१० विखनाः

विखनसोत्पत्तिक्रमः (निरुक्ताधिकारे)

श्री-वैखानस गुरुभ्योनमः

भार्गवे - ऋषय ऊचुः

वैखानस-मुनि-श्रेष्ठ! नमस्ते विखनस्सुत!
त्वमेव गतिरस्माकं मुनीनाम्भावितात्मना
तस्मात् कथय तत्त्वज्ञ, धर्म-सारं सनातनम्
वर्णानामाश्रामाणाञ्च वैदिकानाञ्च भागशः
वैखानसोदितन्धर्मं सत्यमित्यभिधीयते
तस्य सूत्रस्य माहात्म्यं विस्तराद्वक्तुमर्हसि
किम्प्रमाणं केनचोक्तः केनोपास्यः परः पुमान्
किम्मुक्ति-लक्षणं तस्मिन् कोवाचारः क्रिया-विधिः
कियती-ग्रन्थ-सङ्ख्या च मुनिभिः कैस्समाश्रितः
कोवा फल-प्रदस्तस्य किन्निमित्तं प्रवर्तितः
एतान् प्रश्नान्महा-भाग विस्तरेण वद स्वनः

भृगुः –

वक्ष्येहं विखनोत्पत्ति-माहात्म्यं वै तपोधनाः!
सावधानेन मनसा - श्रोतव्यम्परमार्थतः
पुरा नारायणो विष्णुः परमात्मा सनातनः
अचिन्त्य-शक्तिर्भगवान् लोक-स्वामी महान् विभुः
सृष्टि-स्थित्युपसंहार-कारणैक-धुरन्धरः
सङ्कल्प-मात्रादुत्पन्नो दिव्यायुध-विभूषणः
सर्वाधारस्सर्व-साक्षी लीला-द्वय-विभूतिमान्
स्रष्टुं स तु समुद्युक्तो ब्रह्म-योनि-मयः प्रभुः
योग-मायां समास्थाय, प्रकृतिं स्वां तदैक्षत
तस्य नाभेरभूत्पद्मं सर्व-गन्ध-समन्वितम्
तस्मिन् ब्रह्माणमसृजत्साक्षाल्लोक-पितामहम्
सोऽयन्दृष्ट्वा जलाक्रान्तं त्रैलोक्यमथ पद्म-जः
महा-भय-परित्रस्तो मुहुर्मुहुरुदैक्षत
किञ्चित्कदाचित्कुत्रापि नोदृष्ट्या विह्वलाङ्ग-धीः
स्तोत्र-यामास-देवेशं मस्तके संयताञ्जलिः

ब्रह्मा –

योऽसौ सर्व-गतस्स्वामी सर्व-साक्षी जगन्मयः
पिता च मम सर्वेषां सोऽयन्देवः प्रसीदतु!
यस्मिन्नन्तर्गतं सर्वं सर्वस्मिन् योवसत्यसौ
महाभयाम्बुधौ मग्नं पातु मां शरणागतम्
यस्य मायामया देवी दासीव वश-वर्तिनी।
अचिन्त्य-शक्तिर्भगवान् पातु माम्भक्त-वत्सलः
इत्येवं प्रार्थितो विष्णुर्ब्रह्मणा दीन-चेतसा
प्रादुर्बभूव भगवान् कृपया ब्रह्मणोग्रतः
सोऽदृष्ट्वा महात्मानं प्रणम्य च मुहुर्मुहुः प्राञ्जलिर्गद्गद-गलः प्रोवाच मधुसूदनम्

ब्रह्मा – को भवान् केनसृष्टोऽहम्मया कर्तव्यतां वद

श्री-भगवानुवाच –

मा भैष्व वत्स, तुप्टोस्मि स्तोत्रेणानेन पद्म-ज
सृष्टिङ्कुरु मदाज्ञां वै धारयन्भद्रमस्तु ते दे देव-तिर्यङ्मनुष्यादि स्थावराणि चराणि च
तत्तत्कर्मानुसारेण तत्तत्पापानुसारतः
इत्युक्तोङ्कार-सहित व्याहृतीश्च तथा श्रुतीः
उपादिशच्च स्वांशेन चाविश्यान्तरधीयत
यथा भगवताज्ञप्तं तथा भूरादि सङ्ख्यया
चतुर्दश च सङ्ख्यानि भुवनानि सुरासुरान्
गन्धर्व-यक्ष-नागादीन् मनुष्यान् स्थावरादिकान्
पाप-पुण्यानुसारेण कृतवान् कमलासनः
ततस्तान् वीक्ष्य भगवान् देहिनः पाप-संश्रितान्
केनोपायेन संसारं तारयेयुरमी जनाः
कथं पापापनोदस्स्वात् कैवल्यं प्राप्नुवन्ति हि
इति सञ्चिन्त्य कृपया देव-देवो जगत्-पतिः
मदर्चनं विना नान्यन्मल्लोक-प्राप्तये ध्रुवम्
इति वेदान्त-तत्वार्थ-खननं कृतवान् हरिः
तस्माद्वेदान्त-सारोऽयं मुनि-रूपं समास्थितः
शुद्ध-सत्त्व-मयो योगी जटा-मकुट-भूषणः
चतुर्बाहु-समायुक्तः शङ्ख-चक्र-धरः प्रभुः
शिखा-यज्ञोपवीताभ्याम् ऊर्ध्व-पुण्ड्र-धरोव्ययः
कमण्डलु-घटाभ्यां वै त्रि-दण्डेन विराजितः
प्रादुरासीन्मुनि-श्रेष्ठः प्रभा-कर-सम-द्युतिः
तं वीक्ष्य-मानसाज्ञातं पुत्रमौरसमादरात्
नाम्ना विखनसञ्चक्रे सहोवाच हरिस्स्वयम्
खनित्वा चात्मनात्मानं ज्ञानादि-गुण-संयुतः
ध्यानमाविश्ययोगेनह्यासीद्विखनसोमुनिः ॥

विखनाः –

नमस्ते देव देवेश त्रय्यन्तानामगोचर
किङ्कर्तव्यं मयाकार्यं शीघ्रमाज्ञापयस्व मे
एवं विज्ञाप्य तिष्ठन्तं साञ्जलिं विनयान्वितम्
गृहीत्वा पाणिना विष्णुस्तमुवाच मुदान्वितः

श्री-भगवानुवाच –

विखनास्त्वं महा-योगिन् लोक-संरक्षणाय वै
श्रुत्युक्तेनैव मार्गेण मत्-पूजाङ्कुरु-सादरम्

श्री-विखनाः –

विधिना केन मन्त्रेण त्वत्-पूजाङ्कर-वाण्यहम्
वद स्वामिन्, महा-विष्णो त्वद्भृत्यस्य ममाव्यय!

श्री-भगवान् –

सङ्गृह्य वैष्णवान्मन्त्रान्साङ्ग-वेदानुपादिशत्
द्वयञ्चमूल-मन्त्रादीनुपचार-क्रमन्तथा
जप-होमार्चन-ध्यान-क्रमञ्चोपदिदेश ह
मानुषन्दैविकङ्किञ्च सर्व-शास्त्रं हरिस्स्वयम्
उपदेश-क्रमेणैव कृत्वैवाध्ययनम्मुनिः
ततो भगवता ऽऽज्ञप्तस् सृष्ट्वा तान् नव-सङ्ख्यकान्
अध्यापयामास तथा साङ्गोपाङ्गानि सर्वशः
काश्यपोत्रिर्मरीचिश्च वसिष्टोङ्गिरसाह्यहम्
पुलस्त्यः पुलहश्चैव क्रतुश्च नवसङ्ख्यकान्
एते विखनसश्शिष्या लोकानुग्रह-कारिणः
एवम्मरीचिनाप्युक्तं तस्माच्छिष्यावयं मुनेः
सूत्रं विखनसाप्रोक्तं सार्ध-कोटि-प्रमाणकम्
गुरोर्मुखाच्चसङ्गृह्य तत्सर्वं समुदाहृतम्
काश्यपेनात्रिणाचैव मयाचैव मरीचिना
चतुर्लक्ष-प्रमाणेन सङ्क्षिप्य प्रोच्यतेऽधुना
ग्रन्थ-विस्तर-भीत्या च देहिनामल्प-जीविनाम्
अशक्यत्वाच्छतच्छास्त्रं गुर्वनुज्ञा-पुरस्सरम्
सङ्क्षेपात्कृतमस्माभिः काश्यपात्रि-मरीचिभिः
तत्-क्रमञ्च प्रवक्ष्यामि मरीचिस्संहिता-ष्टकम्
चतुरशीति-साहस्रं लक्षोपरि चकार ह
चतुष्षष्टि-सहस्राणां ग्रन्थं प्रोवाच काश्यपः
अष्टाशीति-सहस्राणां ग्रन्थ-सङ्ख्यात्रिणोच्यते
मया चैव चतुष्षष्टि-सहस्रं समुदाहृतम्
वेद-मूलमिदंशास्त्रं तन्मूला सकला स्मृतिः
मन्वादीनां स्मृतीनाञ्च सूत्राणाञ्चैव सर्वशः
वैष्णवानाञ्च धर्माणां वैदिकानाञ्च कर्मणाम्
वर्णाश्रम-विभागानां वर्ण-सङ्कर-जन्मनाम्
जातीनां नाम वृत्तीनाम् एतन्मूलमिति स्मृतम्
विष्णोः परम-सिद्धान्त-साधनत्वाच्च कृत्स्नशः
मूलमन्त्रोदितत्वाच्च दैवतानाञ्च सर्वशः
पारमात्मिक-मन्त्रस्य धारणत्वात्तथैव च
श्रेष्ठं वैखानसं शास्त्रमिति वेद-विदो विदुः
वैदिकाचार-सिद्धत्वाद्योग-तत्वार्थ-सङ्ग्रहात्
श्रुति-मन्त्र-प्रयोगत्वाच्छ्रेष्ठं वैखानसं स्मृतम्
ब्रह्माऋभूणां विखनामुनीनामुत्तमस्त्विति

॥श्रुतिः॥

येऽनखाः, ते वैखानसाः

इत्येवं श्रुति-बोध्यत्वाच्छ्रेष्टं वैखानसं स्मृतम्
द्वयञ्च मूल-मन्त्रञ्च द्वादशाक्षरमेव च
व्यापक-त्रय-मन्त्राणामुद्धारम्प्रणवस्य च
यः करोति महात्मा च तस्मै विखनसे नमः
श्रौत-स्मार्तादिकं कर्म निखिलं येन सूत्रितम्
तस्मै समस्त-वेदार्थ-विदे विखनसे नमः
बोधायनादिसूत्राणां यत्सूत्रञ्चाग्रमुच्यते
तस्मैलोकोपकाराय पाप-तीर्णाय वै नमः
मार्कण्डेयादिभिश्चैव मुनिभिस्तत्त्व-दर्शिभिः सूत्रमेवं कृतत्वाच्छ श्रेष्ठं वैखानसम्मतम्
पाञ्चरात्रे शैव-शास्त्रे शिल्पे चैवेतरेषु च
एतच्चास्त्रस्य माहात्म्यं प्रोक्तत्वाच्छ्रेष्ठमुच्यते
सर्वेषामिन्द्रियाणां च विष्णोः कैङ्कर्य सिद्धये
तन्नियोग-कृतत्वाच्छ श्रेष्टं वैखानसम्मतम्।
वैकुण्ठ-लक्षणं यस्मिन् तन्मार्गस्यानुदर्शनम्
मुक्तानां परमानन्दं प्रोक्तत्वाच्छ्रेष्ठमुच्यते
पुराणं वाथशास्त्रं वा यस्मिन् वेदे विरुध्यति
तत्-त्याज्यं वेद-विद्भिश्च तथाचारादधः पतेत्
तस्मात्सर्व-प्रयत्नेन मुनयो ब्रह्म-वादिनः
वैदिकं पथमास्थाय विष्णोः पूजां समाचरेत्
स वैलोकानतिक्रम्य विष्णु-सायुज्यमाप्नुयात्

इति श्री-वैखानसे भृगु-प्रोक्ते निरुक्ताधिकारे श्री-वैखानसोत्पत्ति माहात्म्यं नाम, अष्ट-षष्टि-तमोध्यायः

श्री-विखनस-गुरुभ्यो नमः॥

मरीचिरुवाच –

अतः परम्प्रवक्ष्यामि विखनोमुनिसम्भवम्
शृण्वतां सर्व-पाप-घ्नं साक्षान्मोक्ष-प्रदं शुभम्॥
सर्वाभीष्ट-प्रदं पुण्यं शृणुध्वं शौनकादयः
प्रलयानन्तरं साक्षात्पुरुषः प्रकृतेः परः॥
कारणाब्धिजले विष्णुर्योग-निद्रा-शङ्गतः
द्वि-लक्षार्थ-प्रमाणेन शयानः प्रभुरव्ययः॥
निद्रया बहु-कालाश्च गतास्तस्य महात्मनः
क्वचित्कालान्तरे विष्णुर्भगवान् भक्त-वत्सलः॥
योग-निद्राम्परित्यज्य दृष्ट्वाप्रकृतिमेव च
स्वात्मन्विलीनमात्मानं जीव-राशि-समूहकम्॥
चिन्तयामास-जीवेशो विष्णुर्नारायणस्स्वयम्।

श्रुतिः –

मयेदं विश्वं स्वात्मनाऽनुप्रविश्य नामरूपेव्याकरवाणिति।

इति संस्मरणाद् एव नाभ्यां स्यात् कमलम्महत् तस्मिन् तु कमले ब्रह्मा जातः परम-सुन्दरः
आसीत्सञ्जात-मात्रेण विष्णु-ध्यान-परायणः
तन्दृष्ट्वा भक्त-वात्सल्य-जल-धिः करुणा-निधिः
सुप्रीतो भगवान्पुत्रं ब्रह्माणं प्रत्युवाच ह ।

श्री-भगवान् –

ब्रह्मन् त्वया जगत्सर्वं कर्तव्यं सचराचरम्
लोके विहर्तुमिच्छा तु वर्तते पद्म-सम्भव
ततस्त्वत्सृष्ट-जगतामविच्छिन्न प्रवृत्तये॥
साधु-संरक्षणार्थाय वेद-शास्त्रार्थ-सिद्धये
दुष्टानाञ्च विनाशाय सम्भवामि युगे युगे॥
अनाद्यविद्यया जीवास्संसाराब्धि-समुद्भवाः
अलसाह्यल्प-सत्वाश्च भविष्यन्ति कलौ युगे॥
न विदुस्ते पर-व्यूहा विभवार्चान्तरात्मकम्
तस्मात्तेषाञ्च मुक्त्यर्थं सर्व-लोकानुकम्पया॥
अर्चावतार-रूपेण, लोकेस्मिञ्चतुरानन
अवतारं करिष्यामि भूम्या लक्ष्म्या समन्वितः॥
मदर्चनार्थं सृष्ट्यादौ सृजत्वम्मुनि-सत्तमम्
इत्यादिष्टस्तदा ब्रह्मा सृष्टि-कार्य-समुद्यतः॥
सृष्टि-कार्यमजानत्वाद्ब्रह्म-ज्ञान-विहीनतः
चिन्तयित्वा मुनिं स्रष्टुमसमर्थो बभूव ह॥
तथोवाच चतुर्वक्त्रो भगवन्तम्प्रणम्य च
नमस्ते देव-देवेश सृष्टि-स्थित्यन्त-कारण॥
मुनि-सृष्टिर्मया कर्तुं न शक्या भक्त-वत्सल
तस्य तद्वचनं श्रुत्वा देव-देवो हरिस्स्वयम्
चिन्तयित्वासृजद्विष्णुस्स्वाराधन-परं मुनिम् वेदान्त-तत्त्व-मीमांसा-खननं कृतवान्विभुः॥
स्वांश-भूतेन भगवान्सञ्जातो मुनि-पुङ्गवः
रूप-लक्षण-सौन्दर्य-तेजोवान्दिव्य-विग्रहः
शुद्ध-सत्व-मयस्साक्षान्मुनि-वेष-धरोव्ययः
चतुर्भुजश्शङ्ख-चक्र वरदाभयचिह्नितः॥
कुशासने समासीनो ह्यूर्ध्व-पुण्ड्र-पवित्रकः
किरीट-हाराभरणैः कुण्डलाङ्गद-भूषितः॥
शिखा-यज्ञोपवीताभ्यां त्रि-दण्डेन विराजितः
पद्मञ्चाभयहस्ते तु सुसन्धार्य समाहितः॥
आविरासीद्यथा कल्पं वैकुण्ठ-स्मरणात्तदा
आत्मा वै पुत्र-नामासीद्विष्णोर्विश्व-कुटुम्बिनः॥
तं दृष्ट्वा सर्व-भूतात्मा प्रणतं प्राञ्जलि स्थितम्
मत् औरसेत्युपानीय नाम धेयञ्चकार ह॥
नाम्नाविखनसं चक्रे तं वदन्नर्थ-योगतः
वैखानसञ्च ब्रह्माणमुपानीय हरि-स्व-यम्॥
विखनोमुनये पूर्वं सावित्रीमुपदेष्टवान्
द्वयञ्च-मूल-मन्त्रादीन् साक्षान्मोक्ष-प्रदान्मुखान् (?)
अध्यापयन्मुनिश्रेष्ठं सर्व-शास्त्रं तथा विधिम्
यावत्सम्मिलितावस्था वेदानां व्यसनात् पुरा॥
तान्तु वैखानसीं शाखा-नादावध्यापयन्मुनिम्
अथोवाच विधिं विष्णुर्भगवान् भक्त-वत्सलः॥
ब्रह्मन्तवाग्रजं विद्धि विखनो मुनि पुङ्गवम् अप्राकृतशरीरत्वान्मदाज्ञा-परिपालनात् ॥ मत् औरससुतत्वाच्च सदा मत्कृत-कर्मणः
मदंश-सम्भवत्वाच्च त्वया पूज्योमुनीश्वरः
इत्याज्ञप्ते तु देवेशे प्रणतं प्राञ्जलि स्थितम्
ब्रह्माणं प्रावदद्विष्णुरुद्युक्तं सृष्टि-कर्मणि॥
मुनि-श्रेष्ठो मयासृष्टो मत्-कार्य-करण-क्षमः
पूर्वमेवमयासृष्टैः कालादिभिरनादिकैः॥
तत्तैरेतैस्सृज ब्रह्मन् लोक-सृष्टि-प्रसाधनैः
शुद्ध-सत्व-मयान्पूर्वं सनकादि-मुनीश्वरान्
लोक-संरक्षणार्थाय सृज ब्रह्मन्मदाज्ञया
हृषीकेशस्य तद्वाक्यं मूर्ध्नादाय-कृताञ्जलिः
चतुर्मुखश्चापि तथा सनकादि-मुनीश्वरान्
ध्यायन् सृष्टि-मुखे विष्णुं क्रमादसृजदब्ज-भूः।
सनातनञ्च सनकं सनन्दनमितीरितम्
सनत्कुमारञ्च तथा कुमारान्सात्त्विक-प्रियान्
तान्दृष्ट्वा सूर्य-सङ्काशान्महा-भागवतान्विधिः
प्रत्युवाच तदा ब्रह्मा सनकादि-मुनीश्वरान्॥
विष्णोरौरस-पुत्रश्च वर्तते विखनोमुनिः
यूयम्भवततच्छिष्या श्री-विष्णोश्शासनात्-परम्॥
एवमुक्त्वा तदा ब्रह्मा भगवन्तं प्रणम्य च
स्व-कार्य-साधकान् जीवान् सृष्टवान् पुनरेव हि॥
चतुर्दशाख्य लोकेस्मिन् स्थावराणि चराणि च
देव-तिर्यङ्मनुष्यांश्च नारदादि-मुनीश्वरान्॥
स्वायम्भुवादि-मन्वादीन् स्व-स्व-कर्म-प्रवर्तकान्
सर्वान्लोकान् विधिस्सृष्ट्वा लोक-सृष्टि-प्रसाधकान्॥
तान् हरेः पुरतः कृत्वा प्रोक्तवान् कमलासनः

ब्रह्मोवाच –

देव-देव-जगन्नाथ! सृष्टि-स्थित्यन्तर-कारण!
भगवन् त्वत्प्रसादेन, मया सृष्टा मुनीश्वराः॥
देव-तिर्यङ्मनुष्यादि-स्थावराणि चराणि च
एतैरेवावृतं सर्वं जगदेतच्चराचरम्॥
इत्युक्ते च विधौ साक्षाद्भगवान्पुरुषोत्तमः
सर्वान्-लोकान्-समावीक्ष्य ब्रह्म-सृष्टि-प्रसादनान्॥
अनाद्यविद्यया कर्म-सञ्चिताब्धि-समुद्भवान्
स्व-स्व-कर्मानुरूपेण माया-मोहित चेतनान्॥
स एवं सर्व-भूतात्मा ज्ञात्वैव विखनोमुनिम्
प्रोवाचेदं समानीय शुद्ध-सत्व-मयान् मुनीन्॥
त्वत्कार्य साधकानेव सृष्टिङ्कुरु ममाज्ञया
इत्युक्ते देव-देवेशे विखनामुनि-पुङ्गवः॥
भृगुमत्रिं वसिष्टञ्च माञ्चैवङ्काश्यपन्तथा
जमदग्निं भरद्वाजं विश्वामित्रं महा-मुनिम्॥
गौतमादि मुनीन्द्रांश्च विष्ण्वर्चन-परान्मुनीन्
हरेः कटाक्ष-मात्रेण गर्भचक्राङ्क संयुतान्॥
श्री-विष्णोराज्ञया सृष्ट्वा विखनामुनि-पुङ्गवः
तान्हरेः पुरतः कृत्वा भगवन्तं प्रणम्य च॥
शिरस्यञ्जलिमाधाय प्रोवाचेदं मुनीश्वरः

श्री-विखनाः –

देव-देव-जगन्नाथ सृष्टि-स्थित्यन्त-कारण॥
त्वदाज्ञया च सृष्टानां भृग्वादीनान्त्वमेव हि
मातापिता गुरुर्देवं पोषकश्चत्वमेव हि॥
त्वमेवगतिरेतेषां सावित्रीं वक्तुमर्हसि
इत्युक्ते च मुनौ साक्षाद्भगवान्भक्त-वत्सलः॥
विखनोमुनिमाभाष्य प्रत्युवाच शुचि-स्मितः

श्री-भगवानुवाच –

विखनास्तव पुत्राणां त्वमेवहि गुरुः पिता॥
सनकादि-मुनीन्द्राणां त्वमेव हि गुरुस्स्मृतः
तस्मात्त्वमेव ह्येतेषां सावित्रीं वक्तुमर्हसि॥
द्वयञ्चमूल-मन्त्रादीन् साक्षान्मत्-प्रापकान् शुभान्
एवमुक्त्वा तदादेवो भृग्वादि-मुनि-पुत्रकान्॥
सनकादींस्तदाहूय इदमाह स्वयं विभुः
श्रुणुध्वम्पुत्रका यूयं सर्व-शास्त्र-विशारदम्॥
आचार्यवरणङ्कृत्वा विखनोमुनि-पुङ्गवम् अध्यापयत यूयन्तु आश्रयध्वं मुनिं सदा॥
एवमुक्त्वा तथा विष्णुर्बह्माणं प्रत्युवाच ह
वैखानसस्य भृग्वाद्या वंश-कर्तार ईरिताः॥
विखनोमुनिना सृष्टाः मत्-पुत्रा इति कीर्तिताः
त्वया सृष्ट-मुनीन्द्राणामाचार्यो विखनास्स्मृतः॥
तेनैवोक्त-प्रकारेण आचरन्तु तवात्मजाः
त्वन्त्विदानीं ब्रह्म-लोकं सृष्टि-साधन-पुत्रकैः॥
स्वायम्भुवादिभिर्गत्वा सृष्टिङ्कुरु ममाज्ञया
इत्याज्ञप्ते तु देवेशे ब्रह्मा लोक-पितामहः॥
भगवन्तम्प्रणम्याथ स्व-लोकञ्च जगाम ह

इति श्री-वैखानसे मरीचि प्रोक्तायाम् आनन्द-संहितायां पञ्च-दशोध्यायः

अतः परम्प्रवक्ष्यामि भूम्यान्तस्य प्रवेशनम्
वैखानसस्य देवर्षेः शृणुध्वं मुनि-सत्तमाः॥
स्वायम्भुव-मनोः काले लोक-वृद्धि विचक्षणः
ब्रह्मा गर्व-समाविष्टो लोकान्सर्वान् जगाम ह॥
सर्व-लोकान् समा-वीक्ष्य विष्णोर्नाम-विहीनतः
अज्ञानेनावृतान्-लोकान्-व्याधिभिः परिपीडितान्॥
सूर्यं विना यथा लोकाह्यन्धकार प्रपीडिताः
तथा पाप-समाविष्टान् क्रूरान् दृष्ट्वा विधिस्तदा॥
स्व-पुत्र-सहितो ब्रह्मा विष्णु-लोकञ्जगाम ह
तत्र स्थितं महा-विष्णुं सर्व-लोक-हितैषिणम्॥
महा-लक्ष्म्या च भूम्या च सेवितं पद्म-लोचनम्

[[71]]

वैखानसात्रि-भृग्वादैर्व्यास-बोधायनैस्तथा॥
तन्दृष्ट्वा ह तदा ब्रह्मा भगवन्तं प्रणम्य च

ब्रह्मा –

नमस्ते देव-देवेश! नमस्त्रैलोक्य-वासित॥
त्वदर्चनं विना सर्वं जगदेतच्चराचरम्
अज्ञानेनावृतं सर्वं तव माया-विमोहितम्॥
त्वन्नामधेय-स्मरण-विहीनत्वाज्जगत्-प्रभो
मुह्यति स्म महा-विष्णो कृपया परिपालय॥
तस्मात्त्वदर्चनं विष्णो कथं कार्यङ्करोम्यहम्
त्वदाज्ञयामयासृष्टं विश्वं सदसदात्मकम्॥
त्वां विनागतिरेतेषां नान्योस्ति जगतां प्रभो
यदुक्तञ्च त्वया विष्णो पूर्वमेव कृपा-निधे॥
तथा कुरुष्व देवेश भक्तानुग्रह-दीक्षित
इत्युक्तवन्तं ब्रह्माणं प्रत्युवाच शुचि-स्मितः॥

श्री-भगवान् –

ब्रह्मन्, त्वया हि सृष्टानां रक्षणन्तु करोम्यहम्
परित्राणाय साधूनां विनाशाय च दुष्कृताम्॥
धर्म-संस्थापनार्थाय सम्भवामि युगे युगे
अर्चावतार रूपेण लोकेस्मिंश्चतुरानन॥
अवतारं करिष्यामि भूम्या लक्ष्म्या समन्वितः
देवैस्सानुचरैस्साकन्त्वन्तु लोकं समाविश॥
इत्युक्तवन्तं देवेशं भगवन्तं प्रणम्य च
स्व-पुत्र-सहितो ब्रह्मा स्व लोकञ्च जगाम ह॥
अथोवाच हृषीकेशो भगवान् भक्त-वत्सलः
लोकानुग्रह-रक्षार्थं विखनो मुनि-पुङ्गवम्॥
अवतारं करिष्यामि भूम्या लक्ष्म्या समन्वितः
तस्मान्मदर्चनं कार्यं त्वयैव मुनि-सत्तम॥
आत्मार्थं वा परार्थं वा गृहे देवालयेपि वा
नित्येनैमित्तिकेचैव मदीयाराधनङ्कुरु॥

[[72]]

न दीक्षा-तपः कर्म नास्तिमत्कृत-कर्मणः
सर्व-लोक-हितार्थाय मदीयाराधनं कुरु॥
इत्युक्तवन्तं देवेशं सर्व-भूतात्मना स्थितम्
उवाचेदं भयाद्विष्णुं प्रणम्य विखनोमुनिः॥

श्री-विखनसः –

भवतानुगृहीतोऽस्मि धन्योस्मिपुरुषोत्तम!
नातः परतरङ्कार्यमस्माकञ्च दिवौकसाम्॥
सर्वे वयं त्वयोक्तं हि नित्य-नैमित्तिकादिकम्
कर्तव्यं सततं तेषां कर्तुं कर्म प्रयत्नतः॥
तथा सति तु, देवेश, त्वत्कर्म मुनिभिः कथम्
उदयादुदयान्तञ्च क्रियते चञ्चलात्मभिः॥
भवदाराधनं विष्णो कथङ्कार्यं करोम्यहम्
त्वत्-कर्म क्रियते यत् तत्-कर्म लोपोभवेद्ध्रुवम्॥
अनादिकमिदं कार्यं दुर्लभञ्च दिवौकसाम्
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह॥
यस्मिन्कर्मणि घोरे मां नियोजयसि केशव
तस्मात्त्वदर्चने दोषो भवेदिति बिभेम्यहम्
सदात्वदनुजीवित्वात् सदात्वत्सन्निधि-स्थितेः
अपचाराह्यनन्ताश्च भवन्त्येव न संशयः॥
आराधनानां सर्वेषां विष्णोराराधनं वरम्
तथाप्याराधनं कर्तुं भीतोऽस्मि करुणा-निधे॥
तस्यतद्वचनं श्रुत्वा भगवान् सस्मितस्तदा

श्री-भगवान् –

वैखानस! त्वमेवात्र मदाराधन-कृद्भव
तच्छिष्याश्च प्रशिष्याश्च पूजाङ्कुर्वन्तु मामिकाम्॥
वैखानस-मुनि-श्रेष्ठ! मदाराधन-कर्मणा
स्व-कर्म-लोप-सन्त्रासं माकुरुत्वं महा-मुने!॥
न्यूनातिरेकतोयानि काल-भेदेन वा क्वचित्

[[73]]

सम्पूर्णान्येव कर्माणि सदा मद्गत-कर्मणः॥
त्वद्वंशस्थ-मुनीन्द्राणां तथैवास्तु ममाज्ञया
त्वद्वंश-जानां सर्वेषां गर्भ-वैष्णव जन्मनाम्॥
अहमेव स्वयङ्गर्भे मन्मुद्रान्धारयाम्यहम्
मदाराधन-वेलायां यदि कर्मनवर्तते॥
आराधनात्परं कार्यं काल-भेदान्नदोष-भाक्
चतुर्वेदैश्च सम्मिश्रं मया मन्त्रं तवेरितम्॥
तथापि त्वन्मत-स्थास्तु यजुर्वेदानुसारिणः
मद्-अर्चनं तु सर्वेषाम् ऐहिकामुष्मिक-प्रदम्।
तस्मान्मदर्चनं नित्यं कुर्वन्तु मम शासनात्
चतुर्वेदं समग्रञ्च मन्मतं सर्वमेव च॥
अधीत्य-सर्व-शास्त्राणि कलौ नास्तिमदर्चकः
केवलं भक्ति-मात्रेण सन्तुष्टोहं सदा मुने॥
वैखानस! त्वन्मतस्थास्सात्विकाहार-भोजिनः
सदा मद्गत-चित्तत्वान्मत्पुत्रा इति कीर्तिताः॥
कृताधिकारिणस्तस्मात् कृत-सम्बन्धिनो मयि
मत्-प्रसादेन सौम्येन सदा मामर्चयन्तु ते॥
तस्मान्मदर्चने नित्यं मा भीस्त्वं मदनुग्रहात्
ब्रह्माद्या-देवतास्सर्वे ऋषयश्च तथा मुने॥
अशक्तास्सर्व एवैते मदीयाराधनं प्रति
तस्मान्मदर्चनान्नित्यं सर्वाभीष्टमवाप्स्यसि।
इत्युक्ते च हरौ साक्षात्तं प्रणम्याह वै मुनिः

विखनाः –

मद्वंश-जानां देवेश त्वदाज्ञाञ्च प्रकुर्वताम्॥
सदात्वदनुजीवत्वात्त्वद्रव्यानुभवाद्विभो!

[[74]]

दोषाभवेयुस्सर्वेषामितिचिन्ताकुलोस्म्यहम्॥
इत्युक्तवन्तं देवेशो मुनिमाहाथ विस्मितः

श्री-भगवान् –

सूक्ष्मार्थज्ञ! महाबुद्धे! तद्धर्मञ्च वदाम्यहम्॥
वैखानसानान्तद्दोषो नास्ति मत्कृत-कर्मणाम्
मद्द्रव्यं हव्य-कव्येषु दानाभ्यागत-पूजने॥
मुख्यमेवास्तु भवतां सदा मत्-कर्म कुर्वताम्
किमेभिर्बहुभिर्वाग्भिस्सत्यमेववदाम्यहम्॥
आत्मा वै पुत्र-नामासि त्वमेव मुनि-सत्तम
मदंशसम्भवत्वाच्च मदाज्ञा परिपालनात्॥
मद्द्रव्य-क्षेत्र-बिम्बानि आलयानियथावधि
विक्रीणनादिकार्येषु नास्ति दोषो ममाज्ञया॥
मदीय-धन-भोगेन मत्-क्रिया-लोपनेन वा
मच्चरित्रतयासत्यमपचारो न विद्यते॥
मा भीतस्त्वम्भवाशुत्वं मदाराधन-कृद्भव
इत्युक्त्वा देव-देवेशस्तूष्णीमास कृपा-निधिः॥

इति श्री-वैखानसे मरीचि-प्रोक्ते आनन्द-संहितायां षोडशोऽध्यायः

मरीचिः –

अतः परं प्रवक्ष्यामि तयोस्संवादमेव च
विष्णोः कैङ्कर्य-निष्ठानामस्माकं क्षेम-कारिणाम्।
एवं सत्य-वचश्श्रुत्वा तदाज्ञां शिरसा वहन्
पुनः प्रोवाच देवेशं विखनोमुनि-पुङ्गवः॥

श्री-विखनाः –

धन्योऽस्मि कृत-कृत्योऽस्मि सफलं जीवितं मम
तवपादाम्बुजौ प्राप्य जीवन्मुक्तोस्मि भो विभो!
तथैवाराधनं विष्णो! करिष्येनुग्रहात्तव
भवदाराधनं विष्णो! कथङ्कार्यङ्करोम्यहम्॥
विधिना केन देवेश! त्वत्-कर्म मुनिभिस्सदा
उदयास्तमयान्तञ्च क्रियते नियतात्मभिः॥

[[75]]

त्वमेवजगतान्नाथ! वक्तुमर्हस्यशेषतः
दैविकं मानुषञ्चैव कथं कार्यं वदेश्वर!

श्री-भगवान् –

वैखानस! भवानेव श्रोतुमर्हत्यशेषतः इत्युक्त्वा करुणा-सिन्धुर्विखनोमुनये तदा॥
दैविकं मानुषं चैव वेद-शास्त्राणि यानि च
तानिसर्वाणिसङ्गृह्य मन्त्रांश्चोपादिशत्-स्वयम्॥
अब्रवीदागमार्थानामाचारान्प्रविभागशः
आगमानां रहस्यञ्च मन्त्राणां मूलमेव च
स्वयमुक्त्वा तु देवेशः पुनराह तदा मुनिम्
वैखानस! त्वया प्रोक्त-सूत्रं वैखानसं स्मृतम्॥
गृहे देवालये चैव अर्चयेदिति भक्तितः
निषेकादि-श्मशानान्तं मानुषीकञ्च सूचितम्॥
कर्षणाद्युत्सवान्तञ्च दैविकञ्च मयासुत
स्व-सूत्र-विहितं यद्येतत्तत्सर्वं समाहितः॥
कुर्यादन्यत्र यद्युक्तं कृतमप्यकृतम्भवेत्
मदीयाराधनञ्चैव मन्नाम-स्मरणं तथा॥
द्वयञ्च मूल-मन्त्रादीन् साक्षान्मत्-प्रापकान् शुभान्
मदीय-धन-भोगादीन्विद्धि मोक्ष-प्रदान्मुने! वैखानसाहि-मत्पुत्रा गर्भ-वैष्णव-संज्ञिकाः
यस्याश्चोदर-गर्भाणामष्टमे मासि सम्भवे॥
अहमेवस्वयङ्गर्भे मन्मुद्रान्धारयाम्यहम्
भूमि-संस्पर्शनादेव मन्मुद्रा च तिरोभवेत्॥
तथाऽपि, त्वन्मत-स्थानां गुरुस्तेषान्त्वमेव हि
लोके चतुर्विधं विद्धि वैष्णवं विखनोमुने!
अनादि-वैष्णवस्साक्षादहमेव परात्परः
आदि-वैष्णव-नामानो विखनास्तवसूत्रिणः॥
पञ्च-संस्कार-संयुक्ता वैष्णवास्त्वन्य सूत्रिणः

[[76]]

मुण्ड-मुद्रा-धरास्सर्वे नाम्नावान्तर-वैष्णवाः॥
वैखानसा मम सुता दासाश्चान्ये मही-तले
मत्-पुत्राणां न चिह्नानि, दासाश्चिह्न-समन्विताः॥
द्वादशञ्चोर्ध्व-पुण्ड्रञ्च मणि-मालाङ्गले सदा
मन्नाम-कीर्तनञ्चैव धारयेद्वै समोक्ष-भाक्॥
भुक्ति-काले जलोच्चारेप्यशुद्धैस्सह-भाषणे
दुष्प्रवेशे ऽपिशुद्धस्स्यात् पृष्ठे कृत्वैव मालिकाम्॥
एवमुक्त-प्रकारेण त्वन्मत-स्था भवन्तु ते
अविद्योवासुविद्योवा वैखानस-कुलोद्भवः॥
उद्धरिष्यति मल्लोकं मद्भक्तानपरानपि
अशुचिर्वाप्यनाचारोजात्या विद्याधमोपिवा॥
मत्-पादोदक-सेकाच्च मन्निवेदित-भक्षणात्
तस्य जन्म-कृतं पापन्तूल-राशिरिवानलः॥
तस्मान्मदर्चनाद्दोषो नास्ति सत्यं वदामि ते
साधु-संरक्षणार्थाय भू-लोके विखनोमुने! अवतारं करिष्यामि भूम्या लक्ष्म्या समन्वितः
पुत्राद्यैवमयादिष्टो भृग्वादि मुनिभिस्सह॥
विख्यातं नैमिशारण्य-मुत्तमं तपसः फलम्
भू-लोके वर्तते यत्र तत्रत्वञ्च समाविश॥
तत्राहमंश-भागेन नर-नारायणावृषी
अवतारङ्करिष्यामि; तत्र मामर्चय प्रभो! मत्-प्रिये नैमिशेरम्ये मदाज्ञाम्पालयन् सदा भृत्यैश्च पूजितोनित्यं नारायण-परायणः॥
शिष्यैश्च सह-कर्तव्यं सूत्रं लोक-हितं महत्
दैविकं मानुषं चैव सूचितं विपुली-कुरु॥ अर्चा-विग्रह-रूपेण यत्र यत्र वसाम्यहम्

[[77]]

त्वत्सूत्रिणस्तत्र तत्र मुने माम् अर्चयन्तु ते॥
त्वत्सूत्रिणाञ्च सर्वेषां सदा मत्कृत-कर्मणाम्
मदाज्ञा-पालकानाञ्च पुनर्जन्म न विद्यते॥
मा भीतस्त्वं महा-भाग विखना मुनि-पुङ्गव!
भृग्वादि मुनिभिस्साकं मदाराधन-कृद्भव
मच्चरित्रतयासत्यमपचारो न विद्यते
इत्युक्ते देव-देवेशे विखनो मुनि-पुङ्गवः॥
सत्य-वाक्येन सन्तुष्टस्तदाज्ञां शिरसा वहन्
प्रदक्षिणन्तदा चक्रे शिष्यैरेतैस्समावृतः॥
भगवन्तं प्रणम्याथ नैमिशं प्रविवेश ह
स्वायम्भुव-मनोः काले युगादौ शुक्ल-वत्सरे॥
श्रवणे श्रावणे शुक्ल-पौर्णम्यामिन्दु-वासरे
सिंह-लग्ने च संयुक्ते विखनाः प्राप नैमिशम्॥
नैमिशे निमिश-क्षेत्रे शिष्यैश्च सहितो मुनिः
वैखानसस्सहर्षेण सूत्रं कर्तुं प्रचक्रमे।
वैखानसेनमुनिना द्वात्रिंशत्-प्रश्न सङ्ख्यया
निषेकादि-श्मशानान्तं मानुषङ्कर्म-सूचितम्॥
सूत्रं विखनसाप्रोक्तं सार्ध-कोटि-प्रमाणकम्
कर्षणाद्युत्सवान्तञ्च दैविकन्तेन सूचितम्॥
गुरोर्मुखाच्च सङ्गृह्य तत्सर्वं समुदाहृतम्
काश्यपेनात्रिणाचैव मया च भृगुणा तथा॥
चतुर्लक्ष-प्रमाणेन सङ्क्षिप्य प्रोच्यतेधुना
तत्-क्रमञ्च प्रवक्ष्यामि शृणुध्वं मुनि-सत्तमाः॥
जयानन्दञ्च सञ्ज्ञानं वीरञ्च विजयन्तथा
विजितं विमलङ्कल्पं मयैवं संहिताष्टकम्॥
चतुरशीति-साहस्रं लक्षोपरि-कृतन्तथा

[[78]]

खिलं खिलाधिकारं च पुराधिकरणं तथा॥
वासाधिकरणञ्चैव ह्यर्चा-धिकरणं तथा
मानाधिकरणञ्चैव क्रियाधिकरणाह्वयम्॥
निरुक्तञ्चप्रकीर्णञ्च यज्ञाधिकरणं तथा
भृगुणा च चतुष्षष्टि-सहस्रं समुदाहृतम्॥
पूर्व-तन्त्राह्वयं चैव विष्णु-तन्त्रमतः परम्
उत्तराख्यं महा-तन्त्रं प्रोक्तं तन्त्र-चतुष्टयम्॥
अष्टाशीति-सहस्राणां ग्रन्थ-सङ्ख्यात्रिणा तथा
सत्य-काण्डं कर्म-काण्डं ज्ञान-काण्डाह्वयन्तथा॥
चतुष्षष्टि-सहस्राणां ग्रन्थम्प्रोवाच काश्यपः
अष्टा-विंशति-साहस्रं काश्यपेनाधिकङ्कृतम्॥
एषाञ्चतुर्विधानान्तु मूलं तत्सूत्रमुच्यते
क्वचित्कालान्तरे विष्णुर्नर-नारायणावृषी॥
बदरी-षण्डमासाद्य लोक-रक्षाञ्चकार ह
तस्यावतारं ज्ञात्वातु विखना मुनि-पुङ्गवः॥
तत्र गत्वा जगन्नाथं नर-नारायणात्मकम्
प्रणम्य शिरसा भूमौ श्री-विष्णोराज्ञया मुनिः॥
आराधनन्तथा चक्रे यदर्धमवतारितः
तदा प्रभृति देवेशो लोकसंरक्षणाय वै॥
यत्र यत्रैव भूम्यान्तु अर्चा-रूपेण वर्तते
तत्र तत्रत्य-भूपेन चानीता स्म तदाज्ञया॥
वयं वैखानसाविप्राः पुत्र-पौत्रादिभिस्सह
आराधयामो लक्ष्मीशमाचार्यानुग्रहात्तथा॥
श्री-पुण्ड्राख्यं महा-ग्रामं सम्प्राप्य-तदनन्तरम्
चोल-भूपेन चानीता धार्मिकेण महात्मना॥
स्थापिताश्च भविष्यन्ति विस्तृता विष्णु-पूजकाः
एतद्वः कथितं विप्रा ह्यस्मदाचार्य-सम्भवम्॥
यश्शृणोति पठन्वापि सयाति परमाङ्गतिम्

इति श्री-वैखानसे मरीचि-प्रोक्ते आनन्द-संहितायां सप्तदशोध्यायः

[[79]]

अतः परम्प्रवक्ष्यामि वैखानस-विभूषणम्
भगवद्देव-संवादं शृणुध्वं मुनि-सत्तमाः॥
क्वचित्कालान्तरे देवा विष्णु-पूजा-कृतोद्यमाः
विष्णु-लोकं ययुस्सर्वे स्व-स्व-दोषापनुत्तये॥
ब्रह्मा च शूल-पाणिश्च पार्वती च सरस्वती
नागाविद्याधराश्चैव यक्ष-गन्धर्व-किन्नराः।
सिद्ध-चन्द्र-सुनन्दाद्या अष्ट-दिक्पालकैस्सह
वसवोद्वादशादित्या रुद्रा एकादशास्तथा॥
सप्तर्षयो नव-ब्रह्मा-मनवश्च चतुर्दश
नव-ग्रहाश्चाप्सरसश्शची च गज-वाहनः॥
एते देवास्समाजग्मुर्विष्णु-लोकं परं पदम्
तत्र स्थितं महा-विष्णुं सृष्टि-स्थित्यन्त-कारिणम्॥
महा-लक्ष्म्या च भूम्या च सेवितं पद्म-लोचनम्
भगवन्तं नमस्कृत्य प्राहुस्ते विबुधोत्तमाः॥

देवाः –

नारायणः परम्ब्रह्म तत्वं नारायणः परः
नारायण-परोज्योतिरात्मा नारायणः परः॥
एवं श्रुत्युक्त-रूपाय नमस्ते विश्व-मूर्तये
नमोनमस्ते गोविन्द नमश्श्री-वत्स-लाञ्छन॥
त्वन्नामस्मरणात्-पापमशेषं नः प्रणश्यति
त्वद्दर्शनेन किमुत सर्वकल्मषहारिणा॥
अस्माकं विमलं चेतो मेघ-मुक्तोरविर्यथा
चन्द्रोदये समुद्रस्तु यथावृद्धिमवाप्नुयात्॥
तथास्माकं शरीराणि पुष्टानि विविधानि च एवं स्तुत्वा समीपे तु तूष्णीमासन्-बुधा-दयः अथ नारायणोदेवः प्रत्युवाचामरांस्तदा

श्री-भगवान् –

दैत्यैश्च दानवैश्चैव राक्षसैश्च प्रपीडिताः॥
यत्र कुत्र च लोकेषु अनाचारः प्रवर्तते

[[80]]

देव-स्थानं त्वपेक्ष्यैव यः कश्चन परन्तपः॥
किङ्करोतीह केनैव कारणेन समागताः
अन्योन्य-कलहोवापि भयं यत्र किमद्भुतम्॥
एतत्समस्तं विस्तार्य किङ्कार्यं वक्तुमर्हथ

देवाऊचुः –

वरेण्य! यज्ञ-पुरुष प्रजा-पालन-तत्-पर! न राक्षस-भयं तत्र दुराचारो न हि क्वचित्
देव-स्थानन्त्वपेक्ष्यैव नोग्रं चरति कश्चन॥
अन्योन्यकलहोवापि नभयं नाद्भुतं तथा
किन्तु पूजा-विधानार्थं त्वत्समीपं जयं गताः॥
त्वत्-पूजया सुरास्सर्वे मनुष्याः पाप-कारिणः
लभन्ते परमैश्वर्यं सद्गतिं मधु-सूदन!
तस्माद्वयं विमुक्त्यर्थं स्व-स्व-दोषापनुत्तये
सर्वैश्वर्य-प्रदातारम् इच्छन्तो ऽर्चितुम् आगताः॥
त्वद्-अर्चने वयं शक्ताः कथं संसार-मज्जिताः
प्रमाणेन दिशो भूमिं गगनं परिवारिताः॥
किं वर्णं वाथ देवेश किं प्रमाणं तव प्रभो!
सप्तर्षयस् समुद्राश् च पर्वतास् सरितो गणाः॥
वसवो द्वादशादित्या रुद्रा-एकादशस् तथा
तव कुक्षौ तु विद्यन्ते भुवनानि चतुर्दश॥
माहात्म्यं विश्व-रूपात्मन् वक्तुं तव न शक्यते
एवमुक्तास् सुरास् सर्वान् गोविन्दः प्रत्युवाच ह॥

श्री-भगवान् –

मत्-पूजया सुरास् सर्वे मनुष्याः पाप-कारिणः
नारदादि-मुनीन्द्राश् च सद्गतिं प्राप्नुवन्ति हि॥
देवादयस् तथा यूयं कुरुथञ् चार्चनं क्रमात्
युष्मद्-अन्यस् तु को वा माम् अर्चयिष्यति भक्तिमान्॥
तथापि देवाश् शृण्वन्तामवधान-समन्विताः
ब्रह्मेशान-सुरेन्द्राश् च वसिष्ठाद्या महर्षयः॥
ममार्चन-विधौ नार्हास् स्व-स्व-दोष-प्रदूषिताः

[[81]]

देवा ऊचुः –

स्व-तेजो व्याप्त-दिक्-चक्र महिमन् मधुसूदन!
को वा तेषां महान्दोषस् तन्नो ब्रूहि सुनिश्चितम्

श्री-भगवानुवाच –

विधेश् चतुर्मुखत्वाच्च शूलिनस् त्रि-विलोचनात्॥
अङ्गाधिका द्वि-रूपत्वाद्दोष एष तदाश्रितः
इन्द्रस् सहस्र-नेत्रत्वाद्दोष दुष्टस् तथैव च॥
अन्येषां योनि-जन्यत्वाद्वसिष्ठादि तपस्विनाम्
तस्मादनर्हास् ते सर्वे मम पूजा-विधौ सुराः॥ केवलं भक्ति-मात्रेण सन्तुष्टो भवतां सदा
वैखानसं विना नान्यस् साक्षाद् अर्चितुम् अर्हति॥ वैखानसे मम मनस् सर्वदा रमते सुखम्

देवा ऊचुः –

त्वदर्चन-परान् अस्मान् किं वा वैखानसे मतिः॥ कथं कृता त्वया ब्रह्मन् तद् वदस्व कृपा-निधे!

श्री-भगवानुवाच –

शृणुध्वं विबुधास् सर्वे ब्रह्मणः पूर्वम् एव हि॥ ज्ञापितं सङ्ग्रहेणैव तथापि च वदाम्यहम्
प्रजा-पतिस् सर्जादावाकाशं सलिलं तथा॥
अग्निं वायुं महीञ् चैव मनुष्यादीन् क्रमादसौ
तदा तु लोक-रक्षार्थं वैखानसम् उरस् स्थले॥
मया सृष्टो मद्-अर्चार्थं तेन सर्वे ऽर्चयन्तु माम्
वैखानसं विनान्ये वा देवता ऋषयस् तथा॥
मनुष्या वार्चनं कर्तुं न शक्ता मम देवताः
उरस् स्थले च जन्यत्वान्ममानुज्ञा-वशः प्रियः॥
वैखानसो मम सुतस् तस्माद् वैखानसो वरः
द्रुमाद्या लक्ष-विंशत्यः पयो-जन्याश् च लक्षकम्॥
रुद्र-सङ्ख्या-क्रमी-भूत्वा पक्षिणान् दश-लक्षकम्
सप्त-कोटि-पशूनाञ् च तत ऊर्ध्वञ् च मानुषाः॥
ब्रह्म-योनि-शतं प्राप्य बहु-जन्म-तपः फलात्
वैखानस त्वं प्राप्तो ऽभून् ममांशश् च स वै नरः॥

[[82]]

श्रुति-स्मृति पुराणेषु श्रेष्ठं वैखानसं स्मृतम्
तस्मात्तेनैव मुनिना कुरुध्वं मम चार्चनम्॥
एवमुक्त्वा हरिस्तूष्णीमासीद्भक्तानुकम्पया

इति श्री-वैखानसे मरीचि-प्रोक्ते आनन्द-संहितायाम् अष्टादशोध्यायः

अतः परं प्रवक्ष्यामि माहात्म्यं तस्य वै मुनेः
श्रुत्यादिषु प्रसिद्धं हि शृणुध्वं शौनकादयः॥
एवं-वदन्तं लक्ष्मी-शमब्रुवन्त्रि-दशा वचः
श्रुति-स्मृति-पुराणेषु प्रमाणं ज्ञातुमुद्यताः॥

देवाऊचुः –

चिर-कालं तपः कृत्वा चान्द्रायण-महा-व्रतम्
शरीरञ्चकृशङ्कृत्वा युष्मद्वर-प्रसादतः॥
अस्मान्विना विखनसे कोविशेषस्तवानघ
श्रुति-स्मृति-पुरेणेषु किं प्रमाणं वद प्रभो!

भगवानुवाच –

आत्मा वै पुत्र-नामासीद्विष्णोर्विश्व-कुटुम्बिनः
वैखानसाह्यौरसाश्च दत्त-पुत्राश्च दीक्षिताः॥
देवादयस्तु मद्भक्ता दासाश्चान्ये मही-तले
पुत्रा एव पितुः पूजां स्व-भावादेव कुर्वते॥
पित्रोर्यद्यद्वस्तु-जातं तत्पुत्रस्स्वीकरिष्यति
तस्माद्वैखानस-श्रेष्ठो मदर्चन-विधौ सुराः॥ श्रुति-स्मृति-पुराणेषु प्रमाणञ्च वदाम्यहम्

श्रुतिः –

येनखाः। ते वैखानसाः। ये वालाः। ते वाल-खिल्याः

इति वैखानसं पूर्वेहँ साम भवतीति कात्यायनोपनिषदि। अथ पञ्च-ऋषयः वैखानसं भवति। वैखानस ऋषिर्ब्रह्मणश्चायुषं भवति। छान्दोग्ये

धेनुर्वहाणामदितिस्सुराणां ब्रह्मा ऋभूणां विखनामुनीनाम् इति। सीतोपनिषदि -

वैखानसमुनेः पूर्वं विष्णोर्वाणी समुद्भवेत्

इति।

आश्वमेधिकेः –

अश्वत्थः कपिला गावस् तुलसी विखनो मुनिः चत्वारो मत्-प्रिया राजन्-तेषां वैखानसो वरः।
वैखानसा मम सुतादासाश्चान्ये मही-तले
मत्पुत्राणां न चिह्नानि दासाश्चिह्न-समन्विताः।
वैखानसानां सर्वेषां गर्भ-वैष्णव-जन्मनाम्

[[83]]

अहमेव स्वयं गर्भे मन्मुद्रां धारयाम्यहम्।

आगमे –

अज्ञानादर्ध-लोभाद्वा मोहाद्वा पर-पीडनात्
तप्त-मुद्रोभवेद्यस्तु स्पृष्टुं नार्हति केशवम्॥ वैखानस-कुले जाता अज्ञानात् तप्त-धारिणः
प्रायश्चित्तं महा-शान्तिं क्रमादर्हन्ति शास्त्रतः॥
ऋषि-प्रोक्त विधानत्वाद्देवलत्वं नविद्यते
वैखानस-कुले जातः पाञ्चरात्रेण दीक्षितः॥
न दीक्षितो न जातोवै स वै देवलकः स्मृतः
अज्ञानाद्वा बलान्मोहाद्यदि चक्राङ्कितो भवेत्॥
वैखानसोपि सोवध्यस्स्पृष्टुं नार्हति केशवम्
आचार्यमालयञ्चैव प्रतिमां बलि-पीठकम्॥
शरीरमेव देवस्य अर्चकस्तु सदा हरिः

आश्वमेधिके –

वैखानसो विष्णु-सुतस्सदा विष्ण्वर्चने रतः
तस्यास्ति महतीशुद्धिस्स्वर्णस्येव हि सर्वदा॥

भारते –

आत्म-योनिस्स्वयञ्जातो वैखानस्साम-गायनः
विखनस्सर्जिताः पुत्रा वर्तन्ते बहवोऽधुना॥
तेषां विखानसोमुख्या मुनेः पञ्च-महर्षयः
काश्यपोत्रिर्भृगुरहं शिष्या बोधायनस्तथा॥
बोधायनो गुरु-द्रोही शास्त्र-व्युत्क्रमवानभूत्
तस्माद्बोधायने सूत्रे श्रौतधर्मो न विद्यते ॥
बहुना किमुवक्तव्यं न तेन सदृशः पुमान्
तस्माद् यूयन् तु देवाद्यास्तेन सर्वेऽर्चयन्तु माम्॥
सत्यं सत्यं पुनस्सत्यं ब्रवीमि सुर-सत्तमाः
तच्छ्रुत्वा देव-देवस्य वाक्यं सत्येन संयुतम्॥
भगवन्तं प्रणम्याथ धन्यास् स्म इति वादिनः
अनुज्ञाप्य तथा जग्मुस्स्व-लोकञ्च सुरादयः॥
हरेराराधनं चक्रुर्वैखानस-कुलोद्भवाः
शृण्वतां सर्व-पाप-घ्नं साक्षान्मोक्ष-प्रदं शुभम्॥

इति श्री-वैखानसे मरीचि-प्रोक्ते आनन्द-संहितायाम् एकोनविंशोध्याय विखनसोत्पत्ति-क्रमः सम्पूर्णः

[[84]]

श्री-विखनस-महा-गुरवे नमः

विखनसाष्टोत्तर-शतनामस्तोत्रम्

अस्य श्री-विखनसाष्टोत्तर शत-महा-मन्त्रस्य

भृगुर्महर्षिः, अनुष्टुप् छन्दः श्रीमन्नारायणो देवता। आत्म-योनिस् स्वयञ्-जात इति बीजम्। गर्भ-वैष्णवयति शक्तिः। शङ्ख-चक्र-गदा-पद्मेति कीलकम्। शार्ङ्गभृन् नन्दकीत्यस्त्रम्। निगमागम इति कवचम्। परमात्म्यसाधक इति नेत्रम्। परञ्-ज्योति-स्व-रूपे विनियोगः। सनकादि योगीन्द्र भक्ति-प्रदेति ध्यानम्। अष्ट-चक्रमिति दिग्बन्धः। श्री-विखनस-ब्रह्म-प्रीत्यर्थे जपे विनियोगः।

ध्यानं –

चक्राब्-जेप्सित-दाभयोद्धृत-चतुर्बाहुं रमा-नन्दनम्
हस्ताब्-जं हरि-मानसोद्भवमहं पद्मोद्भवस्याग्रजम्
विद्युत्-दण्डक-मण्डलादि-भरितं गर्भस्थ-चक्राङ्कनम्॥
वन्दे असृग्-घरिणाजिनं विखनसं योग-प्रभा-वल्लभम्
श्रीमान् योग-प्रभाव-ज्ञो मन्त्र-वेत्ता त्रि-लोक-धृत्
श्रवणे श्रावणे मासि सम्भवो गर्भ-वैष्णवः
भृग्वादि-मुनि-पुत्रश्च त्रि-लोकात्मा परात्परः
परञ्-ज्योतिस् स्व-रूपात्मा सर्वात्मा सर्व-शास्त्र-भृत्॥
योगि-पुङ्गव-संस्तुत्यः स्फुटत्-पाद सरोरुहः
वेदान्त-वेद्य-पुरुषो वेदाङ्गो वेद-सार-भृत्
सूर्येन्दु-नयन-द्वन्द्व-स्वयम्-भूर् आदि-वैष्णवः
आर्त-लोक-मनः पद्म-रञ्जित-भ्रमरात्मकः
राजीव-लोचनश् शौरिः सुन्दरः पुरुषोत्तमः
समाराधन-दीक्षो वा स्थापक स्थानिको ऽर्चकः
आचार्यस् त्रि-जगज्-जेता जगन्-नाथो जनार्दनः
शत-कोटि-सहस्रांशु तेजोवान् दिव्य-विग्रहः
भोक्ता गोप्तामरेन्द्रो वा सुमेधा धर्म-वर्धनः

[[85]]

क्षेत्रज्ञः पुण्डरीकाक्षश् श्रेष्ठो गाम्भीर्य-सद्-गुणः
जितेन्द्रियस् सुप्रसादो ह्यप्रमेयः प्रकाशनः
हृत्-कराब्जो रमा-पुत्रो मृग-चर्माम्बरो ऽच्युतः
पद्मोद्भवाग्रजो मुख्यो धृत-दण्ड-कमण्डलुः
वैखानसागम-निधिर्-नैक-रूपो निरञ्जनः
गर्भ-चक्राङ्कित धरश् शुचिस् साधुः प्रतापनः
योग-ब्रह्मापर-ब्रह्मा निरामय-तपो-निधिः
माधवाङ्घ्रि-सरो-जात पूजार्हश् श्री-चतुर्-भुजः
अनघो-भगवान् विष्णुर्-विजयो नित्य-सद्-गुणः
विराण्-मानस-पुत्रो वा शङ्ख-चक्र-धरः परः
क्रोध-हा शत्रु-हा दृश्यः ब्रह्म-रूप्यार्त-वत्सलः
का महा-धर्म-भृद्-धर्म विशिष्टश् शाश्वतश् शिवः अव्ययस् सर्व-देवेशस् त्वचिन्त्यो भय-नाश-कृत्
भोगीन्द्रो भोग-पुरुष आदि-देवो महात्मकः
वैखानस-मुनि-श्रेष्ठ निधिस् स्यात् काञ्चनाम्बरः
नियमस् सात्त्विक-श्रीदस् तारणश् शोक-नाशनः
अर्चनाक्षम-योगीशश् श्री-धरो ऽर्चिश् शुभो महान्
मुक्ति-दः परमैकान्तिः श्री-निधिश् श्री-करश् शुचिः
चन्द्रिका-सान्द्र-धवल-मन्द-हास-युताननः
वैखानसो विखनसो विखना-मुनि-पुङ्गवः
दयालुस् सत्य-भाषो वा सुमूर्तिर् दिव्य-मूर्तिमान्
इत्येवं श्री-विखनसो नाम्नामष्टोत्तरं शतम्
यात्रा-काले विशेषे च ज्ञानाज्ञान कृते ऽपि च
स्नानेषु सर्व-कालेषु सूर्य-चन्द्रोपरागके
प्रयाणे भोजने तल्पे विद्यारम्भे महोत्सवे
त्रि-सन्ध्यायाम् पठन् नित्यं सर्वत्र विजयी भवेत्
भव्याय मुनि-वर्याय परि-पूताय वाग्मिने
योग-प्रभा-समेताय तस्मै विखनसे नमः

हरिः ओम् श्री-विखनसाष्टोत्तर-शत-नाम-स्तोत्रं सम्पूर्णम्

[[86]]

निरुक्ताधिकारे श्री-विखनसाष्टोत्तर-शतनामस्तोत्रम्

विमल-कमल-हारं विश्रुताचार-पूरम्
विनमित-सुर-वारं कॢप्त-लोकोपकारम्
विमत-जन-विदूरं विष्णु-चेतो विहारम् विखनस-मुनि-सूरिं वेद-सारज्ञ-मीडे।
ॐ श्री-विखनसाचार्य गुरवे ब्रह्म-रूपिणे
विष्णु-प्रिय-कुमाराय रौरवाजिन-वाससे
समारूढ-कुरङ्गाग्र्य वाहनाय महात्मने
शुद्ध-स्फटिक-रूपाय नभो मास्यवतारिणे॥
महा-वैष्णव नक्षत्र सम्भवाय वराय च
विष्ण्वर्चा-पर-तन्त्राय सूत्र-काराय योगिने॥
योग-प्रभा-समेताय हरि-मानस-जन्मने
दिव्य-विज्ञान-कान्ताय दोष-भञ्जन-कारिणे॥
वैखानस-मताधार मूल-कन्दाय विष्णवे
किङ्करी-कृत-भृग्वादि मुनि-मण्डल-चारिणे॥
गर्भ-वैष्णव-सिद्धान्त-स्थापकाय च वाग्मिने
ऋग्-यजुस् साम-लोलाय वेद-मातृ-सखाय च॥ ब्रह्मात्म-जन्मने विश्व पुण्याय पुरुषाय च
चतुर्बाहु-धृताब्जारि वरदा भय-शालिने॥
अक्ष-मालालङ्कृताय तुलसी-दाम-धारिणे
ललाटान्तोर्ध्व-पुण्ड्राग्र किरीट-मणि-हारिणे॥
हेम-कुण्डल-रत्नार्चिर्-मण्डित-श्रवणाय च
सर्वागम-निवासाय सर्व-शास्त्र-विनोदिने॥
विद्यारण्य-वसन्ताय विप्र-नारायणाय च
सनत्-कुमार-वेद्याय सनकार्ध-शरीरिणे॥
सनन्दाध्यात्म-गुरवे वाल-खिल्य-सखाय च
वान-प्रस्थावतंसाय वैयासिक्य स्तुताय च॥

[[87]]

वसिष्ठार्चित-पादाय वाम-देव-स्तुताय च
पाषण्ड-शैल-वज्राय बौद्ध-चार्वाक-वैरिणे॥
वितर्काहि-पतङ्गाय जैन-ध्वान्त-विवस्वते
न्यग्रोध-पर्ण-कीटाय क्षीर-सागर-शायिने॥ षडागम-समर्थाय षण्-मत स्थापकाय च
अनादि-विष्णु-भावाय वैदिकाय शिवाय च॥
शिल्पाचार्याय शिष्टाय सिद्धाश्रम-निवासिने
भृग्वादि-मुनि-पित्रे च वाणी-गान-प्रियाय च॥
सहस्र-कोटि-गन्धर्व-सहिताय हिताय च
अर्चावतार-रूपाय हरि-रूप-स्वरूपिणे॥
नाना बिम्ब-प्रतिष्ठात्रे शिव-मित्राय योगिने
मैत्रावरुण-वन्द्याय दत्तात्रेयार्थिताय च॥
हयग्रीव-स्व-रूपाय शेषाय सुमुखाय च
आचार्याय स्थापकाय दीक्षितायार्चकात्मने॥
समाराधन-धाम्ने च स्थानि-काय-मनोभुवे
शोभनाङ्गायशुद्धाय योग-मायानु सारिणे॥
सप्त-कोटि-महा-मन्त्र-स्व-तन्त्र-भवनाय च
वैराग्य-जन्म-देशाय वासवाय यशस्विने॥
धौत-यज्ञोपवीताय कुशास्तरण-शायिने
पञ्च-यज्ञाधिकाराय महा-यज्ञ-स्व-रूपिणे
अग्नि-होत्र-प्रतिष्ठात्रे अग्नि-कल्पाय यज्विने
चत्वारिंशन्-महा-कर्म प्रतिष्ठाय महेष्टये॥
लक्ष्मी-विशिष्ट-सिद्धान्त-स्थापकाय विलासिने॥
अनन्त-वेद-वेदान्त-रहस्य परिशीलिने॥
निरन्तर-पदाक्रान्त-सार्वभौमाय मायिने नित्य-सूरि-समेताय नारायण-सुताय च॥ अनेक-देशिकाचार्य पारिषद्य सदस्विने

[[88]]

विदुषे विद्वदग्रण्यै विशाल-नयनाय च॥
महा-भागवत-श्रेष्ठ-पूजितायास् तु मङ्गलम्
विशिष्टाद्वैत-सिद्धान्त मूल-भूताय मङ्गलम्
वैखानस-मुनीन्द्राय कूटस्थायास् तु मङ्गलम्
एतद्-अष्टोत्तर-शतं वैखानस-मुनेः प्रियम्॥
अस्मद्-आचार्य भूतैस् तु कीर्तितं भार्गवादिभिः
एतद् अष्टोत्तर-शतं महैश्वर्य-प्रदं भुवि॥
आयुर्-आरोग्य-दं भव्यं सर्व-काम-प्रदं नृणाम्
योजपेच्-च त्रि-सन्ध्यायां स याति परमां गतिम्॥

इति श्री-वैखानसे भृगु-प्रोक्ते निरुक्ताधिकारे श्री-वैखानसाष्टोत्तर-शत-नाम स्तोत्रं सम्पूर्णम्

[[89]]

विखनसाचार्यस्तोत्रपाठः

अतः परं प्रवक्ष्यामि ह्य् आचार्यस्य महात्मनः
वैखानसस्य देवर्षेः स्तोत्र-पाठम् इदं परम्॥
यः पठेच्-छ्रुणुयान्-नित्यं वैखानस-कुलोद्भवः
इह लोके सुखं भुङ्क्त्वा स याति परमां गतिम्
देव-राज-दया-पात्रं धी-भक्त्यादि-गुणार्णवम्
भृग्वादि-मुनिभिर्-मान्यं वन्दे श्री-विखनो मुनिम्॥
श्री-लक्ष्मी-वल्लभारम्भां…. परम्पपराम्॥

[[90]]

वन्दे विखनसं साक्षात्…. प्रवर्तकम्॥
नारायणः पिता यस्य………. विखनसे नमः॥
अखण्ड-मण्डलाकारं व्याप्तं येन चराचरम्
तत्-पदं दर्शितं येन तस्मै श्री-गुरवे नमः
श्रुति-स्मृति-नदी-पूर्णं……… श्री-विखनोर्णवम् ॥
श्रवणे श्रावणे शुक्ल-पूर्णिमा इन्दु-वासरे
सिंह-लग्ने च संयुक्ते नैमिशारण्यम् आगतम्॥
नारायणस्य यश् चात्मा विखना इति वर्तते
वेद-वेदाङ्ग-तत्त्वज्ञं तं वन्दे विखनो मुनिम्॥
पद्म-नाभ-मनो जातं विष्णु-पूजा-विशारदम्
कुशासने समासीनम् ऊर्ध्व-पुण्ड्रं पवित्रकम्॥
किरीट-हाराभरण-कुण्डलाङ्गद-भूषितम्
शिखा-यज्ञोपवीताभ्यां त्रि-दण्डेन विराजितम्॥
वरदा-भय-हस्ताब्जं शङ्ख-चक्र-धरं प्रभुम्
पद्मं तु दक्षिणे हस्ते धारिणं पीत-वाससम्
कमण्डलु-घटैर्-युक्तं ब्रह्मर्षि-गण-सेवितम्
तुलसी-पद्म-मालाभिस् तपसा च सुशोभितम्॥
पारमात्मिक-मन्त्रज्ञं विखनो मुनिम् आश्रये
चक्राब्जेप्सितदा भयोद्धृत-चतुर्भाहु… योग-प्रभा-वल्लभम्॥
वेदान्त-वेद्यम् अखिलार्ध-विदां वरिष्ठम्
श्री-कान्त-पाद-सरसी रुह लग्न-चित्तम्॥
केयूर-हार-मणि-राज-विभूषिताङ्गम्
शान्तं सदा विखनसं मुनिम् आश्रयामि॥
कण्ठावलग्न-तुलसी-नलिनाक्ष-माला
कान्त्या विलिप्त पृथु-पीन-भुजान्तरालम्
स्वर्णाम्बु-जात-वदनोल्लसद्-ऊर्ध्वं पुण्ड्रम्

[[91]]

शान्तं सदा विखनसं मुनिम् आश्रयामि॥
श्री-वासुदेव-चरणाम्बुज भृङ्ग-राजम्
कामादि-दोष-दमनं पर-विष्णु-रूपम्
वैखानसार्चित-पदं परमं पवित्रम्
शान्तं सदा विखनसं मुनिम् आश्रयामि॥
चन्द्रादित्य-विलोचनं मम गुरुं क्षीराब्धि-कन्या-सुतम्
सूत्रानन्त-समस्त तन्त्र-विदुषाम् अज्ञान विच्छेदनम्
तं साक्षात्-पर वासुदेव-चरण-द्वन्द्वाम्बुजार्चा परम्
भक्तानन्त-गुण-प्रदं विखनसं नित्यं प्रपद्ये विभुम्॥
वसन्त-चूतारुण-पल्लवाभं ध्वजाब्ज-वज्राङ्कुश-चक्र-चिह्नम्
वैखानसाचार्य-पदारविन्दं योगीन्द्र-वन्द्यं शरणं प्रपद्ये॥
प्रत्युप्तगारुत्मतरत्नपाद स्फुरद्-विचित्रासन सन्निविष्टम्
वैखानसाचार्य-पदारविन्दं सर्वाभिवन्द्यं शरणं प्रपद्ये॥
प्रतप्त-चामीकर-नूपुराढ्य-कर्पूर-काश्मीरज-पङ्क-रक्तम्
वैखानसाचार्य-पदारविन्दं सद्-अर्चितं तच्-चरणं प्रपद्ये॥
सुरेन्द्र-दिक्-पाल-किरीट-दीप्त-रत्नांशु-नीराजन-शोभमानम्
वैखानसाचार्य-पदारविन्दं सुरेन्द्र-वन्द्यं शरणं प्रपद्ये॥
इक्ष्वाकु-मान्धातृ-दिलीप-मुख्य-महीश-मौलिस्थ-किरीट-जुष्टम्
वैखानसाचार्य-पदारविन्दं महीश-वन्द्यं शरणं प्रपद्ये॥
दितेस् सुतानां कर-पल्लवाभ्यां सं लालितं तत्-सुर-पुङ्गवाभ्याम् (नाम्)
वैखानसाचार्य-पदारविन्दं सुरारि-वन्द्यं शरणं प्रपद्ये॥
भृग्वत्रि-साङ्गीरस-काश्यपाद्यैर्-मरीचि-मुख्य-प्रवरैस् सुपूज्यम्
वैखानसाचार्य-पदारविन्दं मुनीन्द्र-वन्द्यं शरणं प्रपद्ये॥
क्षेत्राणि तीर्थानि वनानि भूमौ तीर्थानि कुर्वन्-रजसोत्थितेन
वैखानसाचार्य-पदारविन्दं सञ्चारितं तच्-छरणं प्रपद्ये॥
दीनं भवाम्भोधि-गतं नृ-शंसं वैखानसाचार्य-पदाम्बु-राशौ

[[92]] I

त्वत्-पाद-पद्मस्थ-पराग-वर्षैर्-दोषाकरं मां कृपयाभिषिञ्च
वैखानसाचार्य-पदाङ्कितं यः पठेद्धरेर्-अर्चन-याग-काले
सुपुत्र-पौत्रान्-लभते च कीर्तिम् आयुष्यम् आरोग्यम् अलोलुपत्वम्॥
येषाम् आसीद्-आदि-वैखानसानां जन्म-क्षेत्रं नैमिशारण्य-भूमिः
देवो येषां देवकी-पुण्य-राशिस् तेषां पाद-द्वन्द्व-पद्मं प्रपद्ये॥

आचार्यमङ्गलम्

लक्ष्मी-वल्लभ-सङ्कल्प-वल्लभाय महात्मने
श्रीमद्-विखनसे तुभ्यं मुनि-वर्याय मङ्गलम्॥
लक्ष्म्या मातृ-मते तस्याः पत्या पितृ-मते ऽनघैः
भृग्वाद्यैः पुत्रिणे अस्माकं सूत्र-काराय मङ्गलम्॥
स्व-सूत्र-विहितोत्कृष्ट-विष्णु-बल्याख्य-कर्मणा
गर्भ-वैष्णवता-सिद्धि-ख्यापकायास्तु मङ्गलम्॥
भक्त्या भगवतः पूजां मुक्त्युपायं श्रुतीरितम्
स्वयं दर्शयते अस्माकं सूत्रकाराय मङ्गलम्॥
श्री-वेङ्कटेश-करुणा-प्रवेशाग्र-भुवे सदा
करुणा-निधये अस्माकं गुरवे ते अस्तु मङ्गलम्॥
नारायण-परं सूत्रं श्रुति-वाक्यैक-संश्रयम्
प्रकाश्य-सूत्रकाराणां दृषते मूर्ध्नि मङ्गलम्
विष्णोः परत्व कथन-पूर्वम् अर्चा-विधायिने
श्रीमद्-विखनसे नित्यं गुरवे तेऽस्तु मङ्गलम्।
जन्मन्येव स्व-भुजयोर्ध्वयोश् शङ्खारि-धारिणे
वरदा भय-हस्ताय मुनि-राजाय मङ्गलम्॥
आत्मनो मुनि-राजत्व-सूचनाय च मूर्धनि
किरीट-धारिणे पाप-हारिणे ते अस्तु मङ्गलम्॥
योग-निष्ठ-प्रभा-युक्त स्व-रूप-प्रतिभानवे

[[93]]

गुरवे विखनो नाम्ने विष्णु-पुत्राय मङ्गलम्॥
य इदं पद्य-दशकं विखनो मङ्गलाभिधम्
पठेद्वा श्रुणुयात्-तस्य मङ्गलं तनुयात्-प्रभुः

आचार्य-मङ्गलं समाप्तम्

नारायणं स-कमलं सकलामरेन्द्रम्
वैखानसं मम गुरुं निगमागमेन्द्रम्
भृग्वत्रि-काश्यप-मरीचि-मुखान्-मुनीन्द्रान्
सर्वान्-अहं कुल-गुरून् प्रणमामि मूर्ध्ना॥