षष्ठ-हेतु-निरूपणम्
वैखानससूत्रस्याष्टादशसंस्कारप्रतिपादकत्वम्
अथ षष्ठ-हेतु-निरूपणम्
अथेदानीं श्री-वैखानस-सूत्रोक्त-धर्मानुष्ठातॄणाम् एव
सर्वेभ्यः श्रेष्ठमत्वं
सूत्रान्तरेष्व् अनुक्तं श्रुति-सिद्धाष्टादश-संस्कारवत्वं
क्रियाबाहुल्यञ् च सम्भवतीति ज्ञापयितुं
“अष्टादश-संस्कार-प्रतिपादकत्वाद्” इति षष्ठो हेतुर् निरूप्यते।
तथा हि-
“अथ निषेकादिसंस्कारान् व्याख्यास्यामः
ऋतु-सङ्गमन–गर्भाधान–पुं-सवन–सीमन्त–विष्णु-बलि–
जात-कर्मोत्थान–नाम-करणान्नप्राशन-प्रवासागमन–पिण्ड-वर्धन-
चौलोपनयन-पारायण–व्रत-बन्ध-विसर्गोपाकर्म–समावर्तन–पाणि-ग्रहणानीत्य्
अष्टादश-संस्काराश् शारीराः”1
इति अष्टादशसंस्काराः सूत्रे प्रतिपादिताः। एते च श्रुतिसिद्धाः।
“अष्टादशोक्तम् अवरं येषु कर्मे"ति श्रुत्यर्थविचारः
यथा मुण्डोपनिषदि -
“प्लवा ह्य् एते अदृढा यज्ञरूपा
अष्टादशोक्तम् अवरं येषु कर्म।
एतच् छ्रेयो ये ऽभिनन्दन्ति मूढा
जरामृत्युं ते पुनर् एवापि यन्ति”2
इति।
अत्र केचिद् एवम् ऊचुः-
“यज्ञस्यर्त्विजष् षोडश, सदस्यस् सप्त-दशः, यजमानो ऽष्टादशः”
इति श्रुत्यनुसारेण
“अष्टादशोक्तम् अवरं येषु कर्मे”3त्य् अत्र यजमानादय एव विवक्षिता इति।
तद् असत्।
“अष्टादशोक्तम् अवरं कर्म येषु” इत्य् उक्तत्वात्।
ऋत्विग्-यजमानादयो हि याग-कर्तारः, न तु कर्म।
“येषु” इत्य् अस्य पदस्य येषु सूत्रेष्व् इत्य् अर्थः।
“अवरं कर्म”; जातकादयः - स्मार्त-कर्मत्वात्।
आत्म-गुणरहिता यागदयः जात-कर्मादयश् च।
“अदृढाः प्लवाः”; संसारोत्तारका न भवन्ति।
तथा च अत्र अदृढ-प्लवत्वेन निन्दिता संस्काराः यागादयश् च
आत्मगुणरहितानां संस्काराणां बन्धकत्वम्
आत्म-गुणरहिता एव विवक्षिताः।
तत् सहितानां तेषां मोक्षसाधकत्वम्। यथा-
गौतमधर्मे-
“यस्य तु खलु चत्वारिंशत्संस्कारा
न चाष्टाव् आत्मगुणाः,
न स ब्रह्मणस् सायुज्यं सालोक्यञ् च गच्छति।
यस्य खलु चत्वारिंशत् संस्काराणाम् एकदेशे प्य् अष्टाव् आत्मगुणाः
अथ स ब्रह्मणस् सायुज्यं सालोक्यञ् च गच्छति गच्छति”4
+इति।
अष्टानाम् आत्मगुणानां लक्षणानि
“अष्टाव् आत्मगुणाः”-
“दया समस्तभूतेषु
क्षान्तिर् अनसूया शौचम्
अनायासो मङ्गल्यम् अकार्पण्यम् अस्पृहा”5
+इति।
तल्–लक्षणानि तु-
दया-लक्षणम्
तत्र दया-लक्षणम्।
“अबन्धौ बन्धुवर्गे वा
मित्रे द्वेष्टरि वा तथा ।
आपन्ने रक्षणं यत् तु
दयैषा परिकीर्तिता ॥
क्षमा-लक्षणम्
तत्र क्षमा-लक्षणम्।
बाह्ये वा ऽभ्यन्तरे वापि
दुःख उत्पादिते परैः ।
न प्रकुप्यति नो हन्ति
सा क्षमा परिकीर्तिता ॥
अनसूया-लक्षणम्
तत्र अनसूया-लक्षणम्।
सगुणान् गुणी6 नो हन्ति
(?) स्तौति मन्द-गुणान् अपि ।
नान्यदोषेषु रमते
सा ऽनसूया प्रकीर्तिता ॥
शौच-लक्षणम्
तत्र शौच-लक्षणम्।
अभक्ष्य-परिहारश् च
संसर्गश् चाप्य् अनिन्दितैः ।
स्वधर्मे च व्यवस्थानं
शौचम् एतद् उदाहृतम् ॥
अनायास-लक्षणम्
तत्र अनायास-लक्षणम्।
शरीरं पीड्यते येन
सुशुभेनापि कर्मणा ।
अत्यन्तं तन् न कर्तव्यम्
अनायासस् स उच्यते ॥
मङ्गल्य-लक्षणम्
तत्र मङ्गल्य-लक्षणम्।
प्रशस्ताचरणं नित्यम्
अप्रशस्त-विसर्जनम् ।
एतद् +धि मङ्गलं प्रोक्तम्
ऋषिभिस् तत्त्वमङ्गल्-लन्दर्शिभिः ॥
अकार्पण्य-लक्षणम्
तत्र अकार्पण्य-लक्षणम्।
स्तोकाद् अपि प्रदातव्यम्
अदीनेनान्तरात्मना ।
अहन्य् अहनि यत् किञ्चिद्
अकार्पण्यं तद् उच्यते ॥
अस्पृहा-लक्षणम्
तत्र अस्पृहा-लक्षणम्।
यथोत्पन्नेषु सन्तोषः
कर्तव्यस् स्व्-आगतैर् धनैः ।
परार्थान् नाभिभाषेत
सा ऽस्पृहा परिकीर्तिता ॥”
इति
प्रसङ्गाद् इदम् उक्तम्। प्रकृतम् अनुसरामः।
सात्त्विक-राजस-तामस-पुराणानि
अथ
अष्टादश-स्मृत्य्-उक्तानि +अष्टादश-पुराणेषूक्तानीति वा
मुण्डक-श्रुत्य्-अर्थो ऽस्तु
इति चेत्, तद् अप्य् असत्।
स्मृति-पुराणादिषु अष्टादशकर्मेति विशिष्यानुक्तत्वात्।
अत्र 7 “अष्टादशोक्तम् अवरं कर्म येष्व्”3
इति सामान्येनोक्तत्वात्
तत्रोक्तानां योगादीनाम् अप्य् अपवर्ग-प्रापकत्वाभावात्
पुनर् अपि जरा-मृत्यु-प्रापकत्वाच् च
न स्मृति-पुराणेषूक्तानीति
वक्तुं युक्तम्।
किञ् च पाद्मपुराणे-
“वैष्णवः8 नारदीयञ् च
तथा भागवतं शुभम् ।
गारुडञ् च तथा पाद्मं
वाराहं शुभदर्शने ॥ [पद्म।प् उत्तरभाग २३६.१९]
सात्त्विकानि पुराणानि
विज्ञेयानि च षट् पृथक् ।9ब्रह्माण्डं ब्रह्म-वैवर्तं10
मार्कण्डेयं तथैव च ॥ [पद्म।प् उत्तरभाग २३६.२०]
भविष्यद् वामनं ब्राह्मं
राजसानि च षड्विधाः11 । [पद्मप् उत्तरभाग २३६.२१अब्]मात्स्यं कौर्मं तथा लैङ्गं
शैवं स्कान्दं तथैव च ।
आग्नेयञ् च षड् एतानि
तामसानि निबोध मे ॥”
इति [पद्मप् उत्तरभाग २३६.१८]
सात्विकपुराणश्रैष्ठ्यम्
मात्स्ये-
“सङ्कीर्णास् तामसाश् चैव
राजसास् सात्त्विकास् तथा ।
कल्पाश् चतुर्विधाः प्रोक्ताः
ब्रह्मणो दिवसाश् च ते ।
यस्मिन् कल्पे तु यत् प्रोक्तं
पुराणं ब्रह्मणा पुरा ॥
तस्य तस्य तु माहात्म्यं
तेन रूपेण वर्तते ।
सङ्कीर्णेषु सरस्वत्याः
पितॄणाञ् च निगद्यते ॥ [मत्स्यप्]
अग्नेश् शिवस्य माहात्म्यं
तामसेषु प्रकीर्त्यते ।
राजसेषु तु माहात्म्यम्
अधिकं ब्रह्मणो विदुः ॥ [मत्स्यप्]
सात्त्विकेष्व् अथ कल्पेषु
माहात्म्यम् अधिकं हरेः ।
तेष्व् एव योग-संसिद्धा
गमिष्यन्ति परां गतिम् ॥”
इति [मत्स्यप्]॥
पाद्मे-
“वासिष्ठं चैव हारीतं
व्यासं पाराशरं तथा ॥ २३ ॥
भारद्वाजं काश्यपं च
सात्विका मुक्तिदाः शुभाः
याज्ञवल्क्यं तथात्रेयं
तैत्तिरं दाक्षमेव च ॥ २४ ॥
कात्यायनं वैष्णवं च
राजसां स्वर्गदाः शुभाः
गौतमं बार्हस्पत्यं च
सांवर्त्तं च यमं स्मृतम् ॥ २५ ॥
शाम्भम् औशनसञ् चैव
स्मृतिषट्कन्तु तामसम् ॥12”
इति [पद्मप् उत्तरभाग २३६.२६अब्]
तथा-
“सात्त्विका मोक्षदा ज्ञेया
राजसाः स्वर्गदाः स्मृताः ।13 [पद्मप् उत्तरभाग २३६.२१च्द्]
तथैव तामसा देवि
निरयप्राप्तिहेतवः ॥” [पद्मप् उत्तरभाग २३६.२२अब्]
इत्यादि वचन-सिद्ध-सात्विक-पुराणेषु
प्रतिपादितानां भगवदाराधनादीनां मोक्षहेतुत्वस्मरणात्,
सामन्येन अष्टादश-पुराणोक्त-कर्मणां जीर्ण-प्लव-सादृश्यं वक्तुं न शक्यम्।
वैखानसे क्रिया-बाहुल्यम्
अन्यथा स्वर्गमोक्षनिरयाणाम् एकरूपत्वाङ्गीकारापातात्। अतः श्रीमद्वैखानससूत्रोक्ताष्टादशसंस्कारा एवेत्य् अवगन्तव्यम्। बोधायनसूत्रे संस्कारसङ्ख्या न कृता।
आपस्तम्बादिनापि पञ्चमहायज्ञानां नित्यहोमस्य च पाकयज्ञत्वेनाङ्गीकारात् एते षोडसंस्कारा इति विविच्यानुक्तत्वात् अपरसंस्कारप्रतिपादनाभावाच् च न तत्रोक्ताः गृहीतुं शक्याः।
श्रीवैखानसे तु क्रियाबाहुल्यम् अप्य् अस्ति। तथा हि। अष्टादशसंस्काराः पाकयज्ञाश् च पृथक्त्वेनोपपदिताः। वर्षवर्धनाद्यास्तु विशेषाः। पञ्चमहायज्ञसहिता द्वाविंशद्यज्ञाः - पञ्चमहायज्ञानाम् एकत्वम्। अपरश् चाष्टादशव्यतिरिक्त इति।
क्रियाबाहुल्येन किम् आधिक्यम् इति चेत् - उच्यते। मुण्डोपनिषदि -
“क्रियावान् एष ब्रह्मविदां वरिष्ठः14” इति “क्रियावन्तः श्रोत्रिया ब्रह्मणिष्ठाः स्वयं जुह्वत
एकर्षिं श्रद्धयन्तः। तेषाम् एवैतां ब्रह्मविद्यां वदेत15” इति च श्रूयते।
बोधायनः- “तस्माद् यः कश्चन क्रियावान् सताम् अनुमताचारस् स श्रोत्रियस् स एव विज्ञेयस् स एव विज्ञेयः” इति। किञ्च - कर्मभूयस्त्वात् फलभूयस्त्वञ् च “यथोपासनं फलम्” इति न्यायात् सिद्ध्यति।
अतः- अष्टादश-संस्कार-प्रतिपादकत्वाद्
अस्य सूत्रस्य श्रेष्ठत्वम्
एतत्-सूत्रिणां सर्वोत्कृष्टत्वञ् चोपपद्यत
इति निरूपितः षष्ठो हेतुः।
इति षष्ठ-हेतु-निरूपणम्।
-
वैक्स्म्स् १.१। ↩︎
-
मुण्डकउ १.२.७- प्लवा ह्य् एते अदृढा यज्ञरूपा अष्टादशोक्तम् अवरं येषु कर्म। एतच् छ्रेयो ये ऽभिनन्दन्ति मूढा जरामृत्युं ते पुनर् एवापियन्ति। ↩︎
-
बेज़ुग् औफ़् गौतम-धर्म-सूत्रम् १.८.२५(८.२४): यस्यैते चत्वारिंशत्संस्कारा न चआष्टाव् आत्मगुणा न स ब्रह्मणः सायुज्यं सालोक्यं गच्छति । उन्द् गौतम-धर्म-सूत्रम् १.८.२६(८.२५): यस्य तु खलु चत्वारिंशतंस्काराणाम् एकदेशो ऽप्य् अष्टाव् आत्मगुणा अथ स ब्रह्मणः सायुज्यं सालोक्यं च गच्छति। ↩︎
-
बेज़ुग् औफ़् गौतम-धर्म-सूत्रम् १.८.२४(८.२३): दया सर्वभूतेषु क्षान्तिर् अनसूया शौचम् अनायासो मङ्गलम् अकार्पण्यम् अस्पृहेति। ↩︎
-
लिएस्- गुणी। ↩︎
-
अन्म्। देस् हेरौस्गेबेर्स्- अत्र अष्टादशपुराणेषु स्मृतिषु चोक्तानां श्रौतस्मार्तकर्मणाम् एव अवरम् इति पर्युदासो न पर्याप्तः। तत्रोक्तयोगादीनाम् अपि केषाञ्चित् जीर्णप्लवत्वस्य सिद्धत्वाद् इति भावः। ↩︎
-
पद्मप्- वैष्णवम्। ↩︎
-
पद्मप्- सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै। ↩︎
-
पद्मप्- ब्रह्माण्डं ब्रह्मवैवर्त्तम्। ↩︎
-
पद्मप्- भविष्यं वामनं ब्राह्मं राजसानि निबोध मे। ↩︎
-
पद्मप्- शाङ्ख्यं चौशनसञ् चेति तामसा निरयप्रदाः। ↩︎
-
पद्मप्- सात्त्विका मोक्षदाः प्रोक्ता राजसाः सर्वदा शुभाः; व्ग्ल्। पद्मप् उत्तरभाग २३६.२५ब्- राजसाः स्वर्गदाः शुभाः। ↩︎
-
बेज़ुग् औफ़् मुण्डकउ ३.१.४- प्राणो ह्य् एष यः सर्वभूतैर् विभाति विजानन् विद्वान् भवते नातिवादी। आत्मक्रीड आत्मरतिः क्रियावान् एष ब्रह्मविदां वरिष्ठः। ↩︎
-
बेज़ुग् औफ़् मुण्डकउ ३.२.१०- तद् एतद् ऋचाभ्युक्तम्। क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः। तेषाम् एवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद् यैस् तु चीर्णम्। ↩︎