०४ समन्त्रक-सर्व-क्रिया-प्रतिपादकत्वम्

चतुर्थ-हेतु-निरूपणम्

वैखानससूत्रस्य समन्त्रकसर्वक्रियाप्रतिपादकत्वम्

इदानीं तावत् वैखानससूत्रोक्त-धर्मानुष्ठानेन अनन्तस्थिरफलप्राप्तिः सत्कुलीनत्वं फलभूयस्त्वम् अपि भवतीति ज्ञापयितुं “समन्त्रकसर्वक्रियाप्रतिपादकत्वाद्” इति चतुर्थो हेतु निरूप्यते। तद् यथा-
अत्र सूत्र1 नित्यानुष्ठानविधौ “इन्द्रो ऽहम् उभाभ्याम्” इत्य् आरभ्य करप्रक्षालनादीनि समन्त्रकत्वेनोक्तानि। ब्रह्मयज्ञे “ऋतञ् च सत्यञ् चे” त्य् आदि विशेषः। पुण्याहे समन्त्रकत्वं स्पष्टम्। सूत्रान्तरेष्व् अनुक्तम् औपासनाग्निकुण्दविधानं प्रतिपादितम्। आघारविधौ समन्त्रकत्वं सिद्धम्। अन्तहोमे तथैव। नान्दीमुखपूर्वकोपनयनादिषु शारीरेषु संस्कारेषु समन्त्रकत्वं प्रत्यक्षम्। स्थालीपाकादिषु “पूर्ववद्” इत्य् अनेन पूर्वं विस्तरेण प्रतिपादितस्याघारविधेः प्रयोगसौकर्यार्थं सङ्क्षेपेण प्रतिपादनम्।

अपरक्रियायाम् अपि समन्त्रकत्वम्

अपरक्रियायाम् अप्य् अस्ति समन्त्रकत्वम्। तत्र क्वचित् “तूष्णीम्” इत्य् उक्त्वत्वात् समन्त्रकत्वं नास्तीति स्वयम् एवाशङ्क्य प्रकारान्तरेण समन्त्रकत्वं प्रत्यपादयत्। तत्र तत्र क्वचित् मन्त्रयोग्यताभावे ऽपि विहितविशये सर्वत्र समन्त्रकत्वम् अस्तीत्य् अवगम्यते। सूत्रान्तरेषु विहितविशयेष्व् अपि समन्त्रकत्वानुक्तेः तेषां समन्त्रकसर्वक्रियात्वं नास्ति। तत्र अपरक्रियायाम् अपि सूत्रान्तरानपेक्षा दृश्यते।
बोधायनेन अग्निमुखादिषु परिधिपरिस्तरणादिक्षेपणम् तूष्णीम् एवोक्तम्। समन्त्रकत्वेन कर्मणाम् उक्तौ को विशेष इति चेत् - उच्यते। कर्मणां मन्त्रवत्त्वे हि वीर्यवत्तरत्वं कर्माराध्य भगवत्प्रीणनद्वारा अनन्तस्थिरफलप्राप्तिः सत्कुलीनत्वञ् च भवन्तीति स्मृतिपुराणादिष्व् अवगम्यते। यथा

कर्मणाम् समन्त्रकत्वे वीर्यवत्तरत्वम्

छान्दोग्ये- “यद् एव विद्यया करोति श्रद्धयोपनिषदा तद् एव वीर्यवत्तरं भवती"ति। तत्रैवं व्याख्यातम्। “मन्त्रप्रकाशितानि कर्माणि क्रियन्ते नामन्त्र कम् अस्ति कर्मे"ति।

मन्त्रहीनकर्मनिन्दा

आथर्वणे- “ऋग्यजुस्सामाख्या (?) मन्त्रेषु कर्माणि कवयो यान्य् अपश्यन्न् इति”
आरण्यपर्वणि- “व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः ।
क्रियामन्त्रैश् च संयुक्तो ब्राह्मणस् स्यान् न संशयः ॥” [महाभारतम् ३.८१.१३४]
तत्रैव- “गुणाभावे फलं न्यूनं भवत्य् अफलम् एव वा ।
अनारम्भे तु न फलं न गुणो दृश्यते ह्य् उतः ॥2” इति [महाभारतम् ३.३३.४८]
बृहन्नारदीये- “अमन्त्रतो हविर् यत् तु हूयते जातवेदसे ।
अपात्रे दीयते यच् च तद् घोरं भोगसाधनम् ॥ [बृहन्नारदप्।]
हुतं हविश् चाशुचिना दत्तं यत्कर्म यत्कृतम् ।
तत्सर्वं तव भागार्हम् अधःपातफलप्रद ॥” [बृहन्नारदप्]
इति बलिचक्रवर्तिनं प्रति भगवता वामनेनोक्तम्।
बोधायन- “गोभिर् अश्वैश् च यानैश् च कृष्या राजोपसेवया ।
कुलान्य् अकुलतां यान्ति यानि हीनानि मन्त्रतः ॥3 [बौधायन-धर्म-सूत्रम् १.५.१०.२८]
मन्त्रतस् सुसमृद्धानि4 कुलान्य् अल्पधनान्य् अपि ।
कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद् यशः ॥5” [बौधायन-धर्म-सूत्रम् १.५.१०.२९]
मनुर् अपि- “कुविवाहैः क्रियालोपैर् वेदानध्ययनेन च ।
कुलान्य् अकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ [मनु-स्मृतिः ३.६३]
शिल्पेन व्यवहारेण शुद्धापत्यैश् च केवलैः6
गोभिर् अश्वैश् च यानैश् च कृष्या राजोपसेवया ॥7 [मनु-स्मृतिः ३.६४]
अयाज्ययाजनाच् चैव नास्तिक्येन च कर्मणा8
कुलान्य् अकुलतां यान्ति यानि हीनानि मन्त्रतः9 ॥ [मनु-स्मृतिः ३.६५]
मन्त्रतस् तु समृद्धानि कुलान्य् अल्पधनानि च ।10
कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद् यशः ॥11” [मनु-स्मृतिः ३.६६]

मन्त्रपूतन् तु यच् छ्राद्धम्” इति सोमोत्पत्तौ स्मर्यते।
श्रीगीतायाञ् च- “विधिहीनम् असृष्टान्नं मन्त्रहीनम् अदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥” इत्य् उक्तम्। [भगवद्गीता = महाभारतम् ६.३९.१३]
यथोपासनं फलम् इति च श्रुतिसिद्धं “यथा क्रतुर् अस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवती"ति।
अतः शारीरेषु संस्कारेषु समन्त्रकसर्वक्रियाप्रतिपादनात् पूर्णत्वम्, पूर्णत्वाद् एव सर्वसूत्रोत्तमत्वं चास्य सूत्रस्य सिद्धम् इति निरूपितः चतुर्थो हेतुः।
इति चतुर्थ-हेतु-निरूपणम्।


  1. लिएस्- सूत्रे। ↩︎

  2. महाभारतम्- न गुणो दृश्यते ऽच्युत। ↩︎

  3. दिएसेर् वेर्स् इस्त् औछ् अल्स् “मनु” ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ७८.१८+२०। ↩︎

  4. बौधायन-धर्म-सूत्रम् उन्द् मनु-स्मृतिः- मन्त्रतस् तु समृद्धानि। ↩︎

  5. दिएसेर् वेर्स् इस्त् औछ् अल्स् “मनु” ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ७८.२१-२२। ↩︎

  6. मनु-स्मृतिः- शूद्रापत्यैश् च केवलैः। ↩︎

  7. दिएसेर् हल्ब्वेर्स् इस्त् औछ् अल्स् “बौधायन” ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ७८.११। ↩︎

  8. मनु-स्मृतिः- अयाज्ययाजनैश् चैव नास्तिक्येन च कर्मणाम्। ↩︎

  9. दिएसेर् हल्ब्वेर्स् इस्त् अल्स् “बौधायन” ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ७८.१२। ↩︎

  10. मनु-स्मृतिः- कुलान्य् अल्पधनान्य् अपि। ↩︎

  11. दिएसेर् वेर्स् इस्त् अल्स् “बौधायन” ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ७८.१३-१४। ↩︎