पञ्चम-हेतु-निरूपणम्; वैखानससूत्रस्य निषेकादिसंस्कारप्रतिपादकत्वम्
अथ पञ्चम-हेतु-निरूपणम्।
अथास्य श्री-वैखानस-सूत्रस्य सर्वोत्तमत्वे तत्सूत्रोक्त-धर्मानुष्ठातॄणाम् अपि सर्वोत्कृष्टत्वे च इतरसूत्रिषु मुख्यत्वेनानुपपन्नं निषेकादिसंस्कारादिमत्त्वम्1 अस्य सूत्रस्य मुख्यत एवोपपद्यत इति ज्ञापयितुं निषेकादिसंस्कारादिमत्वाद् इति पञ्चमो हेतुर् निरूप्यते। यथा-
संस्कारेषु निषेकस्य प्रथमत्वम्
“अथ निषेकादिसंस्कारान् व्याख्यास्यामः, ऋतुसङ्गमने"त्य् उपक्रम्य
“पाणिग्रहणानी”2त्य् अन्तेन शारीरसंस्कारा निषेकसंस्कारपूर्वकत्वेन प्रतिपादिताः।
निषेकम् अन्तरेण प्रजोत्पत्त्यसम्भवः
ननु- जातकोपनयनविवाहानान्तरभाविनो3 निषेकस्य कथम् आदित्वं प्रतिपाद्यते? तथा “ब्राह्मणो ऽस्य मुखम् आसीत्”4 “मनसा त्व् एव भूतानि पूर्वं दक्षो ऽसृजत् तदा” इत्यादि श्रुतिस्मृतिषु निषेकेन विना उत्पत्तिदर्शनाच् च निषेकस्य किम्-अर्थम् आदित्वं प्रतिपाद्यते? जातकस्यादित्वं श्रीभारते चावगम्यते।
“जातकर्मादिभिर् यैस् तु5 संस्कारैः संस्कृतश् शुचिः ।
वेदाध्ययनसम्पन्नष् षट्सु कर्मस्व् अवस्थितः ॥ [महाभारतम् १२.१८२.२]
शौचाचाररतस् सम्यक् भिक्षार्थी च गुरुप्रियः6 ।
नित्यव्रतस्7 सत्यपरः स वै ब्राह्मण उच्यते ॥” इति [महाभारतम् १२.१८२.३]
एवं हरिवंशे- 8“क्व दाराः क्व च संसर्गः9 क्व च भावविपर्ययः ।
यदियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा ॥ [हरिवंशः ३५.४२]
यद्य् अस्ति तपसो वीर्यं युष्माकं विदितात्मनां10 ।
सृजध्वं मानसान् पुत्रान् प्राजापत्येन कर्मणा ॥” [हरिवंशः ३५.४३]
इति निषेकं विनापि उत्पत्तिः श्रूयते इति निषेकस्यादित्वं न सम्भवति इति चेत् -
तद् असत्। “निषेकविरहे ऽपि उत्पत्तिस् सम्भवती"त्य् एतन् नोपपद्यते। तपोबलाद् योगबलाच् च भगवतो नारायणस्य ब्रह्मणो महर्षीणां वा मानसप्रजासृष्टौ शक्तिस् सम्भवति। नान्येषाम्। यथा-11
श्रीविष्णुपुराणे- “सङ्कल्पाद् दर्शनात् स्पर्शात् पूर्वेषाम् अभवन् प्रजाः” [विष्णु-पुराणम् ]
तपोविषेशैर् इद्धानां तदात्यन्ततपस्विनाम् ॥12” [विष्णु-पुराणम् १.१५.७९]
“युगे युगे भवन्त्य् एते दक्षाद्या मुनिसत्तमाः ।
पुनश् चैव निरुद्ध्यन्ते विद्वांस् तत्र न मुह्यति ॥ [विष्णु-पुराणम् १.१५.८३]
कानिष्ठ्यं श्र्यैष्ठ्यम् अप्य् एषां पूर्वं नास्ति द्विजोत्तम ॥13 [विष्णु-पुराणम् १.१५.८४अब्]
तप एव गरीयो ऽभूत् प्रभावश् चैव कारणम् ॥” इति [विष्णु-पुराणम् ]
निषेकेनैव रुद्रस्यापि उत्पत्तिः
रुद्रोत्पत्तिर् अपि निषेकेनेति श्रूयते। शतपथे- “अभूद् वा इदं सर्वं प्रतिष्ठा”
इत्य् आरभ्य “भूतानाञ् च प्रजापतिस् संवत्सरायादिक्षत14 भूतानां ग्रहपतिर् आसीद् उषा पत्नी”15त्य् आदिकम् उक्त्वा “भूतानां पतिः संवत्सर उषसि रेतो ऽसिञ्चत् संवत्सरे कुमारो ऽजायत तस्य रुद्रस्य नाम करोती”16त्य् आदि।
निषेकक्रियाप्रकारः
निषेकक्रियाप्रकारो ऽपि श्रूयते हि।
“नग्नं कृत्वोरुम् उपप्रवर्तयति
यदा हि नग्न ऊरुर् भवत्य्
अथ मिथुनीभवतो
ऽथ रेतस् सिच्यते
ऽथ प्रजाः प्रजायन्ते”
इति,
“रेतस एव सिक्तस्य
बहुशो रूपाणि विकरोति
स वै प्रजायते श्वः श्वो17 भूयान् भवति”
+इति,
“रेतो मूत्रं विजहाति
योनिं प्रविशद् इन्द्रियं,
गर्भो जरायुणा वृतः
उल्बं जहाति जन्मना”18
इति। मुण्डोपनिषदि -
“पुमान् रेतस् सिञ्चति
योषितायां बह्व्यः19 प्रजास् सृजमानास् सरूपाः”20
इति। छान्दोग्ये -
“योषा वा व गौतमाग्निर्”
इत्य् आरभ्य
“तस्य उपस्थ एव समिद्।
यद् अन्तः करोति ते ऽर्चिषा।21
अभिनन्दा विस्फुलिङ्गास्।
तस्मिन्न् अग्नौ22 देवा रेतो जुह्वति।
तस्या आहुतेर् गर्भस्23 सम्भवति”24
+इति च।
सृष्टिकालाद् आरभ्य निषेकाद् एवोत्पत्तिः
श्रीविष्णुपुराणे- “प्रजास् सृजेति व्यादिष्टः पूर्वं दक्षस् स्वयम्भुवा ।
यथा ससर्ज भूतानि तथा श्रुणु महामते ॥25 [विष्णु-पुराणम् १.१५.८६]
मनसा त्व् एव भूतानि पूर्वं दक्षो ऽसृजत् तदा ।
देवान् ऋषींस् तु गन्धर्वान् असुरान् पन्नगांस् तथा ॥26 [विष्णु-पुराणम् १.१५.८७]
यदा ऽस्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः ।
ततस् सञ्चिन्त्य बहुशः सृष्टिहेतोः प्रजापतिः ॥27 [विष्णु-पुराणम् १.१५.८८]
मैथुनेनैव धर्मेण सिसृक्षुर् विविधाः प्रजाः ।
ततः प्रभृति मैत्रेय प्रजा मैथुनसम्भवाः ॥” [विष्णु-पुराणम् १.१५.७९अब्?]
भारते- “न चैषां मैथुनो धर्मो बभूव भरतर्षभ ।
सङ्कल्पाद् एव चैतेषां गर्भस् समुपपद्यते ॥28 [महाभारतम् १२.२००.३५]
तत्र त्रेतायुगे काले संस्पर्शाज् जायते प्रजा ।29
न ह्य् अभून् मैथुनो धर्मस् तेषाम् अपि नराधिप30 ॥ [महाभारतम् १२.२००.३६]
द्वापरे मैथुनो धर्मः प्रजानाम् अभवन् नृप ।
तथा कलियुगे काले31 द्वन्द्वम् आपेदिरे जनाः ॥” इति [महाभारतम् १२.२००.३७]
एवं श्रुतिस्मृतिषु सृष्टिकालाद् आरभ्य निषेकाद् एवोत्पर्32 इति श्रवणात् निषेकेन विना उत्पादनसामर्थ्याभावाच् च निषेकादिमत्वाद् इत्य् उक्तम्।33
निषेकशब्दार्थनिर्णयः
अत्रापस्तम्बीया एवम् आहुः। “निषेको नाम गर्भाधानम् एव, निषेकगर्भाधानयोः पर्यायत्वात् गर्भाधानातिरेकेण निषेकशब्दस्यार्थान्तरासम्भवाच् च।34 गर्भाधानशब्दस्यार्थे विचार्यमाणे ऽगर्भो ऽस्मिन्न् आधीयतेऽ35 इति व्युत्पत्त्या ऽइन्द्रियं वै गर्भऽ36
इति श्रुत्यनुसारेण रेतस्सेचनम् एव गर्भाधानम् इत्य् अवगतेः37 निषेकादित्वम् अस्माकम् अप्य् अस्ती"ति।
अत्र बौधायनीयः प्रत्यवतिष्ठन्ते। “यद् उक्तं ऽनिषेको नाम गर्भाधानम् निषेकगर्भाधानयोः पर्यायत्वाद्ऽ; इति - तदसत्। निषेकगर्भाधानयोः पृथक्त्वेन प्रतिपादनात् पर्यायत्वं न घटते। यथा - ऽचतुर्थ्यां स्नातायां निशायाम् अलङ्कृत्य शयने ऽभिमन्त्रयते ऽविष्णुर् योनिम्ऽ; इत्य् उपक्रम्य ऽअथैनाम् उपैतिऽ; - ऽत्वां पूषन्न् ॥।ऽ38 इति।
एवं निषेक उक्तः। ऽअथ गर्भाधानविधिं व्याख्यास्यामः। पूर्वपक्षे पुण्ये नक्षत्रे ब्राह्मणान् अन्नेन परिविष्य पुण्याहं39 वाचयित्वा अथ देवयजनप्रभृत्याग्निमुखात् कृत्वा पक्वाज् जुहोति - प्रवेधसे कवये मेध्यायेऽ40ति। इति गर्भाधानम् उक्तम्। एवं निषेकगर्भाधानयोः पृथक्त्वेन कीर्तनात्41 निषेक एव गर्भाधानम् इति वक्तुम् अयुक्तम्।
किञ्च आपस्तम्बसूत्रे42 निषेकपूर्वकत्वेनानुक्तत्वात् चत्वारिंशत् संस्कारपरिगणने अगृहीतत्वाच् च तेषां निषेकाद्यास् संस्कारा न भवन्तीति।43”
अत्र आपस्तम्बीया ऊचुः। “यद्य् अस्माकं निषेकाद्याः संस्कारा न भवन्तीत्य् उच्यते तर्हि युष्माकम् अपि तथैव, भवत् सूत्रे ऽपि44 >यतो एतद् धुतः प्रहुतः45 आहुतः शूलगवो बलिहरणं प्रत्यवरोहणम् अष्टका पार्वणहोम इती<46त्य् आरभ्य विवाहाद्येवोक्तम् - न तु निषेकादित्वेन। किञ्च सूत्रोपक्रमे47 संस्कारगणनायाम् अपि निषेकस् तु संस्कारत्वेन वा शब्दमात्रेण वा न प्रतिपादितः। किञ्च >चतुर्य्यां स्नातायोम्<48 इत्यादिना पृथक्त्वेन विधीयमानस्य गर्भाधानस्य लक्षणप्रतिपादनाभावात् विशिष्य कालनिरूपणाभावाच् च।49
वैखानसानाम् एव निषेकादि-संस्कारवत्त्वम्
(वैखानसे सूत्रे एव निषेकादित्वेन उक्तत्वाच् च वैखानसानाम् निषेकादित्वम्),
आवयोः50 उभयोर् अपि निषेकाद्यास् संस्कारा न भवन्ति इति। अयम् एव सिद्धान्तः।51
इतरेषां गर्भधानादिसंस्कारवत्त्वम्
तथा च- “निषेकाद्याः श्मशानान्तास् तेषां वै मन्त्रतः क्रियाः । [याज्ञवल्क्यध्श् १.१०च्द्]
गर्भाधानम् ऋतौ पुंससवनं स्पन्दानात् पुरा ॥52” [याज्ञवल्क्यध्श् १.११अब्]
इति याज्ञवल्क्योक्तौ तेषाम् इति शब्देन “मुख्ये सम्भवत्य् अमुख्यकल्पनायोगाद्” इति न्यायेन मुख्यत्वेन श्री-वैखानस-सूत्रे एव निषेकादित्वस्य विद्यमानत्वात् वैखानसा एव परामृश्यन्ते इति - तेषाम् एव निषेकादित्वम्, इतरेषां निषेकादित्वं न सम्भवति। अपि तु गर्भाधानादित्वम् एव। अयम् एव याज्ञवल्क्याभिप्रायः।53
अथोच्येते54। गर्भाधान-लक्षणम् अनुक्तं विशिष्य कालश् चानुक्त इति यद् उक्तम् तत्रोच्यते - सर्वेषां कारणभूतेन परमाचार्येण विखनसा प्रणीते श्री-वैखानस-सूत्रे “अथ गृहीतगर्भालिङ्गानि शरीराटोपः सक्थिसीदनं द्वेषो भर्तुर् अरुचिर् आहारे लालाप्रकोपः खरता वाचः स्फुरणं योनेर् इति गर्भस्य दैवानुबन्धं ज्ञात्वा आपूर्यमाणपक्षे पुण्ये पुन्नाम्नि शुभे नक्षत्रे”55 इत्यादिना गर्भाधान-लक्षणकालयोर् अपि वैखानससूत्रे प्रतिपादित्वात्-56
“वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः ।
सर्वैः स धर्मो ऽनुष्ठेयो नात्र कार्या विचारणा ॥57”
इति भृगुणोक्तत्वात् “अनुक्तम्58 अन्यतो ग्राह्यम्” इति न्यायात् विखनसः59 आचार्यत्वेन
भारतादिषु प्रतिपादितव्याच् च “अनुक्तांशेषु वैखानसोक्तप्रकारेण अस्माभिर् अपि कर्तुं युक्तम्” इति। एतद् एव युक्ततरम्। तथाहि-60
निषेकगर्भाधानयोर् अपर्यायत्वम्
आपस्तम्बादीनाम् आचार्येण बोधायनेन
स्वशिष्यान् प्रति61
“अथात्र पाकयज्ञानां प्रायश्चित्तिर्” इत्य् आरभ्य
“व्याहृतीनां प्रयोगे अयथाकृतं यथाकृतं62 भवतीत्य् आचार्या ब्रुवते। तत्राप्य् उदाहरन्ति”63 इति,
“चतुर्थी-प्रभृत्य् आ षोडशीम् उत्तराम् उत्तराम्64 उपैति।
प्रजानिःश्रेयसम् ऋतुगमनम् इत्य् आचार्याः।
सर्वाण्य् उपगमनानि मन्त्रवन्ति भवन्तीति बोधायनः।
यच् चादौ यच् चर्ताव् इति शालीकिर्”65
इति -
“अथास्यातिथयो भवन्ति गुरोस् समानवृत्तिर् वैखानसः स्नातको राजा वा धर्मयुक्तः। तेषाम् अभ्युत्थायासनं पाद्यम् अर्हणम् अर्घ्यं वा प्रजुञ्जीत”66 इति - “एकम् अग्निहोत्रं सायम् उपक्रमं प्रातर् अपवर्गम् आचार्या ब्रुवते तत्रोदाहरन्ति” इति, “वैखानसानां न द्रुह्येत्” इत्यादि सूत्रेषु “आचार्या ब्रुवते” इति निर्दिष्टः आचार्यः वैखानस एवेति वक्तुं युक्तम्67 - मन्वादीनां शारीरसंस्कारवक्तृत्वाभावात्, बोधायनेन प्रतिपादितस्य वैखानससूत्रे विद्यमानत्वात्,
“गुरोः समानवृत्तिर् वैखानसः”68 इति बोधायनेनैवोक्तत्वात्, “विखनसाचार्ये"ति।69
भारते प्रतिपादित्वाच् च। तथा च सर्वेषां कारणभूतेन विखनसा प्रणीतत्वात् तत्सूत्रोक्तप्रकारेण सर्वैः70 कर्तुं युक्तम् एव। किञ्च अरण्यादिपात्र-लक्षणम् अपि तत्रैव प्रतिपादितम्।
अन्ये ऽप्य् आहुः। “अस्माकम् अपि निषेकादित्वं71 समानम्” इति। तद् अप्य् असत्।
गर्भाधानशब्दस्यार्थे विचार्यमाणे “योनिं प्रविशद् इन्द्रियं गर्भो जरायुणा वृत”72 इति
प्रमाणेन गर्भगोले प्रविष्टस्य रेतस एव गर्भशब्दवाच्यत्वम् अवगम्यते। न त्व् इतरस्य केवल रेतसः। तथा - “आसिञ्चतु प्रजापतिर् धाता गर्भं दधातु” इति निषेकक्रियानन्तरभावित्वात् गर्भाधानस्य, निषेकस्य तु प्रत्यार्तवं कर्तुं व्योग्यतासम्भवात् अधृतरेतसः स्रावदोषप्रसङ्गात् श्रुतिस्मृतिविरोधात् प्रत्यक्षविरोधाङ् च निषेक एव गर्भाधानम् इति वक्तुम् अयुक्तम्।73
निषेकप्रथमक-संस्कारवतां श्रैष्ठ्यम्
अथ निषेकादित्वे को विशेष इति चेत् - उच्यते74। निषेकादिक्रियावताम् एव
श्रोत्रियत्वं धर्मशास्त्राधिकारित्वं ब्रह्मशरीरित्वञ्75 च बोधायनादिभिर् उक्तम्। यथा-
“निषेके गर्भसंस्कारे जातकर्मक्रियासु च ।
विधिवत् संस्कृता मन्त्रैः चीर्णा व्रतसमापनात् ॥
श्रोत्रिया इति विज्ञेयाः शाखापाराश् च ये द्विजाः ।
विधिवत् गृह्यते पाणिम् ऋतौ चीर्णव्रतास् तु ते76 ॥
मन्त्रवत्सम्प्रयोगेन77 ब्राह्मण्यां गर्भम् आदधुः ।
निषेकाद्याः श्मशानान्ताः सत्क्रिया ब्राह्मणाश्रिताः ॥” इति
याज्ञवल्क्य- “निषेकाद्याः78 श्मशानान्ताः तेषां वै मन्त्रतः क्रियाः । [याज्ञवल्क्यध्श् १.१०च्द्]
गर्भाधानम् ऋतौ पुंसस्सवनं स्पन्दनात् पुरा ॥79” इति [याज्ञवल्क्यध्श् १.११अब्]
मनु- “निषेकादिश्मशानान्ताः मन्त्रैर् यस्योदिताः क्रियाः80 ।
तस्य शास्त्रे ऽधिकारो ऽस्मिन् ज्ञेयो नान्यस्य कस्यचित् ॥” इति [मनु-स्मृतिः २.१६]
अत्र मनुवाक्ये “यस्य - तस्य - कस्यचित्” इत्यादि शब्दानां वैयर्थ्यप्रसङ्गात् “सर्वेषां निषेकादित्वं समानम्” इति वक्तुम् अयुक्तम्।
आश्वमेधिके भगवान्- “वैदिकैः कर्मभिः पुण्यैः निषेकादिर् द्विजन्मनाम् ।81
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥ [महाभारतम् १४, अप्प्। ४.२५१३]
गार्भैर् होमैर् जातकर्म82नामचौलोपनायनैः । [महाभारतम् १४, अप्प्। ४.२५१४]
स्वाध्यायैश् च तपोभिश् च83 विवाहस्नातकव्रतैः ॥ [महाभारतम् १४, अप्प्। ४.२५१५]
महायज्ञैश् च यज्ञैश् च ब्राह्मीयं क्रियते तनुः ।” इति [महाभारतम् १४, अप्प्। ४.२५१६]
एवम् अन्यत्रापि द्रष्टव्यम्।
बोधायनेन “यतो एतद् धुतम्84” इत्यादिना सूत्रादौ विवाहपूर्वकत्वेनोक्तम्।
आपस्तम्बेन “अथ कर्माण्य् आचाराद्यानि गृह्यन्ते85” इत्य् आरभ्य “उपनयनं व्याख्यास्याम” इति। भारद्वाजसत्याषाढाभ्याम् आश्वलायनेन च “उक्तानि वैतानिकानी”86त्य् आरभ्य वैश्वदेवपूर्वकत्वेन। द्राह्यायणेन87 “अथातो गृह्यकर्माणि, उदगयनपूर्वपक्ष”88 इत्य् आरभ्य आचारादित्वेन। कात्यायनश् च “अथातो गृह्यस्थालीपाकानां कर्मे”89त्य् आरभ्य प्रतिपादितवान्। “अथ निषेकादिसंस्कारान् व्याख्यास्याम”90 इत्य् आरभ्य निषेकपूर्वकत्वेन भगवता विखनसैव91 प्रतिपादितम्।
एवं च निषेकपूर्वकत्वेनोक्तत्वाद्1 अस्य सर्वसूत्रोत्तमत्वम् एतत्सूत्रोक्त-धर्मानुष्ठानेनैव तत्सूत्रिणां सर्वोत्कृष्टत्वञ् चोपपद्यते इति श्रुतिस्मृतिपुराणादिमुखेन प्रतिपादितम् इति निरूपितः पञ्चमो हेतुः।
इति पञ्चम-हेतु-निरूपणम्
-
व्ग्ल्। दशविधहेतुनिरूपणम्[द्] २.७- निषेकसंस्कारादिमत्वात्। ↩︎ ↩︎
-
बेज़ुग् औफ़् वैक्स्म्स् १.१- अथ निषेकादिसंस्कारान् व्याख्यास्यामः। ऋतुसङ्गमनगर्भाधानपुंसवनसीमन्तविष्णुबलिजातकर्मुत्थाननामकरणान्नप्राशनप्रवासागमनपिण्डवर्धनचौडकोपनयनपारायणव्रतबन्धविसर्गोपाकर्मसमावर्तनपाणिग्रहणानीत्य् अष्टादश संस्काराः शारीराः। ↩︎
-
लिएस् मित् दशविधहेतुनिरूपणम्[त्] ३७०- जातकोपनयनविवाहानन्तरभाविनो। ↩︎
-
बेज़ुग् औफ़् Ṛव् १०.०९०.१२.१{१९}: ब्राह्मणो अस्य मुखम् आसीद्। ↩︎
-
महाभारतम्- यस् तु। ↩︎
-
महाभारतम्- शौचाचारस्थितः सम्यग् [दिए लेसर्त् दशविधहेतुनिरूपणम्[द्] इस्त् जेदोछ् व्।ल्।] विघसाशी गुरुप्रियः ॥ ↩︎
-
महाभारतम्- नित्यव्रती। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ३८९ इन्स्। जौर्वः। ↩︎
-
हरिवंशः- संयोगः। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ३८९- अजितात्मनाम्; हरिवंशः- अमितात्मनाम्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ३९०-३९१ स्तत्त् दशविधहेतुनिरूपणम्[द्] ८०.२१-२३- इति (इत्य् उक्तत्वात्) निषेकं विनोत्पत्तिश्रवनाच् च निषेकस्यादित्वं न सम्भव(ती)ति (यद् उक्तं निषेकविरहे ऽप्य् उत्पत्तिस् सम्भवतीति) तन् नोपपपद्यते। भगवतो नारायणस्य ब्रह्मणो महर्षीणां वा तपोबलाद् योगबलाच् च तेषाम् एव मानसप्रजासृष्टौ शक्तिस् सम्भवति। ↩︎
-
विष्णु-पुराणम् १.१५.७९अब्(?): तपोविषेशैः सिद्धानां तदा ऽत्यन्त तपस्विनाम्। ↩︎
-
विष्णु-पुराणम् १.१५.८४अब्(?): कानिष्ठ्यं ज्यैष्ठ्यम् अप्य् एषां पूर्वं नाभूद् द्विजोत्तम। ↩︎
-
लिएस् मित् शतपथब्र्- संवत्सरादीक्षन्त। ↩︎
-
बेज़ुग् औफ़् शतपथब्र् ६.१.३.७- अभूद् वा ऽयं प्रतिष्ठेति। तद् भूमिर् अभवत् ताम् अप्रथयत् सा पृथिव्य् अभवत् तस्याम् अस्यां भूतानि च पतिः संवत्सरादीक्षन्त भूतानां पतिर् गृहपतिर् आसीद् उषा पत्नी; दशविधहेतुनिरूपणम्[त्] ३९२- उषाः पत्नीः। ↩︎
-
बेज़ुग् औफ़् शतपथब्र् ६.१.३.८-१०- तद् यानि तानि भूतानि। ऋतवस् ते ऽथ यः स भूतानाम् पतिः संवत्सरः सो ऽथ या सोषाः पत्न्यौषसी सा तानीमानि भूतानि च भूतानां च पतिः संवत्सर उषसि रेतो ऽसिञ्चन्त्स संवत्सरे कुमारो ऽजायत सो ऽरोदीत् [॥।] तम् अब्रवीद् रुद्रो ऽसीति। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ३९३- श्वश्वो। ↩︎
-
औछ् ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ८४.१५। ↩︎
-
लिएस् मित् मुण्डकउ उन्द् दशविधहेतुनिरूपणम्[त्] ३९४- बह्व्यीः। ↩︎
-
बेज़ुग् औफ़् मुण्डकउ २.१.५- पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात् सम्प्रसूताः। ↩︎
-
लिएस् मित् दशविधहेतुनिरूपणम्[त्] ३९४- ऽर्चिषः। ↩︎
-
लिएस् मित् दशविधहेतुनिरूपणम्[त्] ३९५- तस्मिन्न् एतस्मिन्न् अग्नौ। ↩︎
-
छान्दोग्योपनिषत्- गर्भः। ↩︎
-
बेज़ुग् औफ़् छान्दोग्योपनिषत् ५.८.१-२- योषा वा व गौतमाग्निर्। तस्य उपस्थ एव समित्। यद् उपमन्त्रयते स धूमः। योनिर् अर्चिः। यद् अन्तः करोति ते ऽङ्गाराः। अभिनन्दा विस्फुलिङ्गास् तस्मिन्न् एतस्मिन्न् अग्नौ; देवा रेतो जुह्वति। तस्या आहुतेर् गर्भस् सम्भवति। ↩︎
-
विष्णु-पुराणम्- यथा ससर्ज भूतानि तथा शृणु महामुने। ↩︎
-
विष्णु-पुराणम्- मनसान्य् एव भूतानि पूर्वं दक्षो ऽसृजत्तदा । देवान् ऋषीन् सगन्धर्वान् असुरान् पन्नगांस् तथा ॥। ↩︎
-
विष्णु-पुराणम्- ततः सञ्चिन्त्य् स पुनः सृष्टिहेतोः प्रजापतिः। ↩︎
-
महाभारतम्- अपत्यम् उदपद्यत; दिए लेसर्त् देस् दशविधहेतुनिरूपणम्[द्] इस्त् अल्स् व्।ल्। अन्गेगेबेन्; दशविधहेतुनिरूपणम्[त्] ३९६- गर्भसमुपपद्यते। ↩︎
-
महाभारतम्- सङ्कल्पाज्ञायते प्रजा। ↩︎
-
महाभारतम्- जनाधिप; दशविधहेतुनिरूपणम्[द्] इस्त् व्।ल्। ↩︎
-
महाभारतम्- तथा कलियुगे राजन्। ↩︎
-
लिएस्- एवोत्पत्तिर्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ३९६-३९७ स्तत्त् दशविधहेतुनिरूपणम्[द्] ८२.९-१०- अत्र श्रुतिस्मृतिषु सृष्टिकालाद् आरभ्य निषेकाद् एवोत्पत्तिर् इति श्रूयमाणत्वात् निषेकेन विनोत्पादनसामर्थ्याभावाच् च निषेकादित्वेनोक्तम्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ३९६- *भ्वाद् गर्भा। ↩︎
-
व्ग्ल्। न्व्ब् १.१- गर्भः आधीयते अनेनास्याम् इति गर्भाधानम्। ↩︎
-
व्ग्ल्। दशविधहेतुनिरूपणम्[द्] ८१.१४ उन्द् ८४.१५- इन्द्रियम् गर्भो। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ३९७- अतो स्तत्त् अवगतेः। ↩︎
-
बेज़ुग् औफ़् बौधायन-गृह्य-सूत्रम् १.७.३७-४४- चतुर्त्यां स्नातायां निशायाम् अलङ्कृत्य शयने ऽभिमन्त्रयते विष्णुर् योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु। आसिञ् चतुप्रजापतिर् धाता गर्भं दधातु ते (३७)। यथाग्निगर्भा पृथिवी द्यौर्यथेन्द्रेण गर्भिणी। वायुर् यथा दिशां गर्भ एवं गर्भं दधातु ते (३८)। गर्भं धेहि सिनीवाली गर्भं धेहि सरस्वति। गर्भं ते अश्विनौ देवाव् आघात्तां पुष्करस्रजा (३९)। हिरण्ययी अरणी यं निर्मन्थतो अश्विना। तं ते गर्भं दधाम्य् अहं दशमे मासि सूतवे (४०)। नेजम् एष परापत सपुत्रः पुनर् आपतः। अस्यै मे पुत्रकामायै गर्भम् आधेहि यः पुमान्। इति (४१)। अथैनां परिष्वजति अमूहम् अस्मि सा त्वं द्यौर् अहं पृथिवी त्वं रेतो ऽहं रेतिभृत् त्वं मनो ऽहम् अस्मि वा त्वं सामाहम् अस्मि ऋक्त्वं तावेहि सम्भवाव सह रेतो दधावहै पुंसे पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय इति (४२)। आत्मानं प्रत्यभिमृशते अहं गर्भम् अदधाम् ओषधीष्व् अहं विश्वेषु भुवनेष्व् अन्तः। अहं प्रजा अजनयन्पितृणाम् अहं जनिभ्यो अपरीषु पुत्रान् इति (४३)। अथैनाम् उपैति तां पूषञ्छ्वितमोमरयस्व यस्यां बीजं मनुष्या वपन्ति। या न ऊरू उशती विस्रयातै यस्याम् उशन्तः प्रहरेम शेफम् इति (४४); स्।अ। दशविधहेतुनिरूपणम्[द्] ८३.५। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०० इन्स्। इन् Üबेरेइन्स्तिम्मुन्ग् मित् बौधायन-गृह्य-शेष-सूत्रम्- स्वस्तिम् ऋद्धिम् इति। ↩︎
-
बेज़ुग् औफ़् बौधायन-गृह्य-शेष-सूत्रम् २.२.१- अथ गर्भाधानं व्याख्यास्यामः। पूर्वपक्षे पुण्ये नक्षत्रे ब्राह्मणान् अन्नेन परिविष्य पुण्याहं स्वस्त्य् ऋद्धिम् इति वाचयित्वाथ देवयजनोल्लेखनप्रभृत्याग्निमुखात् कृत्वा पक्काज् जुहोति- प्रवेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे ॥। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४००- विद्यमानत्वान्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०१ ॐ। आपस्तम्बसूत्रे। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०१- संस्कारेषु (न) अगृहीतत्वान् निषेकशब्दस्मरणाभावाच् च युष्माकं निषेकाद्यसंस्कारा न भवन्तीत्य् स्तत्त् संस्कारपरिगणने अगृहीतत्वाच् च तेषां निषेकाद्यास् संस्कारा न भवन्तीति। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०२ ॐ। तथैव, भवत् सूत्रे ऽपि। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०२ मित् बौधायन-गृह्य-सूत्रम्- प्रहुत। ↩︎
-
बेज़ुग् औफ़् देन् एर्स्तेन् सत्ज़् इम् बौधायन-गृह्य-सूत्रम् (१.१.१): यथो एतद् धुतः प्रहुत आहुतश् शूलगवो बलिहरणं प्रत्यवरोहणम् अष्टकाहोम इति पाकयज्ञसंस्था इति। स्।अ। दशविधहेतुनिरूपणम्[द्] ८५.१५। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०२- सूत्रोपक्रमेन। ↩︎
-
लिएस्- चतुर्थ्यां स्नातायाम्। बेज़ुग् औफ़् बौधायन-गृह्य-सूत्रम् १.७.३७फ़्फ़्।; स्।अ। दशविधहेतुनिरूपणम्[द्] ८२.१८-१९। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०३- कालरूपणाभावात् निषेकादित्वेन। ↩︎
-
लिएस्- अवयोः। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०३ स्तत्त् दशविधहेतुनिरूपणम्[द्] ८३.७-८- निषेकादित्वेन श्रीवैखानसे सूत्रे उक्तत्वाच् च उभयोर् अपि निषेकाद्यास् संस्कारा न भवन्ति। ↩︎
-
दिएसेर् वेर्स् इस्त् औछ् इन् दशविधहेतुनिरूपणम्[द्] ८५.३-४ ज़ितिएर्त्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०४ स्तत्त् दशविधहेतुनिरूपणम्[द्] ८३.११-१४- याज्ञवल्क्येन तेषाम् इत्य् उक्तत्वात् “मुख्ये सम्भवत्य् अमुख्यकल्प नायोगाद्” इति न्यायेन मुख्यत्वेन श्री-वैखानस-सूत्रे विद्यमानत्वाच् च इतरेषां निषेकादित्वं न सम्भवति। ↩︎
-
लिएस् मित् दशविधहेतुनिरूपणम्[त्] ४०५- अथोच्यते। ↩︎
-
बेज़ुग् औफ़् वैक्स्म्स् ३.१०- अथ गृहीतगर्भालिङ्गानि शरीराटोपः सक्थिसीदनं द्वेषो भर्तुर् अरूचिराहारो लालाप्रकोपः खरता वाचः स्पुरणं योनेर् इति गर्भस्य दैवानुबन्धं ज्ञात्वापूर्यमाणपक्षे पुण्ये पुन्नाम्नि शुभे नक्षत्र आज्येनाघारं हुत्वा तां मङ्गलयुक्ताम् उपवेश्य परिषिच्य धातादि पञ्च वारुणं मूलहोमं स्विष्टाकारं च हुत्वा वृषो ऽसीति यवान् ददाति। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०५ स्तत्त् दशविधहेतुनिरूपणम्[द्] ८३.१५-२०- अथोच्यते। गर्भाधान-लक्षणम् अप्य् अनुक्तं विशिष्य कालश् चानुक्त इति तत् सर्वेषां कारणभूतेन परमाचार्येण विखनसा प्रणीते वैखानससूत्रे “अथ गृहीतगर्भालिङ्गानि शरीराटोपः सक्थिसीदनं द्वेषा भर्तुर् अरुचिर् आहारो लालाप्रकोपः खरता वाचः स्फुरणं योनेर् इति गर्भस्य दैवानुबन्धं ज्ञात्वापूर्यमाणपक्षे पुन्नाम्नि शुभे नक्षत्रे” इत्यादिना गर्भाधान-लक्षणकालयोर् अपि प्रतिपादित्वात्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०६- विचारणेति; दिएसेर् वेर्स् इस्त् अल्स् “पुरातन्त्र” ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ३५.२-३ उन्द् अल्स् “आनन्द-संहिता” (आनन्द-संहिता ४.४९) ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] १४.११-१२। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०६ इन्स्। अविरुद्धम्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०६ ॐ। विखनसः। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०७- भारते- “वैखानसविखनसाचार्ये"त्य् आदि स्तत्त् एतद् एव युक्ततरम्। तथाहि। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०७ बोधायनः स्तत्त् आपस्तम्बादीनाम् आचार्येण बोधायनेन स्वशिष्यान् प्रति। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०७- यथावद्। ↩︎
-
बेज़ुग् औफ़् बौधायन-गृह्य-सूत्रम् ४.४.१-४- अथ पाकयज्ञानां प्रायश्चित्तिः (१)। तद् यथा- द्रव्यहविर् मन्त्रकर्मादीनाम् अतिपन्नस्कन्नभिन्नभग्ननष्टदुष्टविपरीतदग्धाशृत्यनिकृतानाम् अनाम्ना तेषु जुहुयात्- ऽमनो ज्योतिः, अयाश् चाग्ने, यदास्मिन् कर्माणि, स्वस्ति न इन्द्रो वृद्धश्रवाःऽ; इति। व्याहृतिभिश् च (२)। व्याहृतीनां प्रयोगे यथाकृतं यथावद् भवतीत्य् आचार्य ब्रुवते (३)। तत्रोदाहरन्ति- भूर् इत्य् ऋचो भुव इति यजुंषि सुवर् इति सामानि (४)। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०७ इन्स्। युग्माम्। ↩︎
-
बेज़ुग् औफ़् बौधायन-गृह्य-सूत्रम् १.७.४५-४८- स एवम् एव चतुर्थीप्रभृत्या षोडशीम् उत्तराम् उत्तरां यौग्माम् उपैति (४५)। प्रजानिश्श्रेयसम् ऋतुगमनम् इत्य् आचार्याः (४६)। सर्वाण्य् उपगमनानि मन्त्रवन्ति भवन्तीति बोधायनः (४७)। यच् चादौ यच् चर्ताव् इति शालिकिः (४८)। ↩︎
-
बेज़ुग् औफ़् बौधायन-गृह्य-सूत्रम् २.९.१७-१८- अथास्मा अतिथिर् भवति गुरोस् समानवृत्तिर् वैखानसो वा गृहस्थो वानप्रस्थः परिव्राजको गतश्रीस् स्नातको राजा वा धर्मयुक्तः (१७)। तेषाम् अभ्युत्थायासनं पाद्यम् अर्हणम् अर्घ्यं वा प्रयुञीत (१८); स्।अ। दशविधहेतुनिरूपणम्[द्] १०.६। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०८- इत्यादिभिर् आपस्तम्बादीनाम् आचार्येण बोधायनेन स्वशिष्यान् “प्रत्याचार्या ब्रुवत” इति वक्तुम् युक्तत्वात् स्तत्त् इत्यादि सूत्रेषु “आचार्या ब्रुवते” इति निर्दिष्टः आचार्यः वैखानस एवेति वक्तुं युक्तम्। ↩︎
-
बेज़ुग् औफ़् बौधायन-गृह्य-सूत्रम् २.९.१७। ↩︎
-
महाभारतम् १२.३२५.००४ज्-क्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०९ ॐ। सर्वैः। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४०९ ॐ। निषेकादित्वम्। ↩︎
-
औछ् ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ८१.१४। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४११-४१२ स्तत्त् दशविधहेतुनिरूपणम्[द्] ८४.१६-२०- गर्भगोले प्रविष्टस्य रेतस एव गर्भशब्दवाच्यत्वम् न त्व् इतरस्य तथा “आसिञ्चतु प्रजापतिर् धाता गर्भं दधातु” इति निषेकक्रियान्तर्भावित्वात् प्रत्यार्तवं कर्तव्ययोग्यता सम्भवात् अधृतरेतसः स्रावदोषप्रसङ्गाच् छ्रुतिस्मृतिविरोधात् प्रत्यक्षविरोधाङ् च निषेक एव गर्भाधानम् इति वक्तुम् अयुक्तम्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४१२- निषेकादिर् वा अस्तु को विशेषः इति चेत् स्तत्त् अथ निषेकादित्वे को विशेष इति चेत् - उच्यते। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४१२- ब्रह्मशरीरत्वञ्। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४१३- चीर्णव्रताव् उभौ। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४१३- मन्त्रवत्सम्प्रयोगे तौ। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४१३- निषेकादिश्। ↩︎
-
दिएसेर् वेर्स् इस्त् औछ् इन् दशविधहेतुनिरूपणम्[द्] ८३.९-१० ज़ितिएर्त्; दशविधहेतुनिरूपणम्[त्] ४१३ इन्स्। (बहिर् इति)। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४१३ मित् मनु-स्मृतिः- मन्त्रैर् यस्योदितो विधिः। ↩︎
-
महाभारतम् १४, अप्प्। ४.२५१२। ↩︎
-
महाभारतम्- गर्भहोमैर् जातकर्म। ↩︎
-
महाभारतम्- स्वाध्यायैस् तद्व्रतैश् चैव। ↩︎
-
बेज़ुग् औफ़् बौधायन-गृह्य-सूत्रम् १.१.१, औछ् इन् दशविधहेतुनिरूपणम्[द्] ८३.१-३ ज़ितिएर्त् (स्।ओ।)। दशविधहेतुनिरूपणम्[त्] ४१४ : धुत। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४१४- कर्मण्याचाराध्यानि गृह्यन्त। ↩︎
-
बेज़ुग् औफ़् आश्वलायनगृह्यसूत्रम् १.१.१- उक्तानि वैतानिकानि गृह्यानि वक्ष्यामः। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४१५- द्राह्यायणेन। ↩︎
-
द्राह्यायणगृह्यसूत्र? ↩︎
-
कात्यायनगृह्यसूत्र? ↩︎
-
बेज़ुग् औफ़् वैक्स्म्स् १.१ (स्।ओ।)। ↩︎
-
दशविधहेतुनिरूपणम्[त्] ४१६- विखनसा। ↩︎