नाहः न क्षणदा न खं न धरणिः न ध्वान्तमासीद्यदा
न ज्योतिः न च वस्तु लभ्यमपरं श्रोत्रादिबुद्ध्या यदा ।
यन्निर्विक्रियमच्छमक्षरमन्याधीनमेकाकृति
स्वैरं सत्रिगुणं सपूरुषमभूद्वैखानसाख्यं महः ॥१
सञ्ज्ञामूर्तिसिसृक्षया स्वविहितस्वानुप्रविष्टात्मक-
स्वस्वाध्यापितवेदजातधनिना येनार्थवान् श्रीपतिः ।
निर्माता सपरिच्छदत्रिजगतामाम्नायवक्त्रः स्वराट्
आस्तेऽसौ विखना मुनिः नियमितः स्फाराधिराज्ये पितुः२
औत्सुक्यादवधार्य मूर्धनि निजे मालामिवाज्ञां गुरोः
अभ्यार्चीदवतीर्य नैमिशवने यः शास्त्रसिद्धाध्वना ।
वेदानां व्यसनादिव स्वविहिते प्राचीनतां शिक्षितुं
सूत्रे वक्त्रविपर्ययान्मुनिवरो दोद्योति वैखानसः ॥३
यो भृग्वत्रिमरीचिकश्यपमुखं शास्त्रप्रतिष्ठापिकां
लक्ष्यीकृत्य परम्परामचकथत् लक्ष्मीशपूजाविधिम् ।
प्रणैषीच्च हरेः समूर्तयजनव्याख्यानगर्भाः कृतीः
निर्वाणैकनिकेतनं विजयते योगी स वैखानसः ॥४
सिद्धान्तान्तरनाटकैः सदसदाकल्पावबद्धैः मुहुः
तत्त्वे बाढमुपप्लुते जगति तत् सन्धुक्षयन् योऽश्वयीत् ।
तस्याचार्यवराध्वरीन्द्रनृहरिश्रीवासमुख्यात्मना
वैभ्राजित्रमुपास्महे विखनसो वाल्लभ्यनिघ्नं विभोः ॥५
पार्थसारथिः