००

श्रीवेङ्कटेशमखिलेशमनन्तमाद्यम् कारुण्यवारिधिमशेषसुरैस्सुवन्द्यम् । वन्दे समस्तजगतां स्थितिसृष्टिहेतुं मान्यान् गुरूंश्च शतशो भृगुकश्यपादीन् ॥

श्रुतिस्मृतिनदीपूर्णं शास्त्रकल्लोलसङुलम् । विष्णुभक्त्युदकं शुद्धं वन्दे वैखानसार्णवम् ॥

येनान्यकलृप्तसूत्राणां नेत्रं निस्तिमिरीकृतम् । सूत्रं वैखानसं ह्येतत् चतुर्वर्गफलप्रदम् ॥

श्रुतिस्मृतीतिहासाद्यैः प्रतिपादितवैभवाम् । परमात्मपरां वन्दे सूत्रोपनिषदं पराम् ॥

श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना । श्रीवेङ्कटेशपादाब्जसपर्यासु रतात्मना ॥

श्रुतिस्मृतिपुराणादिसिद्धमार्गानुवर्तिना । पूर्वचार्यपरिक्षुण्णसम्प्रदायानुयायिना ॥

वेदान्ताचार्यवर्येण श्रीनिवासार्ययज्वना । वैखानसस्य सूत्रस्य व्याख्या सम्यक् प्रकाश्यते ॥

अथ सत्यत्वादिसमस्तकल्यणगुणविशिष्टात् परब्रह्मणः श्रीमन्नारायणादुत्पन्नेन विखनश्शब्दवाच्येन चतुर्मुखब्रह्मणा प्रणीतस्य वैखानससूत्रस्य सर्वसूत्रॊत्तमत्वे तत्सूत्रोक्तधर्मानुष्ठातणां सर्वोत्कृष्टतमत्वे च दशविधहेतुवो निरूप्यन्ते यथा –

अखिलजगत्कारणभूतेन विखनसा पर्णीतत्वात् । सर्वसूत्राणामादित्वात् । सर्वकर्मसु श्रुतिमार्गानुसारित्वात् । समन्त्रकसर्वक्रियाप्रतिपादकत्वात् । निषेक-सङ्कारादिमत्वात् । अष्टादशशाईरसंस्काअप्रतिपादकत्वात् । साङ्गक्रियाकलापवत्त्वात् । मन्वाद्यैः स्वीकृतत्वात् । अखिलजगदेककारणभूतश्रीमन्नारायणैकपरत्वात् । एतत्सूत्रोक्तधर्मानुष्ठानवतामेव भगवत्प्रियतमत्वोपत्तेश्च’ इति ।

एभिर्हेतुभिः अस्य सूत्रस्य सर्वसूत्रॊत्तमत्वं एतत्सूत्रोक्तधर्मानुष्ठानादेव वैखानसानां सर्वेभ्यः श्रेष्ठतमत्वञ्च श्रुतिस्मृतिपुराणादिमुखेन प्रतिपाद्यते ।