर्विद्याथ मुनिः’ इति ॥

अत्र केचिदेवमूचुः – ब्रह्मणः विधूताच्छारीरात् यन्मांसं विकीर्णमभवत् ततोऽरुणाः केतवो वाटरशना ऋषय उदतिष्ठन्निति । तदसत् । एवमर्थस्वीकारें सृष्टिकारणभूतस्य ब्रह्मशरीरस्य शैथिल्यमुक्तं स्यादिति ।

किञ्च ‘तस्यान्तर्मनसि कामस्समवर्तत’ इत्यादिना ‘कामस्तदग्रे समवर्तताधि’ इत्यन्तेन सोपपत्तिकं वर्तमानं सङ्कल्परूपं मननव्यापारमुक्ता ‘मनसो रेतः प्रथमं यदाऽसी’ दित्यत्र तत्र विद्यमानस्य व्यापारस्य प्रजापतेः स्सृष्टिकारणत्वं रेतश्शब्देनोक्ता ‘सतो बन्धुमसति निरविन्द’ न्नित्यारभ्य ‘य एवं वेद’ इत्यन्तेन ब्रह्मणस्तत्कालविद्यमानमानसशक्तिमात्रेण व्यष्टिसृष्टेरनिष्पन्नत्वमुक्ता मनसो व्यष्टिकारणलामाय ‘स तपोऽतप्यत’ इति भगवदुपासनमकरे दित्युक्तम् । अयमेवार्थः ‘ओमित्येकाक्षरं ब्रह्मे’ त्यादिना ब्रह्माण्डेऽप्युक्तः ।

भगवन्मामसपुत्रा भृग्वादय इति भगवतैवोक्तम् –

महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ इति

भृग्वादय एव वैखानसानां वंशकर्तारः इति भारतेऽप्युक्तम् ।

यथा शान्तिपर्वणि-

भृग्वङ्गिरोमरीच्यत्रिपुलस्त्यपुलहाः क्रतुः । तथा वसिष्ठो दक्षश्च नव स्वायम्भुवा द्विजाः ॥

एते वैखानसानान्तु ऋषीणां भावितात्मनाम् । वंशकर्तार उच्यन्ते सात्त्विकाहारभोजिनाम् ॥ इति

तस्माद्भगवता नारायणेन ब्रह्मणा च सृष्टानां नारायणेन ब्रह्मणा च सृष्टानां भृग्वादीनामृषीणां तद्वंशजानां च निषेकादिक्रियावतामद्वारकभगवद्यजनाधिकारवतामेव लोके वैखानस इति प्रसिद्धिः ।

ननु ब्रह्मणा सृष्टानां सर्वेषामपि मनुष्याणां वैखानसत्वं समानम् । कथमेतेष्वेव व्यवह्रियते इति चेत् सत्यम् । नामरूपकृत्यविभागादिकं वेदशब्देभ्य एव ब्रह्मणा कृतमिति श्रूयते । ‘वेदेन नामरूपे व्याकरोत् सतासती प्रजापति’रिति ।

—- भारते – अनादिनिधना ह्येषा वागुत्सृष्ट स्वयम्भुवा । आदौ वेदमयी दिव्या यतस्सर्वाः प्रसूतयः ॥ इति ।

श्रीविष्णुपुराणे- नाम रूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः ॥ इति ।

मनुः- सर्वेषाञ्च स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे ॥

इति च नामरूपविभागस्य श्रुतिस्मृतिषु प्रतिपादितत्वात् ब्रह्मणा तादृश्रुतिस्मृत्यनुसारेण सृष्टनामेव वैखानसत्वव्यवहारः । नान्येषाम् ।

किञ्च एकस्मिन परमपुरुषे मुखादिषु जातानां यथा ब्राह्मणादिव्यवहाअः, यथा विश्वामित्र भागद्वाजादि गोत्रेषूत्पन्नानामेकसूत्रनिष्ठत्वं विना अनेकसूत्रानुसारित्वं, यथा च कुमुदकह्वारादिषु ‘पङ्के जायत’ इति व्युत्पत्त्या पङ्कजत्वे समानेऽपि योगरूढिभ्यां पङ्कजत्वं तामरस एव वर्तते तथैव वैखानसत्वमपि । जथोक्तम्- योगरूढिभ्यां पङ्कजत्वं तामरस एव वर्तते तथैव वैखानसत्वमपि । तथोक्तम्-

‘कल्पे कल्पे क्षयोत्पत्त्या ब्रह्मविष्णुमहेश्वराः । श्रुतिस्मृतिसदाचाअनिर्णेतारस्तु सर्वदा ॥

न कश्चिद्वेदकर्ताऽस्ति वेदवक्ता चतुर्मुखः । तथैव धर्मं स्मरति मनुः कल्पान्तरान्तरे’ ॥ इति ।

ननु – ‘ब्रह्मचारी गृहस्थश्च भिक्षुर्वैखनसस्तथा’ इति तत्र तत्र तृतीयाश्रमनिष्ठानामेव वैखानसत्वावगमात् त एव वैखानसशब्दवाच्याः किं न स्युरिति चेत् न । श्रुतिस्मृतिपुराणादिषु उक्तप्रकारेण ब्रह्मणा सृष्टनामेव वैखानसत्वावगमात् तेषामेव तत्र तत्रोत्कृष्टत्वप्रतिपादनाच्च ।

तथा हि – श्रुतावेव वैखानसानामुत्पत्तिः श्रूयते । ये नखाः ते वैखानसाः इति । छन्दोगब्राह्मणे । ‘वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन्’ ‘पौरुहन्महं भवति । पुरुहान्नादो वा एतेन वैखानसोऽञ्जसा स्वर्गं लोकमपश्यत्’ इति । अत्र इन्द्रशब्देन परमात्मा नारायण उच्यते ‘स ब्रह्मा स शिवस्सेन्द्रस्सोऽक्षरः परमस्स्वराट्’ इत्यादिश्रुतिभ्यः ।

अश्वत्थः कपिला गावस्तुलसी विखनास्तथा । चत्वारो मत्प्रिया राजस्तेषां वैखानसो वरः ॥

इत्युपबृह्मणात् । ब्रह्मसूत्रे इन्द्रप्राणाधिकरणे तथा निर्णयाच्च ।

आनुशासनिके- तथाऽग्नेस्तस्य भस्मभ्यो ब्रम्हर्षिगणसम्मिताः । वैखानसास्समुत्पन्नास्तपश्रुतगुणेप्सवः ॥

इति वैखानसनाम्नैवोत्पत्तिप्रतिपादनात् ।

तथा किष्किन्धाकाण्डे- ‘शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् । तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे ॥

द्वितीयं शिखरे रौद्रं चकार पुरुषोत्तमः । तदुत्तरे प्रतिक्रम्य जम्बूद्वीपं दिवाकरः ॥

दृश्यो भवति मूयिष्ठं शिखरं तन्महोच्छ्रयम् । तत्र वैखानसा नाम वालखिल्या महर्षयः ॥ प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः’ ॥ इति ।

तत्रैव चत्वारिंशोऽध्याये- मौनाकश्च विचेतव्यस्ससानुप्रस्थकन्दरः । स्त्रीणामश्वमुखीनाञ्च निकेतास्तत्र तत्र तु ॥

तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् । सिद्धा वैखानसारस्तत्र वालखिल्याश्च तापसाः ॥

वन्द्यास्ते तु तपसिद्धास्तपसा वीतकल्मषाः । प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनायान्वितैः ॥ हेमपुष्करसञ्छन्नं तत्र वैखानसं सरः’ ॥

इति च वानप्रस्थपरत्वं विना ‘वैखानसा वालखिल्या’ इति वालखिल्यसमानतया पृथग्वंशत्वेन कीर्तनात् ।

तथा श्रीविष्णुपुराणे – द्वितीयांशे नवमेऽध्याये- ततः प्रयाति भगवान् ब्राह्मणैरभिरक्षितः । वालखिल्यादिभिश्चैव प्रभुर्वैखानसैरपि ॥ महात्माभिर्महात्मा वै जगतां पालनोद्यतः’ ॥ इति

अथा सभापर्वाणि – पितामहस्य भवनं जग्मुश्च कृपयाऽन्विताः । ततो ददृशुरात्मानं सह देवैः पितामहम् ॥

सिद्धैर्महर्षिभिश्चैव समन्तात्परिवारितम् । तत्र विष्णुर्महादेवस्तत्राग्निर्वायुना सह ॥

चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधाः । वैखानसा वालखिल्यास्सोमपाश्च मरीचिपाः ॥

अजाश्चैवाजमीढाश्च तेजोगर्भस्तपस्विनः । ऋषयस्सर्व एवेते पितामहमुपासते’ ॥

इति च वैखानसानां ब्रह्मसभाप्रवेशवर्णनात् । तस्य च तृतीयाश्रमनिष्ठेष्व सम्भवात् ।

तथा आनुशासनिके- श्रुणु राजन् वसिष्ठस्य मुख्यं कर्म यशस्विनः । वैखानसविधानेन गङ्गातीरं समाश्रिताः ॥ आदित्यास्सत्रमीहन्ति सरो वैखानसं प्रति’ ॥ इति

अत्र वानप्रस्थविधौ सत्रयागक्रमविधानाभावात् वानप्रस्थाश्रमप्रविष्टानां तेन शरीरेण पुनरपि देवत्वयोग्यताऽसम्भवाच्च वैखानसविधानेनेति वैखानसपदेन वानप्रस्थानां गृहीतुमश्क्यत्वात् ।

किञ्च श्रीभागवते एकादशस्कन्धे- वन्यैश्चरुपुरोडाशैर्निर्वपेत्कालचोदिताम् । नतु श्रौतेन विधिना मां यजेत वनाश्रमी ॥

इति वानप्रस्थानां श्रौतविधिनिषेधप्रतिपादनात् ।

तथा वृद्धमनौ- वेदान्तवेदिभिर्विप्रैस्तद्वैखानससूत्रिभिः । याजयेद्यज्ञपुरुषं विष्णुं राजा जगद्धितः ॥ इति

तथा आश्वमेधिके- युधिष्ठिरः- कथं त्वमर्चनीयोऽसि मूर्तयः कीदृशाश्च ते । वैखानसाः कथं ब्रूयुः कथं वा पाञ्चरात्रिकाः ॥

श्रीभगवान्- शृणु पाण्डव तत्सर्वमर्चनाक्रममात्मनः । स्थण्डिले पद्मकं कृत्वा साष्टपत्रं सकर्णिकम् ॥

अष्टाक्षरविधानेन अथवा द्वादशाक्षरैः । वैदिकैरथवा मन्त्रैर्मम सूक्तेन वा पुनः ॥

स्थितं मां मन्त्रतस्तस्मिन्नर्चयेत् सुममहितः । विष्णुञ्च पुरुषं सत्यमच्युतञ्च युधिष्ठिर ॥

अनिरुद्धञ्च मां प्राहुर्वैखानसविदो जनाः । अन्ये त्वेवं विनाजन्ति मां राजन् पाञ्चरात्रिकाः ॥

वासुदेवञ्च राजेन्द्र सङ्कर्षणमथापि वा । प्रद्युम्नञ्चानिरुद्धञ्च चतुर्मूर्ति प्रचक्षते ॥

एताश्चान्याश्च राजेण्द्र सञ्ज्ञाभेदेन मूर्तयः । विद्ध्यनर्थान्तरा एव मामेवञ्चार्चयेद्बुधः’ ॥ इति

तथापाञ्चरात्रे पौष्करसंहितायाम्- विप्रा वैखानसाख्या ये ते भक्तास्तत्त्वमुच्यते । एकन्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजिनः ॥ कर्तव्यमिति देवेशं सञ्जयन्ते फलं विना’ ॥ इति

तथा तत्रैव तन्त्रभेदनिर्णये- शुद्धञ्च वैदिकञ्चेति तान्त्रिकञ्च त्रिधा भवेत् । पाञ्चरात्रेण पूजा तु शुद्धं विष्णोरिति स्मृतम् ॥

वैखानसेन सूत्रेण पूजयेद्विष्णुमव्ययम् । वैदिकं तदितिप्रोक्तं द्विजातीनां प्रशस्यते ॥ इति

तथा विष्णुत्मृतौ- ‘पौरुषं सूक्तमास्थाय ये यजन्ति द्विजोत्तमाः । संहिताजपमास्थाय ते मां प्राप्स्यन्ति वै द्विजाः ॥ अलाभे वेदमन्त्राणां पाञ्चरात्रोदितेन वा’ ॥ इति

तथा सङ्कर्षणसंहितायाम्- पूजयेत्पञ्चरात्रैस्तु मन्त्रैर्मोक्षफलप्रदैः । वैखानसोक्तैर्दिव्यैर्वा मन्त्रैस्सर्वार्थसिद्धये ॥ इति

तथा शिल्पे हरिहरादीनां स्थाननिर्णये- ‘सहस्रविप्रावासेषु शतविप्राधिकेषु । पञ्चमूर्तिविधानेन मध्ये विष्णुं स—येत् ॥

तद्वास्त्वङ्गालये विष्णुं तान्त्रिकेण न चार्चयेत् । अर्चयेद्वैदिकोक्तेन वैखानसविधानतः’ ॥ इति

तथा ज्योतिषे हयग्रीवसंहितायाम्- श्रीशास्त्रेणैव कर्तव्यं ग्राममध्यालयार्चनम् । पाञ्चरात्रविधानेन नाचरेदिति शासनम् ॥ इति

तथा शैवे च सुप्रभेदे- ‘सहस्रभूसुरादूर्ध्वे ग्रामे ब्रह्माङ्कणेऽपि च । वैखानसेन सूत्रेण निषेकादिसुसंस्कृतैः ॥

भार्गवादिमहातन्त्रमन्त्रभेदविचक्षणैः । अनुद्भृतैर्मन्त्रगणैर्वेदवेदान्तसम्भवैः ॥

क्रमाध्ययनसम्पन्नैस्साङ्गोपाङ्गैश्च संस्कृतैः । पञ्चमूर्तिप्रकारेण प्रतिष्ठाप्यार्चयेद्धरिम् ॥ वैदिकं तदिति प्रोक्तं राजराष्ट्रविवर्धनम्’ ॥ इति

तथा कारणे ग्रामविन्यासविधौ- ब्रह्मांशं तु चतुर्भागं कृत्वा वायव्यभागतः । पञ्चमूर्तिक्रमेणैव विष्णुं संस्थाप्य पूजयेत् ॥ इति

तथा भीमसंहितायाम् समयभेदोपन्यासावसरे- ‘शैवमेवं समाख्यातं वैष्णवन्त्वधुनोच्यते । वैष्णवञ्च त्रिधा प्रोक्तं तथा समयभेदवत् ॥

पाञ्चरात्रं भागवतं तथा वैखानसं मतम् । शुद्धं मिश्रं तथा सौम्यं यथासङ्ख्यक्रमेण तु ॥

वैदिकाचाअबाह्यं यत्तद्रौद्रमिति कीर्तितम् । वैदिकाचारसम्बन्धात्सौम्यं श्रेष्ठमुदाहृतम् ॥

ग्रामादीनां समीपे तु मिश्रोक्तं स्थापयेद्बुधः । अब्धिनद्यादितीरेषु शुद्धोक्तं स्थापयेत्तथा ॥ विप्रावासेषु सर्वेषु सौम्योक्तेनैव कारयेत्’ ॥ इति

तथा गारुडे- अध्वर्युभिर्विप्रवरैर्मते विखनसस्थितैः । तत्राऽराधनमीहस्व विष्णोरमिततेजसः ॥ इति

तथा तत्रैव श्रीरङ्गमाहात्म्ये- ब्रह्माऽपि दिव्यहंसेन सितमेघोपमेन च । पृष्ठतोऽनुययौ विष्णुं वस्त्रेणाच्छाद्य चाननम् ॥

तत्रार्चको महाभागो भगवान् विखनास्तथा । ददौ प्रसादं देवानां रङ्गनाथाभ्यनुज्ञया’ ॥ इति

तथा उपरिचरवसुचरिते- वैखानसानां वचनैर्जपहोमार्चनादिभिः । यजेद्धरि सुरपतिं भूमेर्विवरगोऽपि सन् ॥ इति

तथा वृषगिरिमाहात्म्ये- अन्तःप्रविश्य मुनयस्सह वैखानसैर्द्विजैः । प्रणमन्त्यन्वहं देवं नारायणमनामयम् ॥ इति

तथा आग्नेयपुराणे फुल्लारण्यमाहात्म्ये- फुल्लशिष्यास्तु यक्षास्ते पूजयन्ति युगे युगे । वैखानसेन विधिना यथा फुल्लमुखाच्च्युतम् ॥ मानुषाः पूजयन्तीह वैखानसमते स्थिताः’ ॥ इति

तथा ब्रह्मकैवर्ते पुष्करतीर्थवैभववर्णने- ‘निम्नगानां यथा गङ्गा देवानां भगवान् हरिः । वर्णानां ब्राह्मणाश्रेष्ठा आश्रमाणां यतिर्यथा ॥

श्रुतीनामादिभूतानामादिरेकायनी यथा । व्यूहानामादिभूतस्तु वासुदेवो यथा वरः । त्रिमूर्तीनां यथा विष्णुश्शिवानान्तु सदाशिवः ॥

धर्माणां वैष्णवो धर्मः स्मृतीनां — स्मृतिः । विप्राणां वेदविदुषां यथा वैखानसो वरः ॥

सूत्राणां तत्प्रणीतन्तु यथाश्रेष्ठतमं स्मृतम् । तथैव पुष्करो राजस्तीर्थानामुत्तमोत्तमः ॥

इति च प्रतिपादनात् ईदृशानां वैखानसानामेव श्रुतिस्मृतीतिहासपुराणादिषु चतुर्मुखात् सामान्यत्वेन विना सर्वोत्कृष्टत्वेनोत्पत्तिश्रवणात् ब्रह्मसभाप्रवेशसूर्यपथाद्यश्रयणादि प्रतिपादनाच्च वैखानसा न तृतीयाश्रमनिष्ठाः, न वा ब्रह्मणा सामान्यतः सृष्टा भवितुर्महन्ति ।

श्रीविष्णुपुराणे- अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने । यतो हि कर्मभूरेषा ह्यतोऽन्या भोगभूमयः ॥

कृतं त्रेता द्वापरञ्च कलिश्चन्यत्र न क्वचित् । तपस्तप्यन्ति यतयो जुह्नते चात्र यज्वनः ॥

दानानि चात्र दीयन्ते परलोकार्थमादरात् । पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते ॥

यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा । अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ॥ कदा चिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥

इति भारतखण्डव्यतिरिक्तस्थलेषु ब्रह्मचर्याद्याश्रमादिव्यवस्थाव्यवहाराद्यभावात् पाञ्चरात्रशिल्पज्यौतिषादिषु एषामद्वारकभगवद्यजनाधिकारित्वपरमवैदिकपरमैका- कान्तित्वादेः प्रतिपादनाच्च एष्वेव वैखानसत्वं नैसर्गिकम् । वानप्रस्थेषु वैखानसत्वं न नैसर्गिकम् ।

किन्तु तेषां सूत्रान्तरेष्वनुक्तानां वानप्रस्थाश्रमस्वीकाअप्रयोगश्रामणकाग्नि- कुण्डविधानादीनां विखनस्सूत्रे प्रतिपादितानां तत्सूत्रोक्तप्रकाएअ वानप्रस्थाश्रमस्वीकारादिनैव वैखानसत्वसिद्धिरिति ।

इदमेवाह बोधायनः- वानप्रस्थो वैखानसशास्त्रसमुदाचारो वने मूलफलाशी तपश्शीलस्सवनेशूद-कमुपस्पृशन् श्रमणकेनाग्निमाधायाग्राम्यभोजी देवपितृमनुष्यभूतर्षिपूजकः सर्वातिथिः प्रतिषिद्धवर्जं भैक्षमप्युपयुञ्जीत । न फालकृष्टमधितिष्ठेत् ग्रामं वा न प्रविशेत्’ इति ।

मनुः- अतः परं प्रवक्ष्यामि धर्मं वैखानसाश्रयम्’ । इत्यारभ्य पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा । कालपक्वैस्स्वयंशीर्णैर्वैखानसमते स्थितः ॥ इति

हारीतः- ‘वानप्रस्थो ग्राम्या ओषधीः परिवर्जयेत् । त्रेताग्नीनां स्थाने श्रामणकं वाऽग्निमाधाय वल्कलशाणचर्मकुशमुञ्जादिबल्कलं वा वसानोवैखानसप्रोक्तेन विधिना वानप्रस्थो भवति । अनुज्ञायिकोऽनुप्रस्थायिक’ इति ।

यमः – ‘श्रामणकेन विधानेन सायम्प्रातरुपस्पृशे’ दिति ।

शङ्खलिखितौ – ‘श्रामणकेनाग्निमाधाय काले कुरुविन्दवेणुश्यामाकनी-वारादिभिर्वर्तये’ दिति ।

वसिष्ठोऽपि- ‘श्रमणकेनाग्निमाधायाहिताग्निर्वृक्षमूलिक’ इति ।

अस्य यज्ञस्वामिव्याख्याने – श्रामणकं नाम वैखानसशास्त्रम् । तदुक्तेन विधिनाग्निमाधाय’ इति । शुकानुशासने व्यासोऽपि –

‘मूलैरेक फलैरेके पुष्पैरेके दृढव्रताः । वर्तयन्ति यथान्यायं वैखानसमते स्थिताः’ ॥ इति

स्मृत्यन्तरमपि- यस्मिन्नेव तु सम्प्रोक्तं सूत्रे विखनसा परम् । वनस्थानान्तु सर्वेषां विधिश्रामणकाभिधः ॥

वानप्रस्थास्ततस्सर्वे ये द्विजास्त्वन्यसूत्रिणः । तत्सूत्रविध्यनुष्ठानात्स्मृता वैखानसास्तु ते’ ॥ इति च वर्णयन्ति ।

अतश्च वानप्रस्था मुख्यत्वेन वैखानसशब्दवाच्या न भवन्ति ।

आनुशासनिके च – तं पतन्तमभिप्रेक्ष्य प्रेक्ष्य चर्षिगणानथ । आसीनान वसुभिस्सार्धं सत्रेण जगतीपतेः ॥

वैखानसानामेतेषां वालखिल्यगणानपि । तस्य भीराविशत्तत्र पतगेन्द्रस्य भारत ॥ तुण्डेन गृह्य तां शाखामुत्पपात खगेश्वरः’ ॥ इति

तत्रैवोमामहेश्वरसंवादे- वैखानसानां वै धर्मं श्रोतुमिच्छामि धर्मतः इत्यारभ्य

तेषु वैखानसा नाम वानप्रस्थाश्शुभेक्षणे । तीव्रेण तपसा युक्ता दीप्तिमन्तस्सुतेजसः ॥ इति

हरिवंशे च अक्रूरागमनसमये- ‘शकपोत्राव्यया? मोदे प्रदोषेऽभ्याशतस्करे । किञ्चिदभ्युदिते सोमे शातितेषु तमस्सु च ॥ वन्यैर्वैखानसैर्मन्त्रैः हूयमाने हुताशने ॥ इति

पाद्मे च – ‘ब्राह्मणं वृद्धहारीतं वैखानसमते स्थित’ मिति च वर्णनात् रुक्तप्रकारेण वानप्रस्थस्य वैखानसत्वं वैखानससूत्रोक्तवानप्रस्थाश्रमस्वीकारादेवेत्यव- गन्तव्यम् । एतावता विखनश्शब्दार्थो निर्णीतः ।

आद्यहेतु निरूपणप्रकारः

अथ वैखानससूत्रशास्त्रयोः अखिलजगत्कारणभूतेन विखनसा प्रणीतत्वमुपपाद्यते ।

विष्णुधर्मे- कथयामि यथापूर्वं मत्पित्रा कथितं मम । तस्यापि किल तत्पित्रा तस्मै चाह किलोशनाः ॥

तेनापि भृगुमाराध्य प्राप्तमाराधनं हरेः । सकाशद्ब्रह्मणः प्राप्तं भृगुणाऽइ महात्मना ॥ प्राप्तं सकाशद्देवस्य ब्रह्मणोऽव्यक्तजन्मनः ॥ इति

हारीतस्मृतौ- पूर्वं विखनसे विष्णुः प्रोक्तवान् स्वयमच्युतः । भृगोः प्रोक्तं विखनसा भृगुणा च ममेरितम् ॥ इति

गारुडे- पुरा चतुर्मुखादेशाच्चत्वारो मुनयोऽमलाः! प्रणीय वैष्णवं शास्त्रं भूमावभ्यर्चयन्नृप ॥

मरीचिर्मन्दरे विष्णुमर्चयामास केशवम् । आदेशाद्ब्रह्मणो विष्णुं श्रीनिवासेऽत्रिरर्चयेत् ॥

कश्यपो विष्ण्वधिष्ठाने शुभक्षेत्रे भृगुर्मुनिः । गङ्गाया दक्षिणे तीरे सीम्नि तस्यात्निकेऽपि च ॥ तत्सन्धौ शुचिषण्णामा भृगुणा स्थापितो हरिः ॥ इति चोक्तम्

पाञ्चरात्रे- आद्ये कलियुगे प्राप्ते सोमकेन हृता त्रयी । अवैदिकेषु लोकेषु दैवतेषु मुनिष्वपि ॥

भगवन्तं समासाद्य नारायणमनामयम् । अनन्तो गरुडश्चैव विष्वक्सेनः पितामहः ॥

शङ्करश्चैव पञ्चैते पप्रच्छुः शरणं गताः । क्षंअमय्पच्युतस्यार्चां त्युक्तमेव न शक्नुमः ॥

अवैदिकेषु लोकेषु किं कुर्मश्चलमानसाः । तस्मादुपायं लक्ष्मीश वदास्माकं चिरन्तन ॥

इत्युक्तस्सहरिस्तेभ्यः पञ्चरात्रविधिं क्रमात् । एकैकरात्रमेकस्मै तन्त्रं समुपदिष्टवान् ॥ पञ्चलक्षप्रमाणेन पञ्चरात्रं प्रपञ्चितम्’ ॥ इत्युपक्रम्य

प्रथमं ब्रह्मरात्रन्तु द्वितीयं रुद्ररात्रकम् । तृतीयमिन्द्ररात्रं यच्चतुर्थं ग्रहरात्रकम् ॥

पञ्चमं मुनिरात्रन्तु मुनिरात्रन्तु पञ्चरात्रं विधीयते । रात्रिभिः पञ्चभिः प्रोक्तं श्रुतं शिष्यैश्च पञ्चभिः ॥ तस्मात्तत्पञ्चरात्राख्यां लब्ध्वा तिष्ठति भूतले’ ॥

इत्यन्तेन पाञ्चरात्रस्योत्पत्त्यादिकं निरूप्य परमवैदिकस्य श्रीवैखानसस्यओत्पत्त्यादिकं प्रतिपाद्यते ।

‘अथ मत्स्याकृतिः श्रीशः प्रविश्याम्बुधिमध्यमम् । निर्मथ्य सोमकं वेदानदात्पङ्कजयोनये ॥

तादृशं पुण्डरीकाक्षं स्तोत्रैस्सन्तोष्य पद्मभूः । उवाच वचनं प्रेम्णा दण्डावत्प्रणिपत्य च ॥

तान्त्रिकेण त्वया प्रोक्तं मार्गेण भवदर्चनम् । न प्रसीदति तेनास्मन्मनः कमललोचन ॥

वैदिकेन त्वदर्चां मे यथापुर्वं वदाच्युत’ । इत्युक्तो भगवान् देवःशास्त्रं श्रुतिपथाऽगतम् ॥

सहस्रकोटिभिः श्लोकैस्सङ्ख्यातम् बहुविस्तरम् । सूत्रमूलमनाद्यन्तं कल्पेकल्पे समाश्रितम् ॥

उवाच जगतां प्रीत्यै यज्ञानां पूरणाय च । मूलं सर्वागमानाञ्च पुराणानां तथैव च ॥

स्मृतीनां सर्वसूत्राणां प्रत्यङ्गोपाङ्गशोभिनाम् । वेदाश्च विखनश्शास्त्रं प्रमाणमिति चेरयन् ॥

यथा ‘वैखानसं पूर्वेऽहन् सामभवती’ ति च । ‘ये नखा’ भुवि सञ्जातास्ते वै वैखानसा’ इति ॥

श्रुत्युक्तं तदिदं शास्त्रं वैखानसमहार्णवम्’ । इत्युक्त्वा भगवानाद्यस्तत्रैवान्तरधीयत ॥

ततः परं चतुर्वाक्तो जटाकाषायदण्डभृत् । नैमिशारण्यमासाद्य द्विजसङ्घनिषेवितम् ॥

तपस्तप्त्वा चिरं कालं ध्यायस्तेजस्तु वैष्णवम् । पश्चादपश्यद्विष्णूक्तमागमं विस्तरात्तदा ॥

सश्रौतञ्च सगृह्यञ्च वेदमन्त्रैरभिष्टुतम् । सङ्क्षिप्य सारमादाय शाणोल्लिखितरत्नवत् ॥

धाता विखनसो नाम मरीच्यादिसुतान्मुनीन् । अबोधयदिदं शाश्त्रं सार्धकोटिप्रमाणतः ॥

कल्पेकल्पे पुरा विष्णुरुद्भूतः पूर्ववत्सदा । तस्माद्वैदिकमाचारं यः कर्तुं भुवि वाञ्छति ॥ तस्येदं शास्त्रमित्युक्तं नेतरेषामितीरितम् ॥ इति

पुरातन्त्रे सप्तचर्वारिंशेऽध्याये- ऋषय ऊचुः- वैखानसस्य सूत्रस्य किं माहात्म्यं महामुने । विहाय सर्वसूत्राणि यत्त्वया चानुवर्तितम् ॥

तत्सूत्रिणाञ्च माहात्म्यं श्रोतुमिच्छामहे वयम् । समूर्तस्यास्य यज्ञस्य ये योभ्याः इति कीर्तिताः’ ॥

भृगुः- ‘युष्माभिः परिपृष्टं यत् सम्यग्वक्ष्यामि सुव्रताः । शृण्वन्तु मुनयस्सर्वे सूत्रमाहात्म्यमुत्तमम् ॥

सुप्तोत्थितश्चिरं ब्रह्मा स्रष्टुकामः पुराऽभवत् । सस्मार वेदानखिलान् न सृष्टिस्सम्प्रवर्तते ॥

चिरं सुप्तस्य वै धातुस्तमसाऽऽक्रान्तचेतसः । विस्मृता निखिला वेदा हृदये तस्य संस्थिताः ॥

चिन्तातुरस्तदा ब्रह्मा नालङ्कर्तुं किमप्यभूत् । ततश्चिन्तान्तु तां त्युक्त्वा स्वस्थचित्तः प्रजापतिः ॥

हृत्पद्ममध्ये पुरुषं परमेण समाधिना । अर्चयामास वै विष्णुमृग्यजुस्सामरूपिणम् ॥

तुष्टाव च तदा ब्रह्मा हरिप्रवणमानसः । ननाम च तदा विष्णुं शङ्खचक्रगदाधरम् ॥

ब्रुवतो भगवद्ध्यानात् विनष्टतमसो विधेः । सत्त्वोद्रिक्तस्य तस्याशु नैर्मयं हृदयेऽभवत् ॥

ततस्तु भगवन् ब्रह्मा छन्दोमूलमवाप्तवान् । तस्य दक्षिणतो वक्त्रात् तुष्टाव जगतः पतिम् ॥

सस्मार विविधान् वेदान् साङ्गानुपनिषद्गणान् । पुराणन्यायमीमांसाधर्मशास्त्राणि सर्वशः ॥

अन्तर्हितानां खननाद्वेदानान्तु विशेषतः । स विभुः प्रोच्यते सर्वैर्विखना ब्रह्मवादिभिः ॥

वैखानसश्च भगवान् प्रोच्यते स पितामहः । ततस्ससर्ज भगवान् विश्वयोनिः पितामहः ॥

जगत्सर्वमशेषेण वेददृष्टेन वर्त्मना । प्राणाच्च चक्षुषस्तद्वदभिमानाच्च कर्मणः ॥

हृदयाच्छिरसश्श्रोत्रादुदानाद्व्यानतस्ततः । समानाच्च तथाऽपानादृष्टिश्रेश्ठानिमान् दश ॥

दक्षं मरीचिनं नीललोहितं भृगुमेव च । तथाऽढिरसमत्रिञ्च पुलस्त्यं पुलहं तथा ॥

वसिष्ठञ्च क्रतुञ्चैव क्रमादसृजदब्जभूः । नव ब्रह्माण एवैते विना स्युर्नीललोहितम् ॥

वेदानां व्यसनादर्वाक् प्राग्रूपं मिलितन्तु यत् । तान्तु वैखानसी शाखामादावध्यापयन्मुनीन् ॥

(नाम्ना विखनसं प्राहुर्यञ्च वैखानसं तथा । भृग्वाङिरोमरीच्यत्रिपुलस्त्यपुलहाः क्रतुः ॥

तथा वसिष्ठो दक्षश्च नव ब्रह्माण ईरिताः । नव ब्रह्माण एवैते विना स्युर्नीललोहितम् ॥)

एते विखनसशिशिष्याः श्रुतिस्मृतिविधानतः । तच्छिष्यास्तु महात्मनो मुनयस्तत्त्वदर्शिनः ॥

वेदानुगानि शास्त्राणि चक्रुर्लोकहितैषिणः । केचित्सूत्राणि वै चक्रुः गृह्यश्रौतात्मिकानि तु ॥

धर्मशास्त्राणि केचित्तु पुराणानि च केचन । इतिहासांस्तथा कल्पान् प्रोचुरन्ये महर्षयः ॥

तान्तु वैखानसीं शाखां स्वसूत्रे विनियुक्तवान् । पद्मभूह् परमो धाता तस्मिन्नाराधनत्रयम् ॥

तान्तु वैखानसीं शाखां व्यासस्तु भगवान् मुनिः । चक्रे ऋगादिभेदैस्तु व्यसित्वा तु पृथक् पृथक् ॥

औद्गात्रं सामभिर्यागे ब्राह्ममाथर्वणेन च । हौत्रमृग्भिर्यजुर्मन्त्रैराध्वर्यवमकारयत् ॥

आम्नायस्य विधिर्ब्राह्मः पञ्चकाण्डात्मिका तु सा । सा च वैखानसी शाखा तैत्तिरीया च कीर्तिता ॥

आदिकाले तु भगवान् ब्रह्मा तु विखाना मुनिः । यजुश्शाखानुसारेण चक्रे सूत्रं महत्तरम् ॥

वर्णाश्रमाचारयुतं श्रौतस्मार्तसमन्वितम् । यस्मिन्नेव तु सम्प्रोक्तं सूत्रे विखनसा परम् ॥

वनस्थानान्तु सर्वेषां विधिश्श्रामणकामधिः । ———- ये द्विजाश्चन्यसूत्रिणः ॥

तत्सूत्रविध्यनुष्ठानात्स्मृता वैखानसास्तु ते । यत्सूत्राद्यन्तमध्येषु भगवान् विष्णुरव्ययः ॥

यष्टव्यो गीयते यस्मात्सर्वसूत्रोत्तमन्तु तत् । वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः ॥

सर्वैस्स धर्मोऽनुष्ठेयो नात्र कार्या विचारणा । स्वसूत्रस्य परित्यागादन्यसूत्रस्य संश्रयात् ॥

सद्यः पतति वै विप्रो न वेदस्य समाश्रये । एतद्वैखानसं सूत्रमन्यशास्त्रानपेक्षितम् ॥

एतद्वैखानसं सूत्रं सर्ववेदार्थसङ्गृहम् । वैष्णवं सर्वविप्राणां सामान्यमभिधीयते ॥

वैखानसस्य सूत्रस्य चाग्नेः श्रामणकस्य च । नारायणस्य देवस्य माहात्म्यं नावबुद्ध्यते ॥

यथा वेदेषु सर्वेषु सामवेदः प्रशस्यते । तथा सूत्रेषु सर्वेषु सूत्रमेतत् प्रशस्यते ॥

अग्निर्वैखानसं शास्त्रं विष्णुर्वेदाश्च शाश्वताः । गायत्री वैष्णवा विप्रास्सप्तैतेऽतिपवित्रकाः ॥

यदधीतेषु वेदेषु साङ्गेषु लभते फलम् । तत्फलं लभते सद्यः सूत्रमेतत्पठन् द्विजः ॥

———————————————– । शारीराण्यन्यसूत्राणि तथा स्वर्गफलानि च ॥

वैष्णवं सूत्रमेत्तु सर्वसिद्धिकरं परम् । आद्यत्वात्सर्वसूत्राणां वैष्णवत्वाच्च तत्तु वै ॥

मयाऽनुवर्तितं तद्वत्कश्यपात्रिमरीचिभिः । गृहे पुरुषपूजाया विधानमृषिसत्तमाः ॥

उक्तं सङ्केपतः सूत्रे नोक्तमालयपूजनम् । प्रोक्तं विखनसा सूत्रे ऋषीणां ब्रह्मवादिनाम् ॥

तेषान्तु हविरादत्ते विष्णुस्साक्षात् सनातनः । शतक्रसूनां यजतो यत्फलं परिकीर्तितम् ॥

आलये पञ्चमूर्तीनामर्चनन्त्वधिकं भवेत् । आलयार्चा गृहार्चेति चोभयं श्रुतिचोदितम् ॥

तेनादौ सकलं नोक्तं ग्रन्थविस्तरभीरुणा । उक्तशेषमनुक्तञ्च विस्तरेण मयोच्यते ॥

विष्णुञ्च पुरुषं सत्यमच्युतञ्चानिरुद्धकम् । ‘एष पुरुषः पञ्चधा पञ्चात्मे’ त्याह च श्रुतिः ॥

अस्माभिरपि तत्सूत्रमतगामिभिरेव तु । पञ्चमूर्तिविधानेन शास्त्रमेतदुदाहृतम् ॥

तस्मादत्र मयोक्तस्य होमस्याम्यालयस्य च । पुण्याहवास्तुसामान्यहोमादीनाञ्च कर्मणाम् ॥

येऽन्ये च मन्त्रास्ते ग्राह्यास्सूत्रे विखनसा स्मृताः । आलयाचाविधिस्सोऽयं वैदिकस्सर्वसिद्धिदः ॥

सर्वलोकहितार्थाय प्रोक्तोऽस्माभिर्विशेषतः । आलयार्चनकर्मेदं वैदिक भगवत्प्रियम् ॥

अनुष्ठेयं द्विजश्रेष्ठैः तद्वैखानससूत्रिभिः । ये वैखानससूत्रेण संस्कृतास्तु द्विजातयः ॥

ते विष्णुसदृशा ज्ञेयाः सर्वेषामुत्तमोत्तमाः । वैखानसानां सर्वेषां गर्भवैष्णवजन्मनाम् ॥

नारायणः स्वयं गर्भे मुद्रां धारयते निजाम् । विप्रा वैखानसाख्या ये ते स्मृता भगवत्प्रियाः ॥

एकान्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजिनः । विष्णोः प्रियतमा लोके चत्वारः परिकिर्तिताः ॥

अश्वत्थः कपिला गावस्तुलसी विखनास्तथा । द्विजेषु ब्राह्मणाः श्रेष्ठाः ब्राह्मणेषु च वैष्णवाः ॥

वैष्णवेषु द्विजाः श्रेष्ठा ये वैखानससूत्रिणः । वैष्णर्वां प्रतिमां लोके विप्रं वैखानसं तथा ॥

गङ्गां विष्णुपदीम् दृष्ट्वा सर्वपापैः प्रमुच्यते । तस्माद्वैखानसा विप्रा वैष्णवा मुनिसत्तमाः ॥

आलयार्चनयोग्याश्चा योम्या नान्ये द्विजातयः । पुरा तु पृष्टवान् ब्रह्मा देवदेवं जनार्दनम् ॥

कथं केन प्रकाएण पूजनीयोऽसि कैरपि । इत्येवं भगवान् पृष्टः प्राह वै चतुराननम् ॥

आलयेत्वर्चनं स्यात्तु परिवारान्वितस्य मे । वैखानसैस्तु विप्रेन्द्रैरर्चनं मम तुष्टिदम् । अमूर्तञ्च समूर्तञ्च द्विधा वैदिकमुच्यते ॥

अमूर्तं गार्हपत्याद्यं समूर्तं बेरपूजनम् । यथा कर्मण एकस्य कल्पिताः पञ्च वह्नयः ॥

तथा चैकविमानस्य पञ्चबेराणि कल्पयेत् । ग्रामादावालये तस्माद्देवदेवो जनार्दनः ॥

अनेन विधिना पूज्यो विप्रैर्वैखानसैस्तथा । पूजा वैखानसैर्विप्रैरालये स्याद्विशेषतः ॥

सर्वसम्पत्करञ्चैव सर्वाशुभविनाशनम् । तद्ग्रामवासिनां तद्वदैहिकामुष्मिकप्रदम् ॥

वर्षदं पुष्टिदं श्रेष्ठं राजराष्ट्राभिवृद्धिदम् । कर्षणादिप्रतिष्ठार्चाप्रायश्चित्तावसानकम् ॥

अनुष्ठेयो विधिस्सोऽयं विप्रैर्वैखानसैस्ततः । अवैखानससूत्रैस्तु विप्रैराराधनं हरेः ॥

आलये सर्वलोकानां विनाशाय भविष्यति । अज्ञानादार्थलोभाद्वा भयाद्वाऽप्यालयार्चनम् ॥

यद्यवैखानसैर्विप्रैः क्रियते सर्वनाशनम् । यद्यवैखानसो विप्र आलयार्चनमाचरेत् ॥

षण्मासात्पतनं याति नरकञ्चैव गच्छति । अपि साङ्गचतुर्वेदी यद्यवैखानसो द्विजः ॥

आलये त्वर्चनं कुर्यात् सद्यः पतति देवलः । अवैखानसविप्रो यः पूजयेदालये हरिम् ॥

स वै देवलको नाम सर्वकर्मबहिष्कृतः । आलापं दर्शनञ्चैव स्पर्शनञ्च विशेषतः ॥

श्राद्धादौ वरणञ्चैव तस्य विप्रस्य वर्जयेत् । अवैखानससूत्रेण स्पृष्टे बिम्बे प्रमादतः ॥

स्नापयेत्कलशैर्देवं प्रोक्षयेत्पञ्चगव्यकैः । एवमेव तथा कुर्याद्विप्रैरन्यैः प्रपूजिते ॥

कलशैस्स्नापयित्वा तु ध्रुवोक्तं शुद्धिमाचरेत् । त्र्यहन्तु पूजिते तद्वद्वास्तुहोमं समाप्य च ॥

पर्यग्निपञ्चगव्याभ्यां महाशान्तिञ्च कारयेत् । अर्चने तु महाविष्णोस्सप्ताहन्तु विशेषतः ॥

महाशान्तिं यजित्वा तु शुद्धिं पुर्ववदाचरेत् । द्वादशाहं समारभ्य मासान्तन्तु विशेषतः ॥

अवैखानसपूजायां तन्त्रसङ्कर एव च । मासत्रयं च षण्मासमन्यविप्रैस्तु पूजने ॥

न तत्र बिम्बे सान्निध्यं देवदेवस्य शार्ङ्गिणः । तस्मात्तद्दोषशान्त्यर्थं महाशान्तेरनन्तरम् ॥

अधिवासत्रयं कृत्व प्रतिष्ठां पुनराचरेत् । संवत्सरे तु देवस्य विप्रैर्वैखानसेतरैः ॥

पूजाऽऽभिचारिकी प्रोक्ता तत्र सर्वं विनश्यति । तस्मात्तत्कर्षणाद्यञ्च निष्कृत्यन्तालयार्चनम् ॥

कारयेद्विधिवद्विद्वान् तद्वैखानससूत्रिभिः । तान्त्रिकार्चाविधौ चापि तान्त्रिकैरेव दीक्षितैः ॥

पूजनीयो हरिः सम्यक् विप्रैः नान्यैः कदाचन । अन्येन विधिना मन्त्रैरन्यैरन्यार्चकेन वा ॥

आलये त्वर्चनं स्याच्चेन्महादोषो भवेद्ध्रुवम् । तस्मात्तु वैदिके त्वस्मिन्नालयार्चाविधौ द्विजाः ॥

प्रतिष्ठादिषु सङ्ग्राह्याः प्रोक्ता वैखानसा द्विजाः । ब्रह्मापि भगवान् देवो हरिर्नारायणः स्मृतः ॥

नाविष्णुर्जायते विष्णुर्नाविष्णुर्विष्णुमर्चयेत् । सुप्रीतेनार्चकेनैव यदुक्तं देवसन्निधौ ॥

तद्देवेनैव सम्प्रोक्तं तथैव च भविष्यति । अर्चकं तोषयेद्विष्णुं यस्तोषयितुमिच्छति ॥

तुष्टेऽर्चके जगन्नाथस्तुष्ट एव न संशयः । स्वप्ने स्वरूपं भक्ताय प्रत्यक्षयति माधवः ॥

प्रवक्ति भगवान् विष्णुः सुखदुःकद्वय नृणाम् ॥ इति स्कान्दे- वैखानसीं महाशाखां स्वसूत्रे विनियुक्तवान् ॥

पद्मभूः परमो धाता तस्मिन्नाराधनत्रयम् । उक्तवान् निगमार्थानामाचारं प्रविभाघशः ॥ इति

ब्रह्मकैवर्तवचनानि पूर्वमेवोक्तानि । ननु ऋग्यजुस्सामाथर्वाण इति वेदानां लोके प्रसिद्धेः सर्वशाखामूलभूतो यजुर्वेद इति पूर्वोक्तं कथमुपपद्यते इति चेदुच्यते ।

श्रीविष्णुपुराणे वेदद्रुमस्य मैत्रेय शाखाभेदास्सहस्रशः । न शक्या विस्तराद्वकुत्ं सङ्क्षेपेण शृणुप्व तम् ॥

द्वापरे द्वापरे विष्णुर्व्यासरूपी महामुने । वेदमेकं सुबहुधा करोति जगतां हितः ॥

वीर्यं तेजोबलञ्चाल्पं मनुप्याणामवेक्ष्य च । हिताय सर्वभूतानां वेदभेदं करोति सः ॥

इत्यारभ्य- एक आसीद्यजुर्वेदस्तं चतुर्धाह्यकल्पयत् । चातुर्होत्रमभूद्यस्मिंस्तेन यज्ञमथाकरोत् ॥

आर्ध्वर्यवं यजुर्भिस्तु ऋग्मिर्हौत्रं तथा मुनिः । औद्गात्रं सामभिश्चक्रे ब्रह्मत्वञ्चाप्यथर्वभिः ॥

ततस्स ऋच उद्धृत्य ऋग्वेदं कृतवान्मुनिः । यजुर्भिश्च यजुर्वेदं सामवेदञ्च सामाभिः ॥

राज्ञान्त्वथर्ववेदेन सर्वकर्माणि स प्रभुः । काअयामास मैत्रेय ब्रह्मत्वञ्च यथास्थिति ॥

सोऽयमेको महान् वेदतरुस्तेन —- । चतुर्धा च ततो जातं वेदपादपकाननम् ॥

इत्यन्तेन स्पष्टं प्रतिपादितत्वात् यजुर्वेद एक एव प्रथममासीदित्यवगम्यते ॥

स च यजुर्वेदः – ‘बहुशृङ्गश्चतुस्सानुः पृथुलो वेदपर्वतः’, इत्यारभ्योक्तरीत्या वेदव्यासरूपिणा भगवता यदा व्यस्तः, ततः पूर्वमेकरूपेणावस्थितस्य तस्य वेदपर्वतस्य वैखानसशाखात्वप्रसिद्धिरासीदिति पुर्वमेव प्रतिपादितम् ॥

वैखानसानां श्रौष्ठ्यम्

प्रसङ्गात् वैखानसशाखामूलकत्वेन प्रणीतसूत्रानुष्ठातॄणां श्रेश्ठत्वमच्छिद्र पञ्चकालपरायणत्वादिकञ्च प्रतिपाद्यते ।

यथा सामब्राम्हणेः- वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन् इति

वाराहेः- ‘अश्वत्थः कपिला गावस्तुलसी विखनास्तथा । चत्वारो मत्प्रिया राजस्तेषां वैखानसो वरः ॥ इति

वृद्धयाज्ञवल्क्येः- वैखानसो वैदिकेषु ब्रह्मनिर्दिष्टमाचरेत् । तं ब्राह्मणन्तु दृष्टैव सर्वं पापं व्यपोहति ॥

वैष्णवीं प्रतिमां लोके विप्रं वैखानसं तथा । गङ्गा विष्णुपदीं दृष्ट्वा सर्वपापैः प्रमुच्यते ॥ इति

शान्तिपर्वणि- मन्त्रिणाञ्च सहस्रेभ्यो ब्रह्मचारी विशिष्यते । ब्रह्मचारिसहस्रेभ्यो नित्ययाजी विशिष्यते ॥

नित्ययाजिसहस्रेभ्यस्सोमयाजी विशिष्यते । सोमयाजिसहस्रेभ्यो वेदवेदान्तपारतः ॥

वेदान्तगसहस्रेभ्यो विष्णुभक्तो विशिष्यते । विष्णुभक्तसहस्रेभ्यो विप्रो वैखानसो वरः ॥ इति

ब्रह्मकैवर्तेः- निम्नगानां यथा गङ्गा देवानां भगवान् हरिः । वर्णानां ब्राह्मणः श्रेष्ठः आश्रमाणां यतिर्यथा ॥

श्रुतीनामादिभूतानां श्रुतिरेकायनी यथा । तस्यां निषद्यथा यस्यां निषण्णो भगवान् हरिः ॥

व्यूहानामादिभूतस्तु वासुदेवो यथा परः । त्रिमूर्तीनां यथा विष्णुः शिवानान्तु सदाशिवः ॥

धर्माणां वैष्णवो धर्मः स्मृतीनां मानवी स्मृतिः । विप्राणां वेदविदुषां यथा वैखानसो वरः ॥

यथा मुनीनां विखना आदिभूत उदाहृतः । सूत्राणां तत्प्रणीतन्तु यथा श्रेष्ठतमं स्मृतम् ॥

तथविद पुष्करो राजस्तीर्थानामुत्तमोत्तमः । इति

कौर्मेः- मञ्चित्ता मद्गतप्राणा मयि सङ्गतमानसाः ॥ अनन्यशरणा राजंस्तस्माद्रैखानसा वराः । इति

पुराणान्तरेः- यत्र वैखानसा विप्रा यत्र सन्ति गवां गणाः ॥

यत्र बिल्वाः पलाशाश्च तत्र सन्निहितो हरिः । इति

बृहन्नारदीये- जगत्पवित्रास्ते नित्यं विष्णुमभ्यर्चयन्ति ये ॥ दुर्वृत्ता वा सुवृत्ता वा पूजनीया विशेषतः । इति

हारीतेः- तस्मात्ते शुद्धसत्त्वस्थाश्शुद्धा वैखानसाः स्मृताः ॥ यान् लोकान् प्राप्नुवन्त्येते तान् पृणुष्व समाहितः । इति

पाञ्चरात्रे पौष्करेः-

विप्रा वैखानसाख्या ये ते भक्ता—त्वमुच्यते । एकान्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजिनः ॥

कर्तव्यमिति देवेशं संयेजन्ते फलं विना । प्राप्नुवन्ति च देहान्ते वासुदेवत्वमब्जज ॥ इति

गीतमीयेः- वैखानसाविधानज्ञस्तत्त्वात्मार्थव्यवस्थितः । सूक्ष्मात्सूक्ष्ममवाप्नोति परं ब्रह्माणमव्ययम् ॥ इति

आरण्यपर्वणिः – रमेशः । -यातञ्च सैन्धवारण्यं मुनिवृन्दनिषेवितम् । पिताभहसरः पुण्यं पुष्करं नाम भारत । वैखानसानां सिद्धानामृषीणामाश्रमं प्रियम् ॥ इति

अन्यत्रः- सैन्धवारण्यमासाद्य कुल्यां तां लोकदर्शनाम् । पुष्करेषु महाराज सर्वेषु च जल स्पृशन् ॥ त्यारभ्य

एतच्चन्द्रसरो नित्यमर्पयन्त्यृपयस्तथा । वैखानसप्रभृतयो वालखिल्यास्तथैव च ॥ इति

अन्यत्रः – गालवः । सर्वान् लोकान् प्रपश्यामि प्रसादात्तव सुव्रत । वैखानसानां जपतामेष शब्दो महात्मनाम् ॥ इति

गारुडेः- कौषीतकीनां होतॄणां ग्रामत्रयमकल्पयत् । अकल्पयञ्च त्रीन् ग्रामान् वैखानसमहात्मनाम् ॥ इति

पारमेश्वरे त्रयोदशाध्याये पवित्रविनियोगावसरेः- पूजयेदाप्तपूर्वाश्च यतिपूर्वांस्तपस्विनः । पञ्च वैखानसांश्चैव विप्रादीश्चतुरस्तथा ॥

पञ्च योगरताद्यांस्तु तथान्यान् वैष्णवान् द्विजान् । एकायनीयशाखोक्तिश्रोतॄणां प्रथमं ततः ॥ इति

नारदीये :- सात्त्विके तु सदाऽऽधिक्यं पूजनं मम नारद । विद्धि वैखानसे दत्तं दानं ब्रह्मविदस्तथा ॥ इति

वासिष्ठरामायणेः – कृताभिषेकस्सन्तुष्टस्सामात्यस्ससुहृज्जनः । पूजयामास धर्मात्मा रामो वैखानसान्मुनीन् ॥ इति

वैखानसानां पञ्चकालपरायणत्वम्

शाण्डिल्यस्मृतौः – ये पावयन्ति धरणीं चरणैः पाञ्चकालिकाः । दर्शनात् स्पर्शनात्तेषां कृतार्थास्सर्वजन्तवः ॥

इज्यामध्ये तथा होमे योगे च जपकर्मणि । आगतं पञ्चकालज्ञं सम्पूज्यैवाचयेत्परम् ॥

ये तोषयन्त्यविरतं पञ्चकालपरायणान् । सकामास्तत्फलं यान्ति निष्कामाः परमं पदम् ॥

सदाहिताग्नयो ये च शान्ताश्शूद्रान्नवर्जिताः । मामर्चयन्ति मद्भक्तास्तेभ्यो दत्तमिहाक्षयम् ॥

द्वादशाक्षरतत्त्वज्ञश्चतुर्व्यूहविभागवित् । अच्छिद्रपञ्चकालज्ञस्य विप्रस्तारयिष्यति’ ॥ इति

यथाः – द्वादशाक्षरतत्त्वज्ञ इति । द्वादशाक्षरतत्त्वानि । चिज्जीवः प्रकृतिर्बुद्धिर्मनस्सत्त्वादयो गुणाः ॥

व्योमाग्निमरुतश्चापो वर्णानां तत्त्वमीरितमित्युक्तानि ।

चतुर्व्यूहविभागवित् इति – पुरुषञ्च ततस्सत्यमच्युतञ्च युधिष्ठिर । अनिरुद्धञ्च मां प्राहुर्वैखानसविदो जनाः ॥

अन्ये त्वेवं विजानन्ति मां राजन् पाञ्चरात्रिकाः । वासुदेवञ्च राजेन्द्र सङ्कर्षणमथापि वा ॥

प्रद्युम्नञ्चानिरुद्धञ्च चतुर्मूर्तिं प्रचक्षते । एताश्चान्याश्च राजेण्द्र सञ्ज्ञामेदेन मूर्तयः ॥

विद्धि मेऽर्चान्तराण्येव मामेवञ्चार्चयेद्बुधः ॥

इत्याद्युक्तानां चतुर्णां व्यूहानां विभागावित् ।

एवं वैखानसे दैविकमानुषभेदेन वासुदेवो द्विविधः प्रतिपाद्यते । यथा- खिलेः – अथोर्ध्वं वासुदेवस्य मानुषस्य विधिं परम् । इत्यारभ्य ‘मानुष्यवपुषं देवं द्विभुजं शङ्खचक्रिणम् । इत्यादिना रुक्मिणीप्रद्युम्नानिरुद्धसाम्बब्रह्मगरुडादियुतं मानुषवासुदेवं निर्वर्ण्य पुनः –

दैविकं वासुदेवं तं प्रवक्ष्याम्यानुपृर्व्यशः । सोमच्छन्दविमानं वा बृहद्वृत्तमथापि वा ॥

चतुर्भुजधरं देवं शङ्खचक्रधरं परम् । अभयं दक्षिणं हस्तं वामं कट्यवलम्बितम् ॥

किरीटादिसमस्तैश्च भूषणैरपि भूषितम् । रक्ताम्बरधरं देवं दशतालेन मानतः ॥

उभॆ देव्यावुभे पार्श्वे पूर्ववत्काअयेद्बुधः । बलभद्रादिपूर्वोक्तं सायुध वा निरायुधम् ॥

तत्त्द्देवीसमायुक्तं विना वा सम्यगाचरेत् । रेवती रोहिणीचैव रमाचेन्दुकरीति च ॥

रक्तं नीलं तथा श्याम पीतवर्णं समाचरेत् । किरीटमकुटाद्युक्तास्सर्वाभरणभूषिताः ॥

एवं पुष्पधरं कुर्यादेकञ्चैव प्रसारितम् । देव्या युक्तं विनावापि द्विमार्गं सम्यगाचरेत् ॥

इत्यारभ्य – एवं दैविकमार्गन्तु स्थापनारम्भमाचरे’ दित्यादिना दैविकः वासुदेवः प्रदर्शितः ।

इत्थं वासुदेवादीनां दैविकमानुषभेदेन द्वैविध्यस्य, पुरुषं परमपुरुषं परमात्मानं परं ब्रह्माण मित्यादिना प्रतिपादितानां चतुर्णां पुरुषादीनाम् मूर्ति विभागस्य च श्रीवैखानसशास्त्रे प्रतिपादनात्, एतत्सर्वविभागज्ञ एव चतुर्व्यूहविभागविदित्यनेनोच्यते ।

अच्छिद्रपञ्चकालज्ञ इति

प्रातझ्ला;एऽभिगमनमुपादानं ततः परम् । मध्याह्न इज्यां कुर्वति स्वाध्यायञ्चापराह्णके । योगं सायाह्नकाले तु पञ्चकाला उदाहृताः ॥

इति वासाधिकारे प्रतिपादितपञ्चकालपरायणमधिकृत्यप्रवृत्तानि –

‘ये पावयन्ति धरणी ‘इज्यामध्ये तथाहोमे’ ‘ये तोषयन्त्यविरत । इति वचनानि, सामान्येन पञ्चकालपरायणस्य दर्शनस्पर्शनादिभिस्सर्वेषां पावनतां कृतार्थतां, इज्यायोगादिसमयेषु चागतस्य तस्य पूजानन्तरं शेषकर्माचरणञ्च प्रतिपादयन्ति । एतादृषः पञ्चकालपरायणः कीदृश इत्याकाङ्क्षायां ‘द्वादशाक्षर तत्त्वज्ञ’ इत्यादिना ‘अच्छिद्रपञ्चकालज्ञ’ इत्यन्तेन तल्लक्षणमुच्यते ।

ईदृशाच्छिद्रपञ्चकालपरायणा वैखानसा एव । वैखनसशास्त्र एव पञ्चकालविभागस्य प्रतिपादितत्वात् । स्वस्वसूत्रेऽनुक्तत्वादापस्तम्बीयादयस्तु न । पञ्चकालप्रतिपादनरहितसूत्रान्तरनिष्ठानां-

ब्राह्मे मुहूर्ते बुद्ध्येत धर्मार्थावनुचिन्तयन् इत्यारभ्य- द्वितीयेच तथा भागे वेदाभ्यासो विधीयते ॥

तृतीये च तथा भागे पोष्यवर्गार्थचिन्तनम् । भागे चतुर्थे कुर्वीत स्नानमम्भस्यकृत्रिमे ॥

पञ्चमे तु तथा भागे संविभागो यथाहतः । इतिहासपुराणाभ्यां शष्ठं सप्तममभ्यसेत् । अष्टमे लोकयात्राञ्च विचार्य च गृहीततः ॥

इत्यन्तेन दक्षादिस्मृत्यन्तरेषु ब्राह्मणजातेः सामान्येन तत्तत्कालेषु कर्तव्यत्वेन र्पतिपादितकर्माचरण एव यथायोग्यं योग्यतासम्भवात् ।

अन्यथा- विधर्मः परधर्मश्च आभास उप वा च्छालः । अधर्मशाखाः पञ्चेमा धर्मज्ञोऽधर्मवत्त्यजेत् ॥

धर्मबाधो विधर्मस्स्यात् परधर्मोऽन्यचोदितः । उपधर्मस्तु पाषण्डो दम्भोवाशसुभिंश्छलः ॥

यस्त्विच्छया कृतं पुभिराभासोह्याश्रमाद्बहिः ।

इति भागवतवचनोक्तपरधर्माश्रयणदोषप्रसङ्गः ।

श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥

इति भगवद्वचनविरोधश्च ।

किञ्च तत्सूत्रेषु द्वादशाक्षरतत्त्वादिप्रतिपादनमपि नास्ति । एवं ‘सति कुड्ये चित्रकर्मे’ ति न्यायेन यज्ञोपवीतधारणसन्ध्योपासन भगवदाराधनादिविधिप्रति-पादनरहितसूत्रान्तरनिष्ठानां, तथा श्रीमन्नारायणस्य समानत्वेन रुद्रादिदेवतान्तराराध-नविधिप्रतिपादकसूत्रनिष्ठानाञ्च चतुर्व्यूहविभागज्ञानासम्भवात् भगवदाराधनस्वरूपज्ञा-नाभावेन पञ्चकालपरायणत्वादिगन्धलेशोऽपि न सम्भवति । सूत्रान्तरोक्तमार्गेण वा पञ्चरात्रोक्तमार्गेण वा भगवदाराधनं कुर्वतोऽनधिकारिणो देवलकत्वं प्रतिपाद्यते ।

तथा हि- पञ्चरात्रे विष्वक्सेनसंहितायाम् नारदं प्रति विष्वक्सेनोक्तिः –

इदन्तु तव वक्ष्यामि गुह्याद्गुह्यतमं मुने । योऽसौ नारयणस्साक्षात्सहि विघ्नेश उच्यते ॥

यौ वै विघ्नेश इत्युक्तस्स वै नारायणः स्मृतः । नैव भेदं विजानन्ति मुनयस्तत्त्वदर्शिनः ॥ इत्यारभ्य-

कुर्यात्पाशाङ्कुशौ वापि शङ्खचक्रावथापि वा । आखुं वापि खगेन्द्रं वा तस्य वाहनमाचरेत् ॥

नारायणाशकत्वाञ्चाव्यावृत्तत्वान्महामुने । वीशस्तद्वाहनं प्रोक्त आखुं वापि समाचरेत् ॥ इति

तस्माच्छ्रियञ्च दुर्गाञ्च वाणीं विघ्नेशमेव च । स्वतन्त्रेणार्चयेद्धीमान् सर्वकार्यार्थसिद्धर्ये’ इत्यादि च दृश्यते ॥

देवतान्तराणां अङ्गमावेनाचनं न निषिद्ध्यते । ‘स्वतन्त्रबुद्ध्या कुर्वन्वै ब्राह्मणो नरकं व्रजेत्’ इत्यादिवचनैः अङ्गत्वेन विना स्वातन्त्र्येणाङ्गिव्यतिरिक्तदेव- तान्तराराधनं निषिद्ध्यते । तथाविधनिषिद्धदेवतान्तरार्चनप्रतिपादकशास्त्रनिष्ठस्य पञ्चकालपरायणत्वं न सम्भवति ।

यैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिमिर्नरैः । नृनं तत्र मतो देवो यथा तैर्वागुदीरितः ॥ इत्युक्ररीत्या

परमैकान्तित्वासम्भवे तद (पञ्चकालपरायणत्वा) सम्भवात् । परमैकान्तित्वञ्च भगवदेकपरत्वमेव । तच्च स्वातन्त्र्येणान्यदेवतायाजिनां वैखानसव्यति रिक्तानां हि न सम्भवति ।

अत्र ‘यैरिष्टः पञ्चकालज्ञै’ रित्यनेन पञ्चकालव्यतिरिक्तकालान्तरप्रति पादकशास्त्रनिष्ठानां व्यावृत्तिः । ‘एकान्तिभिर्नरै’ रित्यनेन-

विप्रा वैखानसाख्या ये ते भक्तास्तत्त्वमुच्यते । एकान्तिनस्सुसत्त्वस्था देहाण्तं नान्ययाजिनः ॥

इत्यादिपौष्करसंहितावचनानुसारेण स्वातन्त्र्येण दुर्गादिदेवतान्तरार्चनप्रति- पादकपाञ्चरात्रशास्त्रनिष्ठानां व्यावृत्तिः । ‘नृनमत्र मतो देव’ इत्यनेन-

यत्र वैखानसा विप्रा यत्र सन्ति गवां गणाः । यत्र बिल्वाः पलाशाश्च तत्र सन्निहितो हरिः ।

इत्यास्यार्थो ज्ञाप्यते इति ‘यै रिष्ट’ इति कृत्स्नमपि वचनं वैखानसपरमित्येवावगम्यते ।

ननु- ब्रह्माः- पञ्चकालविधिज्ञानप्राशस्त्यं भववन्निह । कथितं पञ्च के काला विधयश्चापि पञ्च के ॥

मह्यं जिज्ञासमानाय कथयस्व यथातथम् । न चेद्रहस्यमत्यन्तं यदहं पृष्टवानिह ॥

श्रीभगवान्-

आद्यं कर्माभिगमनमुपादानं ततः परम् । इज्या तपश्च स्वाध्यायस्तथा योगः प्रकीर्तितः ॥

पञ्चैतेविधयस्तेषां कालाः पञ्चैव ते क्रमात् । कल्याणाचरणान्तं यत्कर्मजातं चतुर्मुख॥

उत्थानादिक्रमादेतदभियानमुदीरितम् । ब्राह्मे मुहूर्ते बुध्येत ध्यायन्नारायणं परम् ॥

उत्थायासीत शयने कीर्तयन्नाम वैष्णवम् । क्रमेण सृष्ट्वा तत्त्वानि देहमुत्पाद्य तत्त्ववित् ॥

स्वस्य देहे षडङ्गानि मन्त्रमुच्चार्य मानसम् ।

इत्यादिना अभिगमनमुपक्रम्य

अञ्जनालेपनैस्स्रग्भिः वासोभिर्भूषणैस्तथा । अलक्तकरसाद्यैश्च ताम्बूलैर्मुखशोधनैः ॥

उपेतो मङ्गलैरन्यैर्नयेदभिगमक्रियाम् ।

इत्यभिगमनमुक्ता

उपादद्यात्ततः पूजासाधन्नानि यथातथम् । पुष्पाणि फलमूलानि विविधान्योषधीरपि ॥

दध्यादि च हविर्योग्यं तण्डुलादि गुडादि च । स्नानीयानि च वस्त्राणि स्वादूनि सलिलानि च ॥

दर्भान् पर्णानि समिधो यथाशक्ति यथावसु । आहृत्य याज्ञियान् दैवान् पूजास्थाने निवेशयेत् ॥

नीत्वोपादानसमयमित्थं तदनु पूजयेत् । इत्युपादानमुक्तम् । प्राप्ते मध्याह्नसमये स्नानं कुर्याद्यथाविधि ॥

इत्यारभ्यं

उत्तीर्यकर्म निखिलं मध्याह्नसमयोचितम् । कृत्वा यजेत देवेशं होमान्तं कमलासन ॥

इज्यायास्समयस्तस्याः कथितः कमलासन । इति भगवद्यजनमुक्ता मन्दिरे वा हरेर्नद्यास्तीरे वाऽमरभूमिषु । विविक्ते विपिने वापि पर्वते वा गृहेऽपि वा ॥

ऋचो यजूंषि सामानि विद्यमानान्यनेकधा । शाखाभेदैर्मूलशाखामेकायनसमाह्वयाम् ॥

त्रयीमयीमधीयीत सुखासीनस्समाहितः । इति स्वाध्यायमुक्ता ततः पश्चिमसन्ध्यायां प्राप्तायां तत्र चोदितम् ॥

जपहोमादिकं सर्वं कृत्वा परमपूरुषम् । अर्चयित्वा यथान्यायं यथापूर्वमशेषतः ॥

भुक्तान्नं विश्य शयने समुत्थाय महानिशि । आचम्य प्रयतो भूत्वा ध्यात्वा परमपूरुषम् ॥

योगासने समासीनो युञ्जीतात्मानमात्मना । यथोक्तेन प्रकारेण यथाशक्ति चतुर्मुख ॥

सहारक्रममाश्रित्य तत्त्वान्यात्मनि संहरेत् । आत्मानञ्चापि हृत्पद्मे परमात्मनि निष्ठिते ॥

संहरेदुत्थितो योगात् स्वापं क्लेशापहं व्रजेत् । इत्येपकथितो ब्रह्मन् योगः कालश्च पञ्चमः ॥

पञ्चैते समयाः पञ्चविधयस्तेषु दर्शिताः । इत्थमेतेषु कालेषु दर्शितैः कर्मभिर्नरः ॥

आराधनं भगवतः कुर्वन्नैवावसीदति । वर्षेषु द्वादशस्वेवमनुतिष्ठन् समाहितः ॥

क्रियाकलापमखिलं याति सायुज्यसम्पदम् । षट्सु वर्षेषु सारूप्यं सामीप्यं त्रिषु निश्चितम् ॥

सालोक्यं फलमेकस्मिन् वत्सरे नात्र संशयः ।

इति पाद्मे चर्यापादे त्रयोदशेऽध्याये अविच्छिन्नतया पञ्चकालानां प्रतिपादितत्वात् तेषामप्यच्छिद्रपञ्चकालपरायणत्वं सम्भवतीति चेत्-तदसत् ।

तत्रैव

पूत्यूषमर्धरात्रञ्च प्रातर्मध्यन्दिनानि च । पञ्चकाला इमे प्रोक्तास्ततः कालचतुष्टये ॥

एतेषु हीनाः प्रत्यूषं विज्ञेयाश्चतुरानन ।

इत्यभिगमनादीनामेकरूपेण विना न्यूनातिरिक्तकालत्वेनोक्तत्वात् ‘कालं मध्यन्दिनच्छिद्र पञ्चकालपरायणै’ रित्यागमसिद्धान्ते’ रित्यागमसिद्धान्ते ‘सान्तरालमनुष्ठानं पञ्चकालोदितं तथा’ इति तन्त्रसिद्धान्ते च छिद्रपञ्चकालपरत्वस्योक्तत्वात्, कालचतुष्टयप्रतिपादनेन नियतपञ्चकालपरायणत्वाभावात्, द्वादशवर्षमारभ्य एकवर्षपर्यन्तं परिमितपञ्च- कालपरत्वस्योक्तत्वात् द्वादशवर्षादूर्ध्वं पञ्चकालपरत्वाभावाच्च ।

तथा, मार्कण्डेये

महानिशा तु विज्ञेया रात्रेर्मध्यं द्वितीययोः तस्यां स्नानं न कुर्वीत सम्यगाचमनं तथा ॥

इत्याचमनस्य महानिशायां निषेधात् ।

यामद्वयं शयानस्तु ब्रह्मभूयाय कल्पते ।

इति धर्मशास्त्रोक्तनिद्राकाले योगस्यायुक्तत्वाच्च । योगकालस्याधरात्रिकत्वेस्वाध्याय-कालद्यवहितत्वेन छिद्रषाञ्चकालिकत्वापाताच्च ।

कालचतुष्ट्वस्यैवोक्तत्वेन अभिगमनादिष्वेकस्य लोपसम्भवेन अनियत-पञ्चकालपरस्य पञ्चकालपरायणशब्दाभिलापासम्भवाच्च ।

तथा-

क्लिश्यन्तीह सुषुप्तानामिन्द्रियाणि द्रवन्ति च । अङ्गानि समतां यान्ति उत्तमान्यधमैस्सह ॥

इति धर्मशास्त्रेषु प्रातरारभ्य सायङ्कालपर्यन्तमेव कर्माचरणकालत्वेन प्रतिपादनात् ।

तथा-

अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः । स्रवत्येव दिवारात्रं प्रातस्स्नानं विशोधनम् ॥

अस्नात्वा नाचरेत्कर्म जपहोमादि किञ्चन । स्नात्वाऽधिकारी भवति दैवे पित्र्ये च कर्मणि ॥

इति स्मृतेः स्नानात्पूर्वं तत्त्वसृष्टेरयुक्तत्वाच्च । प्रेतप्रायस्य संहृततत्त्वस्य स्वापयोम्यताऽसम्भवाच्च । तस्मात् ‘अब्भक्षो वायुभक्ष’ इत्यादिशब्दवदवधारणगर्भस्य पाञ्चकालिकशब्दस्य अनियतपरिमितपाञ्चकालिकेषु पाञ्चरात्रिकेषु प्रयोगासम्भवाद- नियतपरिमितछिद्रपाञ्चकालिकाः पाञ्चरात्रिणो न नियताछिद्रपञ्चकालपरायण-वैखानसतुल्या भवितुर्महन्तीति सिद्धम् ।

ननु-

यो देवं पूजयेद्विप्रो वित्तार्थी वत्सरत्रयम् । स वै देवलको नाम हव्यकव्यबहिष्कृतः ॥

इति देवतापूजकस्य देवलकत्वं सम्भवतीति चेत्-तदसत् । सामान्यतः देवताराधनं ये कुर्वन्ति ते देवलका इति वा? उत श्रुतिस्मृतीतिहासपुराणादिषु मुख्याधिकारित्वेन प्रतिपादिता अपीति वा? । सामान्यतः देवताराधनं ये कुर्वन्ति ते इति चेत् – तर्हि गृहदेवतापूजकानामपि देवलकत्वप्रसङ्गः । कित्ञ्च –

ब्रह्मचारी गृहस्थश्च विप्रो वैखानसस्तथा । कुर्वन्तो निजकर्माणि विष्णुमेव यज्जन्ति ते ॥

इति सन्ध्योपासनादीनां भगवदाराधनरूपत्वोक्त्या तेषाञ्च त्यागस्सम्भवति । अतस्सामान्यतः इति वक्तुमयुक्तम् । श्रुतिस्मृतिपुराणादिषु मुख्याधिकारित्वेन प्रतिपादिता देवलकाः इति चेत् – तदसत् । ‘अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता इति ब्राह्मणम् । तस्माद् गृहे परमं विष्णुं प्रतिष्ठाप्य सायम्प्रातर्होमान्तेऽर्चयति’ इति वैखानससूत्रे, ‘प्रवः पान्तमन्धसो धियायते महेशूराय विष्णवे चार्चत’ इति ऋग्ब्राह्मणमनुसृत्य विष्णुप्रधानतया ‘स वा एष पुरुषः पञ्चधा पञ्चात्मा’ इत्यादिश्रुत्यक्तविष्ण्वादिपञ्च मूर्तीनामाराधनस्य प्रतिपादितत्वात् ।

आ—‘कथं त्वमर्चनीयोऽसी’ त्यादेः वृद्धमनौ ‘वेदान्तवेदिभि’ रित्यादेश्चोक्तत्वात् ।

एवमेव पाञ्चरात्रशैवशिल्पज्योतिषादिषु उत्कृष्टमुख्याधिकारिप्रतिपादकानां वचनानां वैयथ्यप्रसङ्गात्तन्मूलभूतश्रुतिस्मृतिपुराणादीनामप्रमाण्यप्रसङ्गो दुष्परिहरः । एवञ्च प्रमाणभूतेषु श्रुति मृतिपुराणादिषु प्रतिपादितानामाचारादीनां त्यागः प्रसज्येत, निष्फलत्वात् । ननु परद्रव्योणालर्याचनं कुर्वतां देवलकत्वमिति चेत् न । श्रुतिस्मृतिपुराणादिषु तत्तच्छास्त्रेषु च आलायार्चकानां मुख्याधिकारित्वेन तद्द्रव्योपभोगार्हत्वेन च प्रतिपादनात् ।

यथा – मरीचिप्रोक्तायामानन्दसंहितायां विखनसोत्पत्त्यादिकं प्रतिपाद्य –

तथा त्वदनुजीवित्वे त्वद्द्रव्यानुभवे सति । यद्भवेद्दोष उत्पन्न इति चिन्ताकुलोऽस्म्यहम् ॥

इति भगवद्द्रव्योपजीवनदोषभीरोः विखनसः भगवन्तं प्रति प्रश्ने –

अथोवाच हृषीकेशो भीरुं तं मुनिसत्तमम् । वैखानसानां तद्दोषो नास्ति मत्कृतकर्मणाम् ॥

मद्द्रव्यं हव्यकव्यार्थे दानाभ्यागतपूजने । मुख्यमेवास्तु भवतां सदा मत्कर्म कुर्वताम् ॥

किमेभिर्बहुमिर्वाक्यैरन्यत्ते कथयाम्यहम् । मद्द्रव्यक्षेत्रबिम्बानामालयानां तथाऽऽपदि ॥

विक्रीणनादिकार्येषु नास्ति दोषो मदाज्ञया । तस्माद्भवानभिमतस्सर्वं कर्मम् सदा कुरु ॥

मदीयधनभोगेन मत्क्रियालोपतस्तव । मच्छरीरतया सत्यमपचारो न विद्यते ॥

इति भगवद्वचनोदाहरणेन भगवद्द्रव्योपभोगादिषु दोषाभावः प्रतिपादितः ।

अत्र ‘अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज’ इत्यादिवचनानुसारे- नार्चकपराधीनतां दर्शयितुं, भगवत्प्रीतिविषयीकृतानां वैखानसानां तद्द्रव्योपभोगादिषु दोषगन्धो नास्तीति प्रतिपादनावसरे ‘मद्द्रयं क्षेत्रबिम्बा’ दीत्यादिना कौमुतिकन्यायमभिप्रेत्य भगवद्विग्रहविक्रये कृतेऽपि दोषो नास्तीत्युच्यते । तावता न तदभिप्रेतम् ।

नन्वेवमपि देवद्रव्योपमोगदोषस्सामान्यतः मुख्यामुख्याधिकारिषु सर्वेष्वापद्यते एव इति चेत् न ।

ये भक्षयन्ति मांसानि सत्त्वानां जीवितैषिणाम् । भक्ष्यन्ते तेऽपि तैस्सर्वैरिति ब्रह्माऽब्रवीत्स्वयम् ॥

मां स भक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥

न हि मांसं तृणात्कष्ठादुपलाद्वापि जायते । हत्वा जन्तुं भवेन्मांसं तस्मात्तत् परिवर्जयेत् ॥

हन्ता चैवानुमन्ता च विशस्ता क्रयविक्रयी । संस्कर्ता चोपकर्ता च खादकश्चाष्ट घातुकाः ॥

धनेन क्रायको हन्ति खादकश्चोपभोगतः । घातुको वधबन्धाभ्यामित्येष त्रिविधो वधः ॥

स्वमांसं परमांसेन यो वर्धयितुमिच्छति । नारदः प्राह धर्मात्मा नरके स विपच्यते ॥

इत्यादिवचनैः मांसभक्षणेन नरकपतनस्मरणात् भगवत्प्रीत्यर्थं क्रियमाणेषु यज्ञेष्वपि मांसभक्षणसत्त्वात् याज्ञिकानामपि नरकपतनं सम्भवतीति याघस्यापि त्यागप्रसङ्गात् ।

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥

इति भगवद्वचनात् शास्त्रोक्तानां कर्मणां दोषो नास्तीति चेत् । ‘मद्द्रव्योपभोगादौ दोषो नास्तीति’ भगवता प्रतिपादित्त्वात् प्रकृतेऽपि दोषो नास्त्येव । ‘वचनात् प्रवृत्तिर्वचनान्निवृत्ति’ रिति खलु शिष्टोक्तिः । एवं कुत्रचिद्धर्मोऽधर्मः अधर्मश्च धर्मो भवति ।

यथा –

उक्तेऽनृते भावेत्किञ्चिप्राणिनां प्राणरक्षणम् । अनृतं तत्र सत्यं स्यात् सत्यमत्रानृतं भवेत् ॥

कामिनीषु विवाहेषु गवां पीडासु बाधने । ब्राह्मणाभ्यवपतौ च शपथे नास्ति पातकम् ॥ इति

‘यद्ब्राह्मणश्चाब्राह्मणश्च प्रश्नमेयातां ब्राह्मणायाधिब्रूयात् यद्ब्राह्मणायाध्या-त्मनेऽध्याह यद्ब्राह्मणं पराहाऽऽत्मानं पराह तस्माद्ब्राह्मणो न परोच्यः इति श्रुतिश्च ।

श्रौतसूत्रे च – ‘सर्व एवमभिवादयन्ति नाभिवादयति न जुहोत्यन्यत्र सोमोङ्गेभ्यः’ इत्यादि प्रतिपाद्यते ।

सर्वस्वहरणे भार्यावेश्ययोः प्राणसंशये । गोद्विजार्थे विवादे च शपथे नास्ति पातकम् ॥

इत्यादिस्मृतिश्च ।

एवं च शास्त्रोक्तप्रकारेण भगवदर्चनं कुर्वतां तद्द्रव्योपभोगे न दोषः ।

किञ्च – किं देवलकत्वं जातिपरम्, उत कर्मपरम्? जातिपरमिति वक्तुं न शक्यते । तथाऽनुक्तत्वात् । इच्छया कल्पितुमशक्यत्वाच्च ।

अथ कर्मपरमिति चेत् । विहितकर्मपरम्, उत अविहितकर्मपरम्? विहितकर्मपरमिति वक्तुमश्क्यम् – श्रुतिस्मृतीतिहाससूत्रपुराणादीनामप्रमाण्यप्रसङ्गात् । विहितधर्मपरत्वेनानुक्तत्वात् ।

श्रुतिस्मृती ममैवाज्ञा यस्तामुल्लङ्घ्य वर्तते । आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपिन वैष्णवः ॥

इति भगवदाज्ञाभङ्गदोषाच्च । एवं च अविहितकर्मपरमिति हि परिशिष्यते ।

ननु – परद्रव्येण कृतं भगवदाराधनं क्रतुवत् परार्थमेव भवतीति चेत् मैवम् ।

अन्यधर्मपरो विप्रो भ्रष्टो गच्छत्यधोगतिम् । मत्कर्मनिरतो विप्रो नाधः पततिकुत्रचित् ॥

इति भगवद्वचनात् ।

पुराणान्तरे- स्वस्मिन्नर्पितमात्रेण येन केनापि कर्मणा । तुष्टो ददाति स्वपदमहो वत्सलता हरेः ॥ इति

किञ्च- एकविंशतिनिष्कन्तु दद्यादाचार्यदक्षिणाम् । ऋग्विजान्तु तदर्धं स्यात्तदर्धमितरस्य च ॥

इति दक्षिणादानं प्रतिपाद्यते ।

ननु- ‘प्रतिग्रहेण विप्रस्य ब्राह्मं तेजो विनश्यति’ इतिमनुवचनात् ‘प्रतिग्रहेण तेजोहि विप्राणां शाम्यते’ इत्यानुशासनिकवचनाच्च प्रतिग्रहेण ब्रह्मतेजोनाशनं स्मर्यते । श्रूयते प्रतिग्रहे प्रायश्चित्त-पि । ‘यो याजयति प्रति वा गृह्णाति याजयित्वा प्रतिगृह्य वाऽनश्नंस्त्रिस्स्वाध्यायमधीयीत त्रिरात्रं सावित्री गायत्रीमन्वतिरेचयति वरो दक्षिणा वाऽनश्नंस्त्रिस्स्वाध्यायमधीयीत त्रिरात्रं सावित्री गायत्रीमन्वतिरेचयति वरो दक्षिणा वरेणैव वरं म्पृणोत्यात्मा हि वरः’ इति । अतः प्रतिग्रहे दोषोऽस्तीति चेत् – न ।

त्रायन्ते खलु नात्यन्तमन्यधर्मास्स्वनुष्ठिताः । अपि मत्कर्म विगुणं त्रायते महतो भयात् ॥

मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः । केशवं वदियमासाद्य दुर्व्याधिरिव नश्यति ॥

निधिस्थानं खनन् द्वेषात् मृदर्थं वाऽप्नुथान्निधिम् । अज्ञः कामाच्च दोषाञ्च स्मृत्वैवं मोक्षभाक्तथा ॥

द्वेषिणा वाऽप्रयत्नेन क्षिप्तोऽग्निः कक्षमादहेत् । कथमभ्यर्चितो विष्णुः न दहेत् सर्वकिल्बिषम् ॥

यथाऽज्ञोवज्रकायस्स्यात् स्पर्धन्नपि सुधां पिबन् । एवं विरुद्धभावोऽपि मुच्यत्येव हरिं स्मरन् ॥ इति ।

नारदीये-

कृताऽपि दम्भहास्याद्यैर्यत्सेवा तारयेज्जनान् । विफला नान्यकर्मेव कृपालुः कोऽन्वतः परम् ॥

हास्यानादरमायाभिरपि भक्तिः कृता त्वयि । नृणां ददातीन्द्रपदं सात्त्विकानां किमुच्यते ॥

वस्तुस्वभाव एवैष यन्मोक्षाय हरिस्मृतिः । पूषेव ध्वान्तनाशाय शीतशान्त्यै यथाऽनलः ॥

सैषा हरिस्मृतिर्दैत्यं क्रोधादपिकृता सती । आनयेत्सद्गतिं विप्रं सानुगं किमु वर्ण्यते ॥

यथाऽमृतार्थं यततां सुराणामब्धिमन्थने । पारिजातादिकान्यासन् फलान्यप्रार्थितान्यपि ॥

एवं मोक्षैकचित्तानां यततामीशसंस्मृतौ । भवन्ति सिद्धयो दिव्याः पुण्यं पुण्यानुबण्धि यत् ॥ इत्यादि ।

तत्रैव-

सुरातिथ्यर्चनकृते गुरुभृत्यर्थमेव च । सर्वतः प्रतिगृह्णीयात् न तु दुष्येत्स्वयं ततः ॥

इति च स्मरणात् । अतः शास्त्रोक्तमार्गेण भगवद्यजनविधौ प्रवृत्तानां तत्तत्कर्मसु दक्षिणाप्रतिग्रहे कृतेऽपि न दोषः ।

गृहार्चनाव्यतिरेकेणालयार्चना भारतादिषु प्रतिपादिता दृश्यते । यथा- महाभारते आश्वमेधिके- ‘कथं त्वमर्चनीयोऽसी’ त्यादि ।

विष्णुधर्मोत्तरे षष्ठेऽध्याये –

यस्तु देवगृहस्यार्थं प्राकारं परिकल्पयेत् । स तु स्वर्गं समासाद्य विमानाधिपतिर्भवेत् ॥

यस्तु देवालयस्याग्रे शिलादारुभिरेव वा । करोति तोरणं रम्यं स तु स्वर्गाधिपो भवेत् ॥

यस्तु देवालयं विष्णोर्दारुशैलमृदा तथा । इष्टकाकल्पितं वापि कुर्यात्तस्य फलं बहु ॥

अहन्यहन्यश्वमेधसहस्राणि करोति यः । प्राप्नोति मण्डपं विष्णोः यः कारयति मानवः ॥

केशवस्य स तल्लोकमक्षय्यं प्रतिपद्यते । प्रतिमार्थं महाविष्णोस्साधयेदुत्तमां शिलाम् ॥ षष्टिर्वर्षसहस्राणि स्वर्गलोके महीयते ॥ इति ।

एतेषां च प्राकारतोरणमण्डपविग्रहशिलादीनां गृहदेवतास्वसम्भवः श्रीवैखानसस्संहितासु प्रतिपादितः ।

प्रसङ्गादर्चकमहिमादीह कथ्यते ।

बृहन्नारवीये- ‘स कदाचिन्महापापो जन्तुनामन्तकोपमः ।

इत्यारभ्य-

तस्योपवनमध्यस्थं रम्यं केशवम दरम् । छादितं हेमकवचैः दृष्ट्वा व्याधो मुदा ययौ ॥

हराम्यत्र सुवर्णानि बहूनीति स निश्चितः । जगाम विष्णुभवनं कीनाशश्चौर्यलोलुपः ॥

तत्रापश्यद्द्विजवरं शान्तं तत्त्वार्थकोविदम् । परिचर्यापरं विष्णोरुदङ्कं तपसां निधिम् ॥

एकान्तिन दयाल्लुञ्च निस्स्पृहं ध्यानलोलुपम् । दृष्ट्वा तं लुब्धको मेने स्वकार्यस्यान्तरायिनम् ॥

देवस्य द्रव्यजातन्तु समादातुमना निशि ।

इत्यादिना पृथगालयार्चकसद्भावादिकं उक्त्वा स्वकार्यान्तरायभूतार्चकहिंसायां प्रवृत्तस्य तस्य मरणमपि प्रतिपाद्य-

उदङ्कः पतितं प्रेक्ष्य लुब्धकन्तु दयापरः । विष्णुपादोदकेनैनमभ्यषिञ्चन्महामुनिः ॥

हरिपादोदकस्पर्शाल्लुब्धको वीतकल्मषः । दिव्यं विमानमारुह्य मुनिमेनमथाब्रवीत् ॥

इति भगवत्पादोदकमाहात्म्यं च प्रतिपादितम् ।

इति भगवत्पादोदकमाहात्म्यं च प्रतिपादितम् ।

तत्रैव- यज्ञध्वजवीतिहोत्रसंवादे-

स कदाचित्तु कामान्धो रन्तुकामः परिस्त्रियम् । शून्यं पूजादिभिर्विष्णॊर्मन्दिरं प्राप्तवान् निशि ॥

तत्र कामापभोगार्थं शयितुं तेन कामिना । स्ववस्त्रप्रान्ततो ब्रह्मन्! कृतं तद्देशमार्जनम् ॥

यावन्तः पांसुकणिकाः तेन सम्मार्जितास्तदा । तावज्जन्मकृतं पापं तदैव क्षयमागतम् ॥

प्रदीपः स्थापितस्तत्र सुरतार्थं द्विजोत्तम! । तेनापि तस्य दुष्कर्म निश्शेषं क्षयमागतम् ॥

अवशेनापि यत्कर्म कृत्वेमां सिद्धिमागतः । भक्तिमद्भिः प्रशान्तैश्च किं पुनस्सम्यगर्चनात् ॥

तस्माच्छ्रुणुत विप्रेन्द्राः! देवो नारायणोऽव्ययः । ज्ञानतोऽज्ञानतो वापि पूजकानां विमुक्तिदः ॥ इति ।

तथा तत्रैव – इन्द्रसुधर्मसंवादे ।

अहमासं पुरा शक्र! गृध्रः पापावशेषतः । स्थितश्च भूमिभागे वै अमेध्यामिषभोजनः ॥

अहमासं पुरा शक्र! गृध्रः पापावशेषतः । स्थितश्च भूमिभागे वै अमेध्यामिषभोजनः ॥

एकदाऽहं विष्णुगृहे प्राकारे संस्थितः प्रभोः । पतितो व्याधशस्त्रेण सायं विष्णुगृहं गते ॥

मयि कण्ठगतप्राणे कश्चित् श्चा मांसलोलुपः । जग्राह मां स्ववक्त्रेण श्वभिरन्यैरभिद्रुतः ॥

गतः प्रदक्षिणाकारं विष्णोस्तन्मन्दिरं प्रभोः । तेनैव तुष्टिमापन्नः अन्तरात्मा जगन्मयः ॥

मम चापि शुनश्चापि दत्तवान् परमं पदम् । प्रदक्षिणाकारतया गतस्य सदृशं फलम् ॥

सम्प्राप्तं तु मया शक्र! किं पुनस्सम्यगर्चनात् । येऽर्चयन्ति सदा भक्त्या नारायणमनमयम् । तानर्चयन्ति विबुधा ब्रह्माद्या देवतागणाः ॥ इति

एवं आश्वमेधिके- लोके त्रीण्यपवित्राणि पञ्चमेध्यानि भारत । श्वा च शूद्रश्वपाकश्च त्र्यपवित्राणि पाण्डव ॥

देवलः कक्कुटो यूपः उदक्या वृषलीपतिः । पञ्चामेध्यानि ॥ इति

श्रीवैखानसे-

सूतादिप्रतिलोमाश्च पाषण्डाः पतितास्तथा । नास्तिका भिन्नमर्यादास्तथा वेदविदूषकः ॥

पापरोगयुताश्चैव तथैव गुरुनिन्दकाः । अर्चनं देवदेवस्य हविर्दानञ्च वीक्षितुम् ॥

नार्हन्ति तस्मातुकुर्वीत द्वारं यवनिकावृतम् ।

इति प्रतिपादनात् भगवदर्चनदर्शनादिषु योग्यतारहितानां निकृष्टानां (देवलकानां) औत्कृष्ट्यं न सम्भवति ।

श्रुतिस्मृतिपुराणादिषूक्तप्रकाएण कल्पसूत्रे येषामद्वारकभगवद्यजनाधिकारो विधीयते ते उत्कृष्टा ज्ञेयाः । यथा श्रुतिः- ‘यथा क्रतुरस्मिन् लोके भवति तथेतः प्रेत्य भवति’ इति ।

‘वेदोक्तेनैव मार्गेण सर्वभूतहृदि स्थितम् । मामर्चयन्ति ये भक्तारस्सायुज्यं यान्ति ते मम ॥

तस्माद्यावज्जनो जीवेत् ताअत्सम्पूजयेद्धरिम् । पापैर्न लिप्यते मर्त्यो हरिमन्दिरमाप्नुयात् ॥

जगत्पवित्रास्ते नित्यं विष्णुमभ्यर्चयन्ति ये । दुर्वृत्ता वा सुवृत्ता वा पूजनीया विशेषतः ॥ इति

व्यासेनपि आनुशासनिके (९० अध्याये) देवलकानामपात्रतां सत्कर्मनिष्ठानां पात्रताञ्च प्रतिपाद्य स्ववचनदृढीकरणार्थं ‘वैखानसा वा ऋष्य इन्द्रस्य प्रिया आसन्’ इति भगवत्प्रीतिविषयाणां वैखानसानां वचनमपि श्रूयत इति प्रतिपादितम् । यथाः –

ऋषीणां समयं नित्यं रक्षन्ति युधिष्ठिर । निश्चितास्सर्वधर्मज्ञास्तान् देवा ब्राह्मणान् विदुः ॥

स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च । तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत ॥

कव्यानि ज्ञानिष्ठेभ्यः प्रतिष्ठाप्यानि भारत । तत्र ये ब्राह्मणान् केचिन्न च निन्दन्ति ते वराः ॥

ये तु निन्दन्ति जल्पेषु न तान् श्राद्धेषु भोजयेत् । ब्राह्मणा निन्दिता राजन् हन्युस्त्रिपुरुषं कुलम् ॥

वैखानसानां वचनमृषीणां श्रूयते नृप । दूरादेव परीक्षेत ब्राह्मणान् वेदपारगान् ॥

प्रियो वा यदि वा द्वेष्यः तेषु तच्छ्राद्धमावपेत् । यस्सहस्रं सहस्राणां भॊजयेदनृचां नरः ॥

एकस्तान्मन्त्रवित्पूतः सर्वमर्हति भारत ॥ इति

एवं अष्टाक्षर द्वादशाक्षर पुरुषसूख्तादिमन्त्रजपनिष्ठानां दर्शनेन ब्रह्महाऽपि शुद्ध्यतीति पुराणेषुक्तम् । यथा

पद्मपुराणे- साङ्गं समन्त्रं सन्यासं सर्षिच्छन्दोधिदैवतम् । सदीक्षाविधि सध्यानं सयन्त्रं द्वादशाक्षरम् ॥

साष्टाक्षरञ्च मन्त्रेशं ये जपन्ति नरोत्तमाः । तान् दृष्ट्वा ब्रह्महा शुद्ध्येत् किं पुनर्वैष्णवस्स्वयम् ॥ इति

श्रूयतेपि । ‘यो हवै नारायणस्याष्टाक्षरं पदमध्येति अनुपब्रुवस्सर्वमायुरेति विन्दते प्राजापत्यं रायस्पोषां गौपत्यं ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति’ ।

श्रीपाञ्चरात्रे – कपिञ्जलसंहितायाम् याजनाध्यापनयुतः शिष्यानुग्रहकारकः । आचार्य इति विज्ञेयो मन्त्रतन्त्रपरायणः ॥

आश्रमे वा वने वाऽपि स वैखानस उच्यते । ग्राम्यधर्माणि सर्वाणि वर्जयेद्वनवासकः ॥ इति

यमस्मृतौ- योऽनुचानं द्विजं मर्त्यो हतवानर्थलोभतः । स वदेत्पौरुषं सूक्तं जलस्थश्चिन्तयेद्धरिम् ॥

इति केवलाष्टाक्षरमन्त्रजपनिष्ठानामप्येवं विधाः प्रभावाः श्रूयन्त इति चेत् श्रुतिस्मृतिविहितैस्तैरेव मन्त्रैः अद्वारकभगवदर्चने मुख्याधिकारिणां वैखानसानं कौमुतिकन्यायसिद्धमौत्कृष्ट्यं केनापोदितुं शक्यम् ।

किञ्च – यथा वैखानसानामुत्पत्त्यादिकं श्रुतिस्मृतिपुराणादिषु विशेषेण प्रतिपादितं तथा इतरेषां विशेषेण प्रतिपादितञ्चेत् तदा वैखानससाभ्यमितरेषां स्यात् । तथा न दृश्यते हि ।

अथ वस्तुतो देवलका निरूप्यन्ते ।

वैखानसे- अवैखानसविप्रो यः पूजयेदालये हरिम् । स वै देवलको नाम हव्यकव्यबहिष्कृतः ॥

वैखानसकुले जातः पाञ्चरात्रेण दीक्षितः । न दीक्षितो न सञ्जातो लोभान्मोहान्मदर्चनम् ॥

कुर्याच्चेत्तु विशेषेण भवेद्देवलकस्तु सः ।

पाञ्चरात्रे सङ्कर्षणसंहितायाम्-

कर्मदेवलकाः केचित् कल्पदेवलकाः परे । शुद्धदेवलकाश्चान्ये त्रिधा देवलकाः स्मृताः ॥

अर्थार्थी कालनिर्देशी यो देवं पूजयेत्स हि । कर्मदेवलको नाम सर्वकर्मबहिष्कृतः ॥

पाञ्चरात्रविधानज्ञो दीक्षाविरहितोऽर्चकः । चतुर्वेदाधिकारोऽपि कल्पदेवलकः स्मृतः ॥

आगमोक्तविधानज्ञो भद्रकाल्युजीवकः । शुद्धदेवलकः प्रोक्तः सर्वकर्मबहिष्कृतः ॥

आर्षोक्तेन विधानेन देवलत्वं न विद्यते । तस्मात् सर्वप्रयत्नेन वैदिकेनैव पूजयेत् ॥ इति

शिवशेखरतन्त्रेः – रुद्रः- अथ देवलकान् वक्ष्ये शृणु देवि! समाहिता । कर्मदेवलकाः केचित् कल्पदेवलकाः परे ॥

शुद्धदेवलकास्त्वन्ये त्रिधा देवलकास्मृताः । अन्यसूत्रोक्तमार्गेण यस्संवत्सरपूजकः ॥

अदीक्षितः स्वयं तन्त्रे कर्मदेवलकस्तु सः । अनेनैव प्रकारेण वत्सरत्रयपूजकः ।

कल्पदेववलकः प्रोक्तः स वै शैलसुते! ध्रुवम् ॥

अननुज्ञातमाचार्यात् आगमं शुश्रुवे च यः । शीलतः तस्य शिष्यश्च शुद्धदेवलकावुभौ ॥

त्रिधा देवलकत्वं तु न विष्णुविषये क्वचित् । रुद्रकाल्यादिविषयमेतदागससम्मतम् ॥ इति

स्मृत्यन्तरेः –

शर्वं सूर्यं तथा चन्द्रं दुर्गादी रुद्रदेवताः । योर्चयेत् पणपूर्वं सः सद्यः पतति मानवः ॥

दुर्गा च भद्रकाली च बुद्धश्च क्षेत्रपालकः । पञ्चपूजा च इत्येते पञ्च देवलकाः स्मृताः ॥

आदित्यमम्बिकां विष्णुं गणनाथं महेश्वरम् । गृहे पूजा च इत्येते पञ्चदेवलकाः स्मृताः (?) ॥ इति

विष्णुषर्मोत्तरे- चण्डिकायाश्च दुर्गाया ज्येष्ठाया भैरवस्य च । रुद्रस्य पूजका ये वै ते वै देवलकाः स्मृताः ॥ इति

विष्णुः- देवाचनपरो योऽपि परार्थं वित्तकाङ्क्षया । चतुर्वेदधरो विप्रः स चण्डालसमो भवे दिति ॥

एवमेभिर्वचनैः शास्त्राननुमतमार्गेण पूजकानां देवतान्तरपूजकानामेव च देवलकत्वं सिद्ध्यतीति स्फुटमवगम्यते ।

किञ्च- वृषो धर्मस्सामाख्यतः तस्य यः कुरुते लयम् । वृषलं तं विदुर्देवा निकृष्टं श्चपचादपि ॥

इति वृषलशब्दो यथा वेदशास्त्रोक्तमार्गलयकारके व्युत्पादितः, तथा देवलकशब्दोऽपि ‘दिव् क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगति, ष्विति धात्वर्थानुसारेण गत्यपरपर्यायमार्गार्थकदिव्धातुघटितस्सन् वेदोक्तमागलयप्रापके व्युत्प्दयितुं शक्यते इति तत्प्रतीपेषु वेदमार्गप्रतिष्ठापकेषु वैखानसेषु न सर्वात्मना प्रवर्तते । तथा च –

हारीतः- वैखानसास्तु ये विप्रा हरिपूजनतत्पराः । न ते देवलकाः प्रोक्ता विष्णुपादाब्जसंश्रयात् ॥ इति

स्मृत्यर्थेसारे- अत्रिः – ‘वैदिकेनैव विधिना दम्भलोभविवर्जितः । ‘पूजयेद्भक्तितो विष्णुं स हि देवलको न वै ॥ इति

अन्यथा श्रुत्युक्तमार्गेणालयार्चकानामपि देवलकत्वे तादृशालयार्चनप्रतिपादकानां श्रुतिस्मृतिपुराणादिवचनानां व्यर्थता स्यात् ।

ननु – अज्ञानतः कृतमपि भगवदाराधनमपवर्गप्रदञ्चेत्-विना शास्त्रं अनधिकारिणापि कृतं तत् अपवर्गप्रदं किं न स्यादिति चेत् – न । भगवदाज्ञाभङ्गापत्तेः ।

यथोवतं भगवता- यश्शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ इति

श्रुतिस्मृती ममैवाज्ञा यस्तामुल्लघ्य वर्तते । आज्ञाच्छेदी मम द्रॊही मद्भक्तोऽपि न वैष्णवः ॥ इति

मम चापि प्रियं विष्णोर्देवदेवस्य शार्ङ्गिणः । मानुषो वैदिकाचारं मनसाऽपि न लङ्घयेत् ॥ इति

अतः अनधिकारिणा कृतं शास्त्रासम्मतमिति तन्त्रोक्तप्रकारेण कृतमपि तत् नापवर्गप्रदम् ।

ननु – ब्राह्मणैः क्षत्रियैः वैश्यैः शूद्रैश्च कृतलक्षणैः । अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः ॥

सात्त्वतं विधिमास्थाय गीतः सङ्गर्षणेन यः ।

इति शूद्रादीनामपिपाञ्चरात्रोक्तमार्गेणाचने अधिकारे सिद्धे कथं तान्त्रि-कोक्तप्रकारेणाचनं कुर्वतः ब्राह्मणादेः (अनधिकारिणः) तत् अपवर्गप्रदं न भवतीत्युच्यत इति चेदुच्यते ।

प्रथमं मन्त्रसिद्धान्तं द्वितीयञ्चागमह्वयम् । तृतीयं तन्त्रसिद्धान्तं तन्त्रान्तरमतः परम् ॥

इति चतुर्विधेषु सिद्धान्तेषु-

एकत्र दीक्षितस्तन्त्रे सिद्धान्ते वा द्विजोत्तम । क्रियां न कुर्यादन्यत्र कर्षणादि चतुर्मुख ॥

आचार्यकमथार्त्विज्यं पूजाञ्च मधुविद्विषः । मन्त्रे देवे च सिद्धान्ते तदेवास्य हि युज्यते ॥

इति चतुर्विधतन्त्रेषु एकत्र दीक्षितस्य तन्त्रान्तरेप्रवेशयोम्यताभावस्य प्रतिपादनात् ।

एकगोत्रसमुत्पन्नं पञ्चगॊत्रं पृथक् पृथक् । इत्यारभ्य सूत्रं कात्यायनं शाखा याजुषं शुक्लमेव च ॥

औपगायनशाण्डिल्यौ भारद्वाजोऽथ गौतमः । मौञ्जायनिस्तु पञ्चैते पाञ्चराट्राधिकारिणः ॥

इत्यधिकारिभेदस्य विधीयमानत्वात् ।

चतुर्णामपि वर्णानामितरेषाञ्च तद्भुवाम् । दीक्षा समैव सर्वेषामाचारस्तन्त्रवर्त्मना ॥

इत्यापस्तम्बादिसूत्रैः संस्कृतस्य पाञ्चरात्रोक्तमार्गेण निषेकादिसंस्कारयोग्यताभाव- कथनात् । तान्त्रिकोक्तप्रकारेण दीक्षितानामेव तन्त्रोक्तार्चनायामधिकारित्व सम्भवात् ।

स्वसूत्रे वर्तमॆने तु परसूत्रेण वर्तते । अप्रमाणमृषिं कृत्वा सोऽन्धे तमसिमज्जति ॥

स्वकीयधर्ममुत्सृज्य परधर्मं य आश्रयेत् । पतितस्स भवेदाशु सद्य एव न संशयः ॥

स्वसूत्रस्य परित्यागात् परसूत्रसमाश्रयात् । सद्यः पतति वै विप्रो न वेदस्य समाश्रये ॥

शाखां शिखां तथा पुण्ड्रं समयाचारमेव च । पूर्वैराचरितं कुर्यादन्यथा पतितो भवेत् ॥

यत्स्वशाखां परित्यज्य परशाखासु वर्तते । शाखारण्डस्स विज्ञेयस्सर्वकर्मबहिष्कृतः ॥

यस्स्वर्धर्मं परित्यज्य परधर्मं निषेवते । पाषाण्डिनं तमाहुर्वै निकृष्टं श्वपचादपि ॥ इति

भगवान्– श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनिष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ इति

व्यासः- - स्वधर्मं यस्समुत्सृज्य परधरं समाश्रयेत् । अनापदि स विद्वद्भिः पतितः परिकीर्तितः ॥

इत्यादिभिश्च वचनैः परधर्मानुष्ठात्तुः पतितत्वादिस्मरणाच्च अन्यसूत्रोक्तप्रकारेण तान्त्रिकोक्तेन मार्गेण वा बाह्यणादिभिरपि अनधिकारिभिः भगवदाराधनं कर्तुं न शक्यते । तर्हि ‘ब्राह्मणैः क्षत्रियैर्वैज्यैः’ इत्यादिभारतवचनस्य का गतिरिति चेत् – उच्यते । माधवाः – मुख्यत्वेन अद्वारकभगवद्यजनाधिकारित्वेन निरूपितिः ब्राह्मणैः पूजनीयः । इतरैः क्षत्रियैर्वैश्यैश्चार्चन्नीयः । शूद्रैः स्त्रीमिश्च यथार्हमिज्यस्सेव्यश्च इति तस्य वचनस्यार्थः ।

……………………………………… शूद्रैः स्त्रीभिस्तथेतरैः । यथार्हमिज्यस्सेव्यश्च नित्यं सर्वेश्वरो हरिः ॥

इति भारद्वाजवचनात्, ‘अर्ध्यान्तमर्चनं प्रोक्तं हविरन्तञ्च पूजन’ मित्यर्चनपूजनयोः भिन्नार्थकत्वप्रतिपादनात्, सर्वैरेकरीत्या पूजनेऽभिमते एकपदस्यैव पर्याप्तत्वात् इतरयोः पदयोर्वैर्थ्यापाताञ्च । अन्यथा शूद्रस्यापि पूजार्चनादिष्वधिकाराङ्गीकारे श्रुतिस्मृतिसूत्रपुराणादिविरोधो भवेत् ।

शूद्रस्यानधिकारप्रतिपादकानि वचनानि चैतानि । श्रुतिः । ‘तस्माच्छूद्रो यज्ञेऽनवक्लृप्तः । स हि देवता अन्वसृजत तस्माच्छूद्रो बहुपशुरयज्ञीयो दैव’ इति ।

स्मृतिः – जपस्तपस्तीर्थसेवा प्रवज्या मन्त्रसाधनम् । देवताराधनञ्चैव स्त्रीशूद्रपतितानि षट् ॥ इति

श्रीभागवते - शुश्रूषणं द्विजगवां देवानाञ्चाप्यमायया । तत्र लब्धेन सन्तोषः शूद्रप्रकृतयस्त्विमाः ॥ इति

मनौ – ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् । वैश्यस्य तु तपो वार्ता तपश्शूद्रस्य सेवन’ मिति ॥

अन्यत्र – यदि शूद्रस्तपः कुर्याद्वेददृष्टेन वर्त्मना । इह चास्य परिक्लेशः प्रेत्य चास्याऽशुभा गतिः ॥ इति ।

किमर्थं शूद्रस्य द्विजशुश्रूषा सर्वदा अभिहितेति चेत् – उच्यते । जन्मान्तरीयकर्मवशात् जननकालेऽपि तमोगुणैरभिभूतस्य तस्य शूद्रस्य तमोनिरसनार्थं द्विजशुश्रूषणम् ब्रह्मणा प्रयुक्तम् ।

आश्वमेधिके – उदिते सवितर्यस्य क्रियायुक्तस्य धीमतः । चतुर्वेदधरस्यापि देहे षड्वृषलाः स्थिताः ॥

क्षत्रिये सप्त विज्ञेया वैश्येत्वष्टौ प्रकीर्तिताः । नियताः पाण्डवश्रेष्ठ शूद्रेऽष्टाविंशतिः खलु ॥ इत्यारम्य-

रागद्वेषौ च माहेश्च पारुष्यञ्च नृशंसता । शाठ्यञ्च दीर्घवैरञ्च अतिमानमनार्जवम् ॥

अनृतञ्चापवादश्च पैशुन्यमतिलोभता । हिंसा स्तेयं मृषावादो वञ्चना रोषलोभते ॥

अबुद्धता च नास्तिक्यं भयमालस्यमेव च । अशौचञ्चाकृतज्ञत्वं दम्भता स्तम्भ एव च ॥

निष्कृतेश्चाप्यविज्ञानं जनने शूद्रमाविशन् । दृष्ट्वा पितामहः शूद्रमभिभूतन्तु तामसैः ॥

द्विजशुश्रूषणम् धर्मं शूद्राणान्तु प्रयुक्तवान् । नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः ॥ इति

अतः तमोगुणाभिभूतस्य शूद्रस्य भगवद्यजनाधिकारो नास्त्येव ।

नन्वेषां शौनकाद्युक्तप्रकारेण भगवदाराधनेऽधिकारो भवेदिति चेत्तदसत् । तत्र अधिकारिविशेषप्रतिपादनाभावात्; सामान्येनोक्तत्वेऽपि श्रुतिस्मृतिसूत्रपुराणमहाभारत- वैखानसपाञ्चरात्रशैवशिल्पज्योतिषादिषु अधिकारिणां विशिष्य प्रतिपादितत्वात् सर्वशाखाप्रत्ययन्यायेन सामान्यविशेषन्यायेन ‘मत्प्रकरणाधीतं सर्वे मदर्थ’ मिति न्यायेन प्रकरणसाम्येन, उपास्यदेवतैक्यात् गुणोपसंहारन्यायेन च शौनकादिभिरुत्काचनाविधेरपि अत्रैव पर्यवसान युक्तम् ॥ 

इतरसूत्रिणां कथमिति चेत् _ स्वाश्रमधर्माचरणनैव भगवदाराधनफलं सिद्ध्यति । यथोच्यते – 

स्मृतिषु – ‘बृह्वल्पं वा स्वगृह्योक्तं यस्य कर्म प्रचोदितम् । तस्य तावति शास्त्रार्थे कृते सर्वं कृतं भवेत् ॥ इत्

श्रीविष्णुपुराणे – वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ इति

तथाऽन्यत्र – वर्णाश्रमेषु ये दह्र्माः शास्त्रोक्ता मुनिसत्तम । तेषु तिष्ठन्नरो विष्णुमाराधयति नान्यथा ॥

ये यजन्ति पितॄन् देवान् ब्राह्मणांश्च हुताशनम् । सर्वभूतान्तरात्मानं विष्णुमेव यजन्ते ते ॥ इति

पुराणान्तरे – अग्निकार्यं जपं स्नानं तपस्स्वाध्यायमेव च । तमेवोद्दिश्य देवेशं कुरु नित्यमतन्द्रितः ॥

प्रातरुत्थाय विधिवत् स्नात्वा नित्यं समाहितः । यजेत कर्मभिस्तैस्तैः विष्णुं देवादिसञ्ज्ञितम् ॥ इति

शाण्डिल्यः – प्रवृत्तैश्च निवृत्तैश्च स्वर्गदैर्मोक्षदैरपि । आराध्यो भगवानेव वेदधर्मैस्सनातनैः ॥

स एव सर्वथोपास्यो नान्यस्संसारतारकः । उभाभ्यां ज्ञानकर्मभ्यामाराध्यो भगवान् हरिः ॥ इति

शान्तिपर्वणि- स्वयम्भूविहितो धर्मो यो यस्य हि नरेश्वर । स तेन क्षपयेत्पापं सम्यगाचरितेन हि ॥ इति ।

पाद्मे- धर्मान् निजांश्च शास्त्रोक्तान् वर्णधर्मानशेषतः । पालयन्तीह ये वैश्या न ते यान्ति यमालयम् ॥ इति

स्मृत्यन्तरे – श्रुतिस्मृतिसदाचाअविहितं कर्म यस्सदा । स्वस्वधर्मं प्रयत्नेन श्रेयोऽर्थीह समाश्रयेत् ॥ इति

‘नान्यः पन्था विद्यतेऽयनाये’ ति ‘ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’ इति च श्रुतिरिममर्थं द्रढयति । 

अतः अद्वारकभगवद्यजनाधिकारिटिः श्रीमद्वैखानससूत्रिभिस्साम्यं केषाञ्चिदपि नोपपद्यते इति कृतं पल्लवितेन । एतावता ‘अखिलजगत्काअणभूतेन विखनसा प्रणितत्वात्’ इति प्रथमो हेतुः निरूपितः ॥ 

इति प्रथमहेतुनिरूपणम् ।