नवम-हेतु-निरूपणम्
वैखानससूत्रिणां नारायणैकपरत्वम्
अथेदानीम् आपस्तबादि-सूत्रान्तर-निष्ठानां
सूत्र-काराद् आरभ्य अविच्छिन्नत्वेन परम्परया एकान्तित्वं नास्तीति ज्ञापयितुं
वैखानस-सूत्रिणाम् एव तत् सम्भवतीति दर्शयितुम्।
“प्रत्यक्षम् अनुमानञ् च
शास्त्रञ् च विविधागमम् ।
त्रयं सुविदितं ज्ञेयं
धर्मसिद्धिम् अभीप्सता ॥1”
[मनु-स्मृतिः १२.१०५]
इति मनु-स्मरणानुसारेण
प्रत्यक्षादिभिर् अवगमयितुञ् च
अखिल-जगद्-एक-कारण-भूत-श्रीमन्-नारायणैक-परत्वाद्
इति नवमो हेतुर् निरूप्यते।
अस्य सूत्रस्य नारायणैकपरत्वे-
तत्र षड्विधतात्पर्यलिङ्गानि
“उपक्रमोपसंहाराव्
अभ्यासो ऽपूर्वता फलम् ।
अर्थवादोपपत्ती च
लिङ्गं तात्पर्यनिर्णये ॥”
इत्य् उक्तानि षड्विधानि तात्पर्यलिङ्गानि सन्ति।
नारायणस्यैव परब्रह्म-शब्द-वाच्यत्वम्
तथा हि आद्यप्रश्ने प्रथम-खाण्डे
“नारायण-परायण”2 इत्य् उक्तम्।
एवं
सदाध्यात्मरतो ध्यान-योगी
नारायण-परं ब्रह्म पश्यन्
धारणं धारयेद्,
अक्षरं परं ब्रह्माप्नोति -
“नारायणपरं ब्रह्मेति श्रुतिः”
इत्य् उपसंहारे सन्न्यासविधौ प्रतिपादितम्।
सन्ध्योपासनादि-पुण्याहाघारान्तहोम-नान्दी-मुखोपनयन–पाणि-ग्रहण-पर्यन्तेषु
अन्तकर्मणि च
अतो देवादि+++(=??)+++-वैष्णवा मन्त्राः विनियुक्ताः।
एवम् आघार-प्रकरणे
“शरो ऽङ्गारे ऽग्नौ जुहुयाद्” इति सूत्रेण
इध्माधानं तैत्तिरीय-ब्राह्मण-वाक्यानुसारेण परब्रह्माग्नौ विहितम्।
ब्रह्मरुद्रादीनां यज्ञांश-भाक्त्वं भगवत्-प्रसाद-लब्धम्
परब्रह्मशब्दाभिधेयश् च भगवान् नारायण एवेति वेदान्तेषु निर्णीतम्। तथाहि- “सद् एव सोम्येदमग्र आसीत्, एकम् एवाद्वितीयम्” इत्यादिभिः प्रतिपन्नस्य अभिन्ननिमित्तोपादानकारणस्य “यतो वा इमानि भूतानि जायन्ते - तद्ब्रह्मे"त्यादिना जगत्कारणत्वं ब्रह्मशब्दवाच्यत्वञ् च प्रतिपाद्यते। तस्य “सत्यं ज्ञानम् अनन्तं ब्रह्मे” त्यादिना शोधकवाक्येन स्वरूपं निरूप्यते। सत्यत्वादिविशिष्टस्य तस्य “आनन्दो ब्रह्म” इति निरतिशयानन्दरूपत्वं प्रतिपाद्यते। एतादृशब्रह्मरूपं वस्तु “नारायणपरं ब्रह्म” “तत्त्वं नारायणः परः” “एको ह वै नारायण आसीत्” “अपहतपाप्मा दिव्यो देव एको नारायणः” इत्यादि वाक्यैः श्रीमन्नारायण एवेति नियम्यते। एवञ् च “अध्यूहन्ते” इति तैत्तिरीयवाक्यशेषस्थब्रह्मशब्दो ऽपि नारायणपर एवेति प्रकृतसूत्रोक्तेध्माधानम् अपि नारायणपरम् एव।
एवम् आधाने - “ध्यायन् नारायणम् उपोष्य” इति, अग्निहोत्रे - भूमानं विष्णुं ध्यायेत्” इति, दर्शपूर्णमासे - “उदित आदित्ये ध्यायन् नारायणं ऽविष्णोर् नु कम्ऽ; इति जपित्वा” इति, सोमे च - “नारायणपरायणस् तूष्णीम् आस्ते” इति च सर्वत्रापि अभ्यासेन नारायणपरत्वेनोक्तत्वात् इदं सूत्रं नारायणपरम् एव।
ननु - अत्र सूत्रे प्रवासागमने आश्वयुज्याञ् च “प्रदक्षिणम् अर्चनं प्रणामो गुहस्य” - “भवं देवम् आवाह्य” इत्य् उक्तत्वात् सर्वत्र नारायणपरत्वम् अस्येति कथं वक्तुं शक्यते इति चेत् - उच्यते। “अङ्गान्य् अन्या देवता” इति अङ्गभूतानां ब्रह्मरुद्रादीनाम् अपि यज्ञांशभाक्त्वं भगवत्प्रसादलब्धम् इति भारतादिनावगम्यते - तथाहि
“ततस् ते सुरास् सर्वे ब्रह्मा ते च महर्षयः ॥3 [महाभारतम् १२.३२७.४८च्द्]
वेददृष्टेन विधिना वैष्णवं क्रतुम् आरभन् ।
तस्मिन् सत्रे तथा ब्रह्मा स्वयं भागम् अकल्पयत् ।
देवा महार्षयश् चैव सर्वे भागान् अकल्पयन् ॥4 [महाभारतम् १२.३२७.४९]
ते कार्तयुगधर्माणो भागाः परमसंस्कृताः ।
प्रापुर् आदित्यवर्णं तं पुरुषं तमसः परम् ॥5 [महाभारतम् १२.३२७.५०]
श्रीभगवान्- येन यः कल्पितो भागः स तथा समुपागतः ।6
प्रीतो ऽहं प्रदिशाम्य् अद्य फलम् आवृत्ति-लक्षणम् ॥ [महाभारतम् १२.३२७.५२]
यज्ञीये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः ।
कल्पयिष्यन्ति वो भागांस् ते नरा वेदकल्पितान् ॥7 [महाभारतम् १२.३२७.५४]
रुद्रीदीनां नारायणाङ्गतया पूजार्हत्वम्
यो मे यथा कल्पितवान् भागम् अस्मिन् महाक्रतौ ।
स महायज्ञभागार्हो वेदसूत्रे मया कृतः ॥”8 इति [महाभारतम् १२.३२७.५५]
श्रीभागवते- “अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेशसुरेशमुख्याः ।
सर्वे वयं यन्नियमं प्रपन्ना मूर्ध्नार्पितं लोकधुरं वहामः ॥”9
एवं च भवादीनाम् अपि नारायणाङ्गत्वेन पूजार्हत्वावगमात्।
“अङ्गभावेन देवानाम् अर्चनं न निषिद्ध्यते ।
स्वतन्त्रबुद्ध्या कुर्वन् हि ब्राह्मणो नरकं व्रजेत् ॥
ब्रह्माणम् इन्द्रम् अग्निं वा हरेर् आवरणं विना ।
यस् तु सम्पूजयेद् विप्रः स पाषण्डी भवेद् ध्रुवम् ॥”
इत्यादिना अङ्गभावेन तेषाम् अर्चनं कुर्वतो दोषाभावस्मरणाच् च सूत्रे तथोक्तिः।
तथा- “अन्यत्र त्वां समारोप्य यद्य् उपासा विधींयते10 ।
सा वृत्तिः प्रच्युता प्रोक्ता तव तत्त्वं तथैव च ॥ [क्ज्।क् ]
त्वयि सर्वं समारोप्य यद्य् उपासा विधीयते ।
सा वृत्तिः सकला ज्ञेया तव तत्त्वं तवैव हि ॥” [ज्ञानकाण्डः (काश्यपसंहिता) ]
इति ज्ञानकाण्डे कश्यपेनोपासनस्वरूपभेदप्रदर्शनात् “विष्णोर् नित्यार्चा सर्वदेवार्चा भवती”11ति मुख्यत्वेन सूत्रेण प्रतिपादितत्वात् प्रच्युतिफलप्रदत्वाभावाच् च तेषाम् अङ्गभावेन पूजनं युज्यते। आपस्तम्बादिसूत्रेषु सर्वसंस्काराणां सद्वारकत्वेन प्रतिपादनात् नारायणैकपरत्वेन सकृद् अपि स्मरणाभवात् तेषां न नारायणैकपरत्वम्।
आपस्तम्बादि-सूत्राणां नारायणैकपरत्वाभावः
ननु बोधायनेनापि “अथातो विष्णुप्रतिष्ठाकल्पं व्याख्यस्यामो द्वादश्याम् एकादश्यां श्रोणायां वा यानि चान्यानि शुभनक्षत्राणि”12 इत्य् आरभ्य “द्वादशनामभिः अमुष्मै स्वाहा अमुष्मै स्वाहा”13 इत्यादिना होमादिकम् उक्ता।
“त्वाम् एकम् आद्यं पुरुषं पुरातनं
नारायणं विश्वसृजं यजामहे ।
त्वम् एव यज्ञो विहितो विघ्नेयः
त्वम् आत्मनात्मन् प्रतिगृह्णीष्व हव्यम् ॥” [बौधायन-गृह्य-शेष-सूत्रम् २.१३.३६]
आपस्तम्बादीनां नानादेवतापरत्वम्
इति नारायणैकपरत्वेन प्रतिपादनात् कथं तेषां नारायणैकपरत्वं नास्तीत्य् उच्यत इति चेत् - सत्यम्। आपस्तम्बादीनाम् आचार्येणानेन बोधायनेन नारायणैकपरत्वेन प्रतिष्ठादिकम् अनुक्तम्। किन्तु। “अथ रुद्रप्रतिष्ठाविधिं14 व्याख्यास्यामः। चतुर्थ्याम् अष्टम्याम् आर्द्रायाम् अपभरण्यां वा15 यानि चान्यानि शुभनक्षत्राणि” इति प्रकृत्य “भवाय देवाय स्वाहे"त्यादिभिः “भवस्य देवस्य पत्न्यै स्वाहे”16त्यादिभिश् च होमादिकम् उक्त्वा [बौधायन-गृह्य-शेष-सूत्रम् २.१६.१-२]
“त्वाम् एकम् आद्यं पुरुषं पुरातनं
रुद्रं शिवं विश्वसृजं यजामहे ।
त्वम् एव यज्ञो विहितो विधेयस्
त्वम् आत्मनात्मन् प्रतिगृह्णीष्व हव्यम् ॥” [बौधायन-गृह्य-शेष-सूत्रम् २.१६.३९]
इति शिवप्रतिष्ठा, एवं “अथातो महादेवस्याहरहः परिचर्याविधिं व्याख्यास्यामः”17
इत्य् आरभ्य “महादेवम् आवाहयेत् - आयातु भगवान् महादेव”18 इति पृथक्त्वेन रुद्रपूजा च प्रतिपादिता। तथा - अन्यत्र “अथातो ऽर्धमासे ऽर्धमासे ऽष्टम्यां ब्राह्मणाः स्त्रियश् चाहुः” इत्य् आरभ्य “अथ प्रदोषे रुद्रं विरूपाक्षं सपनीकं19 ससुतं सपार्षदम्” इत्यादिभिः रुद्रावाहनम् उक्तम्। एवं “आदित्यम् अम्बिकां विष्णुं गणनाथं महेश्वरम्”20 इति पञ्चपूजा च। अतः बोधायनसूत्रं नारायणैकपरं न भवति।
अथ आपस्तम्बादयः किं नारायणैकपरः - अत रुद्रपराः आहोस्वित् नानादेवतापराः?। नारायणैकपरा इति चेन् न। जातिकुलाचारादिष्व् आगोत्रप्रथमाद् आरभ्य-
“श्वश्रूरस्य दिगम्बरव्रतवती सम्बन्धिनस् सौगताः ।
माता चास्य पिता च पाशुपतिनौ वैशेषिको देशिकः ।
भ्राता तिष्ठति साङ्ख्ययोगसमये चार्वाकशिष्यस् सखा
मिथ्याचारसमाह्वयस् स्वयम् असौ विप्लाविको वैदिकः ॥”
इत्य् उक्तरीत्या एतेषां शैवपाशुपतवैष्णवाद्याकरिण विद्यमानत्वात् आपस्तम्बादिसूत्राण्य् अपि नारायणैकपराणि न भवन्ति। भगवतो नारायणस्य समाराधनविधिप्रतिपादनाभावाच् च। नारायणैकपरञ् चेद् आपस्तम्बादिसूत्रं तर्हि तत्सूत्रोक्त-धर्मानुष्ठातारः सर्वे ऽपि नारायणैकपरा एव स्युः। न च तथा दृश्यते। पाञ्चरात्राद्युक्तमार्गेण वैष्णवसम्पादने “स्वसूत्रे विद्यमाने तु” - “स्वसूत्रस्य परित्यागात्” - “यस् स्वधर्मं परित्यज्य” “विधर्मः परधर्मश् च” - श्रेया स्वधर्मो विगुणः” - इत्यादि वचनप्रतिपादितस्वसूत्रपरित्यागपरधर्मस्वीकारशाखारण्डत्वादिदोषाः प्रसज्येरन्।
“स्वशास्त्रनिर्णये सत्ये सत्याः स्युर् लोकनिर्णया” इति स्वसूत्रस्य प्रामाण्यबुद्धिश् च तेषाम् अवर्जनीया।
वैखानसानाम् अविच्छेदेन नारायणपरत्वम्
वैखानसानां सूत्रकाराद् आरभ्य अविच्छिन्नत्वेन श्रीमन्नारायणैकपरत्वेनाराधनादिकं प्रत्यक्षसिद्धम्। तथा च सूत्रम्, “गृहे देवायतने वा भक्त्या भगवन्तं नारायणम् अर्चयेत् तद् विष्णोः परमं पदं गच्छतीति विज्ञायते” इति21।
इतरेष्व् आपस्तम्बादिषु पितृ पितामह मातुल मातामह पुत्र पौत्र भ्रातृ सम्बन्धिषु केचिच् छैवाः केचिद् पाशुपताः केचिच् छाक्ताः नानादेवतापराश् चेत्येवमाकारेण दृश्यते।
“जन्मान्तरसहस्रेषु तपोज्ञानसमाधिभिः ।
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥”
इति केषाञ्चित् स्वकृतपूर्वपुण्यविशेषान् नारायणपरत्वसम्भवे ऽपि स्वसूत्रकारम् आरभ्य स्वपर्यन्तम् अविच्छिन्नत्वेन तद् अस्तीति वक्तुं न शक्यते। अतः -
“नानाकामहतज्ञाना नानादैवतयाजिनः ।
नरा भगवत् ऐकन्त्ये न स्थास्यन्ति कलौ युगे ॥ [वायुप्]
आगमाद् अनुमानाच् च प्रत्यक्षाद् उपपत्तितः ।
परीक्ष्य निपुणं बुद्ध्या श्रद्धातव्यं विपश्चिता ॥” [वायुप्]
इति वायुपुराणादिवचनाद् आगमादिभिर् निपुणं परीक्ष्य निर्णीत एवार्थः विपश्चिद्भिः अनुष्ठेयः।
नारायणस्य पारम्यम्
ननु - “किम्-अर्थं नारायणैकपरत्वेन सूत्रं प्रणीतम्” इति चेत् - उच्यते।
नारायणय्22
अखिल-जगद्-एक-कारणत्वात्
परम्-ब्रह्म–परमात्मादि-शब्द-वाच्यत्वात् अपवर्गादिफलप्रदत्वात्
समाभ्यधिक-रहितत्वाच् च
नारायणैक-परत्वेन प्रणीतम्।
अत्र - “नारायणाद् रुद्रो23 जायते। नारायणाद् इन्द्रो जायते। नारायणाद् द्वादशादित्याः रुद्रा वसवस् सर्वाणि च भूतानि। नारायणाद् एव समुद्पद्यन्ते। नारायणात् प्रलीयन्ते” इत्याद्याः “नारायणपरं ब्रह्मे"त्य् आरभ्य “अन्तर्बहिश् च तत्सर्वं व्याप्य नारायणः स्थितः” इत्य् आद्याः, “तम् एव विद्वान् अमृत इह भवति। नान्यः पन्था अयनाय विद्यते” “उतामृतत्वस्येशानः” इत्याद्याः, “न तस्य कार्यं करणञ् च विद्यते” “न तत्समश्चाभ्यधिकश् च दृश्यते” “परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” इत्याद्याः, “एष सर्वभूतान्तरात्मा दिव्यो देव एको नारायणः” इत्याद्याः, “एको ह वै नारायण आसीत्” इत्याद्याः, “यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्य् अभिसंविशन्ति। तद्विजिज्ञासस्व। तद् ब्रह्मे"ति “पतिं विश्वस्यात्मेश्वरम्” इत्याद्याश् च श्रुतयः प्रमाणम्।
श्वेताश्वतरादेः रुद्र-पारम्य-परत्वाभावः
ननु - श्वेताश्वतरे -
एको हि रुद्रो न द्वितीयाय तस्थे
य इमान् लोकान् ईशत ईशनीभिः24
विश्वाधिको रुद्रो महर्षिः25
हिरण्यगर्भं जनयामास
पूर्वं स नो बुद्ध्या शुभया संयुनक्तु26
“उमासहायं परमं महेश्वरं
त्रियम्बकं नीलकण्ठं प्रशान्तम्।
ज्ञात्वा मुनिर् गच्छति भूतयोनिं
समस्तसाक्षिं तमसः परस्तात्”
इत्यादिभिः रुद्रस्यापि जगत्कारणत्वादि प्रतिपाद्यत इति चेत् - उच्यते।
आपाततो रुद्र-परत्वेनावगम्यमाने ऽपि
विचार्यमाणे नारायण-परत्वम् एव।
एक एव रुद्र इत्य् अनुपपन्नम् -
“सहस्राणि सहस्रशो ये रुद्रा” इत्यादि श्रुतिभिः
“एकादशरुद्रा” इत्यादिभिश् च अनेकरुद्राणां विद्यमानत्वावगमात्
क्रूरस्य रुद्र-शब्द-वाच्यस्य
“बृहत्त्वात् बृंहणत्वाच् च तद् ब्रह्मेति प्रकीर्तितम्” इति ब्रह्म-शब्द-वाच्यत्वासम्भवात्,
“तेषाम् असुराणां तिस्रः पुर आसन्न्” इत्य् आरभ्य,
“इदम् असिष्यतीति रुद्रम् अब्रुवन्
रुद्रो वै क्रूरस् सो ऽस्यत्विति।
सो ऽब्रवीद् वरं वृणै अहम्
एव पशूनाम् अधिपतिर् असाव् इति
तस्माद् रुद्रः पशूनाम् अधिपतिर् इति”
“रुद्रो वा अकामयत - ‘पशुमान् स्याम्’ इति -
“माता रुद्राणां दुहिता वसूनाम्” इति पशुपतित्वयाचकत्वात्।
“नैव देवो न मर्त्यः। न राजा वरुणो विभुः। नाग्निर्नेन्द्रो न पवमानः।
ब्रह्म-रुद्रादीनां नारायण-साम्याभावः
“मातृक्कश् च न विद्यते” - इत्य् आरभ्य “एतद् रुद्रस्य धनुः। रुद्रस्यत्वेन धनुरार्त्निः। शिर उत्पिपेष। स प्रवर्ग्यो ऽभवत्। तस्माद् यस् सप्रवर्ग्येण यज्ञेन यजते। रुद्रस्य स शिरः प्रतिधाति। नैनं रुद्र आरुको भवति” इत्य् उक्तत्वाच् च रुद्रस्य ब्रह्मशब्दवाच्यत्वं न सम्भवति। रुद्र हर पशुपति नीलग्रीव शितिकण्ठ भव शर्व कपर्दीत्यादीनाम् एकत्वेन श्रुयमाणानाम् एकत्वं न सम्भवति। ईश्वर महेश्वर परममहेश्वर इति परममहेश्वरशब्दश्रवणात्। “शिव एको ध्येयः शिवश्शङ्करः सर्वम् अन्यत्परित्यज्ये” त्यादिना शिवशब्दवाच्याद् अधिकत्वेन शिवतरशिवतमशब्दवाच्यस्य विद्यमानत्वात्। शम्भुशब्दस्य विश्वशम्भुत्वश्रवणात् ईशानस्य जगदीशानत्वश्रवणात् महादेवस्य “तमीश्वराणां परमं महेश्वरं तं देवतानां परमञ् च दैवतम्” इति श्रवणाच् च रुद्रादीनां परम्ब्रह्मशब्दवाच्यत्वं न सम्भवति।
ननु - श्वेताश्वतरे - उमासहयविशेषित परममहेश्वरशब्दवाच्यस्य रुद्रत्वसम्भवात् परम्ब्रह्मशब्दवाच्यत्वं तस्य सम्भवतीति चेत् - न। परममहेश्वरशब्दस्य उमासहायम् इत्य् अत्र रुद्रादिष्व् अनुपपन्नत्वात्। उकारस्त्ववधारणार्थः। उ - मा सहायं लक्ष्मीसहायं परमं महेश्वरम् एव त्रिलोचनत्वादिविशेषणविशिष्ठं लक्ष्मीनरसिंहं ध्यात्वेत्यर्थः। यद्वा। देवमनुष्याद्यपेक्षया परममहेश्वरत्वात्,
“सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् ।
स सञ्ज्ञां याति भगवान् एक एव जनार्दनः ॥”
इति भगवच्छरीरभूतत्वाच् च रुद्रस्य परममहेश्वरत्वम्। एवं भूतं रुद्रं ध्यात्वा मुनिर् मननशीलस्सन् भूतयोनिं सर्वकारणकारणं सम्स्तरक्षकं तमसः परस्तात् गच्छति। “आदित्यवर्णं तमसः परस्ताद्” इत्यादिभिः तमसः पारवर्तिनं प्रकृतेः परं परमात्मानं नारायणं गच्छति - प्राप्नोति इत्य् अर्थः।
किञ्च - अत्र- सनो देवः शुभया स्मृत्या संयुनक्तु। इत्य् अनेन
“आरोग्य भास्कराद् इच्छेत् श्रियम् इच्छेद् धूताशनात् ।
शङ्करात् ज्ञानम् अन्विच्छेत् मोक्षम् इच्छेज् जनार्दनात् ॥”
इति ज्ञानप्रदत्वात् शङ्करोपासनम् उच्यते। अतो भगवता नारायणेन साम्यं ब्रह्मरुद्रादीनां नोपपद्यते।
भारते- “ये तु सामान्यभावेन मन्यन्ते पुरुषोत्तमम् ।
ते वै पाषण्डनो ज्ञेयास् सर्वकर्मबहिष्कृताः ॥ [महाभारतम् ]
रुद्रादिसाम्येन नारायणावमन्तॄणाम् अनिष्टम्
यस् तु नारायणं देवं सामान्येनाभिमन्यते ।
स याति नरकं घोरं यावच् चन्द्रादिवाकरम् ॥ [महाभारतम् ]
यो महाद्विष्णुम्27 अन्येन हीनदेवेन दुर्मति ।
साधारणं सकृद् ब्रूते सो ऽन्त्यजो नान्त्यजों ऽत्यजः ॥” [महाभारतम् ]
वाराहे- “अन्यदेवसमं ये तु मन्यन्ते मां नराधमाः ।
चण्डालतां व्रजन्त्य् आशु जन्मनि नव पञ्च च ॥” इति [वराह-पुराणम्]
श्रीभागवते- “यस् तु नारायणं देवं समत्वेनावमन्यते ।
सकृत्तेनावमानेन नरकान्नातिवर्तते ॥ [भागवतपुराणम् ]
अस्माद् अन्यं परत्वेन चिन्तयानो ह्य् अचेतनः ।
स पाषण्डीति विज्ञेयस् सर्वकर्मबहिष्कृतः ॥” इति [भागवतपुराणम् ]
कौर्मे- “ये ऽन्यं देवं परत्वेन वदन्त्य् अज्ञानमोहिताः ।
नारायणाज् जगन्नाथात् ते वै पाषण्डिनः स्मृताः ॥ [कूर्म-पुराणम् ]
यस् तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः ।
समत्वेनैव वीक्षेत स पाषण्डी भवेद् द्विजः ॥” इति [कूर्म-पुराणम् ]
भारद्वाज- “अशुद्धा ब्रह्मरुद्राद्या जीवा विष्णोर् विभूतयः ।
तान् वै कुदृष्टयस् सम्यक् परत्वेनाप्य् उपासते ॥” इति
वाराहे- अगस्त्यं प्रति रुद्रः-
“यो यज्ञैर् इज्यते देवो यस्मात् सर्वम् इदं जगत् ।
उत्पन्नं सर्वदा यस्मिन् लीयते28 सचराचरम् ॥ [वराह-पुराणम्]
नारायणः परो देवः सत्त्वरूपी जनार्दनः ।
त्रिधात्मानं29 स भगवान् ससर्ज परमेश्वरः ॥ [वराह-पुराणम्]
शुद्धसत्त्वस् स्वयं जज्ञे रजस्सत्त्वादिकं विभुः ।
ससर्ज नाभिकमले ब्रह्माणं कमलासनम् ॥ [वराह-पुराणम्]
रजसा तमसा युक्तं सो ऽपि मां ससृजे प्रभुर् ॥” इति [वराह-पुराणम्]
ननु- “सर्वपापहरञ् चेह पश्चात् संसारनाशनम् ।
सुवर्णरौप्यताम्राद्यैः लोहेनापि तथैव च ॥ [वराह-पुराणम्]
तथा रयाङ्गम्30 अष्टाङ्गं सुनाभञ् च सुवृत्तकम् ।
ज्वालाचतुष्कसंयुक्तं कृत्वा चैव विधानतः ॥ [वराह-पुराणम्]
अग्नौ प्रताप्य विधिवत् धारयेद् भक्तिसंयुतः ॥” इति [वराह-पुराणम्]
“यज्ञो दानं तपो होमो भोजनं पितृतर्पणम् ।
चक्रलाञ्छनहीनस्य विप्रस्य विफलं भवेत् ॥ [वराह-पुराणम्।]
श्राद्धे दाने व्रते यज्ञे विवाहे चोपनायने ।
चक्राङ्कितं विप्रम् एव पूजयेद् अपरं न तु ॥” [वराह-पुराणम्]
इत्यादिवचनैः चक्रादिनानङ्कितस्य31 वैष्णवत्वाभावात् वैखानसानां32 कथं वा वैष्णवत्वम् इति चेत् - उच्यते।
चक्राद्य्-अनङ्कितानाम् अपि वैखान्सानां वैष्णवत्वम्
“यस्य मे श्रियम् अमितां दातुं
गर्भ एव
करे चक्रं धारयामि,
स चक्रवर्ती भवति”
इति श्रुतेः
वैखानसानां गर्भतो वैष्णवत्वम्
“वैखानसानां सर्वेषां
गर्भ-वैष्णव-जन्मनाम् ।
नारायणः स्वयं गर्भे
मुद्रां धारयते निजाम् ॥33”
इति
“सुदर्शनम् अभीत्य् उक्त्वा
दक्षिणे तु सुदर्शनम् ।
रविपाम् इति वामे तु
शङ्खञ् च बिभृयात् करे ॥34”
इति भृगुणोक्तत्वाच् च
श्री-विष्णु-बलिकर्मणा वैखानसानां गर्भ-वैष्णवत्वादिकं प्रतिपन्नम्।
गर्भगतस्य प्रपदनोपपत्तिः
तथा35:
“इन्द्रियेभ्यः परा ह्य् अर्था
ह्य् अर्थेभ्यश् च परं मनः ।
मनसस् तु परा बुद्धिर्
बुद्धेर् आत्मा महान् परः ॥
महतः परम् अव्यक्तम्
अव्यक्तात् पुरुषः परः ।
पुरुषान् न परं किञ्चित्
सा काष्ठा, सा परा गतिः ॥”
इति श्रुतेः
परमैकान्तित्वं,
परम-पुरुष-वशीकरण-द्वारा गर्भ-गतस्य प्रपत्तिर् अपि सम्भवति।
गर्भगतस्य प्रपत्तिर् अपि गर्भोपनिषदि श्रूयते।
“ज्ञानाद् ध्यनाद् अक्षरम् ओङ्कारः चिन्तयति।”36
इत्य् उक्त्वा
“अथ नवमे मासि सर्व-लक्षण-सम्पूर्णो भवति।
पूर्वजातिं स्मरति।
कृताकृतञ् च कर्म भवति।
शुभाशुभञ् च कर्म विन्दति।”37
“नाना-योनि-सहस्राणि
दृष्टा38 चैव ततो मया ।
आहारा विविधा भुक्ताः
पीताश् च विविधाः स्तनाः ॥ [गर्भ।उ ४.१]
जातस्यैव मृतस्यैव
जन्म चैव पुनः पुनः ।
अहो दुःखो दधौ मग्नो
न पश्यामि प्रतिक्रियाम् ॥”
इत्युक्त्वा [गर्भोपनिषद् ४.२]
“यदि योन्याः प्रमुच्ये ऽहं
तं प्रपद्ये नारायणम्39 ।
अशुभ-क्षय-कर्तारं
फल-मुक्ति-प्रदायकम् ॥40”
इति [गर्भोपनिषद् ४.६]
41पुरुषसूक्तभाष्ये - मुद्गलोपनिषदि -
“वामदेवो ऽप्य् आङ्गिरसस् सन् पूर्वपूजां समारात्रिं पत्न्यनसूयागर्भ एव शयानो ब्रह्मैव वेदयाञ् चक्रे स गर्भं पुरो भित्वा ब्रह्मलोकम् उपचक्राम तम् उत्क्रामान्तम् आह मध्ये ऽध्वानम् इन्द्रः उपनिषद उवाच, भगवन् गर्भपञ्जरे एवाभिनिवेशमान अनभिज्ञातोपायो ऽस्मात् किञ्चिद् धादित्या स गर्भस् सर्वो मन्यमानो ऽध्वनः पारम् उपगच्छसी"त्यादि। तथा च गर्भगतस्य प्रपदनविचारश्रवणाद्युपपद्यत एव।
वैदिक-तान्त्रिक-भेदेन प्रपत्तेर् द्वैविद्यम्
वैदिकतान्त्रिकभेदेन प्रपत्तिर् द्विविधा -
प्रणव-पूर्वकत्वेन पुरुषाद्य्-आवाहनादिकं वैदिकम्।
वैदिकप्रपत्तेर् लक्षणम्
श्रुत्यन्तरे-
“अकारेणोच्यते विष्णुस्
सर्वलोकेश्वरो हरिः ।
उद्धृता विष्णुना लक्ष्मीर्
उकारेण तथोच्यते ।
मकारस् तु तयोर् दास
इति प्रणव-लक्षणम् ॥42”
इति।
किञ्च, प्रणवोच्चारण-मात्रेण शङ्ख-चक्रादि-धारणम् अपि सम्भवतीति श्रुयते43।
कैवल्योपनिषदि -
“धृतोर्ध्वपुण्ड्रः कृतचक्रधारी
विष्णुं परं ध्यायति यो महात्मा।
स्वरेण मन्त्रेण सदा हृदिस्थं
परात् परं यन्महतो महान्तम्।”
इति।
सर्वकारणभूताय सर्वरक्षकाय सर्व-शेषिणे श्रियः पतये एव
स्वाभाविक-शेष-भूत
इति सर्वदानुसन्धानम् एव वैदिकी प्रपत्तिः।
“स्वोज्जीवनेच्छा यदि ते
स्वसत्तायां स्पृहा यदि ।
आत्मदास्यं हरेः स्वाम्यं
स्वभावञ् च सदा स्मर ॥”
इत्य् एव सूत्रे प्रतिपदितम्।
पाञ्चरात्रे तु
“त्यक्त्वा त्रयीं
तन्त्रम् एव प्रपद्य शरणं स्थिताः ॥”
इति [पाद्म-संहिता चर्यापाद २१.५६च्द्]
“अनन्यसाध्ये स्वाभीष्ठे
महाविश्वासपूर्वकम् ।
तद्-एकोपायता याच्ञा
प्रपत्तिः शरणागतिः ॥”
44इति च उपदिश्यते।
तस्याः प्रपत्तेः सकृत्करणात्
समन्त्रकत्वाभावात्
तच्छेष-गत्य्-अनुस्मरणाभावाच् च
तां तान्त्रिक-प्रपत्तिं विहाय
“यद् एव विद्यया करोति तद् एव वीर्यवत्तरं भवती"ति श्रुत्या
वैदिक-प्रपत्तिम् एवोक्तवान् सूत्र-कारः।
तप्तचक्राद्यङ्कं न द्विजन्मनाम्
स्कान्दे- “विष्ण्वागमादितन्त्रेषु दीक्षितानां विधीयते ।
शङ्खचक्रगदापूर्वैर् अङ्कनं नान्यदेहिनाम् ॥ [स्कन्दप् ]
शिवागमादिदीक्षाणां धार्यं तिर्यक् त्रिपुण्ड्रकम् ॥” इति [स्कन्दप् ]
विष्णु- “शङ्खचक्राद्यङ्कनञ् च गीतनृत्तादिकं तथा ।
एकजातेर् अयं धर्मः न जातु स्याद् द्विजन्मनाम् ॥45” इति [विष्णु-पुराणम् ]
श्रीभागवते दशमस्कन्धे-
“त्रिवक्रायाम् उपश्लोकः पुत्रः कृष्णम् अनुव्रतः ।
शिष्यस् साक्षान् नारदस्य ददौ चित्तम् अखण्डितम् ॥
तेनोक्तं सात्त्वतं तन्त्रं यत् ज्ञात्वा मोक्षभाग् भवेत् ।
यत्र स्त्रीशूद्रदासानां संस्कारो वैष्णवः स्मृतः ॥” इति [भागवतपुराणम् ]
तान्त्रिकप्रपत्तेर् लक्षणादि
पद्मपुराणे- “वेदज्ञे ब्राह्मणे नित्यं सर्वास् तिष्ठन्ति देवताः ।
इति तित्तिरिशाखायां श्रूयते नृपसत्तम ॥ [पद्मप् ]
दक्षिणे ऽंसे ब्राह्मणस्य शङ्खचक्रगदाधरः ।
हरिस् तिष्ठति वामे तु देवकीसूनुर् आदरात् ॥ [पद्मप् ]
ततो ब्राह्मणदेहो ऽयं देवतागार उच्यते ।
तद्दाहे देवतास् सर्वे पलायन्ते दिशो दश ॥ [पद्मप् ]
तप्तचक्रङ्कणादिविधीनाम् अधिकारी
अगारदाही स भवेत् तद्दाही ब्राह्मणाधमः ।
शङ्खं चक्रं मृदा यस् तु कुर्यात् तप्तायसेन वा ॥ [पद्मप् ]
स शूद्रवत्बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ।
यथा श्मशानजं46 काष्ठम् अनर्हं सर्वकर्मसु ॥ [पद्मप् ]
तथा चक्राङ्कितो विप्रस् सर्वकर्मसु गर्हितः ॥” इति। [पद्मप् ]
तत्रैव- “मोहाद् वा लोभतो वापि विप्रश् चक्राङ्कितो यदि ।
अनर्हस् स हि विज्ञेयः श्रौतस्मार्तेषु कर्मसु ॥ [पद्म।प् ]
क्रियास्व् अनर्हताम् एति यथा काष्ठं श्मशानगम् ।
तथा चक्रादिना दग्धाः सर्वकर्मस्व् अनर्हताम् ॥ [पद्मप् ]
दग्धार्धकायो यत्रास्ति ग्रामे जनपदे ऽपि वा ।
श्मशानं तद् धि विज्ञेयं वासानर्हं द्विजन्मनाम् ॥” [पद्मप् ]
इत्यादिना दूषणम् उक्तम्।
एतानि तप्तचक्राङ्कनविधायकानि वचनानि “विष्ण्वागमादितन्त्रेषु दीक्षितानाम्” इत्य् उक्तत्वात् एकजातिविषयत्वेनोक्तत्वात् “नान्यदेहिनाम्” इत्युक्तत्वाच् च तान्त्रिकागमोक्तप्रकारेण दीक्षितविषयाणीत्य्47 अवगम्यते।
यद्वा विधिनिषेधवचनानां वैयर्थ्यपरिहाराय “वपाश्रपणीभ्याम्48 अन्वारभते तन्नैवान्वारब्धं नैवानन्वारब्धं”49 “अवघ्रेयम् एव तत् नैव प्राशितं नैवाप्राशितम्” इत्यादि श्रुतिन्यायेन समन्त्रकत्वेन भावनारूपेण श्रीवैखानसशास्त्रे प्रतिपादितम्।50। यथा-
“सुदर्शनम् अभीत्य् उक्त्वा दक्षिणे तु सुदर्शनम् ।
रविपाम् इति वामे च शङ्खञ् च बिभृयात् करे ॥51” इति
महोपनिषदि - ब्रह्मसूक्ते-
“दक्षिणे तु भुजे विप्रो बिभृयाद् वै सुदर्शनम् ।
सव्ये तु शङ्खं बिभृयाद् इति वेदविदो विदुः ॥52” इति।
पाञ्चरात्रोक्ततप्तचक्रधारणस्य सर्वाधिकारिकत्वाभावः
पाञ्चरात्रादीनां मोहनशास्त्रत्वम्
मोहशास्त्रत्वात् शप्तविषयत्वाच् च पञ्चरात्रे तापविधानम् उक्तम् इति केचित् वदन्ति।53
पद्मपुराणे गौतम- “यन् मयि ब्राह्मणाभासाः ऋजौ कैतवम् ईदृशम् ।
अनुष्ठितं ततो वेदमार्गभ्रष्ठाश् च पापिनः ॥ [पद्म।प् ]
कालमुखे पाञ्चरात्रे54 कालपाले शाम्भवे ऽपि च ।
शाक्ते च दीक्षिता यूयं भवत ब्राह्मणाधमाः ॥” इति [पद्मप् ]
ब्रह्मा- “बौद्धे भागवते तन्त्रे तृतीये पाञ्चरात्रके ।
दीक्षिताश् च द्विजा नित्यं भवेयुर् निर्भया हरे ॥ [पद्मप् ]
श्रौतस्मार्तसमाचारे सद्योमुक्तिकरे शुभे ।
त्वद्भक्तिविमुखा नित्यं भवेयुः परिमोहिताः ॥ [पद्म।प् ]
शङ्ख्वैखनचक्रगदापूर्ववज्रपाशाङ्कुशादिभिः ।
अङ्किताः श्रद्धया यूयं भवत ब्राह्मणाधमाः ॥” इति [पद्मप् ]
स्कान्दे - “सूतसंहितायाम् सरस्वतीं प्रति रुद्रः-
“श्रुतिर् बलीयसीत्य् उक्ता प्रमाणानां सुलोचने” इत्य् आरभ्य [स्कन्दप् ]
“पाञ्चरात्रादिमार्गाणां वेदमूलत्वमास्तिके ।
न हि स्वतन्त्रतस् तेन भ्रान्तिमूलानि रूपिणि ॥ [स्कन्दप् ]
तथापि यो ऽंशो मार्गेण वैदिकेनाविरुद्ध्यते ।
सो ऽंशः प्रमाणम् इत्य् उक्तं केषाञ्चिद् अधिकारिणाम् ॥ [स्कन्दप् ]
अत्यन्तस् खलितानान् तु प्राणिणां वेदमार्गतः ।
पाञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः ।
तान्त्रिकाणां महादेवि न लभ्यो ऽव्यवधानतः ॥” इति प्रतिपादितम्। [स्कन्दप् ]
कौर्मे- “पुरा दारुवने पुण्ये मुनयो गृहमेधिनः ॥” [कूर्म-पुराणम् १६.९७अब्]
इत्य् आरभ्य मायया गोकल्पनादि शापप्राप्तिपर्यन्तम् उक्त्वा-
“का नो वृत्तिर् महादेव शापान्नः त्रातुम् अर्हसि ।55 [कूर्म-पुराणम् १६.११२च्द्]
तथा पार्श्वस्थितं विष्णुं सम्प्रेक्ष्य वृषभध्वजः ।56
पाञ्चरात्रस्य वेदभ्रष्टान् उद्दिश्य प्रवृत्तत्वम्
किम् एतेषां भवेत् कार्यं प्राह पुण्यैषिणाम् इति ॥ [कूर्म।प् १६.११३]
ततस् स भगवान् विष्णुः शरण्यो भक्तवत्सलः ।
गोपतिं प्राह विप्रेन्द्रान् आलोक्य प्रणतान् हरिः ॥ [कूर्म-पुराणम् १६.११४]
न वेदबाह्ये शास्त्रे च57 पुण्यलेशो ऽपि शङ्कर ।
सङ्गच्छते यतो धर्मो वेदाद् एव हि निर्बभौ ॥58 [कूर्म-पुराणम् १६.११५]
तथापि भक्तवात्सल्यात् रक्षणीया महेश्वर ।59
आवाभ्यां सर्व एवैते विप्रा वै नात्रसंशयः ॥60 [कूर्म-पुराणम् १६.११६]
तस्माद् वै वेदबाह्यानां रक्षणार्थञ् च पापिनाम् ।61
विमोहनाय शास्त्राणि करिष्यामि वृषध्वज ॥62 [कूर्म-पुराणम् १६.११७]
एवं सञ्चोदितो रुद्रो माधवेनासुरारिणा ।63
चकार मोहशास्त्राणि केशवो ऽपि शिवेरितः ॥ [कूर्म-पुराणम् १६.११८]
कापालं यामलं वामं64 भैरवं पूर्वपश्चिमम् ।
पाञ्चरात्रं पाशुपतं65 तथान्यानि सहस्रशः ॥ [कूर्म-पुराणम् १६.११९]
कृत्वा चार्च्य च तद् देवान् 66 कुर्वाणास् तत्र चोदितम् ।67
पतन्ति नरके घोरे बहून् कल्पान् पुनः पुनः ॥” इत्यादि चोक्तम् [कूर्म-पुराणम् १६.१२०]
स्कान्दे शङ्करसंहितायाम्
“नेक्षेत पूजावेलायां नरं वत्स बहिष्कृतम् ।
दधीचिना गौतमेन ये शप्ता ब्राह्मणाधमाः ॥ [स्कन्दप् ]
कलाव् अवतरिष्यन्ति निन्दितास्68 ते बहिष्कृताः ॥” इति [स्कन्दप् ]
साम्बपुराणे- “श्रुतिभ्रष्टः स्मृतिप्रोक्त69 प्रायश्चित्ते भयं गतः ।
क्रमेण श्रुतिसिद्ध्यर्थं मनुष्यस् तन्त्रम् आश्रयेत् ॥ [साम्बप्]
धर्मशास्त्रे पुराणे च प्रोक्तं हि मरणान्तिकम् ।
प्रायश्चित्तं मनुष्याणां पापिष्ठानां सुदारुणम् ॥ [साम्बप्]
पाञ्चरात्रमार्गानुसारिणां श्रौतस्मार्तबाह्यत्वम्
भयं दुर्बलचित्तानां मरणे जायते भृशम् ।
तेषाम् एवाभिरक्षार्थं तद् अहं तन्त्रम् उक्तवान् ॥ [साम्बप्]
पाञ्चरात्रं भागवतं तन्त्रं सात्त्वतनामकम् ।
वेदभ्रष्टान् समुद्दिश्य कमलापतिर् अब्रवीत् ॥70” इति [साम्बप्]
अन्यत्र- “अथांशोः सात्त्वतो नाम विष्णुभक्तः प्रतापवान् ।
महात्मा दाननिरतो धनुर्वेदविदां वरः ॥
स नारदस्य वचनाद् वासुदेवार्चने रतः ।
शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रितम् ॥
तस्य नाम्ना तु विख्यातं सात्त्वतं नाम शोभनम् ।
प्रवर्तते महच्छास्त्रं कुण्डादीनां हितावहम् ॥” इति
वासिष्ठे- “बृद्धशावक निर्गन्धाः पाञ्चरात्रविदो जनाः ।71
कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः ॥ [वासिष्ठध्श् ]
यस्याश्नन्ति हवींश्य् एते दुरात्मानस् तु तामसाः ।
न तस्य तद् भवेच् छास्त्रं प्रेत्येह च न तत्फलम् ॥” इति। [वासिष्ठध्श् ]
लैङ्गे - नवमाध्याये युगधर्मे
“अङ्किताश् च भविष्यन्ति देवतायुधलाञ्छनैः ।
नारायणम् अशृण्वन्ति युगान्ते समुपस्थिते ॥ [लिङ्ग-पुराणम्]
अन्यानि यानि कर्माणि श्रौतानि मुनिसत्तम ।
स्मार्तानि नाचरिष्यन्ति कलौ ब्रह्मन्72 नरास् सदा ॥ [लिङ्ग-पुराणम्]
आम्नायं धर्मशास्त्रञ् च पुराणं भारतं मुने ।
अल्पमात्रम् इति ब्रह्मन्73 वदिष्यन्ति कलौ युगे ॥ [लिङ्ग-पुराणम्]
न कुर्युः श्रौतकर्माणि श्रद्धया मुनिसत्तम ।
स्वधर्मे रुचिता नास्ति ब्राह्मणानां कलौ युगे ॥ [लिङ्ग-पुराणम्]
पाञ्चरात्रं प्रशंसन्ति केचिद् भागवतं मुने ।
केचित् कापालम् इच्छन्ति केचित् पाशुपतं मुने ॥ [लिङ्ग-पुराणम्]
चक्राङ्कनस्य भावनारूपेणैव कर्तव्यता
केचिद् बौद्धं प्रशंसन्ति केचिद् दैगम्बरं तथा ।
केचिल् लोकायतं ब्रह्मन्73 केचित् सौमं74 महामुने ॥ [लिङ्ग-पुराणम्]
लाकुलं केचिद् इच्छन्ति तथा केचित् तु भैरवम् ।
केचिद् वामं प्रशंसन्ति केचिच् छाक्तं तथैव च ॥ [लिङ्ग-पुराणम्]
शाम्भवं केचिद् इच्छन्ति यामलं भुवि केचन ।
अन्यानि यानि शास्त्राणि विरुद्धानि महामुने ॥ [लिङ्ग-पुराणम्]
तीर्थविक्रयिणः केचिद् देवविक्रयिणः परे ।
क्षीरविक्रयिणः केचिद् आज्यविक्रयिणः परे ॥ [लिङ्ग-पुराणम्]
मांसविक्रयिणः केचित् सुराविक्रयिणः परे ।
पुत्रविक्रयिणः केचिद् दारविक्रयिणः परे ॥ [लिङ्ग-पुराणम्]
भर्तृविक्रयिणः केचिद् भविष्यन्ति कलौ नराः ॥” इति [लिङ्ग-पुराणम्]
अतः पाञ्चरातोक्तं तप्तचक्रधारणं75 सर्वसाधारणं न भवन्तीति सिद्धम्।76
अथ यद् उक्तं सर्वसाधारणं न भवतीति तन् नोपपद्यते - आथर्वणे “चक्रं बिभर्ति वपुषाभितप्तं बलं देवानाममितस्य विष्णोः। स एति नाकं दुरिता विधूय प्रयान्ति यद्यतयो वीतरागाः, “चरणं पवित्रं विततं पुराणं”77 इत्यादि श्रुतिभिः सर्वसाधारणत्वेन श्रूयमाणत्वात् इति चेत् - न।
तप्तचक्रधारणे प्रायश्चित्तविधानात्। अतः यथोक्तमार्गेण भावनारूपेणैव चक्राङ्कनं न तु तप्तरूपेण। सर्वसाधारणश्रुतिस् तु वैखानसेतरविषया78। “यस्य मे श्रियम्” इत्यादि श्रुत्यविरोधेन अर्थव्यवस्थायाः कार्यत्वात्। अतः तप्तचक्राङ्कनं सर्वसाधारणं न भवति।
किञ् च- “यत्र शास्त्रगतिर् भिन्ना सर्वकर्मसु भारत ।
उदिते ऽनुदिते चैव होमभेदे यथा भवेत् ।
स गरीयान् महाबाहो सर्वशास्त्रोदिताद् अपि ॥”
इति सुमन्तुस्मरणाच् च व्यवस्थितविकल्पोत्र वक्तव्यः।
विष्णोर् एव संहारकर्तृत्वम्
किञ्च ब्रह्मरुद्रादीनाम् अपि संहारकर्ता हरिर् एवेति श्रूयते। यजुषि - हरिं हरन्तम् अनुयन्ति देवाः विश्वस्येशानं79 वृषभं मतीनाम्” इति।अब् हिएर् तेलुगु üबेर्प्र्üफ़ेन्
विष्णुकर्तृकरुद्रोपासनस्य कारणम्
ब्रह्मपुराणे- “ब्रह्माणम् इन्द्रं रुद्रञ् च यमं वरुणम् एव च ।
निगृह्याहरते यस्मात् तस्माद् धरिर् इहोच्यते ॥ [ब्रह्म।प् ]
ब्रह्मा शम्भुस् तथैवार्कश् चन्द्रमाश् च शतक्रतुः ।
एवम् आद्यास् तथैवान्ये युक्ता वैष्णवतेजसा ॥ [ब्रह्म।प् ]
जगत्कार्यावसाने तु वियुज्यन्ते च तेजसा ।
तेजसश् चैव ते सर्वे पञ्चत्वम् उपयान्ति च॥” इति [ब्रह्म-पुराणम् ]
ननु - “हरिं हरन्तम्” इति पूर्वोपात्तयजुषि ईशानशब्दश्रवणात् रुद्र एव संहारकर्तेति श्रूयते इति चेत् - तद् असत्। तत्र “विश्वस्येशान,” इति जगन्नियामकत्वम् उच्यते। बिस् हिएर् तेलुगु नोछ् üबेर्प्र्üफ़ेन्तथा च “पतिं विश्रस्यात्मेश्वर,” इतिवत् नारायण एव अत्र प्रतिपाद्यः। “अस्येशाना जगतो विष्णुपत्नी” स हरिः सुवित्तमः, “पेरुर् इन्द्राय पिन्वत” “विराड् असि”, “बृहती श्रवसीन्द्रपत्नी धर्मपत्नी”, “स ब्रह्मा स शिवस् सेन्द्रः”, इत्यादि श्रुतयोत्र विभावनीयाः।
ननु कौर्मे अष्टमाध्याये - रामायणसङ्क्षेपे-
“स कृत्वा वानरशतैः लङ्काद्वारं महोदधौ ॥80 [कूर्म-पुराणम् २१.४४च्द्]
सेतुं परमधर्मात्मा रावणं हतवान् प्रभुः ॥” [कूर्म-पुराणम् २१.४५अब्]
इति रावणवधादिकं प्रतिपाद्य-
“सेतुमध्ये महादेवम् ईशानं कृत्तिवाससम् ॥ [कूर्म-पुराणम् २१.४६च्द्]
स्थापयामास लिङ्गस्थं पूजयामास राघवः ।
तस्य देवो महादेवः पार्वत्या सह शङ्करः ॥ [कूर्म-पुराणम् २१.४७]
प्रत्यक्षम् एव भगवान् दत्तवान् वरम् उत्तमम् ।” [कूर्म-पुराणम् २१.४८अब्]
रुद्रस्य वरदातृत्वं विष्णु-प्रसादलब्धम्
इति भगवते रुद्रोपासनम् उच्यते इति चेत् - सत्यम्। रुद्रस्य तद् अपि भगवद्वरप्रसादलब्धम्। एवं हि वाराहे प्रागितिहासे रुद्रगीतासु उच्यते, यथा -
अगस्त्यं प्रति रुद्रः-
“ब्रह्मणाहं पुरा सृष्टः प्रोक्तः सृज इति प्रजाः ।
अविज्ञातासमर्थो ऽहं निमग्नस्सलिले द्विज ॥” इत्य् आरभ्य [वराह-पुराणम्]
जलमध्ये कालमेधसङ्काशः अतिशोभनः पुण्डरीकाक्षः कश्चित् पुरुषो रुद्रेण दृष्टः कस्त्वम् इति रुद्रेण पृष्टस्य तस्य प्रतिवचनम्-
“अहं नारायणो देवो जलशायी सनातनः ।
दिव्यं चक्षुर् भवतु ते तेन मां पश्य यत्नतः ॥” इति प्रतिपाद्य [वराह-पुराणम्]
“एवम् उक्तस् तदा तेन यावत् पश्याम्म्81 अहं तनुम् ।
तावद् अङ्गुष्ठमात्रन् तु ज्वलद्भास्करतेजसम् ॥ [वराह-पुराणम्]
तम् एवाहं प्रपश्यामि तस्य नाभौ तु पङ्कजम् ।
ब्रह्माणं तत्र पश्यामि ह्य् आत्मानञ् च तदङ्कतः ॥ [वराह-पुराणम्]
एवं दृष्ट्वा महात्मानं ततो हर्षम् उपागतः ।
तं स्तोतुं द्विजशार्दूल मतिर् मे समजायत ॥” [वराह-पुराणम्]
इत्य् उपक्रम्य महत्स्तोत्रम् उक्त्वा अन्ते रुद्रेण भगवन्तं प्रत्यभीष्टनिवेदनं प्रतिपादितम्। यथा-
“इति स्तुतो मे भगवन्ननादे जुषस्व भक्तस्य विशेषतश् च ।
सृष्टिं सृजस्वेति तु चोदितस्य सर्वज्ञतां देहि नमो ऽस्तु विष्णो ॥” इति [वराह-पुराणम्]
एवं स्तोत्रे परिसमापिते
“वरं वरव भद्रं ते देवदेव उमापते ॥” [वराह-पुराणम्]
इति भगवता नियुक्तः रुद्र-
“ब्रह्मणा चाहम् उक्तस् तु प्रजास् सृज इति प्रभो ।
तत्र ज्ञानं प्रयच्छस्व त्रिविधं भूतभावन ॥” इति प्रार्थयामास। [वराह-पुराणम्]
विष्णोः शरभ-रूप-रुद्रादि-संहारकत्वम्
तदा श्रीभगवान्-
“सर्वज्ञस् त्वं न सन्देहो ज्ञानराशिसनातनः ।
देवानाञ् च सदा पूज्यः सर्वदा त्वं भविष्यसि ॥ [वराह-पुराणम्।]
एवम् उक्ते पुनर्वाक्यम् उवाचोमापतिर् मुदा ।
अन्यं देहि वरं देव प्रसिद्धं सर्वजन्तुषु ॥ [वराह-पुराणम्]
मर्त्यो भूत्वा भवान् एव मामाराधय केशव ।
मां वहस्य च देवेश वरं मत्तो गृहाण च ॥ [वराह-पुराणम्।]
येनाहं सर्वदेवानां पूज्यात् पूज्यतरो ऽभवत् ॥” इति पुनः तेन प्रार्थितः [वराह-पुराणम्]
श्रीभगवान्- “देवकार्यावतारेषु मानुष्यत्वम् उपागतः ।
त्वाम् एवाराधयिष्यामि त्वञ् च मे वरदो भव ॥ [वराह-पुराणम्]
यत्त्वयोक्तं वहस्वेति देवदेव उमापते ।
स त्वां वहामि देव त्वां मेघो भूत्वा शतं समाः ॥” इति वरम् अपि ददौ।
“एवम् एव हरिर् देवः सर्वेशस् सर्वभावनः ।
वरदो ऽभूत् पुरा मह्यं तेनाहं दैवतैर् वृतः ॥ [वराह-पुराणम्।]
नारायणात् परो देवो न भूतो न भविष्यति ।
एतद् रहस्यं देवानां पुराणानाञ् च सत्तम ॥” इति [वराह-पुराणम्]
किञ्च
श्रीविष्णुपुराणे- “देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका ।
लीलेयं सर्वभूतस्य तव चेष्टोप-लक्षणा ॥ [विष्णु-पुराणम् ]
देवतिर्यङ्मनुष्याख्या चेष्टावन्ति स्वलीलया ।
जगताम् उपकाराय न सा कर्मनिमित्तजा ॥” इति [विष्णु-पुराणम् ]
एवं नृसिंहरूपिणा भगवता शरभरूपेणागतानां ब्रह्मरुद्रादीनाम् अपि संहारादिकं नारसिंहपुराणादिष्व् अवगम्यते। यथा-
शरभनिर्माणादिप्रकारः
हिरण्यकवधानन्तरम्- तत्र सप्तत्रिंशाध्याये
“हिरण्यकशिपोस् त्रस्तान् सेन्द्रान् देवान् बृहस्पतिः ।
क्षीरोदस्योत्तरं गत्वा स्तूयतां तत्र केशवः ॥ [नरसिंहप्]
युष्माभिस् संस्तुतो विष्णुः प्रसन्नो भवति क्षणात्॥” इत्य् आरभ्य [नरसिंहप्]
“युष्मद् आगमनं सर्वं जानाम्य् असुरमर्दनाः ।
हिरण्यकविनाशार्थं स्तुतो ऽहं शङ्करेण च ॥ इत्य् उक्त्वा [नरसिंहप्]
हिरण्यकवधानन्तरं
“तस्य कोपाभिभूतस्य नृसिंहस्य जगत्पतेः ।
दृष्ट्वा भयानकं रूपं वित्रेसुर् देवदानवाः ॥” [नरसिंहप्]
इत्य् आरभ्योक्तस्तोत्रानन्तरं ब्रह्मसमीपगमनादिकं प्रतिपाद्य-
“तस्मिन् भगवति क्रुद्धे नृसिंहे परमात्मनि ।
प्रवेपितं जगद् इदं देवेशे कुपिते भृशम् ॥ [नरसिंहप्]
त्वत्तो हि नान्यश् शरणं देवानाम् इह विद्यते ।
नरसिंहसमुद्भूतं भयं नाशय मे हरे ॥” [नरसिंहप्]
इत्यादिना रुद्रप्रार्थनादिकम् उक्त्वा
“हतो हिरण्यकशिपुः येन दैत्यो महाबलः ।
को नश् शमयिता तस्य कोपस्य हरिमेधसः ॥ [नरसिंहप्।]
त्वं मे जनयिता देव स ते जनयिता हरिः ।
तस्य देवस्य कश् शक्तो विष्णोर् वै निग्रहे भवेत् ॥ [नरसिंहप्]
यद् भयात् पवते वायुः सूर्यस् तपति यद् भयात् ।
यद् भयाद् धरणी धत्ते निग्रहे तस्य कः प्रभुः ।
तथाप्य् उपायो दृश्यो मे परमेण समाधिना ॥ [नरसिंहप्]
कृते तस्मिन् भवेच् छ्रेयः तूष्णीं भावो न रोचते ।
अश्वानां महिषः शत्रुः वारणानां मृगाधिपः ॥ [नरसिंहप्।]
वानराणां तथा मेषः फणीनां गरुडः स्मृतः ।
मूषकानान् तु मार्जारो मृगाणां श्वा प्रकीर्तितः ॥ [नरसिंहप्।]
वायसानां दिवाभीतः सिंहानां शरभस् तथा ।
ततो निर्मापयिष्यामः शरभं भयशान्तये ॥ [नरसिंहप्।]
शरभो ऽधिष्ठितो ऽस्माभिः नृसिंहं शमयिष्यति ।
इत्य् एवम् उक्त्वा भगवान् ससर्ज शरभं तथा ॥ [नरसिंहप्।]
यस्य सन्दर्शनाद् एव त्रस्तमासीज् जगत्त्रयम् ।
ततस् तस्य भवानीशः तुण्डस्थानम् अरोचत ॥ [नरसिंहप्]
पृष्ठभागे चतुर्वक्तं तस्य रुद्रो न्यवेशयत् ।
सोमसूर्यौ नयनयोः मारुतं पक्षयोर् द्वयोः ॥ [नरसिंहप्]
पादेषु भूधरान् सर्वान् शिवस् तस्य न्यवेशयत् ।
एवं निर्माय शरभं भवः प्रमथनायकः ॥ [नरसिंहप्]
जगर्ज नरसिंहं तं समुद्दिश्य भयानकम् ॥” [नरसिंहप्]
इति शरभनिर्माणादिकं प्रतिपाद्य
“ततः क्षणेन शरभो नादपूरितदिङ्मुखः ।
अभ्याशम् अगमद् विष्णोः निनदन् भैरवं स्वनम् ॥ [नरसिंहप्]
तम् अभ्याशगतं दृष्ट्वा नृसिंहः शरभं रुषा ।
जघान निशितैर् उग्रैः नखैर् नखवरायुधः ॥ [नरसिंहप्]
निहते शरभे तस्मिन् रौद्रे मधुविघातिना ।
तुष्टुबुः पुण्डरीकाक्षं देवा देवर्षयस् तथा ॥” [नरसिंहप्]
इति भगवता ब्रह्मरुद्राद्यधिष्ठितशरभहननं प्रतिपादितम्।
गारुडे अष्टनवतितमाध्याये-
“हन्तुम् अभ्यागतं रौद्रं शरभं नरकेसरी ।
नखैर् विदारयामास हिरण्यकशिपुं यथा ॥ [गरुडपुराणम् ]
निकृत्तबाहूरुशिराः वज्रकल्पमुखैर् नखैः ।
मेरुपृष्ठे नृसिंहेन शरभस् सहसापतत् ॥” [गरुडपुराणम् ]
पाद्मे- “तौ युध्यमानौ तु चिरं वेगेन बलवत्तरौ ।
विनाशं जग्मतुर् देवौ नृसिंहशरभाव् इति ॥ [पद्म।प् ]
ततः क्रुद्धो महाबाहुः नृसिंहो भीमनिस्स्वनः ।
सहस्रकरपन्नेत्रः82 तस्य गात्राण्य् अकर्तयत् ॥ [पद्म।प् ]
पतितं भीमम् अत्युग्रं गतांसुं द्रष्टुम् आगताः ।
ऋषयो देवगन्धर्वा यत्र शेते भवो हरः ॥ [पद्म।प् ]
तं दृष्ट्वा परमं जग्मुः विस्मयन्तु दिवौकसः ।
पशशंसुस् तथा कर्म नृसिंहस्य महाद्भुतम् ॥” इति [पद्मप् ]
श्रीभागवते- “ततस् त्वरितम् आदाय रुद्रं शरभरूपिणम् ।
विददार नखैस् तीक्ष्णैः हिरण्यकशिपुं यथा ॥” इति [भागवतपुराणम् ]
रुद्रोपासकानां शूद्रतुल्यत्वम्
किञ्च आनुशासनिके उमामहेश्वरसंवादे भगवतो ऽङ्गभावेन विना रुद्रोपासनं कुर्वतां शुद्रतुल्यत्वम् उक्तम्। यथा दक्षाध्वरे-
रुद्राणी- अहं ज्येष्ठा विशिष्टा च तस्मात् त्वं मां सुपूजय ।
दक्ष- न तु ज्येष्ठा विशिष्टा त्वं मम पूज्या इमास् सुराः83 ॥” [महाभारतम् ]
इत्यादिना रुद्राणीदूषणम् अध्वरभङ्गादिकं च प्रतिपाद्य रुद्रं प्रति शापोत्सर्गः क्रियते।
“एतद् वंशसमुद्भूतैर् अस्पृश्यस् त्वं भविष्यसि ।
नैतद् वंशेषु यः कश्चित् त्वद्भक्तो हि जनिष्यति ॥ [महाभारतम् ]
अजानात् त्वां हि यः कश्चित् मुनिर् वा ब्राह्मणो ऽपि वा ।
अनुजीवति चेत् तस्मात् तुल्यश् शूद्रेण गर्हितः ॥ [महाभारतम् ]
भवेद् देवलकश् चैव रुद्रकाल्युपजीवकः ॥” इति [महाभारतम् ]
बोधायनादीनां परमैकान्तित्वाभावे हेतवः
कात्यायनसूत्रिणां परमैकान्तित्वाभावः
अतो नारायणस्य रुद्रेण समानतया बोधायनेन प्रतिपादित्वात् बोधायनापस्तम्बादिसूत्रेषु षद्विधतात्पर्यलिङ्गाभावात् तेषां सृष्टिकालाद् आरभ्य नारायणैकपरत्वाभावात् नानादेवतोपासकत्वदर्शनाच् च परमैकान्तित्वं न सम्भवति। एवं कात्यायनसूत्रिणाम् अपि-
“ब्राह्मवैष्णवरौद्रैस् तु सावित्रैर् मैत्रवारुणैः ।
तल्लिङ्गैर् एव मन्त्रैस् तु अर्चयेत् तु समाहितः ॥” [कात्यायनसूत्र]
इति प्रतिपादनात् न परमैकान्तित्वम्।
द्राह्यायणसूत्रे तु रुद्रविषयत्वेन कर्मारम्भे प्रपदनम् उक्तम्।
अतः श्रीमन्नारायणैकपरत्वात् परमैकान्तित्वं श्रीमद्वैखानसानाम् एवेति प्रतिज्ञा कर्तुम् उचिता। एवं “अखिलजगदेककारणश्रीमन्नारायणैकपरत्वात्” इति नवमहेतुर् निरूपितः।
इति नवम-हेतु-निरूपणम्।
-
मनु-स्मृतिः- प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मशुद्धिम् अभीप्सता। ↩︎
-
बेज़ुग् औफ़् वैक्स्म्स् १.१- नारायणपरायणो निर्द्वन्द्वो मुनिर् इति संस्कारविशेषात् पूर्वात् पूर्वात् परोवरीयान् इति विज्ञायते। ↩︎
-
महाभारतम्- ततस् ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः। ↩︎
-
महाभारतम्- वेददृष्टेन विधिना वैष्णवं क्रतुम् आहरन् । तस्मिन् सत्रे तदा ब्रह्मा स्वयं भागम् अकल्पयत् । देवा देवर्षयश् चैव सर्वे भागान् अकल्पयन्। ↩︎
-
महाभारतम्- ते कार्तयुगधर्माणो भागाः परमसत्कृताः । प्रापुर् आदित्यवर्णं तं पुरुषं तमसः परम्। ↩︎
-
महाभारतम्- येन यः कल्पितो भागः स तथा समुपागतः। ↩︎
-
महाभारतम्- यज्ञैर् ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः । कल्पयिष्यन्ति वो भागांस् ते नरा वेदकल्पितान्। ↩︎
-
महाभारतम्- यो मे यथा कल्पितवान् भागम् अस्मिन् महाक्रतौ । स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः। ↩︎
-
भागवतपुराणम् ९.४.५४- अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेशसुरेशमुख्याः । सर्वे वयं यन्नियमं प्रपन्ना मूर्ध्न्यार्पितं लोकहितं वहामः। ↩︎
-
लिएस्- विधीयते। ↩︎
-
बेज़ुग् औफ़् वैक्स्म्स् ४.१०- अथाग्नौ नित्यहोमान्ते विष्णोर् नित्यार्चा सर्वदेवार्चना भवति। ↩︎
-
बेज़ुग् औफ़् बौधायन-गृह्य-शेष-सूत्रम् २.१३.१। ↩︎
-
बेज़ुग् औफ़् बौधायन-गृह्य-शेष-सूत्रम् २.१३.३५। ↩︎
-
बौधायन-गृह्य-शेष-सूत्रम्- रुद्रप्रतिष्ठाकल्पम्। ↩︎
-
बौधायन-गृह्य-शेष-सूत्रम्- वा चतुर्दश्यां वा। ↩︎
-
बेज़ुग् औफ़् बौधायन-गृह्य-शेष-सूत्रम् २.१६.३५- कृसरम् आज्यमिश्रं जुहुयात् - ऽभवाय देवाय स्वाहाऽ; इत्य् अष्टाभिः ऽभवस्य देवस्य पत्न्यै स्वाहाऽ; इत्यादिभिः। ↩︎
-
बौधायन-गृह्य-शेष-सूत्रम् २.१७.१। ↩︎
-
बेज़ुग् औफ़् बौधायन-गृह्य-शेष-सूत्रम् २.१७.१- स्नातश् शुचिस् समे शुचौ देशे गोमयेनोपलिप्य देवस्य प्रतिकृतिं कृत्वाक्षतपुष्पैर् यथालाभम् अर्चयित्वा सह पुष्पोदकेन महादेवम् आवाहयेत् - ऽओं भूः पुरुषम् आवाहयामिऽ; इत्यादि ऽआयातु भगवान् महादेवःऽ; इति। ↩︎
-
लिएस्- सपत्नीकम्। ↩︎
-
दिएसेर् हल्ब्वेर्स् इस्त् औछ् ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ६४.१२। ↩︎
-
बेज़ुग् औफ़् वैक्स्म्स् ४.१२- द्विजातिर् अतन्द्रितो नित्यं गृहे देवायतने वा भक्त्या भगवन्तं नारायणम् अर्चयेत्। तद् विष्णोः परमं पदं गच्छतीति विज्ञायते। ↩︎
-
लिएस्- नारायणस्य। ↩︎
-
लिएस्- रुद्रो। ↩︎
-
श्वेतु ३.२- एको हि रुद्रो न द्वितीयाय ??थुर् य इमां ल्लोकान् ईशत ईशनीभिः। ↩︎
-
श्वेतु ३.४- यो देवानां प्रभवश् चोद्भवश् च विश्वाधिपो रुद्रो महर्षिः। ↩︎
-
श्वेतु ३.४। ↩︎
-
लिएस्- महाविष्णुम्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६०७- नीयते। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६०७- त्रिधात्मानाम्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६०७- रथाङ्गम्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६०८- चक्रा(दिना)नङ्कितस्य। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ॐ। वैखानसानाम्। ↩︎
-
दिएसेर् वेर्स् इस्त् औछ् अल्स् “पुरातन्त्र” इन् दशविधहेतुनिरूपणम्[द्] ३६.२२-२३ ज़ितिएर्त्; देर् ज़्wएइते हल्ब्वेर्स् इस्त् औछ् इन् क्र ३६.४३अब् एन्थल्तेन्। व्ग्ल्। आनन्द-संहिता १६.३३ (नारायण स्प्रिछ्त् ज़ु विखनस्): त्वद्वंशजानां सर्वेषां गर्भवैष्णवजन्मनाम् । अहम् एव स्वयं गर्भे मन्मुद्रां धारयांय् अहं ; व्ग्ल्। आनन्द-संहिता १९.१२- वैखानसानां सर्वेषां गर्भवैष्णवजन्मनाम् । अहम् एव स्वयं गर्भे मन्नुद्रां धारयामि ताम्। ↩︎
-
आनन्द-संहिता ११.६- शङ्खं च बिभृयाद् इति; दिएसेर् वेर्स् इस्त् औछ् अल्स् “भगवच्छास्त्र” इन् दशविधहेतुनिरूपणम्[द्] १०६.२०-२१ ज़ितिएर्त्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६०९ स्तत्त् दशविधहेतुनिरूपणम्[द्] १०३.१८-१९- इति भृगुणोक्तत्वाच् च श्रीविष्णुबलिकर्मणा गर्भवैष्णवत्वादिकम्। ↩︎
-
बेज़ुग् औफ़् गर्भोपनिषद् ३.१०- पञ्चात्मकः समर्थः पञ्चात्मिका चेतसा बुद्धिर् गन्धरसादिज्ञाना ध्य्यानात् क्षरम् अक्षरं मोक्षं चिन्तयतीति ॥ दशविधहेतुनिरूपणम्[त्] ६१०- ओङ्कारं चिन्तयतीत्य्। ↩︎
-
बेज़ुग् औफ़् गर्भोपनिषद् ३.१२- अथ नवमे मासि सर्व-लक्षणसम्पूर्णो भवति। पूर्वजातीः स्मरति। कृताकृतञ् च कर्म भवति। शुभाशुभञ् च कर्म विन्दति। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६१० उन्द् गर्भोपनिषद्- दृष्ट्वा। ↩︎
-
लिएस्- नारायणम्; दशविधहेतुनिरूपणम्[त्] ६१० उन्द् गर्भोपनिषद् ४.६- नारायणं देवम्। ↩︎
-
गर्भोपनिषद् ४.४-४.७ लौतेत् वोल्ल्स्त्äन्दिग्- यदि योन्याः प्रमुच्यामि साङ्ख्यं योगम् वा समाश्रये । अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् ॥ यद्।इ योन्याः प्रमुच्यामि तं प्रपद्ये महेश्वरम् । अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् ॥ यद्।इ योन्याः प्रमुच्यामितं प्रपद्ये भगवन्तं नारायणम् देवम् । अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् ॥ यद्।इ योन्याः प्रमुच्यामि ध्याये ब्रह्म सनातनम् ॥। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६११ स्तत्त् दशविधहेतुनिरूपणम्[द्] १०४.९-१४- पुरुषसूक्तभाष्ये - मुद्गलोपनिषदि - “वामदेवो ऽप्य् आङ्गीरसस् सन् पूर्वपूजां समारात्रि पत्न्यनसूयया गर्भ एव शयानो ब्रह्मैव वेदयाञ् चक्रे स गर्भं पुरो भित्वा ब्रह्मलोकम् उपचक्राम तम् उत्क्रामन्तम् आह मध्ये ऽध्वानम् इन्द्र उपनिषद उवाच, भगवन् गर्भपञ्जर एवाभिनिवेशमानो ऽभिज्ञातोपायो ऽस्मात् किञ्चिद् धादित्या स गर्भस् सर्वो मन्यमानो ऽध्वनः पारम् उपगच्छसी"त्यादि। गर्भगतस्य प्रपदनविचारश्रवणाद् उपपद्यत एव। ↩︎
-
दिएसे वेर्से सिन्द् अल्स् “लक्ष्मीविशिष्टाद्वैत” ज़ितिएर्त् इन् मोक्षोपायप्रदीपिका, स्। ५४(१), उन्द् इन् वैखानसमहिमामाञ्जरी, स्। १७। ↩︎
-
लिएस् मित् दशविधहेतुनिरूपणम्[त्] ६१२- श्रूयते। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६१४ स्तत्त् दशविधहेतुनिरूपणम्[द्] १०५.८-१०- इति सकृत्कृतत्वात् मन्त्रकत्वाभावात् तच्छेषगत्यनुस्मरणाभावाच्। (यद् एव विद्यया करोति तद् एव वीर्यवत्तरं भवती"ति श्रुत्या तान्त्रिकप्रपत्तिं विहाय वैदिकप्रपत्ति)म् एवोक्तवान्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६१४- एकजातीर् अयं धर्मो न जातुस् स्याद् द्विजन्मनाम्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६१५- श्मशानगम्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६१६- दीक्षितानाम् इत्य्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६१७- वपाश्रमणीभ्याम्। ↩︎
-
बेज़ुग् औफ़् त्स् ६.३.८.२.१- पशुर् इति यन् नान्वारभेत सुवर्गाल् लोकाद् यजमानो हीयेत वपाश्रपणीभ्याम् अन्वारभते तन् नेवान्वारब्धं नेवानन्वारब्धम्। ↩︎
-
अन्मेर्कुन्ग् इम् देवनागरी-तेxत्- प्रतिपादितम् इति। विधिवचनानां भावनारूपेणानुष्ठानम्, निषेधवचनानां तापरूपेणानुष्ठानं च तात्पर्यार्थः इति उभयं सङ्गच्छत इति भावः। ↩︎
-
आनन्द-संहिता ११.६- रविपाम् इति वामे तु शङ्खं च बिभृयाद् इति; दिएसेर् वेर्स् इस्त् औछ् ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] १०३.१६-१८। ↩︎
-
दिएसेर् वेर्स् इस्त् äह्न्लिछ् इन् पद्मप् उत्तरभाग २२४.५७ ज़ितिएर्त् (दोर्त् स्तत्त् सव्ये लिएस् वामे) उन्द् इन् वृद्धहारीतस्मृति २.३८च्द्।३९अब् अल्स् “श्रुति” ज़ितिएर्त्। दशविधहेतुनिरूपणम्[त्] ६१८- ब्रह्मविदो स्तत्त् वेदविदो। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६१९- मोहशास्त्रत्वाच् छप्तविषयत्वाच् च पञ्चरात्र उक्तम् इति केचित् वदन्ति। यथा। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६१९- वेदमार्गभ्रष्ठा भवेत् इवैकालामुखे पाञ्चरात्रे स्तत्त् वेदमार्गभ्रष्ठाश् च पापिनः कालमुखे पाञ्चरात्रे। ↩︎
-
कूर्म-पुराणम्- कामवृत्त्या महायोगौ पापान्नस् त्रातुम् अर्हतः। ↩︎
-
कूर्म-पुराणम्- तदा पार्श्वस्थितं विष्णुं सम्प्रेक्ष्य वृषभध्वजः। ↩︎
-
कूर्म-पुराणम्- न वेदबाह्ये पुरुषे। ↩︎
-
कूर्म-पुराणम्- सङ्गच्छते महादेव धर्मो वेदाद् विनिर्बभौ। ↩︎
-
कूर्म-पुराणम्- तथापि भक्तवात्सल्याद् रक्षितव्या महेश्वर। ↩︎
-
कूर्म-पुराणम्- अस्माभिः सर्व एवैते गन्तारो नरकान् अपि। ↩︎
-
कूर्म-पुराणम्- तस्माद् धि वेदबाह्यानां रक्षणार्थाय पापिनाम्। ↩︎
-
कूर्म-पुराणम्- विमोहनाय शास्त्राणि करिष्यामो वृषध्वज। ↩︎
-
कूर्म-पुराणम्- एवं सम्बोधितो रुद्रो माधवेन मुरारिणा। ↩︎
-
कूर्म-पुराणम्- कापालं नाकुलं वामम्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६२१ मित् कूर्म-पुराणम्- पञ्चरात्रं पाशुपतम्। ↩︎
-
अन्मेर्कुन्ग् इन् देवनागरी-तेxत्- तद् देवान् - तेषु शास्त्रेषु परत्वेनोक्तान् देवान् इत्य् अर्थः। ↩︎
-
कूर्म-पुराणम्- सृष्त्वा तान् आह निर्वेदाः कुर्वाणाः शास्त्रचोदितम्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६२२- निन्दकास्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६२२- स्मृ(श्श्रु)तिप्रोक्त। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६२२- उक्तवान्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६२३- बुद्धशापकनिर्धन्धाः निर्गन्धाः पञ्चरात्रविदो जनाः। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६२३- ब्रह्मान्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६२४- सोमम्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६२५- पञ्चरातोक्तं तप्तचक्राङ्कणम्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६२५ ॐ। सिद्धम्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६२५ ॐ। विततं पुराणम्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ६२६ इन्स्। कुतः। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ७०२- विश्वस्येशानिम्। ↩︎
-
कूर्म-पुराणम्- कृत्वाथ वानरशतैर् लङ्कामार्ग महोदधेः। ↩︎
-
लिएस्- पश्याम्य्। ↩︎
-
लिएस्- सहस्रकरवन्नेत्रः। ↩︎
-
लिएस्- सुताः। ↩︎