सप्तम-हेतु-निरूपणम्
अथ श्री-वैखानस-सूत्रस्य इतरसूत्रापेक्षाभावात् स्वातन्त्र्यम् अस्तीति ज्ञापयितुं साङ्गक्रियाकलापवत्त्वाद् इति सप्तमो हेतुर् निरूप्यते। तथा हि- अत्रसूत्रे अष्टादशसंस्काराः शारीराः प्रसिद्धास् साङ्गाः एव प्रतिपादिताः।
ननु - अङ्कुरार्पणशताभिषेकाग्निद्वयसंसर्गपुत्रपरिग्रहब्रह्ममेधवृषोत्सर्जनादिप्रतिपादनाभवात् साङ्गक्रियाकलापवत्त्वं नास्तीति चेत् - तद् असत्। इयं शङ्का श्री-वैखानस-सूत्रस्वरूपानभिज्ञत्वकृता। इदं सूत्रम् एकादशप्रश्नात्मकम्। अत्र न प्रतिपादितानीति उक्तिः, अतिरिक्तत्वेन गृह्यपरिशिष्टसद्भावाज्ञानात्। गृह्यपरिशिष्टसद्भावः कथम् अवगम्यते इति चेत् - उच्यते।
“अथाङ्कुरार्पणविधिं व्याख्यास्यामः” इत्य् आरभ्य खण्डद्वयेनाङ्कुरार्पणम् उक्तम्।
“सायं स्थण्डिले सहस्रं पिष्टेन सोमरूपाणि करोती"त्य् अत्र विशेषेण स्थण्डिलादिप्रतिपादनम्।
“शताभिषेकं पूर्वाह्णे पुण्याहं द्विजभोजनम् ॥1” इत्य् आरभ्य [वैखानसगृह्यपरिशिष्टसूत्रम्]
“सायं गोमयसंलिप्ते स्थण्डिले प्राग् अनुन्नते ।
प्राचीरेखा द्विपञ्चाशत् सङ्ख्यया तत्र संलिखेत् ॥ [वैखानसगृह्यपरिशिष्टसूत्रम्।]
उदीचीश् च तथा रेखा द्वत्रिंशत्सङ्ख्यया2 लिखेत्3 ॥” [वैखानसगृह्यपरिशिष्टसूत्रम्]
इत्यादिना शताभिषेकप्रयोगश् च उक्तः।
तथा “धौतवस्त्रधारिणौ स्याताम्” इत्य् आरभ्य [वैखानसगृह्यपरिशिष्टसूत्रम्]
“दीपाद्यलङ्कृते गेहे व्रीहीन् आस्तीर्य तत्र वै ।
चर्माभावे कटं वापि तद् ऊर्ध्वे वस्त्रम् आस्तरेद्4 ॥” इति [वैखानसगृह्यपरिशिष्टसूत्रम्]
“शेषहोमे ऽन्तहोमान्ते आसीनौ तत्र चर्मणि5 ।
विसृजामि व्रतञ् चेति तद्व्रतं चर्म सन्त्यजेत् ॥”6 [वैखानसगृह्यपरिशिष्टसूत्रम्]
इत्यादिना अग्निद्वयसंसर्गप्रकारश् च प्रतिपादितः।
पुत्रपरिग्रहप्रकारश् च
“त्यागविक्रयदानेषु प्रोक्तेष्व् अपि ततस् स्मृतौ ।7
एकं न दद्यान् नो गृह्यात् न स्त्री भर्त्रननुज्ञया ॥”8 इत्यादिना [वैखानसगृह्यपरिशिष्टसूत्रम्]
ब्रह्ममेधविधिस् तु
“संस्कारो ब्रह्मनिष्ठानां सदाचारवताम् अपि ।
ब्रह्ममेधो ऽतिफलदो न सर्वेषां द्विजन्मनाम् ॥”9 इत्यादिना [वैखानसगृह्यपरिशिष्टसूत्रम्]
वृषोत्सर्गविधिस् तु
“वृषोत्सर्गविधिं वक्ष्ये येन प्रेतत्वमोचनम् ।
स्नात्वाथ वास्तुहोमान्ते प्रेतत्वस्य विमुक्तये ॥10” इत्यादिभिः [वैखानसगृह्यपरिशिष्टसूत्रम्]
एवम् अत्रानुक्तानि सर्वाणि गृह्यपरिशिष्टे प्रोक्तानि इति वेदितव्यम्।
बोधायनादिभिर् अप्य् एते साङ्गा एव प्रतिपादिता इति चेत् - न। “सति कुड्ये चिक्रकर्मे” ति न्यायेन प्रधानकर्माणि प्रतिपादितानि चेत् अङ्गविचारः कर्तव्यः। सन्ध्योपासने अर्घ्यप्रदानादिकम् अनुक्तम्। वानप्रस्थाश्रमस्वीकरणादिकम् अपि न प्रतिपादितम्। वानप्रस्थाश्रमस्वीकरणास्वीकरणारण्याहरणपात्र-लक्षणादिषु वैखानससूत्रापेक्षा अस्त्य् एव। देवताप्रतिष्ठादिकम् उक्तं लक्षणम् अनुक्तम्।
आपस्तम्बादिभिः सन्ध्योपासनाङ्कुरप्रतिसरदेवताराधनयज्ञोपवीतधारणादिकम् अप्य् अनुक्तम्। आपस्तम्बादीनाम् अन्योन्यापेक्षा प्रसिद्धा। अन्योन्यापेक्षा नाम अस्वातन्त्र्यम् अङ्गहीनवत्।
मनु- “यद् यत् परवशं कर्म तत् तद् यत्नेन वर्जयेत् ॥ [मनु-स्मृतिः ४.१५९च्द्]
सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम् ।
एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥” [मनु-स्मृतिः ४.१६०]
अनेन अनन्तस्थिरफलप्राप्तिर् दर्शिता। अतः सूत्रान्तरनैरपेक्ष्यात् सर्वसूत्रोत्तमत्वं स्वातन्त्र्यञ् च घटत इति निरूपितस् सप्तमो हेतुः।
इति सप्तम-हेतु-निरूपणम्
-
दिएसेर् हल्ब्वेर्स् इस्त् अल्स् “गृह्य” एबेन्फ़ल्ल्स् ज़ितिएर्त् इन् तात्पर्यचिन्तामणिः ४९१.४। ↩︎
-
“गृह्य” इन् तात्पर्यचिन्तामणिः- द्वाविंशत्सङ्ख्यया। ↩︎
-
दिएसे द्रेइ हल्ब्वेर्से सिन्द् औछ् अल्स् “गृह्य” इन् तात्पर्यचिन्तामणिः ४९४.१३-१५ ज़ितिएर्त्। ↩︎
-
दिएसेर् वेर्स् इस्त् औछ् अल्स् “गृह्य” इन् तात्पर्यचिन्तामणिः ३६५.३-४ ज़ितिएर्त्। ↩︎
-
“गृह्य” इन् तात्पर्यचिन्तामणिः- शेषहोमे तु होमान्ते आसीनौ तत्र चर्मणि। ↩︎
-
दिएसेर् वेर्स् इस्त् अल्स् “गृह्य” औछ् इन् तात्पर्यचिन्तामणिः ४०१.१९-२० ज़ितिएर्त्। ↩︎
-
“गृह्य” इन् तात्पर्यचिन्तामणिः- त्यागविक्रियदानेषु युक्तौ स्वपितरौ स्मृतौ। ↩︎
-
दिएसेर् वेर्स् इस्त् औछ् अल्स् “गृह्य” इन् तात्पर्यचिन्तामणिः ८८७.१-२ ज़ितिएर्त्। ↩︎
-
दिएसेर् वेर्स् इस्त् औछ् ज़ितिएर्त् अल्स् “गृह्य” इन् तात्पर्यचिन्तामणिः ७४७.१८-१९। ↩︎
-
दिएसेर् वेर्स् इस्त् औछ् ज़ितिएर्त् अल्स् “गृह्य” इन् तात्पर्यचिन्तामणिः ८१८.२०-२१। ↩︎