०८ अखिलशिष्टपरिगृहीतत्वम्

अथ अष्टम-हेतु-निरूपणम्

वैखानससूत्रस्य अखिलशिष्टपरिगृहीतत्वम्

इदानीं तावत् श्रुतिस्मृतिपुराणादिभिः सर्वोत्तरत्वेनावगतस्य श्री-वैखानस-सूत्रस्य अखिलशिष्टपरिगृहीतत्वम् अस्तीति दर्शयितुं मन्वाद्यैः स्वीकृतत्वाद् इति अष्टमो हेतुः निरूप्यते। तथा हि
मनु- “अतः परं प्रवक्ष्यामि धर्मं वैखानसाश्रमम् ॥”1 इत्य् आरभ्य
“पुष्पमूलफलैर् वापि केवलैर् वर्तयेत् सदा ।
कालपक्वैः स्वयं शीर्णैर् वैखानसमते स्थितः ॥2” इति [मनु-स्मृतिः ६.२१]
व्यास- “मूलैर् एके फलैर् एके पुष्पैर् एके दृढव्रताः । [महाभारतम् १२.२३६.१३च्द्]
वर्तयन्ति यथान्यायं वैखानसमते स्थिताः ॥” इति [महाभारतम् १२.२३६.१४अब्]
गौतम- श्रामणकेनाग्निम् आधायाग्राम्यभोजी" इति3
यम- श्रामणकेन विधानेन सायं प्रातर् उपस्पृशेत्। इति
शङ्खलिखितौ- श्रामणकेनाग्निम् आधाय काले कुरुविन्द - वेणु - श्यामाकनीवारादिभिर् वर्तयेत्।4 इति।
हारीत- वानप्रस्थो ग्राम्या ओषधी परिवर्जयेत्। त्रेताग्नीनां स्थाने श्रामणकं वाग्निम् आधाय वल्कलशाणचर्मकुशमुञ्जविदलकं वा वसानो वैखानसप्रोक्तेन विधिना वानप्रस्थो विखना भवति। अनुज्ञायिको ऽनुप्रस्थायिकश्" चेति
वसिष्ठ- श्रामणकेनाग्निम् आधायाहिताग्निर् वृक्षमूलिकः। इति5 [वासिष्ठध्श् ९.१०]
बोधायन- “वानप्रस्थो वैखानसशास्त्रसमुदाचारः” [बौधायन-धर्म-सूत्रम् १२.६.११.१४]
आपस्तम्ब- “एकाग्निर् अनिकेतः स्याद्”6 इति। अस्य धर्मकर्पर्दी “गार्हपत्यादीनां त्रेताग्नीनां स्थाने यस्यैको ऽग्निः औपासन एव - वैखानससूत्रे दृष्टत्वात्, पाणिग्रहणनिमित्वद्वादौपासनस्य।
जैमिनीयसूत्रे सौमिकचातुर्मास्यप्रकारणे। “भारद्वाजपूर्वं यथा वैखानसपूर्वं पञ्चः” मेति7 (?)

अखिलशिष्टपरिग्रहस्य प्रामाण्यातिशय-हेतुत्वम्

अत्रोभयत्र आत्रिव्याख्यानम् - षोडशर्त्विजां मध्ये भारद्वाजसूत्रिणं प्रस्तोतारं वैखानससूत्रिणं प्रतिहर्तारं वरयेत्" इति।
कपिञ्जलसंहितायाम्-
“याजनाध्यापनयुतः शिष्यानुग्रहकारकः ।
आचार्य इति विज्ञेयो मन्त्रतन्त्रपरायणः ॥8 [कपिञ्जलसंहिता]
आश्रमे वा वने वा ऽपि पुत्रदारसमाहितः ।
अष्टाक्षरपरो नित्यं स वैखानस उच्यते ॥9 [कपिञ्जलसंहिता]
ग्राम्यधर्माणि सर्वाणि वर्जयेद् वनवासकः10
वल्कलाजिनसंवीतः स मौनीत्य् अभिधीयते ॥” इति [कपिञ्जलसंहिता]
पाद्मे द्वादशाक्षरप्रकारे
“॥॥। पुत्रदारसमन्वितः ।
वने वा पत्तने वापि जपेद् वैखानसः शुचिः ॥
वियुक्तः पुत्रदाराद्यैः स्वयम् एव वने स्थितः ॥” [पद्मप् ]
अन्यैर् अपि एवम् एवोक्तम्।
अखिलशिष्टपरिग्रहे को विशेष इति चेत् - अखिलशिष्टपरिग्रहात् प्रामाण्यातिशयो ऽस्तीत्य् अवगम्यते।
आश्वमेधिके- “धर्मं जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः । [महाभारतम् १४, अप्प्। ४.२४९२]
द्वितीयं धर्मशास्त्रं हि11 तृतीयं लोकसङ्ग्रहः ॥12” इति [महाभारतम् १४, अप्प्। ४.२४९३]
मनु- “विद्वद्भिस् सेवितं सम्यक्13 नित्यम् अद्वेषरागिभिः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस् तं निबोधत ॥” इति [मनु-स्मृतिः २.१]
याज्ञवल्क्य- “चत्वारो वेदधर्मज्ञाः पर्षत् त्रैविद्यम् एव वा ।
सा ब्रूते ऽयं स धर्मः स्याद् एको वाध्यात्मवित्तमः ॥ [याज्ञवल्क्यध्श् १.९]
वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् ।
यस्य प्रमाणं न भवेत् प्रमाणं कस् तस्य कुर्याद् वचनं प्रमाणम् ॥

न यस्य वेदा न च धर्मशास्त्रं
न वृद्धवाक्यं च भवेत् प्रमाणम् ।
सो ऽधर्मकृद् दुष्टहतो दुरात्मा
स्वात्मापि तस्यैव भवेत् प्रमाणम् (?) ॥” [याज्ञवल्क्यध्श् ]

स्मृतेर् वेद-मूलत्वे त्रेधा निर्वाहः

स्मृतेर् अपि वेदमूलत्वे त्रेधा निर्वाहः कृतः। नित्यानुमेयश्रुतिमूलत्वम् प्राभाकराः। “तेषाम् उत्सन्नाः पाठाः प्रयोगाद् अनुमीयन्त”14 इत्य् उत्सन्नशाखामूलत्वम् आपस्तम्बाद्याः। तत् प्राभाकराधिभिः दूषितं भाष्यकारानभिमतञ् च। प्राभाकरपक्षे ऽपि नित्यानुमेयश्रुतिमूलत्वे अक्षरशो वा आनुपूर्वीविशेषविशिष्टत्वेन वा। अक्षरश इति यद्य् उच्यते तर्हि कटतपयादीनाम् अपि नित्यानुमेयश्रुतिमूलत्वात् स्मृतित्वं स्यात्।
आनुपूर्वीविशेषविशिष्टत्वेनेति चेत् नित्यानुमेयत्वं भज्येत् इति। उत्सन्नशाखामूलत्वम् इति पक्षे शाखासु तत्रतत्रोत्सन्ना वा उतैका शाखा उत्सन्ना वा। तत्रतत्रेति चेत् न - पदक्रमादिरूपेणाधीयमानत्वाद् उत्सन्नशाखामूलत्वं न घटते। एकैवोत्सन्नेति चेत् - न। विष्णोर् अंशावतारस्य तपोयोगबलोपेतस्य सर्ववेदसाक्षात् कारवतो व्यासस्य अज्ञाताशासम्भवेन एकस्यापि शिष्यस्य तद् अध्यापनसामर्थ्यसम्भवात् तथा वक्तुम् अयुक्तत्वाद् इति। अतो विप्रकीर्णशाखामूलत्वं वक्तव्यम्। तथोक्तम्।
“दुर्बोधा वैदिकाश् शब्दाः प्रकीर्णत्वाच् च ये खिलाः ।
तद्ज्ञैस् त एव स्षष्टार्थाः15 स्मृतितन्त्रे प्रतिष्ठिताः ॥16” इति
अतः श्रुतिस्मृतिपुराणादिभिः प्रामाणत्वेनावगतस्य श्री-वैखानस-सूत्रस्य अखिलशिष्टपरिग्रहात् प्रामाण्यातिशयो ऽस्तीति “मन्वाद्यैस् स्वीकृतत्वाद्” इति निरूपितो ऽष्टमो हेतुः।
इत्य् अष्टम-हेतु-निरूपणम्


  1. मनु-स्मृतिः ६.१अब् व्।ल्। दिएसेर् हल्ब्वेर्स् इस्त् äह्न्लिछ् अल्स् “मनु” ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] २८.३। ↩︎

  2. दिएसेर् वेर्स् इस्त् अल्स् “मनु” औछ् ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] २८.४-५। ↩︎

  3. बेज़ुग् औफ़् गौतम-धर्म-सूत्रम् १.३.२६(३.२७): श्रावणकेन [श्रामणकेन]।अग्निम् आधाय । उन्द् औफ़् गौतम-धर्म-सूत्रम् १.३.२७(३.२८) अग्राम्यभोजी। ↩︎

  4. स्।ओ।, दशविधहेतुनिरूपणम्[द्] २८.१०-११। ↩︎

  5. वासिष्ठध्श्- श्रामणकेनाग्निम् आधायाहिताग्निस् स्यात्। ↩︎

  6. बेज़ुग् औफ़् आपस्तम्बीयधर्मसूत्रम् २.९.२१.२०-२१- तस्योपदिशन्ति । एकाग्निर् अनिकेतः स्याद् अशर्माशरणो मुनिः । स्वाध्याय एवोत्सृजमानो वाचम्। ↩︎

  7. लिएस्- पञ्चमः” इति। ↩︎

  8. एबेन्फ़ल्ल्स् ज़ितिएर्त् अल्स् “कपिञ्जलसंहिता” इन् दशविधहेतुनिरूपणम्[द्] ६२.१६-१७। ↩︎

  9. व्ग्ल्। “कपिञ्जलसंहिता” इन् दशविधहेतुनिरूपणम्[द्] ६२.१८- आश्रमे वा वने वा ऽपि स वैखानस उच्यते ॥ ↩︎

  10. एबेन्फ़ल्ल्स् ज़ितिएर्त् अल्स् “कपिञ्जलसंहिता” इन् दशविधहेतुनिरूपणम्[द्] ६२.१९। ↩︎

  11. महाभारतम्- धर्मशास्त्राणि। ↩︎

  12. दिएसेर् वेर्स् इस्त् औछ् ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ७६.१६-१७। ↩︎

  13. मनु-स्मृतिः- विद्वद्भिः सेवितः सद्भिर्। ↩︎

  14. बेज़ुग् औफ़् आपस्तम्बीयधर्मसूत्रम् १.४.१२.१०- ब्राह्मणोक्ता विधयस् तेषाम् उत्सन्नाः पाठाः प्रयोगाद् अनुमीयन्ते ॥ ↩︎

  15. लिएस्- स्पष्टार्थाः। ↩︎

  16. दिएसेर् वेर्स् इस्त् औछ् इन् दशविधहेतुनिरूपणम्[द्] ३.१४-१५ ज़ितिएर्त्। ↩︎