स्तोत्र-रत्नावली

TODO: परिष्कार्यम्

श्री विखनस स्तोत्ररत्नावळिः UL 010 दीवि श्रीनिवास दीक्षितुलु प्रधान कार्यदर्शि श्री वैखानस दिव्य सिद्धान्त विवर्धिनी सभ श्री वैखानस आश्रमं, तिरुमल- तिरुपति. सॆल् : 9949477633 श्री विखनस स्तोत्ररत्नावळिः श्रीनिवास परब्रह्मणे नमः श्रीमद्विखनस महागुरवे नमः ज्ञानानन्दमयं देवं निर्मल स्पटिकाकृतिम् । आधारंसर्व विद्यानां हयग्रीवमुपास्महे । अतःपरं प्रवक्ष्यामि ह्याचार्यस्य महात्मनः । वैखानसस्य देवर्षे स्तोत्रपाठ मिदं परम् ॥ यःपठेच्छृणुयान्नित्यं भक्तिश्रद्धा समन्वितम् । इहलोके सुखम्भुक्त्वा सयाति परमां गतिम् ॥ ॐ देवराज दयापात्रं धीभक्त्यादि गुणार्णवम् । भृग्वादि मुनिभिर्मान्यं वन्दे श्रीविखनोमुनिम् ॥ श्रीलक्ष्मीवल्लभारम्भां विखनोमुनि मध्यमाम् । अस्मदाचार्य पर्यन्तां वन्डे गुरुपरम्पराम् ॥ वन्डे विखनसं साक्षाधातृमूर्ति मृषिं परम् । भृग्वादि मुनिस्रष्टारं सूत्ररत्न प्रवर्तकम् ॥ नारायणः पिता यस्य यस्यमाता हरिप्रिया भृग्वादि मुनयः पुत्रा स्तस्मैविखनसे नमः अखण्डमण्डलाकारं व्याप्तं येन चराचरम् तत्पदं दर्शितं येन तस्मै श्री विखनसे नमः श्रुतिस्मृति नदीपूर्णं शास्त्रकल्लोल सङ्कुलम् विष्णुभक्त्युदकं शुद्धं वन्डे श्रीविखनोर्णवम् श्रवणे श्रावणे शुक्ल पूर्णिमा सोमवासरे सिंहलग्ने च संयुक्ते भजे नैमिश मागतम् नारायणस्य यश्चात्मा विखना इतिवर्तते । वेदवेदाङ्गतत्वज्ञं तं वन्डे विखनोमुनिम् ॥ पद्मनाभ मनोजातं विष्णुपूजा विशारदम् । कुशासने समासीनमूर्ध्वपुण्ड विराजितम् ॥ किरीटहाराभरण कुण्डलाङ्गद भूषितम् । शिखायज्ञोपवीताभ्यां त्रिदन्देन विराजितम् ॥ वरदाभयहस्ताभ्यं शब्धचक्रधरं प्रभुम् । पद्मन्तु दक्षिणेहस्ते धारिणं पीतवासनम् ॥ कमण्डलुघटैर्युक्तं ब्रह्मर्षिगण सेवितम् । तुलसी पद्ममालाभि स्तपसाच सुशोभितम् ॥ विष्वक्सेन प्रियसखं विमलं शान्तमानसम् । पारमात्मिक मस्त्रज्ञं विखनो मुनिमाश्रये ॥ श्रावणे श्रवणेर्षेयं विष्णुपूजा परायणम् । कूर्मासने समासीनं कुण्डलाद्वैर्विभूषितं॥ कमण्डल्वक्षमलाभिर्दणैन सुविराजितम् । देवस्य दक्षिणेभागे विखनोमुनि माश्रये ॥ भृग्वत्रिकश्यप मरीचि महर्षि मध्ये स्थित्वासने कुशमये समुदीरयन्तम् । श्रीशास्त्रसारमखिलं विखनोमुनीन्दं भूयोनमामि भुवनैकगुरुं प्रसन्नम् ॥ हेमच्छादं स्पटिक सदृशं विध्युढूत्पत्तिभाजं दिव्यानाधं कुशल परिसत्केतनं दण्णपाणिम् । वेदारावं रुरु मयमहावाहनं दोश्चतुष्कं विं बीजिन्तं विखनसमहं प्राप्तवन्तं भजामि ॥ एषामासी दादि वैखानसानां जन्मक्षेत्रे नैमि शारण्यभूमिः । देवो येषां देवकी पुण्यराशिः तेषां पादद्वन्द्व पद्मं प्रपद्ये ॥ नारायणं सकमलं सकलामरेन्द्रं वैखानसं ममगुरुं निगमागमेन्द्रम् । भृग्वत्रिकाश्यप मरीचि मुखान्मुनीन्द्रान् सर्वानहं कुलगुरून् प्रणमामि मूर्ख ॥ अभवाय मनोभवाय जलजातोदर सम्भवायच । जगतां प्रभवाय साक्षिणे गुरवर्याय नमोनमः ॥ भव्याय मौनि वर्याय परि पूताय वाग्मिने। योगप्रभा समेताय श्रीमद्विखनसे नमः ॥ लक्ष्मीवल्लभ सङ्कल्प वल्लभाय महात्मने । श्रीमद्विखनसे भूयात् नित्यश्रीः नित्यमज्ञळम् ॥ श्रियः कान्ताय कळ्याण निधयेनिधयेर्थिनाम् । श्रीवेङ्कट निवासाय श्रीनिवासाय मज्ञळम् 11