०३ श्रुतिमार्गानुसारित्वम्

तृतीय-हेतु-निरूपणम्

वैखानससूत्रस्य श्रुतिमार्गानुसारित्वम्

अथास्य श्री-वैखानस-सूत्रस्य सूत्रान्तरापेक्षया वै-लक्षण्यापादकं प्रत्यक्षश्रुतिमूलकत्वम् अस्तीति ज्ञापयितुं “सर्वकर्मसु श्रुतिमार्गानुसारित्वाद्” इति तृतीयो हेतुर् निरूप्यते। तथा हि-

शुद्धाचमनविधेः श्रौतत्वम्

शुद्धाचमनविधौ “यत्त्रिर् आचामति तेन ऋचः प्रीणाति” इत्यादि श्रुत्यनुसारेण सूत्रे “ऋग्वेदः प्रीणात्व्” इत्यादिना शुद्धाचमनम् उक्तम्। ननु बोधायनेनापि शुद्धाचमनविधिर् उक्त इति चेत् सत्यम्। “आचमनविधिं व्याख्यास्यामः” इत्य् आरभ्य “गोकर्णबद्धहस्तेन त्रिर् आचमेत्, प्रथमं यत् पिबति तेन ऋग्वेदं प्रीणाति यद् द्वितीयं तेन यजुर्वेदं यत् तृतीयं तेन सामवेदं प्रीणाती"त्य् आचमनेन ऋग्वेदादीनां प्रीतिर् भवतीत्य् उक्तम्। न तु मन्त्रः।
श्रुतिस्मृतिसूत्रविहितस्य सन्ध्योपासनस्य प्रधानभूतम् अर्घ्यप्रदानादिकम् अत्रैव प्रतिपादितम्। “प्रातस् सूर्यश् चेत्यादिनाचम्य आपो हिष्ठादिभिस् तिसृभिः प्रोक्ष्य
गायत्र्या ऽपो ऽभिमन्त्र्य आदित्याभिमुखं विक्षिप्य प्रदक्षिणं करोति” इत्यादि।
बोधायनेनापि सन्ध्यावन्दनविधिर् उक्तः इति चेत् नैवम्। “अथातस् सन्ध्योपासनविधिं व्याख्यास्यामः। तीरं गत्वाप्रयतो ऽभिषिक्तः प्रयतो वा नाभिषिक्तः1 प्रक्षालिपादपाणिर्2 अप आचम्य सुरभिमत्या अब्लिङ्गाभिर् वारुणीभिः हिरण्यवर्णाभिः पावमानीभिः व्याहृतिभिर् अन्यैश् च पवित्रैर् आत्मानं प्रोक्ष्य प्रयतो भवति। अथाप्य् उदाहरन्ति।” [बौधायन-धर्म-सूत्रम् २.४.७.१-३]
“आपो ऽवगाहनं स्नानं विहितं सार्ववर्णिकम् ।
मन्त्रवत्प्रोक्षणञ् चैव द्विजानाम् अवशिष्यते ॥3” इति [बौधायन-धर्म-सूत्रम् २.४.७.३-२]
सर्वकर्मणाञ् चैवारम्भेषु प्राक्सन्ध्योपासनाकालाच् चैतेनैव पवित्रसमूहेनात्मानं प्रोक्ष्य प्रयतो भवति। अथाप्य् उदाहरन्ति। “दर्भेष्व् आसीनो दर्भान् धारयमाणः सोदकपाणिना4 प्रत्यङ्मुखः सावित्रीं सहस्रकृत्वः आवर्तयेत्। प्राणायामशो वा शतकृत्वः। त्रिभिश् च प्राणायामैः ततो (तान्तो) ब्रह्महृदयेन। वारुणीभ्यां रात्रिम् उपतिष्ठते।” इत्यादिना मार्जनादिकम् उक्तम्। प्रधानभूतम् अर्घ्यप्रदानादिकम् अनुक्तम्। [बौधायन-धर्म-सूत्रम् २.४.७.४-९]

श्रुत्युक्तो ब्रह्मयज्ञप्रकारः

ब्रह्मयज्ञः। तलवकारोपनिषदि

“तस्या वा एष प्रथमः पादः
ॐ भूस् तत्सवितुर् वरेण्यं
ॐ भुवः भर्गो देवस्य धीमहि
ॐ सुवः धियो यो नः प्रचोदयात्
इति पच्छः,
ॐ भूर् भुवस् तत्सवितुर् वरेण्यं भर्गो देवस्य धीमहि
ॐ सुवः धियो यो नः प्रचोदयात् इत्य् अर्धचशः,
ॐ भूर्भुवस्सुवस् तत्सवितुर् वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्
इति समस्ताञ् च सावित्रीं जप्त्वा”

इति यथोद्दिष्टः,
तथात्र सूत्रे ऽपि उक्तो ऽस्ति।

आघारः

आघारादिषु सर्वम् अपि श्रौतवत्।

ब्रह्म-वरण-पूर्वक-सोम-वरणम्

अत्र ब्रह्मवरणानन्तरं सोमवरणम् अप्य् उक्तम् अस्ति।
“सोमो ऽस्माकं ब्राह्मणानां राजा - सोमराजानो ब्राह्मणा” इति।
“विष्णुश् च वै सोमश् च ब्रह्मव् आद्यम् अवदेतां ऽअहं ब्राह्मणानां प्रतिष्ठेऽति विष्णुर् अब्रवीत् ऽअहं प्रतिष्ठेऽति सोमः। तौ प्रजापतिं प्रश्नम् ऐतां सो ऽब्रवीत् प्रजापतिः
ऽछन्दांसि विष्णुम् अधिगच्छन्ति, नक्षत्राणि सोमम्। ताव् उभौ ब्रह्मण्याव्ऽ; इति सो ऽब्रवीत्।
पूजितौ पूजयन्तौ स्तुतौ स्तुन्वन्तौ प्रियौ प्रियवन्तौ ब्रह्मण्यौ ब्रह्मवित्तौ ब्राह्मणानां प्रतिष्ठातारौ भवत इति यन् मां ब्रह्मणा वक्ष्यन्ति यज्ञेषु सो ऽहम् इति विष्णुर् अब्रवीत्। तस्माद् विष्णुर् यज्ञो ब्राह्मणानां प्रतिष्ठा इति। विज्ञयते च।
“ब्राह्मणो वै छन्दांसी"त्य् एतस्मात् ब्राह्मणात् यन् मां ब्राह्मणा वक्ष्यन्ति नक्षत्रेषु तत्राहम् इति सो ऽब्रवीत्। तस्मात् ब्राह्मणानां सोमो राजेति तस्माद् विज्ञायते च ब्राह्मणे वा अष्टाविंशो नक्षत्राणां तस्य वचः पुण्यम् इति ताव् उभौ ब्रह्मण्यौ ब्रह्मवित्तौ ब्राह्मणानां प्रतिष्ठातारौ ब्राह्मणेषु प्रतिष्ठितौ य एवं ब्राह्मणपुरस्कृतानि कर्माणि करोति यज्ञस्य समृद्ध्या” इति च श्रुतिप्रसिद्धत्वात्।

ग्रहशान्तेः प्राधान्यम्

एवम् अत्र शान्तिकपौष्टिकादिषु प्रधानकर्मत्वात्
नवग्रहमखस्य पञ्चाग्नि-कुण्डविधानम् उक्तम्।
“अथ ग्रहशान्तिं व्याख्यास्यामः। ग्रह्यायत्ता लोकयात्रा तस्माद् आत्मविरुद्धे प्राप्ते ग्रहान् सम्यक् पूजयती” ति।

ग्रहशान्तेः कथं प्राधान्यम् इति चेद् उच्यते। “उद्यन्तम् अस्तंयन्तम् आदित्यम् अभिध्यायन् कुर्वन् ब्राह्मणो विद्वान् सकलं भद्रम् अश्नुते ऽसाव् आदित्यो ब्रह्मेति ब्रह्मैव सन् ब्रह्माप्य् एति य एवं वेद” इति “य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते” इति “यो ऽसौ तपन्न् उदेति” इत्यादि “विष्णुशक्तेर् अवस्थानं सदादित्ये करोति च” इति “ध्येयस् सदा सवितृमण्डलमध्यवर्ती” त्यादिभिश् च वचनैः यत् प्रतिपादितं सवितृमण्डलमध्यवर्तिनो भगवतो नारायणस्य यजनं तद् एवेदम् इत्य् अभिप्रायेण सूत्रकारैर् अस्य ग्रहयज्ञस्य प्राधान्यम् उक्तम्। तथान्ते “अन्यथा महत्तरो दोषो भवती"त्य् अप्य् उक्तम्।
बोधायनश् च- “अथातो ग्रहातिथ्यबलिकर्मोपहारान् व्याख्यास्यामः”

अश्रद्धधानम् अशुचिम् अजपं त्यक्तमङ्गलम् ।
ग्रहा नयन्ति सुव्यक्तं पुरुषं यमसादनम् ॥
ग्रहाणाम् उग्रचेष्टानां नक्षत्रपथचारिणाम् ।
उपहारान् प्रवक्ष्यामि शान्त्यर्थन् तु यथाविधि ॥”

मासि मास्य् ऋताव् ऋतौ चन्द्रग्रहे सूर्यग्रहे विषुवे ऽयने शुभाशुभे जन्मनक्षत्रे तद्ग्रहाणाम् आतिथ्यं संवत्सराद् अपि प्रयुञ्जानः सर्वान् कामान् अवाप्नोति” इति ग्रहशान्तिकालं निरूप्य।
“ग्रहा गावो नरेन्द्राश् च ब्राह्मणाश् च विशेषतः ।
पूजिताः पूजयन्त्य् एनं निर्दहन्त्य् अवमानिताः ॥”
इत्य् अकरणे प्रत्यवायम् अपि दर्शितवान्।

सवितृहोमः

तस्माद् एव सूत्रकारैः सूर्यचन्द्रौ विना लोकप्रवृत्त्य् असम्भवात् सूर्यप्रधानत्वाच् च ग्रहाणां सर्वकर्मणाम् आदौ ग्रहपुरस्कारम् उक्त्वा तत्र पञ्चाग्निकुण्डविधानम् उपदिश्य प्रधाने सभ्ये विष्णुरूपस्य सवितुः होमः “सभ्ये सवितुर्” इति प्रतिपादितः।

विष्ण्वाराधनस्य श्रौतत्वम्

एवम् - “नारायण परं ब्रह्म” - “ब्रह्मैव भूतानां ज्येष्ठां तेन को ऽर्हति स्पर्धितुम्” - “अग्निर् वै देवानाम् अवमो विष्णुः परमः तदन्तरेण सर्वा अन्या देवताः”

इत्यादि श्रुत्यनुसारेण “तस्माद् गृहे परमं विष्णुं प्रतिष्ठाप्य सायम्प्रातर्होमान्ते ऽर्चयति”
इति नारायणपरत्वेन सूत्रान्तरेष्व् अनुक्तम् आराधनविधिम् उक्त्वा तत्र “स वा एष पुरुषः पञ्चधा पञ्चात्मा” इत्यादि श्रुत्यनुसारेण पञ्चमूर्तिविधानम् अप्य् उक्तम्।
आघारादिषु श्रौतवद् एवेति प्रत्यक्षसिद्धम् इति पूर्वम् एवोक्तम्। एवम् अन्यत्रापि द्रष्टव्यम्।

श्रुतिमूलकत्वे प्रामाण्यातिशयः

श्रुतिमार्गानुसारित्वे को विशेष इति चेत् - उच्यते। श्रुतिमूलत्वे हि प्रामाण्यातिशयसम्भवः। यथाह
मनु- “वेदः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः ।
एतच् चतुष्टयं प्राहुः5 साक्षाद् धर्मस्य लक्षणम् ॥ [मनु-स्मृतिः २.१२]
सर्वं तु समवेक्ष्यैतद् अखिलं ज्ञानचक्षुषा6
श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥” [मनु-स्मृतिः २.८]
श्रीभारते- “वेदप्रणिहितो धर्मो ह्य् अधर्मस् तद्विपर्ययः ।
वेदो नारायणस् साक्षात् स्वयम्भूर् इति शुश्रुमः ॥” [महाभारतम् ]
प्रचेता- “अमीमांस्या बहिश्शास्त्रा ये चान्ये वेदबर्जितः ।
यत्तद्ब्रूयुर् न तत्कुर्याद् वेदाद् धर्मो विधीयते ॥”
स्मृत्यन्तरे- “धर्मं जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः । [महाभारतम् १४ अप्प्। ४.२४९२]
द्वितीयं धर्मशास्त्रान् तु7 तृतीयं लोकसङ्ग्रहः ॥8” इति [महाभारतम् १४ अप्प्। ४.२४९३]
एतावता सर्वकर्मसु श्रुतिमार्गानुसारित्व रूपः तृतीयो हेतुर् निरूपितो भवति। तथा च श्रुतिमार्गानुसारित्वाद् अस्य सूत्रस्य सर्वसूत्रोत्तमत्वं सिद्ध्यति इति निरूपितस् तृतीयो हेतुः।
इति तृतीय-हेतु-निरूपणम्।


  1. बौधायन-धर्म-सूत्रम्- वानभिषिक्तः। ↩︎

  2. बौधायन-धर्म-सूत्रम्- प्रक्षालितपादपाणिर्। ↩︎

  3. बौधायन-धर्म-सूत्रम्- मन्त्रवत्प्रोक्षणं चापि द्विजातीनां विशिष्यते। ↩︎

  4. बौधायन-धर्म-सूत्रम्- सोदकेन पाणिना। ↩︎

  5. मनु-स्मृतिः- एतच् चतुर्विधं प्राहुः। ↩︎

  6. मनु-स्मृतिः- सर्वं तु समवेक्ष्य-इदं निखिलं ज्ञानचक्षुषा। ↩︎

  7. महाभारतम्- धर्मशास्त्राणि। ↩︎

  8. दिएसेर् वेर्स् इस्त् औछ् अल्स् “महाभारत” ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ९३.१७-१८। ↩︎