1 Mantrasanam

1.1.1 Prepare asanam

Prepare a seat for the lord by placing a Tulasi leaf and/or akshata, with the following mantra.

भूर॑सि॒ भूः प्रति॑ष्टित्यै । भुवो॑ऽसि॒ भुव॒ः प्रति॑ष्टित्यै । सुव॑र् असि॒ सुव॒ः प्रति॑ष्टित्यै ।

भूः भुव॒ः सुव॑रसि॒ सुव॒ः प्रति॑ष्टित्यै ॥

सा॒न॒न्दः सर्वे॑षाम् अन्तरा॒त्मा भ॑व पू॒तः पूता᳚न्तरा॒त्मा भ॑व

पु॒ण्यः पुण्या᳚न्तरा॒त्मा भ॑व ब्र॒ह्मा᳚न्तरा॒त्मा भ॑व ॥

ॐ विष्णुं प्रति॑ष्टापया॒मि । पुरुषं॒ प्रति॑ष्ठापयामि । सत्यं॒ प्रति॑ष्ठापयामि । अच्युतं॒ प्रति॑ष्ठापयामि । अनिरुद्धं॒ प्रति॑ष्ठापयामि ॥

VMP.8.1.20.6-10, VMP.8.1.21.1-4

1.1.2 Move the idol of the lord

to the consecrated seat. This is Garuda mantra for carrying the Lord.

8.1.20.4 varaṃ raṃha āsthāsye gārudaṃ raṃhaṃ āsthāsye gārutmaṃtaṃ raṃha āsthāsye

8.1.20.5 sarvaṃ sarvaṃ raṃho vaiṣṇavam aham āsthāsye

परं॑ रंह॒ आस्था᳚स्ये गारु॑डं रंह॒ आस्था᳚स्ये॒ गारुत्मं॑तं॒ रंह॒ आस्था᳚स्ये ।

सर्वं॑ सर्वरंहो॑ वैष्णवम॑हं॒ आस्था᳚स्ये ॥

1.1.3 आसनम् (asana)

Offer the seat to the lord (Upacharam ) -

Place darbha, flowers on the seat

प्रतद्विष्णुर्ति देवस्य कुश पुष्पा न्यतमे नासनम् । (आसानम् )

प्र तद्विष्णुः॑ स्तवते वी॒र्या’य मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।

यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥२॥

अ॒स्त्वा॒स॒नं शु॑भं लो॒के बृ॒सी शुद्ध॑स्तपोमयम् । तप॑श्चायुस्त॑था यो॒ग म॒स्तु ते॑ पर॒मं प॒दम् ॥

8.1.64.2 astv āsanaṃ śubhaṃ loke brusī śuddhas tapo-mayam

8.1.64.3 tapaś cāyus tathā yogam astu te paramaṃ padam

ॐ श्री श्रीनिवास स्वामिनः आसनं परिकल्पयामि । ॐ श्रीं श्रियै नमः आसनं परिकल्पयामि । ॐ हरिण्यै नमः आसनं परिकल्पयामि ॥

1.1.4 स्वागतम् - Greet the lord

Welcome is said to the lord! - swagatam - विश्वाधिकानाम् इति स्वागतम् ।

वि॒श्वा॒दि॒कानां॒ जन॑नादि॒कर्त्रे॒ धात्रे॒ तपो॑ यज्ञ॒ सुवे॑द मू॒र्ते । 

सु॒स्वा॒ग॒तं यत्र॑ तु॒ (तं) तत्र॒ यस्मा॒त् तत् ते॒ पदग्ꣳ॑ सू॒रिभि॒स् स्वाग॑तन्ते ॥

1.1.4 अनुमति - Ask permission

Touch the right hand of the Lord, and his holy feet ; ask him to grant permission to conduct worship and accept the services offered by you.

His feet and right hand are touched

❀ मनोभिमन्तेत् अर्चनानुमानम् ।

*8.1.64.6 mano ‘bhimantā mānavas sudharmā yan mātaraṃ vacaso mānaseṣu *

amogham oghaṃ prati veda-vedya-svakaṃ janānām anumanyatām idam

म॒नो॒भि॒म॒न्ता मान॑वसु॒द्धर्मा॒ यन्॒ मातरं॒ वच॑सो॒ मान॑सेषु ।

अ॒मो॒घो॒मो॒घं प्रति॑वेद वेद॒ (वेद्य) स्वकं॒ जना॑ना॒म् अनुमन्यताम् इदम् ॥

1.2.1 पाद्यम् (padyam )

Serve the Lord’s feet by offering water. Water must be offered thrice for each foot. The goddesses Sri and Bhumi are also offered twice each

❀ त्रीणिपदेति पाद्यम् ।

त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा᳚भ्यः । ततो॒ धर्मा॑णि धा॒रय॒न् ॥

					RV.1.22.19

8.1.65.1 indro ‘bhimantā manavo vāyavaś cāpas samagrā abhito yasya dadyāt

8.1.65.2 viṣṇo imān vaiṣṇavā(g)ṃs tarpayāmi prasīda devādhika-tejasainam

इ॒न्द्रो॑ऽभिम॒न्ता म॒नवो॒ वाय॑व॒श्चाप॑स्सम॒ग्रा अ॒भितो॒ यस्य॑ द॒द्यात्

विष्णो॑ इ॒मान् वै᳚ष्ण॒वाग्ं स्त॑र्पयामि॒ प्रसी॑द दे॒वाधि॑क॒तेज॑ सैनम् ॥

ॐ श्री श्रीनिवास स्वामिनः पाद्यं समर्पयामि ।ॐ श्रीं श्रियै नमः पाद्यं समर्पयामि ।ॐ हरिण्यै नमः पाद्यं समर्पयामि ॥

8.1.65.3 agnir indro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sa-joṣasaḥ

8.1.65.4 ādityā viṣṇur marutaḥ svar bṛhat-somo rudro aditir brahmaṇaspatiḥ

1.3.1 अर्घ्यम् (Arghyam)

Surya is the deity of the Arghya . He must be invoked earlier. In a temple, Arghyam is offered in 8 different bowls, each consisting of water mixed with various other substances. The bowls must be arranged from south to the north. Of all the services offered, Arghyam is the most dear to Hari. Arghyam is either offered thrice, or thrice to each of his 4 mighty arms. The goddesses are also offered arghyam thrice for each of them. त्रिर्देव इत्यर्घ्यम् । आमावाजस्येत्यर्घ्यम् ॥

The water to be offered, is touched beforehand, with the mantra -

*8.1.64.7 tva(gg)ṃ strī tvaṃ pumān mānasī[819] tvaṃ deva-kumāra idaṃ nādaḥ kumārī

8.1.64.8 tvaṃ jīrṇas tvaṃ janiṃ gacchasi tvaṃ jāto nivāsīr viśvato mukhaḥ

त्वं ꣳ स्त्री॒ त्वं पुमा॑न् (मानसी) मासि॒ त्वं देव॑कुमा॒र इ॒दं नाद॑ः कुमा॒री ।

त्वं जीर्न॒स् त्वं जनिं॑ गच्छसि॒ त्वं जा॒तो नि॑वासीर् वि॒श्वतो॑ मुखः ॥

8.1.66.4 ā mā vājasya prasavo jagamyād ā dyāvā-pṛthivī viśva-śambhū ā mā gantāṃ pitarā mātarā cā mā somo amṛtatvāya gamyāt

आ मा॒ वाज॑स्य प्रस॒वो जगम्या॒दा द्यावा॑पृथि॒वी वि॒श्वश॑म्भू ।

आ मा॑ गन्तां पि॒तरा॑ मा॒तरा॒चाऽऽमा॒ सोमो॑ अमृत॒त्वाय॑ गम्यात् ॥

त्रिर्दे॒वः पृ॑थि॒वी मे॒षए॒तां विच॑क्रमे श॒तर्च॑सं महि॒त्वा ।


प्रविष्णु॑रस्तु त॒वस॒स्तवी॑यान् त्वे॒षगꣳ ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥७॥

इ॒न्द्रि॒याणि॑ शत-क्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ इन्द्र॒ ता॒नि॑ त॒ आ वृ॑णे ॥

(अद॒न्निन्द्र॒) (अगन्न्) इन्द्र श्रवो᳚ बृ॒ह॑द् द्यु॒म्नं दधि॑ष्व (जु॒ष्टरं᳚) दुष्टरम् उक्थे॑ शु॒ष्मं त्रि॑रामसि ॥

ॐ श्री श्रीनिवास स्वामिनः अर्घ्यं समर्पयामि ।ॐ श्रियै नमः अर्घ्यं समर्पयामि ।ॐ हरिण्यै नमः अर्घ्यं समर्पयामि ॥

1.4.1 आचमनम् (achamanam )

शन्नो देवीरित्याचमनम् ।

शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥

śám no devī́rabhíṣṭaya ā́po bhavantu pītáye ǀ śám yórabhí sravantu naḥ ǁ

RV.10.09.04

ॐ श्री श्रीनिवास स्वामिनः आचमनीयं समर्पयामि । ॐ श्रीं श्रियै नमः आचमनीयं समर्पयामि । ॐ हरिण्यै नमः आचमनीयं समर्पयामि ॥

1.5.1 ताम्बूलम् (tamboolam )

घृतात्परि-विचक्रम इत्यास्यविवरगतं यधा भावये त्तथा ‘ताम्बूलम्

8.1.65.9 ghatāt pari maṇḍa ivāpsu snehas sarvādhikas sarva-dhatteṣu śarvaḥ

8.1.65.10 sa cetanaś cetayate sva-śaktyā

8.1.65.11 eko lokān garbhavat pātu sarvān

घृ॒तात् परि॑ मण्ड इ॒वाप्सु॑ स्ने॒हस सर्वाधि॑कस सर्व॒-धत्ते॑षु श॒र्वः ।

स चे॒तनश् चे॒तय॑ते स्व-श॒क्त्या ॥ एको॑ लो॒कान् गर्भ॑वत्पातु सर्वा॑न् ॥

					VMP 8.1.65.9-11

विच॑क्रमे पृथि॒वी मे॒षए॒तां क्षेत्रा॑य॒ विष्णु॒ र्मनु॑षे दश॒स्यन् ।

धृ॒वासो॑ अस्य की॒र यो॒जना॑सः उ॒रु॒क्षि॒तिꣳ सु॒जनि॑माचकार ॥६॥

ví cakrame pṛthivī́meṣá etā́m kṣétrāya víṣṇurmánuṣe daśasyán ǀ

dhruvā́so asya kīráyo jánāsa urukṣitím sujánimā cakāra ǁ 4 ॥

ॐ श्री श्रीनिवस स्वामिनः ताम्बूलं ददामि ।ॐ श्रियै नमः ताम्बूलं ददामि । ॐ हरिण्यै नमः ताम्बूलं ददामि ।

इति मद्रासनं पञ्चोपचारं विज्ञेयं भवति.