१२ प्रपत्तिः

सङ्कल्पादि

सदस्यान् अनुज्ञाप्य

स्वामिनः भवत्-पाद-मूले… स्वीकृत्य
मम एतद्-देहावसान एव
निश्शेष-संसार-निवृत्ति-पूर्वक–यथावस्थित-भगवत्-प्रपत्ति-सिद्ध्य्-अर्थं,
श्री-प्रपदन-पूर्वक-श्रीमन्-नारायण-प्रपदनं कर्तुं
योग्यता-सिद्धिर् अस्त्विति भवन्तो ऽनुगृह्णन्तु॥

ततस् स्वाचार्य-परम्पराम् अनुसन्धाय
“आसन-मन्त्रस्य…"।
प्राणायामं कुर्यात्।

अस्यां शुभ-तिथौ
मम एतद्-देहावसान एव
निश्शेष-संसार-निवृत्ति-पूर्वक–यथावस्थित-भगवत्-प्रपत्ति-सिद्ध्य्-अर्थं
मम मातुः श्रियः पाद-पद्मयोर्
अङ्ग-पञ्चक-सम्पन्नम् आत्म-रक्षा-भर-समर्पणं करिष्ये,

ॐ भगवतो बलेन …
तद्-भगवान् अनुमन्यताम्।

भगवान् एव स्व-दत्त-स्वार्थ-कर्तृ-भावेन
स्वकीयैश् चोपकरणैस्
स्वाराधनैक-प्रयोजनाय
परम-पुरुषस् सर्व-शेषी श्रियः-पतिः
स्व-शेष-भूतं मां
श्री-प्रपदनं कारयति

इति सात्विक-सङ्कल्पं कृत्वा।

करण-मन्त्रादि

करण-मन्त्राः –

चन्द्रां प्रभासाम्…
[[TODO: परिष्कार्यम्]]

यो वा भूतेः।
[[TODO: परिष्कार्यम्]]

मामात्मगुप्ताम्।
[[TODO: परिष्कार्यम्]]

तत् सत्वो वा। [[TODO: परिष्कार्यम्]]

इति मन्त्रान् उक्त्वा

नारायण नमस् ते ऽस्तु
करुणात्मन् दयानिधे …

इति पूर्वोक्त-प्रातस्-सन्ध्यावन्दन-जपान्त-कथित-पञ्च-श्लोकांश् चोक्त्वा

[[94]]

श्री-प्रपदन-प्रकारः

सत्यत्व-ज्ञानत्वानन्तत्वानन्दत्वामलत्व–
विष्णु-पत्नीत्वादि–स्व-रूप-निरूपक-धर्म–विशिष्टे!
हे वात्सल्य-स्वामिनि!
त्वत्-सौशील्य-सौलभ्य–सर्व-ज्ञत्वादि-कल्याण-गुण-परिपूर्णे!
हे श्रीः!

मम मोक्षार्थं,
भगवत्-प्रपत्ति-सिद्धि-विरोध्य्-उग्र-भगवन्-निग्रहानुसन्धानाद्
अत्यन्तं निहतश् शोक-सागर-मग्नो ऽत्यंताकिञ्चनश् चाहम्
इतः परन् त्वद्-आनुकूल्यम् एव करिष्ये
त्वत्-प्रातिकूल्यं न करिष्ये।

मम मोक्षार्थं यथावस्थित-भगवत्-प्रपत्ति-सिद्धौ
त्वत्-प्रपत्तिं विना कल्प-कोटि-सहस्रेणापि साधनं नास्ति
त्वम् एवोपायान्तर-स्थाने स्थित्वा,
मम मोक्षार्थं भगवत्-प्रपत्ति-सिद्धि-रूप-रक्षां त्वम् एव कुरुष्व।

कर्तृत्व-ज्ञातृत्व–स्वयं-प्रकाशत्व–प्रत्यक्त्वाणुत्व–
निरवयवत्वानन्द-रूपत्वादिभिर् देहेन्द्रियादि विलक्षणो ऽहम्।
मदीयं वस्तु सर्व-स्वामिन्यै श्रियै तुभ्यम् एव, न मम।
मम विरोधि-निवृत्ति-पूर्वक–यथाऽवस्थित-भगवत्-प्रपत्ति-सिद्धि-रूप-रक्षाया उत्पादन-भरः
अशरण्य-शरण्यायै श्रियै तुभ्यम् एव, न मम।

एतद्-रक्षण-फलम् अपि प्रधान-फलिन्यै श्रियै तुभ्यम् एव, न मम।
इतः परं ममानिष्ट-निवर्तने इष्ट-प्रदाने +++(भरः)+++ च तुभ्यम्, एव न मम।

इत्य् अनुसन्धाय

भगवानेव स्वीकृत-भरतया
श्री-प्रपदनं कारितवान्।

इति सात्विक-त्यागं कृत्वा,

शरणागतम् अवलोकयन्त्या श्रियः कटाक्ष-वीक्षणात्
मद्-अभीष्ट-यथाऽवस्थित-भगवत्-प्रपत्तिश्
शीघ्रम् एव सिद्ध्यतु।
तयैव सर्वं सम्पत्स्यते।

इति प्रहर्ष-वशस् सुखम् आसीत।

इति श्री-प्रपदन-प्रकारः॥

श्रीमन्नारायण-प्रपदनप्रकारः

पूर्ववद् आचार्यानुसन्धानं कृत्वा

…… शुभ-तिथौ …
अर्चिरादिमार्गेण प्रकृति-मण्डलम् अतीत्य
वैकुण्ठ-सीम्नि प्रवहन्तीं विरजाख्यां दिव्य-नदीं गत्वा, तत्र सूक्ष्मशरीरं विसृज्य,
तां सङ्कल्पेनातिलङ्घ्य
दिव्य-लोकं गत्वा
शुद्ध-सत्त्वमय–परम-कल्याण-गुणमय-विग्रहं प्राप्य
श्री-वैकुण्ठ-दिव्य-नगरीं प्राप्य
पर्यङ्के नाग-भोगे श्रिया समेतं वासुदेवाख्यं परं ब्रह्मोपसम्पद्य
+अपहत-पाप्मत्वादि-गुणाष्टक-विशिष्ट–
यथावस्थित–स्व-स्व-रूपाविर्-भाव-पूर्वकं
सर्व-स्वामिनस् सर्व-प्रकार-निरतिशय-भोग्यस्य श्रीमतो नारायणस्य चरणारविन्दयोस्
स्व-रूप–प्राप्त–सर्व-देश–सर्व-काल–सर्वावस्थोचित–
सर्व-विध-कैङ्कर्य–परिपूर्ण-ब्रह्मानुभव-सिद्ध्यर्थम्

अङ्ग-पञ्चक-सम्पन्नम् आत्म-रक्षा-भर-समर्पणं करिष्ये

[[95]]

भगवान् एव स्व-शेष-भूतं माम्
इदं स्व-प्रपदनं कारयति

इत्य् अनुसन्धाय
द्वय-मन्त्रं पूर्वोक्त-मन्त्रान् श्लोकांश् चानुसन्धाय

सत्यत्व-ज्ञानत्वाद्यनन्त-कल्याण-गुण-गण-परिपूर्ण-स्वामिन्न्
एतावन्तं कालं त्वद्-अनभिमताचरणेनाभिमतार्थम् अलब्धवान् अस्मि
इतः परं त्वद्-आनुकूल्यम् एव करिष्ये
त्वत्-प्रातिकूल्यं न करिष्ये

ज्ञातृत्व-कर्तृत्वादि-देहेन्द्रियादि-विलक्षणोऽहम्,
मदीयं वस्तु
सर्व-स्वामिने सर्व-रक्षाकराय श्रीमते नारायणाय तुभ्यम् एव, न मम।
एतद्-रक्षण-फलम् अपि
प्रधान-फलिने श्रीमते नारायणाय तुभ्यम् एव,
न मम।
अतो निर्भरो निर्भयोस्मि

इति भगवन्तं स्वीकृत-भरम्,
आत्मानं विगलित-भरं चानुसन्धाय

भगवतो बलेन … भगवत्-प्रपदनाख्यं कर्म-कृतवान्,
तद्-भगवान् अनुमन्यताम्।

भगवान् एव स्वकीयेनात्मना स्व-प्रपदनं स्वयम् एव कारितवान्,

इति सात्त्विक-त्यागं कृत्वा,
अनुष्ठित-प्रपदन–सञ्जात–निरवधिक-प्रसाद-युक्तेन भगवता

सकृदेव प्रपन्नाय…… व्रतं मम,
सर्व-धर्मान् परित्यज्य…मा शुचः।

एवम् आचार्य-मुखेन मन्त्रार्थानुसन्धान-पूर्वकं प्रपत्तिं कारयित्वा

तदा ऽऽरभ्य -

सूत्रं –

“नारायण-परायणो निर्द्वन्द्वो मुनिर्” इत्युक्त-रीत्या
“यत् करोषि यद् अश्नासि” इत्य्-उक्त रीत्या च
भगवति भरं समर्प्य
सदा भगवद्-ध्यान-परो, निर्भरो, निर्भयो भवेद्

इति भट्ट-भास्करीय-खिल-ऋङ्-मन्त्र-भाष्ये, अष्टम-प्रश्नारम्भे प्रदर्शितो ऽयं प्रकारः, तत्र द्रष्टव्यः।

इति श्रीमन्नारायण-प्रपदनं ॥ श्री-विखनसस-गुरुभ्यो नमः॥

हरिः ओम् ॥

आह्निकामृतग्रन्थ-पूर्वभागस् समाप्तः॥ श्री-वासुदेवार्पणमस्तु॥