Madhuparkam
Honeyed dish - Madhuparkam - अग्निमीळे इति मधुपर्कम्
अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजं॑ । होता॑रं रत्न॒धात॑मम् ॥
agnímīḷe puróhitam yajñásya devámṛtvíjam ǀhótāram ratnadhā́tamam ǁ
Rig Veda 1.1.1
॥ ॐ श्री श्रीनिवास स्वामिनः मधुपर्कं निवेदयामि ॥ ॐ श्रियै नमः मधुपर्कं निवेदयामि॥ ॐ हिरण्यै नमः मधुपर्कं निवेदयामि॥
2. Consecrate the vesse।
Consecrate The vessel in which cooked offering is presented
हविः पात्रे चतुर् उपचारान् समर्पयामि
हविः पात्रे आदित्यम् आवाहयामि
❀ ॐ आदित्यम् आवाहयामि । ॐ भास्करम् आवाहयामि । ॐ सूर्यम् आवाहयामि । ॐ मार्ताण्डम् आवाहयामि । ॐ विवस्वन्तम् आवाहयामि ।
❀ ॐ आदित्यं प्रपद्ये । ॐ भास्करं प्रपद्ये । ॐ सूर्यं प्रपद्ये । ॐ मार्ताण्डं प्रपद्ये । ॐ विवस्वतं प्रपद्ये ॥
- Consecrate the offered food item itself
Brahma is invoked into the Havis
❀ हविष्षु ब्रह्मणाम् आवाहयामि
❀ चतुर् उपचारान् समर्पयामि - asana, padyam, pushpam, toyam
Consecrated with gayatri mantra
गायत्रा प्रोक्ष्या
ॐ भूः । ॐ भुव॑ः । ॐꣳ सुव॑ः । ॐ मह॑ः । ॐ जन॑ः । ॐ तप॑ः । ॐꣳ स॒त्यम् ।
ॐ तत्॑ सवि॒तुर् वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य धीमहि धियो॑ यो न॑ः प्रचो॒दया॑त् ॥
ॐ आपो॒ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥
Anna suktam from Taittiriya Brahmana can be recited, or skip to the end and
अन्न सुक्तम्- Anna Suktam
Anna suktam, Taittiriya Brahmana, 2nd Ashtaka, 8th anuvakam
11.Naivedyam / नैवेद्यम्
The consecrated vessel, with Soma invoked into it, now contains the food which has also been consecrated, followed by invocation of Brahma into it, finally concluding with the profound Anna Suktam . Thus the food is now eligible to be finally offered to the lord himself
तद॑स्य प्रि॒य म॒भि पाथो॑ अश्याम्॒ नरो॒ यत्र॑ देव॒ यवो॒ मद॑न्ति ।
उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था विष्णो᳚: प॒दे प॑र॒मे मध्व॒ उत्स॑ः ॥३॥
tádasya priyámabhí pā́tho aśyām náro yátra devayávo mádanti ǀ
urukramásya sá hí bándhuritthā́ víṣṇoḥ padé paramé mádhva útsaḥ ǁ 5 ॥
For cooked dishes
महा हविर् निवेदयामि
॥ ॐ श्री भूः नीळा समेत श्रीनिवास स्वामिनः हविर्निवेदयामि ॥
॥ऊर्जस्करं बलकरग्ं सोमं माद्यम् अन्नम् अमृताय स्वाहा ॥
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा ॥
❀ मद्ये मद्ये पानीयं समर्पयामि ।
॥अमृतापिधानमसि ॥
उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षाळयामि । पादौ प्रक्षाळयामि । पुनः आचमनीयं समर्पयामि ।
For uncooked food items
Use below mantra for nivedana of fruits and other items
[अन्नं नैवेद्यौ उपरि तुलसी दळं स्थापयेत् । तदनन्तरं निवेदनं कुर्यात् ।]
{फलं नैवेद्य विषये अथो लिखित् मन्त्रम् - }
ॐ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासु॒देवाय॑ धीमहि । तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥
॥ ॐ श्री भूः नीळा समेत श्रीनिवास स्वामिनः फलोपहारं निवेदयामि ॥
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा ।
ॐ समानाय स्वाहा ॥
❀ मद्ये मद्ये पानीयं समर्पयामि ।
॥अमृतापिधानमसि ॥
❀उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षाळयामि । पादौ प्रक्षाळयामि ।
पुनः आचमनीयं समर्पयामि ।
Sugar or jaggery water to be given तदनन्तरं त्रिवाम्म् पानीयं समर्पयेत् । (Give water for drinking )- श्री भूः नीळा समेत श्रीनिवास स्वामिनः पानीयं ददाति ॥)
इदं विष्णुर् इति पानीयम्
इ॒दं विष्णु॒ र्विच॑क्रमे । त्रे॒धा निद॑धे प॒दम् । स मू॑ढमस्यपा॒ग्ꣳ सु॒रे ॥
॥ ॐ श्री श्रीनिवास स्वामिनः स्वादुशीतलपानीयं समर्पयामि ॥ ॐ श्रीं श्रियै नमः स्वादुशीतलपानीयं समर्पयामि ॥ ॐ हिरण्यै नमः स्वादुशीतलपानीयं समर्पयामि ॥
❀ हविष्षु ब्रह्मणाम् आवाहयामि
❀ चतुर् उपचारान् समर्पयामि - asana, padyam, pushpam, toyam
Consecrated with gayatri mantra
गायत्रा प्रोक्ष्या
॥ ॐ भूः भुवः सुवः । तत् सवितुर् वरेण्यम् । भर्गो देवस्य धीमही धियो यो नः प्रचोदयात् ॥
॥सत्यं त्वर्तेन परिषिञ्चामि ॥
॥ अमृतमस्तु । अमृतोपस्तरणमसि ॥
तद॑स्य प्रि॒य म॒भि पाथो॑ अश्याम्॒ नरो॒ यत्र॑ देव॒ यवो॒ मद॑न्ति ।
उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था विष्णो᳚: प॒दे प॑र॒मे मध्व॒ उत्स॑ः ॥३॥
॥ ॐ श्री भूः नीळा समेत श्रीनिवास स्वामिनः हविर्निवेदयामि ॥
॥ऊर्जस्करं बलकरग्ं सोमं माद्यम् अन्नम् अमृताय स्वाहा ॥
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा ॥
❀ मद्ये मद्ये पानीयं समर्पयामि ।
॥अमृतापिधानमसि ॥
उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षाळयामि । पादौ प्रक्षाळयामि । पुनः आचमनीयं समर्पयामि ।
मुखवासम् (tamboolam)
(ताम्बूलम्, मिश्रमम् ) betel nut, elaichi, cardamom
8.1.81.8 ghṛtāt pari maṇḍa ivāpsu snehas sarvādhikas sarva-dhatteṣu śarvaḥ
8.1.81.9 sa cetanaś cetayate sva-śaktyā
घृ॒तात् परि॑ मण्ड इ॒वाप्सु॑ स्ने॒हस सर्वाधि॑कस सर्व॒-धत्ते॑षु श॒र्वः ।
स चे॒तनश् चे॒तय॑ते स्व-श॒क्त्या ॥ एको॑ लो॒कान् गर्भ॑वत्पातु सर्वा॑न् ॥
विच॑क्रमे पृथि॒वी मे॒षए॒तां क्षेत्रा॑य॒ विष्णु॒ र्मनु॑षे दश॒स्यन् । धृ॒वासो॑ अस्य की॒र यो॒जना॑सः उ॒रु॒क्षि॒तिꣳ सु॒जनि॑माचकार ॥६॥
श्री भूः नीळा समेत श्रीनिवास स्वामिनः मुखवासं समर्पयामि ॥
घृतात्परि-विचक्रम इत्यास्यविवरगतं यधा भावये त्तथा ‘ताम्बूलम्
ॐ श्री श्रीनिवस स्वामिनः ताम्बूलं ददामि ।ॐ श्रियै नमः ताम्बूलं ददामि । ॐ हरिण्यै नमः ताम्बूलं ददामि ।
प्रणामम्
ॐ नमो वेङ्क्टेशाय । ॐ नमो भगवते वासुदेवाय । ॐ श्री विष्णवे नमः । ॐ नमो नारायणाय । श्रीमन्नारयणाय नमः ॥
Neerajanam /नीराजनं
नीराजन पात्रे पूजां कृत्वा ॥
नीराजन कुम्भे वरुणम् आवाहयामि । पिधाने चन्द्रम् आवाहयामि ॥
प्रागादि चतुर्दळेषु -
वराहम् आवाहयामि । नारसिम्हम् आवाहयामि । वामन आवाहयामि । त्रिविक्रम आवाहयामि । वर्तिकायाम् आवाहयामि । श्रियम् आवाहयामि । धूमे भवम् आवहयामि ।
नर्य प्रजाम्मे इति नीराजनम् ।
नर्य॑ प्र॒जां मे॑ गोपाय । अ॒मृ॒त॒त्वाय॑ जी॒वसे᳚ ।
जा॒तां ज॑निष्यमा॑णां च । अ॒मृते॑ स॒त्ये प्रति॑ष्ठिताम् ॥
❀ श्रियः कान्तायकल्याण निधये निधयेर्थिनाम् । श्री वेङ्कटनिवासाय श्रीनिवासाय मङ्गळम् ॥
❀ उमाकान्ताय कान्ताय कामिथार्त् प्रदायिने । श्रीगिरीशाय देवाय मल्लिनाथाय मङ्गळम् ॥
❀ मङ्गळाशासनपरैर् मदाचार्य पुरोगमैः ।सर्वैश्च पूर्ववैराचार्यैः सत्क्रुतायास्तु मङ्गळम् ॥
॥ ॐ श्री भू नीळा समेत् श्री श्रीनिवास स्वामिनः नीराजनं दर्शयामि ।
नीराजनान्तरं शुद्धाचमनीयं समर्प्यामि ॥
Kshama Prarthana /क्षमा प्रार्धन
कायेन वाचा मन्सैन्द्रियैर्वा बुध्यात्मनावा प्रक्रुते स्वभावात् ।
करोमि यद्यत् सकलम् परस्मै नारायनणायेति समर्पयामि ॥
येतत् सर्वं श्री भू नीळा समेत श्री श्रीनिवासार्पणमस्तु ॥5. Mantra Pushpam -मन्त्रपुष्पम्
॥ वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्ण्ं तमसस्तु पारे ।
सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन् यदास्ते ॥ १६ ॥
॥ धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः ।
तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते ॥ १७ ॥
❀ नमोऽस्तनन्ताय सहस्रमूर्तये सहस्र पादाक्षि शिरोरुबाहवे ।
सहस्रनाम्ने पुरुशाय सास्वते सहस्रकोटि युगधारिणे नमः ॥
चतुरुपचारैर् अभ्यर्च
विष्णु स्त्वं रक्षत्विति कराभ्या मुद्धृत्य विष्णुस्त्वां रक्षतु ।
चक्र उर्ध्वं धनुः पूर्वꣳ शक्तिर् दक्षिणम् ।
अपरङ्ग दोदी चीं नन्दकोऽधस्ता द्वासुकि रन्तरे ष्वितरेस्त्राः ।
विध्नो विघना, दीशः प्रसादा, इन्द्रो भयाद्दुःख्याद्यमो, वरुणो विक्रमात् । कुबेरोद्धक्षयाः , श्री सर्वाभ्य ऊनाभ्य, सम्यक्सु मनसा सर्वे रक्षन्तु ।
Page 24
Chatur vedam
Rig Veda -
हरिः ॐ । हरिः ॐ ।
अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥
अग्निः पूर्वेभिऋषिभिरीड्यो नूतनैरुत । स देवाँ एह वक्षति ॥
अग्निना रयिमश्नवत्पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ॥
Yajur Veda
इ॒षे त्वो॒र्जे त्वा॑ वा॒यवः॑ स्थोपा॒यव॑स्स्थ दे॒वो व॑स्सवि॒ता प्रार्पयतु श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यध्वमघ्निया देवभा॒ग मूर्जस्वतीः पय॑स्वतीः प्र॒जाव॑तीरन॒मी॒वा अ॑य॒क्ष्मा मा व॑स्स्ते॒न ईशत॒ माऽघशꣳसो रु॒द्रस्य॑ हे॒तिः परि॑ वो वृणक्तु धृवा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून्पाहि ॥
Sama Veda
अग्न॒ आया॑हि वी॒तये॑ गृणा॒नोह॒व्यदा᳚तये । निहोता᳚सथ्सि ब॒र्हि॒षि॑ ॥
Atharvana Veda
शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ ।शं योर॒भि स्र॑वन्तु नः ॥
Narayana Upanishad
ॐ इतग्रे व्याहरेत् । नम इति पश्चात् । नारायणायेत्युपरिष्टात् । ओमित्येकाक्षरम् । नम इति द्वे अक्षरे । नारायणायेति पश्चाक्षराणि । एतद्वै नारायणस्याक्षरं पदम् । यो ह् वै नारानणस्याष्टाक्षरं पदमध्येति । अनपबृवस्सर्वमायुरेति । विन्दते प्राजापत्यꣳ रायस्पोषं गौपसत्यम् । ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति । य एवं वेद । इत्योपनिषत् ॥
Rama Avataram
❀ तपस्वाध्यानिरतं तपस्वी वग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनि पुङ्गवम् ॥
❀ अदौ राम तपोवनादि गमनं हत्वा मृगं काञ्चनम् । वैदेही हरणं जटायु मरणं सुग्रीव सम्भाषणम् ॥ ❀ वाली निर्ग्रहणं समुद्र तरणं लङ्कापुरी दाहनम् । पश्चात् रावण कुम्बकर्ण हननम् एतद् हि रामायणम् ॥
इच्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महताऽऽयान्तं रामं छत्रावृताननम् ॥
त्वं दृष्वा शत्रुहन्तारं महर्षीणां सुखावहम् । बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णजिनान्बरौ ॥
फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ॥ पुत्रौ दशरथस्यैतौ ब्रातरौ राम्लक्ष्मणौ ॥
bhagavatam
❀ ॐ जन्माद्यस्य यतोन्वयादि तरतश्चार्थे श्वभिज्ञस्वराट् । तेने ब्रह्म हृदाय आदि कवये मुह्यन्ति यत् सूरयः । तजो वारि मृदां यथा विनिमयो यत्र त्रिसर्गो मृषा । धाम्नास्वेन सदा निरस्त कुहकं सत्यं परं धीमहि तासामाविरभूछौरिस्मय मानमुखाम्बुजः । पीताम्बरधरस्रग्वी साक्षान् मन्मथमन्मथः ॥
Vishnu Puranam
ॐ पराशरं मुनिवरं कृत पौर्वाह्णिक क्रियम् । मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्यच ॥
वर्नाश्रमाचारवत पुरुषेण परः पुमान् । विष्णुर्आराध्यते पन्था नान्यस्त्तोषकारकः ॥ (न अन्य तोषकारकः (सन्तोष )
Brahmasutram
ॐ अथाऽतो ब्रह्मजिज्ञासा । जन्माद्यस्य यतः । शास्त्रयोनित्वात् । ईक्षतेर्नाऽशब्दम् ॥
Brahmasutra bashyam
निरुपम गुणसिन्धुर् नित्यलक्षमी समेतो निखिल निगम वेद्यो निस्तुलो वेङ्कटेशः
निजचरण समर्चाऽशक्त भक्तौग रक्षीः । निवसतु हृदयेमे स्वाङ्घ्रि भक्तिं वितन्वन् ॥
प्रनम्य विखनो मुनिं त्रियुगपुत्रमत्रिम् भृगुं मरीचिमथ काश्यपम् मम गुरूंश्च वैखानसान् ।
तदीयमतमुत्तमं समनुसृत्य वैयासिकीं गिराम् प्रविवृणोम्यहं श्रुतिशिरोर्थ विद्योतिनीम् ॥
इहखलु भगवान् कारुनिकः पाराशर्यः संस्कृति सिन्धु निम्ञ्जच्चेतन वर्गोधारणाय प्रवृत्तः समस्तोपनिशत् प्रतिपादितम् , निखिल जगदेक शरण्यापहत पाप्मत्वान् अवधिक कृपाळुत्वादि कळ्याणगुणाकर परमपुरुषोपाननम्, प्रख्यापयितुं चतुर्ध्यायात्मकं शारीरकं निर्ममे ।
वैकुण्ठेतु परेलोके श्रिया सार्धं जगत्पतिः । आस्ते विष्णुर् र्चिन्त्यात्मा भक्तैर्भागवतैस्सह ॥
एश नारायण श्रीमान् क्षीरार्णवनिकेतनः । नाग पर्यङ्कमृत्सुज्य ह्यागतो मधुरां पुरीम् ॥
Paramatmikopanishad
ॐ विष्णुस्सर्वेषामधिपतिः परमः पुराणः पर लोकानामजितो जितात्मन् भवते भवाये स्वाहा ॥
Sri vaikhanasa kalpa sutra
हरिः ॐ । अथ निषेकादि संस्कारान् व्याख्यास्यामः ।
ऋतु सङ्गमन गर्भादान पुंसुवन सीमन्त विष्णु बलि जात कर्मोत्थान नामकरण अन्न प्राशन प्रावासागमन पिण्ड वर्धन चौळोपनयन पारायण व्रत बन्ध विसर्गः उपाकर्म समावर्तन पाणिग्रहण आनीत्य अष्टादश सन्स्काराः शारीराः ॥
अथ अग्नौ नित्यहोमान्ते विष्णोः नित्यार्च सर्वदेवार्च भवति ॥
Aitareya brahmana 1:1:1
❀ अग्निर्वै देवानाम् अवमः विष्णुः परमः -तदन्तरेण अन्या देवताः - इति ब्राह्मणम् ॥
विष्णोः नित्य देवार्चा सर्व देवार्च भवती ॥
तस्माद् गृहे परमं विष्णुं प्रतिष्ठाप्य सायं प्रातः होमान्ते अर्चयति । यज्ञेषु विहीनं ततसम्पूर्णं भवति ।
द्विजाति रतन्द्रितो नित्यं ग्रुहे देवायतनेवा भक्त्या भगवन्तं नारायणम् अर्चये ।
तद्विष्णोः परमं पदं गच्छति इति विज्ञायते ।
भगवच्छास्त्रम्
मरीचिं महा मुनिं स्वशिष्यार्पित कुशासने समासीनं सर्वज्ञं जितेन्द्रियं शुद्धं नाना लोक निवासिनौ धर्मसंसक्ताः ऋषयः समागम्यानम्य ।(सम् + आगम्य + नम्य) भगवन् केन मार्गेण कैः मन्त्रैः कं देवम् अर्चयन्तः कान् लोकान् गमिश्यन्तीत्यूचुः (गमिश्यन्ति इति ऊचुः)
मरीचिः उवाच
सुप्रस्सनं परमात्मानं नारायणां द्यात्वा अभिवन्द्य श्रुत्यनुकूलेन मार्गेण चतुर्वेदोद्भवैर्मन्त्रै स्तमर्चयन्तः । श्रुतिभिरभिहितं शाश्वतम् अतीन्द्रियं परात्परं देवैर् अनभिलक्ष्यं तद् विष्णोः परमं पदं गच्छेयुरितिः ।
Mahabharatam - kurukshetram
ॐ नारायणं नमस्कृत्य नरञ्चैव नरोऽत्तमं देवीं स्सरस्वतीं व्यासं ततो जयम् उदीरयेत् ॥
धर्म क्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥
यदायदाहि धर्मस्य ग्लानिर्भवति भारत् । अभ्युथानम्धर्मस्य तदात्मानं सृजाम्यहम् ॥
परित्राणाय साधूनां विनाशाय च दृष्कृताम् । धर्मसंस्थापनार्थाय सम्भयामि युगे युगे ॥
मन्मनाभव मद्भक्तो मद्याजी मां नमस्कुरु । मामे वैष्यसि युक्त्वैव मात्मानम् मत्परायणः ॥
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ६६ ॥
वृषशैलाधिप एव दैवतं नः । वृषभाद्रीश्वर एव दैवतं नः ।
फणिशैलाधिप एव दैवतं नः । भगवान् वेङ्कट एव दैवतं नः ।
श्री श्रीनिवास परदैवतं नः । श्री श्रीनिवास परमं धनं नः ।
श्री श्रीनिवास कुलदैवतं नः । श्री श्रीनिवास परमागतिर्नः ॥
वक्त्राब्जे भाग्यलक्ष्मीः । करतलकमले सर्वदा दान लक्ष्मीः ।
दोर्दण्डे वीर लक्ष्मीः । हृदय सरसिजे भूतकारुण्य लक्ष्मीः ।
खड्गाग्रे शौर्य लक्ष्मीः । निखिल गुण गणाडम्बरे कीर्ति लक्ष्मीः ।
सर्वाङ्गे सौम्य लक्ष्मीः । मयितु विजयतां सर्व साम्राज्य लक्ष्मीः ॥
॥ ॐ श्री भूः नीळा समेत श्रीनिवास स्वामिनः सुवर्ण मन्त्रपुष्पं समर्प्यामि ॥
सर्व राजोपचाराः
छट्र चामर गीत नृत्य आम्दोलिका अस्वारोहन गजारोहन समस्त राजोपचारान् मनसा समर्पयामि ।
तीर्थग्रहणं
सालग्राम शिलाभारि पापहारि विशेषतः आजन्मकृत पपानां प्रयश्चित्तं दिने दिने ।
अकाल मृत्यु हस्रणं सर्वव्याधि निवारणं सर्व पापौघ शमनं श्री श्रीनिवासस्वामि पादोदकं पावनं शुभम् ॥