१० भगवत्प्रियतमत्वम्

दशम-हेतु-निरूपणम्

वैखानसानां भगवत्प्रियतमत्वम्

अथास्य श्री-वैखानस-सूत्रस्य शीमन्नारायणैकपरत्वाद् तत्सूत्रानुष्ठानवताम् एव भगवत्प्रियतमत्वम् उपपद्यत इति प्रतिपादनाय “भगवत्प्रियतमत्वोपपत्तेर्” इति दशमहेतुर् निरूप्यते।
छन्दोगब्राह्मणे- “वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन्”1 इति। अत्र इन्द्रशब्दः परमात्मपर इति पूर्वम् एवोक्तम्।
वाराहे-

“अश्वत्थः कपिला गावः
तुलसी विखनास् तथा ।2
चत्वारो मत्प्रिया राजन्
तेषां वैखानसो वरः ॥3 [वराह-पुराणम्]
यत्र वैखानसा विप्रा
यत्र सन्ति गवां गणाः ।
यत्र बिल्वाः पलाशाश् च
तत्र सन्निहितो हरिः ॥4

इति [वराह-पुराणम्]

कौर्मे- “मच्चिता मद्गतप्राणा मयि सङ्गतमानसाः ।
अनन्यशरणा राजन् तस्माद् वैखानसा वराः ॥5” [कूर्म-पुराणम् ]
पाञ्चरात्रे पौष्करे- “विप्रा वैखानसाख्या ये ते भक्तास् तत्त्वम् उच्यते ॥6 [पौष्करसंहिता ३६.२६०च्द्]
एकन्तिनः7 सुसत्वस्था देहान्तं नान्ययाजिनः ।
कर्तव्यम् इति देवेशं संयजन्ते फलं विना ॥8 [पौष्करसंहिता ३६.२६१]
प्राप्नुवन्ति च देहान्ते वासुदेवत्वम् अब्जज ॥9 [पौष्करसंहिता ३६.२६२अब्]

देवार्चनपराणां श्रैष्ठ्यम्

बृहन्नारदीये-

देवार्चनपरा ये च
ये च तत्-साधका नराः ।
पूजां दृष्ट्वानुमोदन्ते
ते वै भागवतोत्तमाः
यस् तु +++(स्व-)+++भोगतया विष्णोः
सत्कृत्यं कुरुते सदा ।
स भवेत् परमैकान्ती
महाभागवतोत्तमः ॥
य ऐकान्त्य-गता विष्णौ
भगवत्य् आत्म-भावने ।
ते वैष्णवा भागवतास्
सन्त इत्य् अपि कीर्तिताः ॥
मन्मानसाश् च मद्भक्ता
मम पूजासु लोलुपाः ।
मत्कथाश्रवणे सक्तास्
ते वै भागवताः स्मृताः ॥”

इति।

विष्णुनिवेदितान्नादेः भोज्यत्वम्

“ये ऽर्चयन्ति नरा भक्त्या नारायणम् अनामयम् ।
तान् अर्चयन्ति विबुधा ब्रह्माद्या देवतागणाः ॥10
मयि भक्तिपरो यस् तु मद्याजी मत्परायणः ।
मद्ध्यानी स्वकुलं सर्वं नयत्य् अच्युतरूपताम् ॥
ये ऽर्चयन्ति सदा विष्णुं न ते प्राकृतमानुषाः ।
विष्णुलोकात् समुत्पन्नास् ते देवा नात्र संशयः ॥ [आनन्द-संहिता १४.५८]
नाविष्णुर् जयते विष्णुर् नाविष्णुर् विष्णुम् अर्चयेत्11
रूपद्वयं हरेः प्रोक्तं बिम्बम् अर्चक एव च ॥ [क्र ३६.५९च्द्]
बिम्बे त्व् आवाहनाद् ऊर्ध्वं सदा सन्निहितो ऽर्चके । [क्र ३६.६०अब्]
अर्चकस् तु प्रसन्नात्मा हरिर् एव न संशयः ॥
कलिः कृतयुगस् तेषां क्लेशाश् चैव सुखावहाः ।
येषां शरीरम् अनिशं हरिशुश्रूषणे रतम् ॥” इति
भागवते- “सा वाग् अनन्तरस्य12 गुणान् गृणीते करौ च तत्कर्मकरौ मनश् च ।
स्मरेद् वसन्तं स्थिरजङ्गमेषु श्रुणोति तत्पुण्यकथास् स कर्णः ॥13
शिरश् च तस्याङ्घ्रिषु नम्रमाणं तम् एव यः पश्यति तद्धि चक्षुः ।
अङ्गानि विष्णोर् अथ तज्जनानां पादोदकं यानि वहन्ति नित्यम् ॥14 [भागवतपुराणम् १०.८०.४]
हृदि रूपं मुखे नाम नैवेद्यम् उदरे हरेः ।
पादोदकञ् च निर्माल्यं यस्य मूर्ध्नि स वैष्णवः ॥” इति [भागवतपुराणम् ]

श्रुतिर् अपि- “तद् अस्य प्रियम् अभिपाथो अश्याम् नरो यत्र देवयवो मदन्ति उरुक्रमस्य स हि बन्धुर् इत्था विष्णोः पदे परमे मध्व उत्सः” इति। अस्यार्थः- विष्णोः ऽप्रियऽं; तत्पाथः निवेदितम् अन्नादिकम् ऽअभ्यश्याम्ऽ। ऽदेवयवो नराःऽ; देवाराधकाः ऽयत्र मदन्तिऽ; यस्मिन् निवेदिततीर्थप्रसादादिके स्वीकृते ऽमदन्तिऽ; हृष्टा भवन्ति। यद्वा- ब्रह्मादीन् अपि न गणयन्ति। ऽइत्थाऽ; इत्थं प्रतिदिनं वर्तमानः ऽउरुक्रमस्य विष्णोर् बन्धुःऽ; जात्येकवचनम्। स एवातीवाभिमतः ऽपरमेऽ; सर्वोत्कृष्टे ऽमध्वेऽ; मधुवत् भोग्यतमे विष्णोः पदे ऽउत्सऽ; उत्सुकः। यद्वा उत्कृष्टः।
श्रुत्यन्तरे- “विष्णुनाशितम् अश्नन्ति विष्णुना पीतं पिबन्ति विष्णुन घ्रातं जिघ्रन्ति विष्णुना रसितं रसयन्ति तस्माद् विद्वांसो विष्णूपहृतं भक्षयेयुः” इति।
भागवते- “त्वयोपभुक्तस्रग्गन्ध वासो ऽलङ्कारचर्चिताः ।
उच्छिष्टभोजिनो दासास् तव मायां तरेमहि ॥15” इति [भागवतपुराणम् ११.६.४६]
हारीत- “कृपादत्तं हस्तगतं विष्णुभुक्तोज्झितन्तु यत् ।
उपवासछलान्नात्ति तेन भुक्तं सुरोपमम् ॥” इति
भृगु- “हविः कृत्वा चतुर्भागम् ऊर्ध्वभागौ निवेदयेत् ।
अधस्ताद् एकभागेन होम बलिम् अथाचरेत् ॥
यदंशं पात्रसंशिष्टं पूजकायैव निर्मितम् ।
अग्निकार्यावशिष्टञ् च बलिशिष्टञ् च यद् धविः ।
सर्वं तत्पूजकायैव प्रोक्तम् एवं मनीषिभिः ॥” इति
यज्ञाधिकारे भृगु- “आत्मनश् च चतुर्थांशं वैश्वदेवार्थम् अर्चकः ।
आदाय वैश्वदेवान्ते शिष्टान्नं भोजयेत् पुनः ॥ [य्।अ ]
बलिशेषं होमशेषं वैश्वदेवे विशेषतः ।
गृह्णीयाद् वैश्वदेवार्थं भोजनार्थञ् च ऋत्विजः ॥” इति [य ]
काश्यप- “सर्वहविः पात्रेषु शिष्टम् अन्नं सर्वं भगवन्निवेदितम् अपूपादिकञ् च पूजका गृह्णीयुः। यथा गुरोर् उच्छिष्टं पुत्रशिष्यभृत्यानां भोज्यम्। तथा सर्वस्य रक्षितुः सौम्यमूर्ते सर्वव्यापिनो विष्णोः जगद्गुरोर् निवेदितम् अन्नाद्यं विश्वं चतुर्वर्णानां भक्तिमतां सर्वेषां भोज्यम्, अभक्तिमताम् अभोज्यम्” इति।
श्रीपाञ्चरात्रे ईश्वरसंहितायां समाराधनाध्याये
स्कन्द- “त्वया निषेध आख्यातो मन्त्रदत्तस्य वस्तुनः ।
सर्वस्य पत्रपुष्पान्न पूर्वस्य परमेश्वर ॥ [ईश्वरसंहिता ]

अर्चावतारस्य सकल-लोकोज्जीवनार्थता

तस्येदानीं प्रदानञ् च प्राशनञ् च प्रशंससि ।
किम् एतद् अत्र मे जातस् संशयः परमेश्वर ॥ [ईश्वरसंहिता ]
ईश्वर-प्रदानं प्राशनं पुत्र उपभोग्यत्वम् एव च ।
शैवे पाशुपते दृष्टम् अचिराद् एव पापकृत् ॥
तत्पुनर् वैष्णवे मार्गे वर्तते व्यत्ययेन तु ।
अनन्तफलदं दानात् प्राशानात् कोष्टशुद्धिकृत् ॥” इति [ईश्वरसंहिता ]
तत्रैव देवतार्चने- “कर्षं नयति पापानि पुण्यवृद्धिं करोति च ।
दानैर् धर्मैः तथा पुण्यैस् तपोभिश् च न तत्फलम् ॥ [ईश्वरसंहिता ]
भगवद्भक्तिपूतानां यत्फलं प्रापणादनात् ॥” इति [ईश्वरसंहिता ]
अन्यत्र- “सत्सङ्गदेवार्चनसत्कथासु परोपदेशे च रतो मनुष्यः ।
स याति विष्णोः परमं पदं यद्देहावसाने ऽच्युततुल्यतेजाः ॥” इति
अन्यत्र- “नारायणैकनिष्ठा ये सात्त्विकास् तान् निबोधत ।
पुरुषा राजसाश् चैव नानादैवतयाजिनः ॥
बाह्या निर्देवताश् चैव तामसाः परिकीर्तिताः ।
रजस्तमो ऽभिभूतानां न तु मोक्षः कथञ्चन ॥” इति
पुराणान्तरे- “यत्रैव पूज्यते विष्णुर् विधिना प्रयतैर् नरैः ।
न तत्र ह्य् आधिदौर्गत्य व्याधिचौरादिकं भयम् ॥” इति
किञ्च- “नित्यमुक्तोपभोग्यत्वात् परव्यूहात्मनो हरेः ।
तत्कालसन्निकृष्टैक लक्ष्यत्वाद् विभवात्मनः ॥ [आनन्द-संहिता १४.१४]
विशुद्धैर् योगसंसिद्धैश् चिन्त्यत्वाद् अन्तरात्मनः ।
अर्चात्मन्य् एव सर्वेषाम् अधिकारो निरङ्कुशः ॥ [आनन्द-संहिता १४.१५]
अर्चावतारविषये ममाप्य् उद्देशतस् तथा16
उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैर् अपि ॥ [आनन्द-संहिता १४.१६]
एवं पञ्चप्रकारो ऽहम् आत्मनां पततामधः ।
पूर्वस्माद् अपि पूर्वस्मात् ज्यायांश् चैवोत्तरोत्तरः ॥ [आनन्द-संहिता ]
सौलभ्यतं17 जगत्स्वामी सुलभो ह्य् उत्तरोत्तरः ॥” [आनन्द-संहिता ]
इति प्रतिपादितरित्या भगवतः परत्वादिषु सौलभ्याभावात् अखिललोकसमुज्जीवनार्थम् अर्चावतारः। तदेकपरत्वाद् वैखानसाः तत्प्रियतमाः। एतदृशनारायणायणैकपरत्वाभावाद् बोधायनस्य आपस्तम्बादीनाञ् न कथञ्चद् अपि परमैकान्तित्वं भगवत्प्रियतमत्वञ् च सम्भवति।

एवं च वैखानसानाम् एव परमैकान्तित्वं भगवत्-प्रियतमत्वञ् चोपपद्यते
इति सर्वं समञ्जसम्
इति दशमो हेतुर् निरूपितम्।

इति दशम-हेतु-निरूपणम्
इति श्रीरमण-वेङ्कटाचलेश्वर-पादारविन्द-सपर्या-निरतस्य
सर्व-तन्त्र-स्वतन्त्रस्य श्रीनिवास-मखि-वेदान्त-देशिकस्य कृतिषु
श्रीवैखानस-सूत्र-तात्पर्य-चिन्तामणौ
दश-विध-हेतु-निरूपणम् उपोद्घात-भागः समाप्तः।


  1. छान्दोग्य-ब्राह्मणम् २.२३.१; एबेन्फ़ल्ल्स् ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] २१.८, ४१.८ उन्द् ६१.१३-१५। ↩︎

  2. देर् एर्स्ते हल्ब्वेर्स् इस्त् औछ् अल्स् “पुरातन्त्र” इन् दशविधहेतुनिरूपणम्[द्] ३७.३ ज़ितिएर्त्। ↩︎

  3. आनन्द-संहिता १९.१०; दिएसेर् वेर्स् इस्त् औछ् ओह्ने हेर्कुन्फ़्त्सन्गबे इन् दशविधहेतुनिरूपणम्[द्] २१.१२-१३ ज़ितिएर्त्, äह्न्लिछ् अल्स् “वराहपुराण” इन् दशविधहेतुनिरूपणम्[द्] ४१.१०-११; व्ग्ल्। क्र ३६.३७- अश्वत्थः कपिला गावः तुलसी विखनो द्विजः । हरिप्रियास् तु चत्वारः तेषु वैखानसो वरः। ↩︎

  4. दिएसेर् वेर्स् इस्त् औछ् इन् दशविधहेतुनिरूपणम्[द्] ४२.१६-१७ उन्द् ४८.२३-२४ ज़ितिएर्त्। ↩︎

  5. दिएसेर् वेर्स् इस्त् औछ् ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ४२.१३-१४। ↩︎

  6. पौष्करसंहिता- विप्रा एकायनाख्या ये ते भक्तास् तत्त्वतो ऽच्युते; दिएसेर् हल्ब्वेर्स् इस्त् अल्स् “पौष्करसंहिता” äह्न्लिछ् ज़ितिएर्त् इन् २४.६, ४२.२५, ४८.१८, ११८.१२, अल्स् “पुरातन्त्र” äह्न्लिछ् इन् दशविधहेतुनिरूपणम्[द्] ३६.२४। ↩︎

  7. लिएस्- एकान्तिनः। ↩︎

  8. पौष्करसंहिता- कर्तव्यत्वेन ये विष्णुं संयजन्ति फलं विना; देर् एर्स्ते हल्ब्वेर्स् इस्त् औछ् अल्स् “पौष्करसंहिता” ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ४८.१८, äह्न्लिछ् अल्स् “पुरातन्त्र” इन् दशविधहेतुनिरूपणम्[द्] ३७.१; देर् गन्ज़े वेर्स् अल्स् “पौष्करसंहिता” इन् दशविधहेतुनिरूपणम्[द्] २४.७-८, ४२.२६-४३.१ उन्द् ११८.१३-१४। ↩︎

  9. दिएसेर् हल्ब्वेर्स् इस्त् औछ् ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ४३.२ उन्द् ११८.१५। ↩︎

  10. औछ् ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ६०.१५-१६। ↩︎

  11. दिएसेर् हल्ब्वेर्स् इस्त् औछ् अल्स् “पुरातन्त्र” इन् दशविधहेतुनिरूपणम्[द्] ३९.१७ ज़ितिएर्त्; व्ग्ल्। ख २२.१६२अब्- नाविष्णुर् अर्चयेद् विष्णुं नाविष्णुः ध्यायते हरिम्। ↩︎

  12. लिएस्- अनन्तस्य। ↩︎

  13. भागवतपुराणम् १०.८०.३- सा वाग् यया तस्य गुणान् गृणीते करौ च तत्कर्मकरौ मनश् च । स्मरेद् वसन्तं स्थिरजङ्गमेषु शृणोति तत्पुण्यकथाः स कर्णः। ↩︎

  14. भागवतपुराणम्- शिरस् तु तस्योभयलिङ्गम् आनमेत् तद् एव यत् पश्यति तद् धि चक्षुः । अङ्गानि विष्णोर् अथ तज्जनानां पादोदकं यानि भजन्ति नित्यम्। ↩︎

  15. भागवतपुराणम्- त्वयोपभुक्तस्रग्गन्धवासो ऽलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास् तव मायां जयेम हि। ↩︎

  16. आनन्द-संहिता- गुरुणोद्दिश्य माम् पुरा। ↩︎

  17. लिएस्- सौलभ्यतः। ↩︎