०२ आदिसूत्रत्वम्

अथ द्वितीय-हेतु-निरूपणम्
अथास्य वैखानससूत्रस्य सर्वसूत्राणाम् आदित्वं निरूप्यते। तथा हि-

वैखानससूत्रस्य सर्वसूत्रापेक्षया आदित्वम्

ब्रह्मकैवर्ते- " यथा मुनीनां विखना आदिभूत उदाहृतः ।
सूत्राणां तत्प्रणीतन् तु तथा श्रेष्टतमं स्मृतम् ॥"1 इति [ब्रह्म-कैवर्त-पुराणम् ]
पुरातन्त्रे भृगु- “वेदानां व्यासनाद् अर्वाक् प्राग्रूपं मिलितन् तु यत् ।
तान् तु वैखानसीं शाखाम् इति वेदविदो विदुः ॥”2 इत्य् आरभ्य [पुरातन्त्र]
“वैष्णवं सूत्रम् एतद् धि सर्वसिद्धिकरं परम् ।
आद्यत्वात् सर्वसूत्राणां वैष्णवत्वाच् च तत् तु वै ॥ [पुरातन्त्र]
मयानुवर्तितं तद्वत् काश्यपात्रिमरीचिभिः ॥”3 इति [पुरातन्त्र]
स्कान्दे च- “वैखानसीं महाशाखां स्वसूत्रे विनियुक्तवान् ।
पद्मभूः परमो धाता तस्मिन्न् आराधनत्रयम् ॥4
उक्तवान् निगमार्थानाम् आचारं प्रविभागशः5 ॥” इति [स्कन्दप् ]

आदौ चतुरश्रस्य रविमण्डलस्य कालान्तरे वर्तुलत्वम्

सूत्रार्थपर्यालोचनयापि सर्वसूत्रादित्वम् अस्यावगम्यते। यथा -“मुख्याद् इन्द्रश् चाग्निश् चे” ति भगवन्मुखाद् अग्निसृष्टिः श्रूयते। तथा-
आश्वमेधिके - भगवद्वचनम्-
“प्रथमं मन्मुखात् सृष्टो लोकार्थे पचनः प्रभुः । [महाभारतम् १४, अप्प्। ४.२५७२]
सृष्टमात्रो जगत्सर्वम् अत्तुम् ऐच्छत् पुरा खलु ॥6 [महाभारतम् १४, अप्प्। ४.२५७३]
ततः प्रशमितस् सो ऽयम् उपासीनो मया पुरा ।7 [महाभारतम् १४, अप्प्। ४.२५७४]
सततोपासनात् सो ऽयम् औपासन इति स्मृतः ॥” इति [महाभारतम् १४, अप्प्। ४.२५७५]
एवं परमपुरुषमुखाज् जातस्यौपासनाग्नेः कुण्डविधानादिकम् अत्रैव सूत्रे प्रतिपादितम्।
किञ् च नवग्रहमखे सवितृमण्डलस्य चतुरश्रत्वम् उच्यते “चतुरश्रं वृत्तम् इत्यादिना (सूत्रे)। आदौ चतुरश्रस्य सतो रविमण्डलस्य कालान्तरे वृत्तत्वकल्पनं प्रमाणैर् अवगम्यते। यथा-

विष्णुपुराणे- “तेजसश् शमनञ् चास्य विश्वकर्मा चकार ह ।
भ्रमिमारोप्य सूर्यन् तु तस्य तेजो ऽवशातनम् ॥ [विष्णु-पुराणम् ]
कृतवान् अष्टमं भागं स व्यशातयद् अव्ययम् ।
यत्सूर्याद् वैष्णवं तेजश् शातितं विश्वकर्मणा ॥ [विष्णु-पुराणम् ]
जाज्ज्वल्यमानम् अपतत् तद्भूमौ मुनिसत्तम ॥“इति [विष्णु-पुराणम् ]
एवं च सूर्यसावर्णिकमन्वन्तरमारभ्य रविमण्डलस्य वृत्ताकारप्रतीतिः।
तद् अनुसारेण बोधायनादिभिः वृत्ताकारत्वं रविममण्डलस्योक्तम्। ततः पूर्वं चतुरश्रत्वम् व। तद् एवास्मिन् सूत्रे प्रतिपादितम्।
एवं “वानप्रस्थो वैखानशास्त्रसमुदाचारो वैखानस”8 इति वैखानससूत्रम् अनुस्मृत्य तृतीयाश्रमधर्मान् बोधायनः प्रतिपादयति। [बौधायन-धर्म-सूत्रम् २.६.११.१४]
तथा आग्निवैश्यसूत्रे “अथातस् सूत्रगणनां व्याख्यास्यामः। बोधायनम् आपस्तम्बं सत्याषाठं द्राह्यायणम् आगस्त्यं शाकल्यम् आश्वलायनं शाम्भवीयं कात्यायनम् इति नवानि पूर्वसूत्राणि। वैखानसं शौनकीयं भारद्वाजम् आग्निवैश्यं जैमिनीयं 9 वाधूलं माध्यन्दिनं हिरण्यकेशीयं कौषीतकम् इति नवान्य् अपरसूत्राणि। एवम् अष्टादशसूत्राण्य् अष्टादशसूत्रकाराश् च। एतानि चतुर्वेदमूलानि। पूर्वसूत्राणि शारीराणि सामान्यानि भवन्ति। उत्तरसूत्राणि वैखानसादीनि विष्णुसम्बन्धीनि दैविकानी” ति वैखानससूत्रस्यादित्वं वैष्णवत्वञ् चोच्यते।
अस्य सूत्रस्याधिक्यं च “ये वैखानससूत्रेण संस्कृतास् द्विजातय”10 इत्यादिना पूर्वम् एव प्रतिपादितम्।
अतः सर्वसूत्राणाम् आदिर् इदं सूत्रम् इति सिद्धम्। ततः सर्वसूत्रोत्तमत्वञ् चास्योपपद्यते इति निरूपितो द्वितीयो हेतुः।
इति द्वितीयहेतुनितूपणम्।


  1. दिएसेर् वेर्स् इस्त् औछ् ज़ितिएर्त् अल्स् “ब्रह्मकैवर्तपुराण” इन् दशविधहेतुनिरूपणम्[द्] ४२.९-१०। ↩︎

  2. दिएसेर् वेर्स् इस्त् अल्स् “पुरातन्त्र” äह्न्लिछ् ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ३३.२१-२२। ↩︎

  3. दिएसे द्रेइ हल्ब्वेर्से सिन्द् औछ् ज़ितिएर्त् अल्स् “पुरातन्त्र” इन् दशविधहेतुनिरूपणम्[द्] ३५.२०-२२। ↩︎

  4. दिएसेर् वेर्स् इस्त् äह्न्लिछ् अल्स् “पुरातन्त्र” ज़ितिएर्त् इन् ३४.९-१०। ↩︎

  5. दिएसे द्रेइ हल्ब्वेर्से सिन्द् अल्स् “स्कन्दपुराण” औछ् ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ३९.२५-४०.२। ↩︎

  6. महाभारतम्- उत्तमैच्छत् पुरा खलु। ↩︎

  7. महाभारतम्- ततः प्रशमितः सो ऽग्निर् उपास्यैव मया पुरा। ↩︎

  8. बौधायन-धर्म-सूत्रम्- वानप्रस्थो वैखानसशास्त्रसमुदाचारः। ↩︎

  9. अन्म्। देस् हेरौस्गेबेर्स्- अत्र वाधूलस्थाने माधुर्यम् इति हिरण्यकेशीयस्थाने कौण्डिन्यम् इति च पाठान्तरम् उपलभ्यते। ↩︎

  10. दिएसेर् हल्ब्वेर्स् इस्त् अल्स् “पुरातन्त्र” ज़ितिएर्त् इन् दशविधहेतुनिरूपणम्[द्] ३६.१०। ↩︎