०० प्रतिज्ञा

मङ्गलाचरणम्

श्रीमद्विखनस महागुरवे नमः ।
श्री श्रीनिवास परब्रह्मणे नमः ॥
श्री श्रीनिवासमखिकृते श्रीवैखानस-गृह्य-सूत्र-तात्पर्य-चिन्तामणौ दशविध-हेतु-निरूपणम्

वैखानस-कुलोद्भूतं
वेङ्कटेशार्चनारतम्1
वेदान्तदेशिकं वन्दे
श्रीनिवासार्यदीक्षितम् ॥

श्रीवेङ्कटेशम् अखिलेशम् अनन्तम् आद्यं
कारुण्यवारिधिम् अशेषसुरैस् सुवन्द्यम् ।
वन्दे समस्तजगतां स्थिति-सृष्टि-हेतुं
मान्यान् गुरूंश् च शतशो2 भृगु-कश्यपादीन् ॥

श्रुतिस्मृतिनदीपूर्णं शास्त्रकल्लोलसङ्कुलम् ।
विष्णुभक्त्युदकं शुद्धं वन्दे वैखानसार्णवम् ॥3
येनान्यकॢप्तसूत्राणां4 नेत्रं निस्तिमिरीकृतम् ।
सूत्रं वैखानसं ह्य् एतत्5 चतुर्वर्गफलप्रदम् ॥
श्रुतिस्मृतीतिहासाद्यैः प्रतिपादितवैभवाम् ।
परमात्मपरां वन्दे सूत्रोपनिषदं पराम् ॥

व्याख्यान-कर्तृ-गोत्रनामादि

श्रीमत्कौशिकवंश्येन6 गोविन्दाचार्यसूनुना ।
श्रीवेङ्कटेशपादाब्जसपर्यासु रतात्मना ॥
श्रुतिस्मृतिपुराणादिसिद्धमार्गानुवर्तिना ।
पूर्वाचार्यपरिक्षुण्णसम्प्रदायानुयायिना ॥
वेदान्ताचार्यवर्येण श्रीनिवासार्ययज्वना ।
वैखानसस्य सूत्रस्य व्याख्या सम्यक् प्रकाश्यते ॥

विखानससूत्रस्य तद्-अनुयायिनां च सर्वोत्कृष्टत्वे दशविधहेतूनां निर्देशः

अथ सत्यत्वादि-समस्त-कल्याण-गुण-विशिष्टात् परब्रह्मणः श्रीमन्नारायणाद्
उत्पन्नेन विखनश्-शब्दवाच्येन
चतुर्-मुख-ब्रह्मणा प्रणीतस्य वैखानससूत्रस्य
सर्वसूत्रोत्तमत्वे
तत्सूत्रोक्त-धर्मानुष्ठातॄणां सर्वोत्कृष्टतमत्वे च
दशविधहेतवो निरूप्यन्ते।

यथा -

  • अखिल-जगत्-कारण-भूतेन विखनसा प्रणीतत्वात्।[^९]
  • सर्वसूत्राणाम् आदित्वात्।[^१०]
  • सर्वकर्मसु श्रुतिमार्गानुसारित्वात्।[^११]
  • समन्त्रक-सर्व-क्रिया-प्रतिपादकत्वात्।[^१२]
  • निषेक-संस्कारादिमत्त्वात्।[^१३]
  • अष्टादश-शारीर-संस्कार-प्रतिपादकत्वात्।[^१४]
  • साङ्ग-क्रिया-कलापवत्त्वात्।[^१५]
  • मन्वाद्यैः स्वीकृतत्वात्।[^१६]
  • अखिल-जगद्-एक-कारण-भूत-श्रीमन्-नारायणैक-परत्वात्।[^१७]
  • एतत्-सूत्रोक्त-धर्मानुष्ठानवताम् एव भगवत्-प्रियतमत्वोपपत्तेश् च।[^१८]

इति।

एभिर् हेतुभिर्
अस्य सूत्रस्य सर्वसूत्रोत्तमत्वम्।
एतत्-सूत्रोक्त-धर्मानुष्ठानाद् एव
वैखानसानां सर्वेभ्यः श्रेष्ठतमत्वञ् च
श्रुति-स्मृति-पुराणादि-मुखेन प्रतिपाद्यते।


  1. दशविधहेतुनिरूपणम्[त्] १- वेङ्कटेशार्चनावरम्। ↩︎

  2. दशविधहेतुनिरूपणम्[त्] २- वैखानसान् मुनिवरान् स्तत्त् मान्यान् गुरूंश् च शतशो। ↩︎

  3. दिएसेर् वेर्स् इस्त् औछ् ज़ु बेगिन्न् देर् थन्जवुर्-एदितिओन् देस् विमानार्चनकल्प (स्। ३) अल्स् “श्रीविखनसाचार्यस्तोत्रपाठ” ज़ितिएर्त्; दोर्त् स्तेह्त् ज़ुवोर् देर् श्लोक- श्रौतस्मार्तकर्म निखिलम् येन सूत्रितम् । तस्मै समस्त वेदार्थविधे विखनस नमः। ↩︎

  4. दशविधहेतुनिरूपणम्[त्] ५- सूत्राणाम् अन्यकॢप्तानाम्। ↩︎

  5. दशविधहेतुनिरूपणम्[त्] ६- सूत्राणाम् उत्तमं सूत्रम्। ↩︎

  6. दशविधहेतुनिरूपणम्[त्] ९- श्रीमत्कौशिकगोत्रेण। ↩︎