अथ द्वितीय-हेतु-निरूपणम्
अथास्य वैखानससूत्रस्य सर्वसूत्राणाम् आदित्वं निरूप्यते। तथा हि-
वैखानससूत्रस्य सर्वसूत्रापेक्षया आदित्वम्
ब्रह्मकैवर्ते- " यथा मुनीनां विखना आदिभूत उदाहृतः ।
सूत्राणां तत्प्रणीतन् तु तथा श्रेष्टतमं स्मृतम् ॥"1 इति [ब्रह्म-कैवर्त-पुराणम् ]
पुरातन्त्रे भृगु- “वेदानां व्यासनाद् अर्वाक् प्राग्रूपं मिलितन् तु यत् ।
तान् तु वैखानसीं शाखाम् इति वेदविदो विदुः ॥”2 इत्य् आरभ्य [पुरातन्त्र]
“वैष्णवं सूत्रम् एतद् धि सर्वसिद्धिकरं परम् ।
आद्यत्वात् सर्वसूत्राणां वैष्णवत्वाच् च तत् तु वै ॥ [पुरातन्त्र]
मयानुवर्तितं तद्वत् काश्यपात्रिमरीचिभिः ॥”3 इति [पुरातन्त्र]
स्कान्दे च- “वैखानसीं महाशाखां स्वसूत्रे विनियुक्तवान् ।
पद्मभूः परमो धाता तस्मिन्न् आराधनत्रयम् ॥4
उक्तवान् निगमार्थानाम् आचारं प्रविभागशः5 ॥” इति [स्कन्दप् ]
आदौ चतुरश्रस्य रविमण्डलस्य कालान्तरे वर्तुलत्वम्
सूत्रार्थपर्यालोचनयापि सर्वसूत्रादित्वम् अस्यावगम्यते। यथा -“मुख्याद् इन्द्रश् चाग्निश् चे” ति भगवन्मुखाद् अग्निसृष्टिः श्रूयते। तथा-
आश्वमेधिके - भगवद्वचनम्-
“प्रथमं मन्मुखात् सृष्टो लोकार्थे पचनः प्रभुः । [महाभारतम् १४, अप्प्। ४.२५७२]
सृष्टमात्रो जगत्सर्वम् अत्तुम् ऐच्छत् पुरा खलु ॥6 [महाभारतम् १४, अप्प्। ४.२५७३]
ततः प्रशमितस् सो ऽयम् उपासीनो मया पुरा ।7 [महाभारतम् १४, अप्प्। ४.२५७४]
सततोपासनात् सो ऽयम् औपासन इति स्मृतः ॥” इति [महाभारतम् १४, अप्प्। ४.२५७५]
एवं परमपुरुषमुखाज् जातस्यौपासनाग्नेः कुण्डविधानादिकम् अत्रैव सूत्रे प्रतिपादितम्।
किञ् च नवग्रहमखे सवितृमण्डलस्य चतुरश्रत्वम् उच्यते “चतुरश्रं वृत्तम् इत्यादिना (सूत्रे)। आदौ चतुरश्रस्य सतो रविमण्डलस्य कालान्तरे वृत्तत्वकल्पनं प्रमाणैर् अवगम्यते। यथा-
विष्णुपुराणे- “तेजसश् शमनञ् चास्य विश्वकर्मा चकार ह ।
भ्रमिमारोप्य सूर्यन् तु तस्य तेजो ऽवशातनम् ॥ [विष्णु-पुराणम् ]
कृतवान् अष्टमं भागं स व्यशातयद् अव्ययम् ।
यत्सूर्याद् वैष्णवं तेजश् शातितं विश्वकर्मणा ॥ [विष्णु-पुराणम् ]
जाज्ज्वल्यमानम् अपतत् तद्भूमौ मुनिसत्तम ॥“इति [विष्णु-पुराणम् ]
एवं च सूर्यसावर्णिकमन्वन्तरमारभ्य रविमण्डलस्य वृत्ताकारप्रतीतिः।
तद् अनुसारेण बोधायनादिभिः वृत्ताकारत्वं रविममण्डलस्योक्तम्। ततः पूर्वं चतुरश्रत्वम् व। तद् एवास्मिन् सूत्रे प्रतिपादितम्।
एवं “वानप्रस्थो वैखानशास्त्रसमुदाचारो वैखानस”8 इति वैखानससूत्रम् अनुस्मृत्य तृतीयाश्रमधर्मान् बोधायनः प्रतिपादयति। [बौधायन-धर्म-सूत्रम् २.६.११.१४]
तथा आग्निवैश्यसूत्रे “अथातस् सूत्रगणनां व्याख्यास्यामः। बोधायनम् आपस्तम्बं सत्याषाठं द्राह्यायणम् आगस्त्यं शाकल्यम् आश्वलायनं शाम्भवीयं कात्यायनम् इति नवानि पूर्वसूत्राणि। वैखानसं शौनकीयं भारद्वाजम् आग्निवैश्यं जैमिनीयं 9 वाधूलं माध्यन्दिनं हिरण्यकेशीयं कौषीतकम् इति नवान्य् अपरसूत्राणि। एवम् अष्टादशसूत्राण्य् अष्टादशसूत्रकाराश् च। एतानि चतुर्वेदमूलानि। पूर्वसूत्राणि शारीराणि सामान्यानि भवन्ति। उत्तरसूत्राणि वैखानसादीनि विष्णुसम्बन्धीनि दैविकानी” ति वैखानससूत्रस्यादित्वं वैष्णवत्वञ् चोच्यते।
अस्य सूत्रस्याधिक्यं च “ये वैखानससूत्रेण संस्कृतास् द्विजातय”10 इत्यादिना पूर्वम् एव प्रतिपादितम्।
अतः सर्वसूत्राणाम् आदिर् इदं सूत्रम् इति सिद्धम्। ततः सर्वसूत्रोत्तमत्वञ् चास्योपपद्यते इति निरूपितो द्वितीयो हेतुः।
इति द्वितीयहेतुनितूपणम्।
-
दिएसेर् वेर्स् इस्त् औछ् ज़ितिएर्त् अल्स् “ब्रह्मकैवर्तपुराण” इन् दशविधहेतुनिरूपणम्[द्] ४२.९-१०। ↩︎
-
दिएसेर् वेर्स् इस्त् अल्स् “पुरातन्त्र” äह्न्लिछ् ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ३३.२१-२२। ↩︎
-
दिएसे द्रेइ हल्ब्वेर्से सिन्द् औछ् ज़ितिएर्त् अल्स् “पुरातन्त्र” इन् दशविधहेतुनिरूपणम्[द्] ३५.२०-२२। ↩︎
-
दिएसेर् वेर्स् इस्त् äह्न्लिछ् अल्स् “पुरातन्त्र” ज़ितिएर्त् इन् ३४.९-१०। ↩︎
-
दिएसे द्रेइ हल्ब्वेर्से सिन्द् अल्स् “स्कन्दपुराण” औछ् ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ३९.२५-४०.२। ↩︎
-
महाभारतम्- उत्तमैच्छत् पुरा खलु। ↩︎
-
महाभारतम्- ततः प्रशमितः सो ऽग्निर् उपास्यैव मया पुरा। ↩︎
-
बौधायन-धर्म-सूत्रम्- वानप्रस्थो वैखानसशास्त्रसमुदाचारः। ↩︎
-
अन्म्। देस् हेरौस्गेबेर्स्- अत्र वाधूलस्थाने माधुर्यम् इति हिरण्यकेशीयस्थाने कौण्डिन्यम् इति च पाठान्तरम् उपलभ्यते। ↩︎
-
दिएसेर् हल्ब्वेर्स् इस्त् अल्स् “पुरातन्त्र” ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ३६.१०। ↩︎