११ भक्तप्रतिष्ठाविधिः

(एक-सप्तति-भक्त-प्रतिष्ठा विखनसाचार्य-प्रतिष्ठान-विधिः)

अतः परं प्रवक्ष्यामि भक्तानां स्थापनं परम्
एक-सप्तति-भक्तानां तत्-तद्-रूपं विधीयते॥
प्रथमावरणे वापि द्वितीयावरणे ऽपि वा
प्राकाराद्-भित्ति-पार्श्वे तु दक्षिणाद्युत्तरान्तिकम्॥
प्राङ्मुखांश् चैव संस्थाप्य तत्-तन्-नामादि पूजयेत्
पूर्वोक्तेनैव मार्गेण प्रतिष्ठा विधिनैव हि॥
प्रह्लादो नारदश् चैव पुण्डरीकः पराशरः
व्यासश् च शौनकश् चैव शुक-ब्रह्म तथैव च
वसिष्ठश् च हरिश्चन्द्रो मार्कण्डेयस् तथैव च
ईशानश् चैव हनुमान् पार्वती-नन्दिकेश्वरः॥
सुग्रीवश् चाङ्गदश् चैव जटायुर् जाम्बवांस् तथा
रुक्माङ्गदश् च भीष्मश् च त्रि-जटा च विभीषणः॥
धर्म-भीमार्जुनाश् चापि नकुलस् सहदेवकः

[[89]]

द्रौपदी कुन्ति-देवी च वाल्मीकिश् च मुनिस् तथा
सनातनश् च सनकस् सनत्-पुत्रस् सनन्दनः
वैखानसो मरीच्यत्रि-काश्यपा भृगुरेव च॥
सूर्यो बृहस्पतिश् चन्द्रश् शुक्रश् च शनिर् एव च
दिलीपश् च दशरथो रघु-राजस् तथैव च॥
वसुदेवो नन्दगोपो यशोदा देवकी तथा
विदुरो ऽनन्त-गरुडौ विष्वक्सेनो विनायकः॥
दुर्गा च षण्मुखश् चैव जनको भोज एव च
विश्वामित्रो गुहश् चेति नल-राजस् तथैव च॥
शङ्ख-चक्र-गदा-शार्ङ्ग-खड्गाश् चैव महा-बलिः
कार्तवीर्यो जामदग्निर् एक-सप्ततिकास् तथा
अतः परं प्रवक्ष्यामि भक्तानां लक्षणं परम्
असुरा राक्षसा भूता गरुडा नाग-किन्नराः॥
यक्ष-विद्याधरास् सर्व-ऋषयो मानवास् तथा
ब्राह्मणाः क्षत्रिया वैश्याश् शूद्राश् चैवान्त्य-जातयः॥
विष्णु-भक्ति-समायुक्तैस् तच्-चिन्हैस् तत्-परायणैः
तद्-भक्तैर् अर्चनीयास् स्युर् ऐहिकामुष्मिकाप्तये। इत्यादि

इति श्री-वैखानसे भृगु-प्रोक्ते वासाधि-कारे विष्णु-भक्त-प्रतिष्ठा-विधिर्-नामाष्ट-षष्टि-तमोध्यायः

[[90]]