Source: TW
संस्कृतपरिषद् ग्रन्थमाला - ८५
आगमविमर्शः लेखक: वेदान्तं श्रीविष्णुभट्टाचार्यः प्रधानसम्पादकः आचार्य.टी.केशवनारायणो वेदालङ्कारः निदेशकः सम्पादकः उा. वि. श्रीनिवासशर्मा संयुक्तनिदेशकः MARIA UNIVERSITY 10420X5–1 ACADEMY परिपत् संस्कृतपरिषद् आदर्शशोधसंस्था उस्मानियाविश्वविद्यालयः हैदराबाद् २०११
संस्कृतपरिपद् ic domain Digitization Muthulakshmi Research Academy आगमविमर्शः लेखक: डा. वेदान्तं श्रीविष्णुभट्टाचार्यः उपाचार्य:, आगमविभागः राष्ट्रिय संस्कृतविद्यापीठम्, तिरुपतिः प्रधानसम्पादकः आचार्य केशवनारायणो वेदालङ्कारः निदेशक: सम्पादकः डा.वि.श्रीनिवासशर्मा HATA CHOLA JA संस्कृत अकाडमी उस्मानियाविश्वविद्यालयः, हैदराबाद् २०११ Sanskrit AlamydeaiesDiggtipation Muthulakshmi Research Academy Agamavimarsah by Dr. Vedantam Srivishnubhattacharya TEMPTATIS All copyrights reserved This publication has been brought out with the financial assistance of Rashtriya Sanskrit Sansthan, (Deemed University) Ministry of Human Resource Development Govt. of India, New Delhi. Publisher: Copies: 300 Price: Rs.80/- RESINPRICE Sanskrit Academy, (Adarsha Shodha Sansthan) Osmania University, Hyderabad - 500 007 श frataste basis Printed at: R.K.Printers, Nampally, Hyderabad Peop
पुरोवाक्
चतुर्विधपुरुषार्थेषु धर्मः खलु आद्यः, अन्यपुरुषार्थाणां मूलभूतश्च। धर्मश्च अभ्युदयनिःश्रेयससिद्धिलक्षणः । अभ्युदयनिःश्रेयससिद्धिः खलु वेदविहितानाम् आचाराणाम्, अनुष्ठानानाम् आचारणं विना न सम्भवः । तेषां च वेदविहितानामाचाराणां क्रियाविधिप्रतिपादनमेवागमशास्त्राणां प्रतिपाद्यम्। तस्मात् कलौ युगे धर्मसिद्धौ आगमशास्त्राणामुपयोगिता विद्वद्भिः दृढं प्रतिपादिता। उक्तञ्च- कृते श्रुत्युक्त आचारः त्रेतायां स्मृतिसम्भवः । द्वापरे तु पुराणोक्तः कलावागमसम्भवः ।। इति ।। आचार्य वेदान्त विष्णुभट्टाचार्याः वैखानसागमे कृतभूरिपरिश्रमाः, राष्ट्रियसंस्कृतविश्वविद्यालये आगमविभागे आचार्यपदे, कलियुगप्रत्यक्षदेवस्य श्रीवेङ्कटेश्वरस्वामिनः देवस्थाने आगममार्गदर्शकरूपेण च विराजन्ते । तैः शैव- वैष्णव-शाक्त-सौर-कौमाराद्यागमसम्बद्धान् बहून् विषयान् विमृश्य आगमविमर्शाख्योऽयं ग्रन्थः ग्रथितः । अयं ग्रन्थः छात्राणां, शोधार्थिणाम्, अर्चकानामन्येपाञ्चागमविपयजिज्ञासूनां जिज्ञासापूरणे महदुपकरोतीति आशासे । अस्य ग्रन्थस्य प्रकाशने च उस्मानिया विश्वविद्यालयीयसंस्कृ तपरिपद् महदानन्दमनुभवति। संस्कृतपरिषद् उस्मानिया विश्वविद्यालयः हैदराबाद्-५००००७. आचार्य केशवनारायणो वेदालङ्कारः निदेशक:
प्राक्कथनम्
अपौरुषेयो हि वेदः परमपुरुषस्य श्रीमन्नारायणस्य उच्छ्वासनिश्वासरूपः नित्यभारतीश्रुतिरूपश्च विराजते । अंसौ च सर्वेषामास्तिकानां परमप्रमाणभूतः सकलसंस्कृतागम-दर्शन-वेदाङ्ग-पुराण- इतिहासादि वाङ्मयस्य अनाद्यनन्तरूपः। अनन्ता वै वेदा: वेदोऽखिलो धर्ममूलम् पुरुपार्थान् वेदयति वेद उच्यते विदन्त्यनेन धर्मः वेदः निःश्रेयसकराणि कर्माण्यावेदयन्तीति वेदाः । इत्येतैः विशेषैः विद्यते श्रुतीनामेव समुपजीव्यत्त्वं समुपादेयत्त्वं श्रेष्ठतमत्वं च । श्रीतयज्ञेषु विशेषतया चतुर्विधानां वेदमन्त्राणां प्रायोगिकं दरीदृश्यते । तत्र होता ऋग्वेदमन्त्रान्
अध्वर्युः यजुर्वेदमन्त्रान् उद्गाता सामवेदमन्त्रान् ब्रह्मा अथर्ववेदमन्त्रांश्च प्रमुखतया स्वीकुर्वन्तीति विज्ञायते । वेदचतुष्टयेऽस्मिन् प्रधानतया प्रतिपादिताः अंशाः त्रिविधाः विद्यन्ते ते च कर्म, ज्ञानं, उपासना इति । तत्र ऐहिकामुष्मिकेष्टसाधनभूतानां यज्ञकर्मविधीनां विवरणं कर्मकाण्डे, आत्यन्तिकदुःखनिवृत्तिजनकमोक्षसाधनतत्त्वज्ञानस्य विवेचनं ज्ञानकाण्डे, लौकिकपारमार्थिको भयविधाभीष्टानुबन्धिभगवद्भक्तिनिरूपणम् उपासनाकाण्डे विहितमस्ति । विद्यते इति सत् वेत्ति सत्त्वमिति चित् विदन्ति चात्यन्तिकीं दुःखनिवृत्तिमित्यानन्द इति। वेदो हि सच्चिदानन्दात्मको ब्रह्मरूप इति अभ्युपगम्यते । एकैकस्य वेदस्य संहिता - ब्राह्मण - आरण्यक - उपनिषदिति विभागाः विलसन्ति। तत्र संहिताभागः II
कर्मोपासनाप्रतिपादकः मन्त्रसमुच्चयात्मकश्च भवति । ब्राह्मणभागस्तावत् यज्ञादीनाम् अनुष्ठानप्रकारं वैदिकमन्त्राणां विनियोगरूपं च दर्शयति । वनस्थानां तपस्विनां कर्मसु निर्दिष्टाः विनियोगरूपाः मन्त्राः आरण्यकभागे विद्यन्ते ।
स्वस्तिपन्थामनुचरेम |
समानमस्तु वो मनो यथा वः सुसहासति ।
अग्ने नय सुपथा राये अम्मान् ।
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
समानीव आकूतिः समाना हृदयानि वः । ईशावास्यमिदं सर्वं ।
ऋचे अक्षरे परमं व्योमन् न कृते श्रान्तस्य देवाः ।
इत्यादयः विशिष्टाः मन्त्राः बहवः विद्यन्ते वैदिकवाङ्मये।
उप =
जीवसमूहे निषीदति श्रेयः = तत्त्वज्ञानं, यया ब्रह्मविद्यया सा उपनिषत्। परब्रह्मज्ञानं यस्मिन् भागे विव्रियते तस्य उपनिपदिति व्यवहारः । अस्य
उपनिषद्भागस्य वेदान्तभाग इति नामान्तरम् आसीत् । अस्य वेदान्तभागस्य सारः कीदृशः इति यथामति विचारयामः ।
वेदान्तसारः
वेदाह्यमृताः
छान्दोग्योपनिषद् ३-५
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च कठोपनिषत् २- २९
द्वे वा ब्रह्मणो रूपे मूर्तं चैवामूर्तं च
मर्त्यं चामृतं च स्थितं च यच्च सच्चत्यच्च
बृहदारण्यकोपनिपत् २-३-१
परास्य शक्तिर्विविधैव श्रूयते
स्वाभाविकी ज्ञानबलक्रिया च
श्वेताश्वतरोपनिषत् ६-८
नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन यस्य ज्ञानमयं तपः
कठोपनिपत् १-२-२३
मुण्डकोपनिषत् १-१-९
III
रयिर्वा पतन्मूर्त चाtiation Muthulakshmi Research Academy
विद्यया देवलोकः विज्ञायामृतमश्नुते ब्रह्मविद्वान् ब्रह्मैवाभिप्रेति
पश्नोपनिषत् १-५
प्रश्नोपनिपत् ३-१२
बृहदारण्यकोपनिषत् १-५-१६
कौषीतक्युपनिषत् १-४
वेदाः, देवः, ब्रह्मा, धर्मः, ओंकारम् आनन्दः, तपः, प्राणं, सत्यं, बुद्धिः, कर्म, प्रेयः, श्रेयः, वाक्, विद्या, ज्ञानी, ज्ञानम्, अमृतं, विद्वान् इत्येतैः विशिष्टैः अंशैश्च संयुक्तः उपनिषत् भागः विशिष्टः विनूनः आर्षविज्ञानसर्वस्वः भवतीति ज्ञायते ।
परमात्मनः स्वरूपं विज्ञाय
संसारबन्धवासनात् जीवः
पुनरावृत्तिरहितं नित्यानन्दं सर्वदा-तृप्तिकरं नित्य-निषेवणं परंज्योतिः प्रविश्य
जन्मसाफल्यं प्रयच्छति
श्रुतिप्रमाणैः एतैः मन्त्रविशेषैश्च ।
आगमाः आत्मानं स्थनिं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुः विषयांस्तेपुगोचरान् आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ।। कठोपनिषत् एतेषां श्रुतिमन्त्राणां प्रामाण्येन आविर्भूतं वर्तते आगमशास्त्रम् । आगच्छन्ति बुद्धिपदवीं कार्त्स्न्येनारोहन्ति यस्मादभ्युदयनिःश्रेयसोपायाः स आगम इति, स च तपःपूतेन अन्तःकरणेन साक्षात्कृतः मन्त्रकदम्बः चेत्, तस्य मन्त्रकदम्बस्य अस्य अमुष्यार्थानां सविस्तरनिरूपणपराणि तन्त्राणीति तान्येव आगमपदेन अभ्युपगम्यन्ते । कृते श्रुत्युक्त आचार: त्रेतायां स्मृतिसम्भवः । IV
प्रतिपाद्यते। द्वापरे तु पुराणोक्तः कलावागमसम्भवः ।। कुलार्णवतन्त्रम् इत्यनेन कलौ युगे आगमविहिततान्त्रिकजपादीनाम् एव फलजनकत्त्वं सुष्टि-प्रलय-देवतार्चन-साधन- पुरश्चरण-ध्यान-योगेत्येतैः सप्तभिः अंशैः विभूपतिं भवत्येतत् आगमशास्त्रम् । इदं च शास्त्रं तत्तद्देवता प्राधान्येन शैव वैष्णव - शाक्त-सौर-कौमार गाणापतिभेदेन षड्विधं भिद्यते ।
क्रियाविधौ वैखानस - पाञ्चरात्रागमयोः भेदाः के? देवालयीयक्रियांशाः के के सन्ति ? क्रिया नाम का ? अभ्युदयपरम्परोपायाः आगमाः कीदृशाः ? आगमानां श्रुतिमूलकत्वम् कथम् ? इत्येतान् पञ्चांशान् मनसि निधाय वैखानस - पाञ्चरात्र - शैवसम्बद्धैः अंशैः संयोज्य शोधलेखाः विलिखिताः वर्तन्ते मया । तानेकत्र पुस्तकरूपेण सम्पाद्य आगमविमर्शः इति नाम्ना सञ्जीकृत्य तत्र भवतां सर्वेषाम् आगमविदुषां परितोषाय समर्प्य गुणदोपयोः गुणान् स्वीकृत्य संप्रार्थये माम् अभिनन्दन्तु तत्र भवन्तो श्रीमन्तः इति । आगमविमर्शः नामाऽयं ग्रन्थः संस्कृत अकाडमी Osmania University, Hyderabad द्वारा प्रकाश्यत इति मोमुदिति मदीयं मानसम् । संस्थाधीशान् सर्वान् विदुषः अभिनन्द्य तेभ्यः श्रियः पतिः श्रीवेङ्कटेश्वरः आयुः आरोग्यं भोगं भाग्यम् ऐश्वर्यं च प्रददातु इति आशासे । विद्ययाऽमृतमश्रुते मार तिरुपतिः ६-५-२०११ अक्षयतृतीया श्री विष्णुभट्टाचार्यः V
विषयसूची
१. स्नपनविषये श्रीवैखानसपाञ्चरात्रयोर्मतभेदः 1 २. पवित्रोत्सवः 11 3. विष्णुबलिसंस्कारः 19 ४. ध्वजस्तम्भकल्पने श्रीवैखानसपाञ्चरात्रयोर्मतभेदः 24 ५. वैनतेयविषये श्रीवैखानसपाञ्चरात्रयोर्मतभेदः 32 ६. देवालयीयक्रियाकलापस्य प्रचारोपायाः 222 19. ब्रह्मोत्सवः ८. वैखानसागमे तत्त्वविचारः ९. वैखानसीयं जिज्ञासाधिकरणम् 40 43 47 55 ११. १२. १०. पाञ्चरात्रागमः पञ्चकालपरामर्शश्च अभ्युदयनिःश्रेयसोपायाः आगमाः वैष्णवागमयोर्विभवः 61 68 74 93. परमात्मा - श्रीपारमात्मिकोपनिषत् 84 १४. क्रियावानेष ब्रह्मविदां वरिष्ठः 90 १५. आगमानां श्रुतिमूलकत्वम् 95 १६. आगमशास्त्रवैशिष्ट्यम् 101 9'9. वैष्णवागमद्वैविध्यम् 108 १८. वैखानसागमस्य ग्रन्थसंख्या 111 116 १९. वैखानसं विष्णुपारम्यम् १. स्नपनविषये श्रीवैखानसपाञ्चरात्रयोर्मतभेदः सर्वत्र समुपलब्धेषु भारतदेशे अनेकेषु शास्त्रेषु अविच्छिन्न- गुरुशिष्यपरम्परागतेन संसारसागरसमुत्तरणैकमार्गेण मोक्षप्राप्त्युपायभूतेन च विराजमानं शास्त्रम् आगमशास्त्रं भवति । भगवतः आगमनं प्रति उपदिशतीति अस्य शास्त्रस्य ‘“आगम" इति नामनिर्वचनं श्रूयते । भारते सर्वत्र कोणे कोणे विद्यमानेषु मन्दिरेषु आस्तिकानां हृदयकमलेषु च अध्यात्मतत्त्वसागररूपेण असौ अद्यापि प्रवहति । फलपुष्पपत्रजलाङ्कुरेषु विद्यमानाः याः शक्तयः अर्चाविग्रहेषु सम्यक् निक्षिप्य तया शक्त्या मानवाः सर्व इहपरसुखसाधनभूताः संस्कृताः श्रेयोमार्गसञ्चरणशीलाश्च भवन्तीति निश्चप्रचोऽयम् अंशः । जप- होम - अर्चन ध्यानेति चतुर्षु पूजामार्गेषु अर्चनमेव सर्वार्थसाधकं श्रेयोमार्गप्रदायकं मुक्तिदायकं च स्यात्’ । मानसीपूजा-होमपूजा-बेरपूजा इति पूजा त्रिविधा भवति । मनसा भगवते यदर्चनं क्रियते तत् मानसिकार्चनम् इति, अग्निमुखेन देवपूजनं होमार्चनम् इति, मृद्दारुशिलालोहेषु अन्यतमेन करचरणाद्यवयवकल्पनेन यदर्चनं तद् बेरपूजनम् इति, इदं गृहे देवालये वा सर्वैः अवश्यम् अनुष्ठेयम् इति च आगमग्रन्थेषु त्रिविधार्चनं विव्रियते ।
पर-व्यूह-विभव-अन्तर्यामी-अर्चा इति पञ्चसु अवतारेषु अर्चावतारस्य वैशिष्ट्यं प्रतिपादयता भृगुणा अस्मिन् सर्वेषाम् अधिकारः’, विशेषभक्तिहेतोः प्रतिनिधिभूतः, अपास्तदोषाणां विशतेः कारणभूतः विषयाक्रान्तचेतसा अल्पसारेण मनुष्येण प्राप्तौ साधनभूतश्च अयम् अर्चास्वरूपः इति उच्यते ।
अर्चास्वरूपस्य वैशिष्ट्यं प्रतिपादयन्तः आगमाः ’ शैव-वैष्णव-शाक्त-गणपति- कौमार-सौरादिरूपेण अनेकधा भिद्यन्ते । तत्तद्देवताप्राधान्यं प्रतिपादयत्सु विविधागमग्रन्थेषु सर्वेषु आलयनिर्माण-विग्रहकल्पन-विग्रहप्रतिष्ठा-अर्चन-स्नपन- उत्सव-प्रायश्चित्त-ज्ञान-योगेति विविधविषयाः सुष्ठु प्रतिपादिताः भवन्ति । अर्चाविग्रहस्य क्रियमाणेषु अनुष्ठानेषु कर्मसु अन्यतमं स्नपनं स्यात् । स्नपनं चैतत् बिम्बशुद्ध्यर्थं पवित्रीकरणार्थं च उद्दिश्यते ।
जगद्धिताय भगवता श्रीमन्नारायणेन शाण्डिल्यादिमुनिभ्यः प्रोक्तः वैदिकतान्त्रिकोभयमार्गानुसारी पाञ्चरात्रागमः । विष्ण्वर्चनेनैव संसारनिवृत्तिः साध्येति भावनया श्रीविखनोमुनिना भृग्वत्रिमरीचिकश्यपेभ्यः महर्षिभ्यः प्रोक्तः तैरेव लोके प्रचुरप्रचारप्रसारश्च वैखानसागमः । अनयोः विष्णुपारम्यप्रतिपादकयोः वैखानसपाञ्चरात्रयोः द्वयोः वैष्णवागमयोः स्नपनविषये किं वा साम्यं ? किं वा वैषम्यं वरीवर्तीति मयात्र यथाशक्ति विचार्यते । पत्रेऽस्मिन् स्नपनकालः स्नपनभेदाः स्नपनद्रव्याणि स्नपनमन्त्राः स्नपनफलम् इत्येते विषयाः यथाशक्ति प्रस्तूयन्ते । अत्र प्रथमतः वैखानसग्रन्थानामाधारेण ततः पाञ्चरात्रग्रन्थानुरोधेन च मया विचार्यते । वैखानसग्रन्थेषु स्नपनकालः इदानीं पश्यामः । स्नपनकालः प्रतिष्ठान्ते उत्सवान्ते सङ्क्रमणेषु व्यतीपाते वत्सरान्ते युगान्ते ग्रहणेषु गुरूदये शुक्रोदये मासनक्षत्रेषु विष्णुपञ्चकदिनेषु’ राज्ञः ग्रामस्य कर्तुश्च जन्मनक्षत्रेषु अनावृष्ट्यां महाव्याधिकाले अन्यस्मिन् काम्येषु वा देवेशस्य स्नपनं करणीयम् इति स्नपनकालः मरीचिप्रोक्ते विमानार्चनाकल्पे प्रतिपाद्यते । भृगुप्रोक्ते वासाधिकारे’ गुर्वस्तमये शुक्रास्तमये शतृपीडने भूकम्पे अशनिपाते दिग्दाहे पांसुवर्षे देवहसने देवरूधिरस्रावे देवस्वेदने अकालचन्द्रदर्शने गन्धर्वनगरदर्शने प्रतिसूर्यदर्शने वा स्वपनं कार्यम् इति स्नपनकालः निर्धारितः । काश्यपप्रोक्ते ज्ञानकाण्डे’ श्रवणद्वादश्यां दिने स्नपनं विधीयते । ग्रहकोपेऽपि स्नपनं कार्यम् इति क्रियाधिकारे सूच्यते । पञ्चपर्वस्वपि॰ स्नपनं करणीयम् इति खिलाधिकारे" विव्रियते । स्नपनभेदाः नपनं नवविधं भवति । यावच्छक्तिद्रव्यभेदेन स्नपनभेदः अधमाधमादारभ्य उत्तमोत्तमपर्यन्तं वैखानसागमग्रन्थेषु नवधा दरीदृश्यते । विमानार्चनाकल्पे भगवतः क्रियमाणं स्नपनं चतुर्विंशतिकलशादारभ्य षट्पञ्चाशदधिकसप्तशतकलशपर्यन्तं नवधा भवतीति प्रतिपाद्यते । तत् यथा अधमाधमम् - चतुर्विंशतिकलशैः स्नपनम् (२४) 2
अधममध्यमम् - अष्टचत्वारिंशत्कलशैः स्नपनम् (४८) अधमोत्तमम् - अष्टोत्तरशतकलशैः स्नपनम् (१०८) मध्यमाधमम् - पोडशाधिकद्विशतकलशैः स्नपनम् (२१६) मध्यममध्यमम् - चतुर्विंशदधिकत्रिशतकलशैः स्नपनम् (३२४) मध्यमोत्तमम् - द्वात्रिंशदधिकचतुश्शतकलशैः स्नपनम् (४३२) उत्तमाधमम् - चत्वारिंशदधिकपञ्चशतकलशैः स्नपनम् (५४०) उत्तममध्यमम् - अष्टचत्वारिंशदधिकषट्शतकलशैः स्नपनम् (६४८) उत्तमोत्तमम् - षट्पञ्चाशदधिकसप्तशतकलशैः स्नपनम् (७५६) भवन्तीति प्रोच्यते काश्यपप्रोक्ते ज्ञानकाण्डे चत्वारिंशदधिकपञ्चशतकलशैः स्नपनम् (५४०) मध्यमोत्तमम्, अष्टचत्वारिंशदधिकषट्शतकलशैः स्नपनम् (६४८) उत्तमाधमं, चतुष्षष्ट्यधिकाष्टशतकलशैः स्नपनम् (८६४) उत्तममध्यमम्, अशीत्यधिक सहस्रकलशैः स्नपनम् (९०८०) उत्तमोत्तमम् च भवतीति विमानार्चनाकल्पापेक्षया स्नपनभेदाः किञ्चित् भिन्नतया दृश्यन्ते । भगवतः सहस्रकलशस्त्रपनम् उत्तमं कर्म भवतीति खिलाधिकारे" सहस्रकलशस्त्रपनप्रकारः विस्तरेण उपवर्ण्यते । स्नपनद्रव्याणि ,१५ स्नपनद्रव्याणि त्रिविधानि स्युः । तानि प्राग्द्रव्य-प्रधानद्रव्य - अनुद्रव्याणीति । तेषु मृत् - पर्वत-धान्य-अङ्कर - मङ्गलानि द्रव्याणि प्राग्द्रव्याणीति, पञ्चगव्य घृत-मधु- दधि-क्षीर-गन्धोदक-अक्षतोदक-फलोदक-कुशोदक-रत्नोदक- जप्योदक-सर्वौषध्युदकानि द्रव्याणि प्रधानद्रव्याणीति, पुण्यपुष्प-चूर्ण-कषाय-तीर्थोदक वनौषधि-हरिद्रा-सर्वगन्ध- मूलगन्ध-धातु-प्लोतवस्त्र - उष्णोदक- उपस्नान - अम्बरादीनि द्रव्याणि अनुद्रव्याणीति वैखानसागमग्रन्थेषु’’ स्नपनद्रव्याणि एकरूपतया दृश्यन्ते । स्नपनमन्त्राः पञ्चगव्यादिद्वादशप्रधानकलशैः स्नपनं निर्दिष्टैर्मन्त्रैः कार्यम् इति स्नपनमन्त्राः वैखानसागमग्रन्थेषु एकरूपतया उपदिश्यन्ते । ते च मन्त्राः 3
स्नपनद्रव्यम् वेदमन्त्रः आकरः पञ्चगव्य- “ओं वसोः पवित्रं” सौरसूक्तम् उपस्नान- “ओं वारीश्चतस्र” सौरसूक्तम् घृत- “ओं अग्न आयाहि” सामवेदः१-१-१ मधु- “ओं अग्निमीले” ऋक् 9-9-9 दधि- “ओं इषेत्वोर्जत्वा” क्षीर- “ओं शन्नो देवी” संहिता १-१-१ आरण्यकं ४-४२-६२ गन्धोदक- “ओं अभित्वा शूरनो” संहिता २-४-१४ अक्षतोदक- “ओं इमा ओषधय” सौरसूक्तम् फलोदक- “ओं चत्वारि वाक् " ब्राह्मणम् २-८-८ कुशोदक- “ओं नारायणाय’” जप्योदक- “ओं पूतस्तस्य " नारायणगायत्री सौरसूक्तम् सर्वौषधि उदक- “ओं चत्वारि श्रृङ्गा” इति एते स्नपनमन्त्राः प्रतिपादिताः नपनफलम् सामवेदः ४ ९०-२४ । -१७ आगमोक्तनपनेन ऐहिकामुष्मिकसुखानि प्राप्तुं शक्यन्तेति वासाधिकारे’ अवग्रहदुर्भिक्षव्याध्यादिअशुभानि सर्वोपद्रवांश्च नश्यन्तीति ज्ञानकाण्डे” सूर्यचन्द्रयोः ग्रहणसमये पुरुषोत्तमस्य स्नपनं कोटियज्ञकृतफलम्, ब्रह्मलोकप्राप्तिश्च संभवतीति प्रकीर्णाधिकारे” स्नपनफलं दृश्यते । यजमानेन कृतानि सप्तजन्मसु पापानि स्नपनेनानेन नश्यन्तीति, पुत्रपौत्रधनादीनाम् अभिवृद्धिः सर्वकामावाप्तिश्च प्रभवतीति खिलाधिकारे स्नपनफलं विधीयते । एतावता श्रीवैखानसभगवच्छास्त्रानुरोधेन स्नपनकाल- स्नपनद्रव्य-स्नपनमन्त्र स्नपनफलादिविषयाः सुष्ठु प्रतिपादिताः । ततः श्रीपाञ्चरात्रागमे कथम् एते समभिवर्णिताः इति सादृश्यविवेचनसरण्या द्रक्ष्यामः। श्रीपाञ्चरात्रागमानुरोधेन इदानीं स्नपनकालः प्रथमतः प्रस्तूयते । 4
नपनकालः विषुवे सङ्क्रमणेषु ग्रहणेषु अयनेषु द्वादश्यां तिथौ श्रवणनक्षत्रं यजमानस्य जन्मदिने रोहिण्याम् अमावास्यायां पूर्णिमायां पुनर्वसौ पञ्चम्यां शुभनक्षत्रे शुभवारे वा भगवते अभिषेकः कार्यः इति महाभिषेकस्य कालः पाद्मसंहितायां विधीयते । ग्रहणेषु व्यतीपाते रोहिण्या उत्पातेषु दुर्भिक्षे व्याधिपीडने वा उत्सवान्ते उत्सवादौ अपि स्नपनकालः इति स्नपनकालः पाद्मसंहितापेक्षया विश्वामित्रसंहितायाम् अधिकतया प्रतिपाद्यते । फल्गुनीनक्षत्रे राज्ञः जन्मनक्षत्रे देशोभे नित्यपूजादिने चण्डालादीनां स्पर्शने स्नपनं कार्यम् इति पुरुषोत्तमसंहितायां स्नपनकालः कथ्यते । चन्द्रसूर्यग्रहणयोः स्नपनं करणीयम् इति काश्यपसंहितायां“ विशेषतया दृश्यते। स्नपनभेदाः स्नपनभेदाः कपिञ्जलसंहितापेक्षया” विविधप्रकाराः भवन्ति । तद्यथा- पञ्चविंशतिकलशैः स्नपनम्, एकोनपञ्चाशत्कलशैः स्नपनम्, एकाशीतिकलशैः स्नपनम्, पञ्चाशीतिकलशैः स्नपनम्, सप्तनवतिकलशैः स्नपनम् अष्टोत्तरशतकलशैः स्नपनं, षण्णवत्यधिकशतकलशैः स्नपनं सहस्रकलशैः स्नपनम्, इति स्नपनभेदाः निर्दिष्टाः । पारमेश्वरसंहितायांर ४७३ कलशैः स्नपनम् उत्तमोत्तमं, ४०६ कलशैः स्रपनम् उत्तममध्यमं, ३१३ कलशैः स्नपनम् उत्तमाधमं, २७७ कलशैः स्नपनं मध्यमोत्तमं, २१८ कलशैः स्नपनं मध्यममध्यमं, ११७ कलशैः स्नपनं मध्यमाधमं, ८१ कलशैः स्नपनम् अधमोत्तमं, ४५ कलशैः स्नपनम् अधममध्यमम्, १७ कलशैः स्नपनम् अधमाधमं भवति । विश्वामित्रसंहितायां स्नपनभेदाः विशिष्टतया विलक्षणतया च अभिवर्ण्यन्ते । तत्रैव ९०८, ४६,२५,१६,१२,६,५, १ एतैः कलशैः स्नपनम् अपि सम्यक् अभिवर्ण्यते। स्नपनद्रव्याणि I २७ पञ्चगव्य-घृत-दधि-क्षीर-मधु-कषाय-उष्णोदक फलोदक- मार्जनोदक- अक्षतोदक- रन्नोदक-लोहोदक-गन्धोदक-यवोदक-गुडोदक-इश्युदक-नारिकेलोदक- 5 Public domain. Digitization Muthulakshmi Research Academy शान्त्युदकानि द्रव्याणि स्त्रपनद्रव्याणि भवन्तीति पारमेश्वरसंहितादिषु” पाञ्चरात्रग्रन्थेषु प्रोच्यते। स्नपनमन्त्राः सर्वद्रव्यैः सर्वेभ्यः देवेभ्यः स्त्रपनं मूलमन्त्रेण कार्यम् इति पारमेश्वरसंहितायाम् उपदिश्यते। विश्वामित्रसंहितायां तत्तद्रव्यापेक्षया स्नपनमन्त्राः इत्थं परिकल्प्यन्ते । यथा- स्नपनद्रव्यं मन्त्रः आकरः पञ्चगव्य- “ओं विष्णोः कर्मा” संहिता ९.३.६. दधि- “ओं दधिक्रावण्णो” संहिता ७.४.९६ क्षीर- “ओं पयोव्रतेन” साम मधु- “ओं मधुवाता” संहिता ४.२.६. कषाय- “ओं ओषध्यः " उष्णोदक- “ओं तद्विष्णोः " संहिता १.३.६ फलोदक- “ओं फलिनी” मार्जनोदक- “ओं शन्नो देवी” आरण्यकम् ४.४२.६२. अक्षतोदक- “सावित्री” रत्नोदक- “ओं त्रातारमिन्द्र” संहिता १.६.१२. लोहोदक- “महाव्याहृती”. गन्धोदक- “ओं गन्धद्वारां " नारायणम् ४-१-७ यवोदक- “ओं शतधारं” सौरमन्त्रः घृत- “ओं घृतस्नाता” संहिता ७.४.१६. इत्येते स्नपनाङ्गतया वेदमन्त्राः उपदिष्टा भवन्ति । स्नपनफलम् पापापनोदनं, सर्वाभ्युदयः, प्रजानां राष्ट्रानां राज्ञां च आयुर्वर्धनं” दुर्भिक्षदुर्निमित्तादि घोराणाम् उपशमनं सर्वसम्पत्करम् सर्वपुरुषार्थैकप्राप्तिः, 6
राजसूयकृतफलं गंगास्नानकृतफलं च स्नपनेन अनेन जायते इति स्नपनस्य फलं पाद्मसंहितायां प्रतिपाद्यते । ३४ स्नपनमिदं जयप्रदं पुष्टिकरं पुत्रप्रदं संपत्प्रदं च भवेदिति सहस्रकलशस्त्रपनफलं विश्वामित्रसंहितायां दृश्यते । एवं वैखानसपाञ्चरात्रयोः एतयोः वैष्णवागमयोः स्नपनविषये किंचन सादृश्यं किंचन वैसादृश्यं तत्र तत्र प्रतिपादितत्वात् तदेव मया अत्र निरूपितं भवति । सर्व शक्ते : अखिलाण्डकोटिब्रह्माण्डनायकस्य श्रियः पतेः पुरुषोत्तमस्य सर्वज्ञस्य नियामकस्य श्रीमन्नारायणस्य क्रियमाणं तपनं संसारसागरसमुत्तरणैकसाधनभूतं, वर्णाश्रमधर्म अनुष्ठानलोपदोषपरिहारप्राप्तेः साधनम्, इहपरसुखानुभूतेः सोपानं चेति वक्तुं नास्ति संशयः इति साम्प्रतमसाम्प्रतं श्रीमन्नारायणस्य क्रियमाणं स्नपनस्य फलम् इति च विज्ञाप्य मया विरम्यते । मङ्गलं कोसलेन्द्राय महनीयगुणात्मने । टिप्पणी चक्रवर्तितनूजाय सार्वभौमाय मङ्लम् ।। १. विमानार्चनकल्पः अध्या… ९० अथ समाराधनं चतुर्विधं भवति । जपहुतार्चनध्यानानीति …….. तेष्वर्चनं सर्वार्थसाधनं स्यात् ।। २. मानसी होमपूजा च बेरपूजेति सा त्रिधा । खिलाधिकारः पृ. ३. ३. प्रकीर्णाधिकारः ४. विशेषभक्तिहेतुत्वात् प्रतिमाराधनं परम् । 1 मनुष्येणाऽल्पसारेण तव्प्रातौ साधनं त्विदम् ॥ प्रकीर्णाधिकारः ५. विष्णुपञ्चकदिनान्याहुः अमावास्या च पूर्णिमा | द्वादश्यौ द्वे च श्रवणं श्रवणद्वादशी वरा | क्रियाधिकारः ६. विमानार्चनाकल्पः ख २९७ ७. वासाधिकारः ख्२३४ 7 ८. ज्ञानकीlicdagar Disitation Muthulakshmi Research Academy ९. क्रियाधिकारःख्१६६. ए१७ १०. कृष्णाष्टमी चतुर्दश्यप्यमावास्या च पूर्णिमा । सङ्क्रान्तिः पर्वतिथयः मुनिभिः परिकीर्तिताः । मुहूर्तदर्पणम् ४७ ए३-४ ११. खिलाधिकारः ३९२ ए४ १२. विमानार्चनाकल्पः ४८ १३. ज्ञानकाण्डः अध्या. ९० १४. खिलाधिकारः अध्या. ३० १५. विमानार्चनाकल्पः अध्या. ४८ १६. विमानार्चनाकल्पः अध्या. ४९ खिलाधिकारः अध्या. २९, ए१५४-१६१ वासाधिकारः अध्या. ३६ ए १५-२१ १७. एवं यः कुरुते भक्त्या ऐहिकामुष्मिकाय च । ३६, ३४ १८. देवेशस्य स्नपनेन अवग्रहदुर्भिक्ष व्याध्याधिनाशाद्यशुभानि सर्वोपद्रवांश्च नश्यन्ति ।। अध्या. ८९ १९. ग्रहणे वर्तमाने तु स्नापयेत् पुरुषोत्तमम् । २०. २१. 8 कोटियज्ञफलं प्राप्य ब्रह्मलोके महीयते ।। २१-१११ एवं यः कारयेत् भक्त्या विष्णोः स्नपनमादरात् सप्तजन्मकृतैः पापैः तत्क्षणाद्विप्रमुच्यते । पुत्रपौत्रधनाधीनां वृद्धिस्तस्य भविष्यति ।। अध्या. २९. १९० महाभिषेको नामास्य स्नपनं कमलासन विषुवे सङ्क्रमे चैव ग्रहणे चायनद्वये । द्वादश्यां श्रवणे चैव तथा कर्तुः त्रिजन्मसु दिनत्रये व्यतीपाते रोहिण्यां च तिथित्रये । दर्शे च पौर्णमास्यां च पुनर्वसोर्विशेषतः २२. In pathlif domain Digitization Muthulakshmi Research Academy नक्षत्रतिथिवारेषु चाब्जज । प्रयुज्यमानं सर्वार्थसाधनं सर्वशान्तिदम् ।। अध्या. ८,४-७ ए पाद्मसंहिता (चर्यापादः) विषुवायनयोर्युग्मे ग्रहणे चन्द्रसूर्ययोः व्यतीपाते च रोहिण्यां पुनर्वसोर्द्विजोत्तम । उत्पातेषु च दुष्टेषु दुर्भिक्षे व्याधिपीडने यजमानस्य जन्मर्क्षे शान्तिके पौष्टिके तथा । उत्सवाद्यन्तयोः स्नानं स्नपनं कारयेद् बुधः || विश्वामित्रसंहिता १९-३-५ २३. पुरुषोत्तमसंहिता २९.२-३ २४. काश्यपसंहिता १३.६ २५. कपिञ्जलसंहिता अध्या. १३. २०-२१ २६. पारमेश्वरसंहिता अध्या. १४ २७. २८. २९. विश्वामित्रसंहिता अध्या. १९ तत्रैव अध्या. २० पारमेश्वरसंहिता अध्या. १४. १६३-१६५ ३०. मूलमन्त्रेण सर्वेषां स्नपनं विहितं द्विज । तत्रैव ३१. 14 विश्वामित्रसंहिता अध्या. १९.५६-६३ ३२. पापापनोदनैकान्तं सर्वाभ्युदयसाधनम् प्रजानामपि राष्ट्रस्य राज्ञश्चायुर्विवर्धनम् । अनुष्ठितं पुत्रकामैस्तथा विजयकांक्षभिः दुर्भिक्षदुर्निमित्तादिघोराणां शमनं परम् । । सर्वसंपत्करं सर्वपुरुषार्थैकसाधनम् || पाद्मसंहिता अध्या. ९.६ - ८ ए ३३. गंगादिसरितां स्नानफलमश्नुवते महत् । सहस्रकलशस्त्राने यत्फलं राजराष्ट्रयोः ।। अध्या. ९.१३७ बि, १३८ ए 9 ३४. संप्रीणमं भगवतः सर्वपापापमmi Research Academy जयप्रदं पुष्टिकरं पुत्रसंपत्प्रदायकम् ।। अध्या. २०. 10 काश्यपसंहिता उपयुक्तग्रन्थाः यतिराजसंपत् कुमारमुनिः कबीरमुद्रणालयः मैसूर्, १९३३ ज्ञानकाण्डः तिरुमल तिरुपति देवस्थानम् तिरुपतिः, १९६० क्रियाधिकारः श्रीवेंकटेश्वर प्राच्यग्रन्थमाला तिरुपति, १९५३ पाद्मसंहिता पाञ्चरात्रपरिशोधनापरिषत् मद्रास् १९८२ खिलाधिकारः तिरुमल तिरुपति देवस्थानम् तिरुपतिः, १९६१ वासाधिकारः तिरुमल तिरुपति देवस्थानम् तिरुपतिः, १९९९ विमानार्चनाकल्पः तिरुमल तिरुपति देवस्थानम् तिरुपति, १९२६ २. पवित्रोत्सवः आर्षवाङ्मयसमुद्धरणाय अध्यात्मतत्त्वविकासाय मनो निर्मलाय वर्गवैषम्यनिवारणाय सर्वजनसुखशान्तिसाधनाय भगवन्मुखोद्गतवेदमन्त्राणां साफल्याय च भगवता श्रीमन्नारायणेन आगमाः लोके उपदिष्टा भवन्ति । अलौकिकानन्दानुभूतेः मार्गभूतो वेदराशिः । इहपरसुखानि च प्राप्तुमुद्दिष्टाः वेदमन्त्राणां विनियोगरूपाश्च एते आगमा इति । असौ चागमः वैष्णव- शैव-शाक्त - गणपति-सौर-कौमारेति विविधप्रकाराः त्तद्देवता नाम्ना लोके राराजन्तेति विज्ञायते । दक्षिणभारते विद्यमानौ वैखानस - पाञ्चरात्रागमौ द्वौ विष्णुपारम्यप्रतिपादकौ वैष्णवागमौ स्तः । विष्ण्वालयनिर्माण - विष्णुप्रतिष्ठा - विष्ण्वर्चना - विष्णुनपनप्रयोग विष्णूत्सवविधान- प्रायश्चित्तान्तकर्माणि सर्वाणि अनयोः द्वयोः वैखानस - पाञ्चरात्रयोः समन्त्रकं सप्रयोगं सुष्ठु प्रतिपादितानि वर्तन्ते ।
आगमग्रन्थेषु प्रतिपादितेषु आलयनिर्माण विग्रहकल्पन विग्रहप्रतिष्ठार्चन-स्नपनोत्सव - प्रायश्चित्त-ज्ञान- योगा इति नवसु विषयेषु अन्यतमः प्रायश्चित्तः । अयं च प्रायश्चित्तः आलयनिर्माणे विग्रहकल्पने विग्रहप्रतिष्ठायां नित्य-नैमित्तिक-काम्योत्सवेषु षट्कालार्चनासु अतिवृष्टि - अनावृष्टि - ग्रहयुद्ध ग्रहकोप - महोपद्रवादि प्रकृतिवैपरीत्येषु च ये दोषाः सम्भूताः तेषां निवारणार्थं विविधाः भवेयुः। प्रायः नाम दोषागमनं, चित्तः नाम तस्य प्रतिषेधः, दोषाणां निवारणरूपः प्रायश्चितः इति प्रायश्चित्तस्य अर्थः वैखानसागमें’ दृश्यते । देवालये अनुष्ठीयमानेषु प्रायश्चित्तेष्वनेकेषु अन्यतमः पवित्रोत्सवः । अयं च विशिष्टतमः, विशिष्टफलप्राप्तेः साधनभूतश्च । भगवतः करुणाकटाक्षसाधनमार्गः, प्रकृतिद्रव्यसमर्पणपरश्च स्यादिति, अमुं पवित्रोत्सवं प्रति वैखानसागमग्रन्थाः किं किं उपदिशन्ति, के के विषयाः अन्तर्भूताः इति विषयविवेचनसरण्या यथामति परिशीलितुम् उद्युक्तोऽस्मि । पवित्रोत्सवः इत्यस्मिन् पत्रे पवित्रोत्सवस्य आवश्यकता, पवित्रोत्सवशब्दार्थः, पवित्रोत्सवद्रव्याणि, पवित्रोत्सवकालः, पवित्रोत्सवप्रयोगः, पवित्रोत्सवफलम् इत्येते 11
अंशाः विमानानामरूप क्रियाधिकulaksकीर्णाधिकार वासाधिकारेषु चतुर्षु वैखानसागमग्रन्थेषु कथं प्रतिपादिताः इति मया अत्र प्रस्तूयन्ते । पवित्रोत्सवस्य आवश्यकता सर्वयज्ञफलप्रदं सर्वदोषोपशमनं सर्वतुष्टिकरं सर्वकामप्रदं सर्वलोकशान्तिदं मन्त्रक्रियाद्रव्यहीनोपशमनं ततः पवित्रारोपणहीनं यदर्चनं सर्वं निष्फलं स्यादिति प्रयत्नेन पवित्रारोपणम् अवश्यम् अस्माभिः अनुष्ठेयमिति च मरीचिप्रोक्ते विमानार्चनाकल्पे भृगुप्रोक्ते प्रकीर्णाधिकारे च विधीयते । युक्तिः मुक्तिः आयुः कीर्तिः धनवृद्धिः सर्वपापहरं-संवत्सरार्चनफलं- सर्वदोषशान्तिश्च लभ्यते इति पवित्रोत्सवस्य आवश्यकता भृगुप्रोक्ते वासधिकारें " च दृश्यते। नित्यनैमित्तिक संवत्सरार्चनासु ज्ञानाज्ञानसम्भूतदोषाणां शान्तिः सर्वदोषोपशमनं सर्वकामसमृद्धिः आयुरारोग्याणि सर्वयज्ञफलप्राप्तिः सर्वशान्तिश्च पवित्रोत्सवेनानेन भवेदिति अस्य उत्सवस्य आवश्यकता क्रियाधिकारे” प्रतिपाद्यते । पवित्रोत्सवशब्दार्थः पद्म-क्षौम-सुवर्ण रौप्य-कार्पासद्रव्येषु अन्यतमेन मालावत् निर्मितस्य द्रव्यविशेषस्य नाम पवित्रं भवति । पवित्राणि सुसंस्कृत्य वैदिकैर्मन्त्रैः भगवते समर्प्य दोषाः दूरीकर्तुं प्रार्थ्यते चेत् आलय-भक्तजन - द्रव्य - अर्चना - मनांसि च सर्वाणि पवित्रतमानि स्युः इति, अतः तस्य उत्सवस्य पवित्रोत्सवः नाम भवतीति आगमग्रन्थेषु श्रूयते । आगमग्रन्थेष्विव स्मृतिग्रन्थेष्वपि पवित्रोत्सवस्य प्राधान्यं वर्तते । पवित्रोत्सवद्रव्याणि चतुर्द्वार-तोरण-पूर्णकुम्भ-अङ्कुर-दर्भमाला-तरङ्ग-स्तम्भवेष्टन-मुक्तादामाद्यैः संयुक्ता यागशाला, अग्निकुण्डाः शय्यावेदिः वनमाला - उपवीतं कं, कु मोशीरचन्दनसुवर्ण रजतहरिद्रादिद्रव्याणि पञ्चशयनानि धूपदीपाष्टमङ्गलपञ्चयुधानि पवित्रसूत्राणि एतानि पवित्रोत्सवद्रव्याणीति 12
विमानार्चनकल्पे’ विव्रियते । तत्रैव’ सुवर्णेन निर्मितानि पवित्राणि उत्तमानीति, रौप्येन निर्मितानि मध्यमानीति, कार्पासेन निर्मितानि अधमानीति, कार्पासं सर्वदोषविवर्जितमिति च दृश्यते । प्रकीर्णाधिकारे ́ सर्वरक्षाकरसुदर्शनयन्त्रः अपि पवित्रोत्सवद्रव्येषु अन्यतमत्वेन परिगण्यते । पवित्रोत्सवार्थं पवित्रमण्डपमेकं निर्मापयेदिति, प्लोतवस्त्रोत्तरींयाभरणहविः पानीयद्रव्याणि अष्टौ प्रधानकलशाः उपस्त्रानकलशाश्च अष्टौ शंख - चक्र - खड्ग शङ्गाणि, कौमोदकी- छत्र - चामर - दर्पण - ध्वजचिह्नानि, पौण्डरीकं - चैतानि पवित्रोत्सवद्रव्याणीति क्रियाधिकारे सुस्पष्टं प्रदर्श्यते । सुवर्णेन निर्मितं पवित्रम् उत्तमोत्तमम् इति, रजतेन कृतमुत्तममिति, ताम्रेण कृतं मध्यममिति, क्षौमेणकृतम् अधममिति, अथवा ब्राह्मण्या स्त्रिया कन्यया साधुशीलवत्या वा कार्पासेन निर्मितं पवित्रम् उत्सवार्थं ग्राह्यम् इति च वासाधिकारे” उपदिश्यते । पवित्रोत्सवकालः अषाढ-श्रावण-भाद्रपदमासेषु एकस्मिन् मासे शुक्लद्वादश्यां विष्णुपञ्चकदिनेषु अन्यतमे दिने पवित्रोत्सवः करणीय इति, संसर्पे-अतिमासे- तिथि-वार-नक्षत्र-शून्यदिने - दशम्येकादशमीश्रदिने - दोषदिने पवित्रोत्सवः कर्तुं न पार्यते इति विमानार्चनाकल्पे” पवित्रोत्सवस्य कालः प्रतिपादितः। विमानार्चनाकल्पापेक्षया वासाधिकारे” रविः तुलामासे स्थिते सति सः मासः पवित्रोत्सवस्य अयोग्यः इति विशेषतया दृश्यते । संक्षोभः यस्मिन् जायते तस्मिन्नेव काले पवित्रोत्सवः करणीयः इति भृगुप्रोक्ते प्रकीर्णाधिकारे ३ उपदिश्यते । मार्गशीर्षमासे शुक्ल-कृष्णपक्षयोः उभयोः द्वादश्यां तिथौ, श्रवणनक्षत्रे, दक्षिणायने, विष्णुपञ्चकदिनेषु आश्वयुजमासाश्विनीनक्षत्रे च विष्णोः, दक्षिणायने कृष्णाष्टमीतिथौ, चतुर्दश्यां च परमशिवस्य, द्वादश्यां सूर्यस्य, षष्ठ्यां स्कन्दस्य, कार्तिके मासि नवम्यां दुर्गायाः, पञ्चम्यां तिथौ उत्तरफल्गुन्यां वा श्रीदेव्याश्च 13
पवित्रोत्सवस्य योग्यः कालः इति क्रियाधिकारे" सुस्पष्टं दृश्यते। पवित्रोत्सवप्रयोगः आचार्यार्चकाः भगवन्तं संप्रार्थ्य अग्निं प्रतिष्ठाप्य पवित्रसूत्राणि पञ्चगव्यैः संप्रोक्ष्य तानि स्पृशन्तः सन्तः पुरुष - रुद्र - ब्रह्म - दुर्गा - रात्रि - सारस्वत विश्वजित् - श्री - भू-विष्णु-गोदान- आत्मादिसूक्तैः सम्यक् पवित्रीकृत्य, परिवारदेवानाम् अर्चनं, हौत्रं, प्रधानहोमः, भगवतः शुद्धोदकस्नपनं, मूलहोमः, चतुर्दिक्षु वेदाध्ययनं, नित्यार्चनं, एतानि क्रमशः कृत्वा ध्वज - छत्र-पिञ्छ चामर नृत्त-गीत सहितेन भगवन्तं प्रणम्य पवित्रसूत्राणि स्वीकृत्य वैष्णवैर्मन्त्रैः तानि पवित्राणि भगवतः विष्णोः समर्पयन्ति । ततः कौतुक - स्नपन-उत्सव-बलिबेरेभ्यः परिषद्देवेभ्यश्च अपि समर्प्यन्ते। 1 अयं च पवित्रोत्सवप्रयोगः नवाहं - सप्ताहं - पञ्चाहं त्र्यहम् - एकाहं वा कुर्यादिति विमानार्चनाकल्पे " विधीयते । भगवतः समर्प्यमाणे पवित्रसूत्रसंख्याविषये ग्रन्थेषु नैकमत्यम् आवहति । यथा अष्टोत्तरशतानि सूत्राणि उत्तमानीति, चतुष्पञ्चाशत् सूत्राणि मध्यमानीति, सप्तविंशतिसूत्राणि अधमानीति विमानार्चनाकल्पे वासाधिकारे" च उपदिश्यते । क्रियाधिकारे" तु अष्टोत्तरसहस्राणि सूत्राणि वा पञ्चाशत्सूत्राणि वा पुरुषादीनां, परिवाराणां सार्धद्विशतानि सूत्राणि, देव्योः एकशतसंख्याकानि सूत्राणि समर्पयेयुः इति च प्रोच्यते । पवित्रोत्सवप्रयोगे पवित्राणाम् उपरि सर्वरक्षाकरस्य चक्रस्यापि अर्चनं प्रकीर्णाधिकारे" वासाधिकारे" च दृश्यते। पवित्रोत्सवप्रयोगेऽस्मिन् बिल्व - करवीर जाती - वकुल - कल्हार - अशोक - पद्म - कुमुद - नीलोत्पल - मन्दार - द्विकर्ण-नन्द्यावर्त-अक्षत-स्थलारविन्द-श्रीपत्र - विष्णुक्रान्त-तुलसीति विविधैः पुष्पैः भगवतः विशेषार्चनं करणीयमिति वासाधिकारे" विशेषतया विधीयते । पवित्रोत्सवफलम् पवित्रोत्सवेनानेन देवेशस्य संवत्सरार्चनं संपूर्णं भवतीति, यजमानः सर्वान् कामान् अवाप्य विष्णुलोकं प्राप्नोतीति च विमानार्चनाकल्पे२२ उपदिश्यते। 14
क्रियाधिकारे३ यजमानस्य सर्वाभीष्टसिद्धिः सर्वदानफलं सर्वपापनिवारणं कीर्तिमत्त्वं संवत्सरार्चनफलं सायुज्यसिद्धिश्च अनेन लभते इति निर्दिश्यते । प्रत्यब्दक्रियमाणेनानेन पवित्रारोपणेन यजमानः इहलोके सुखी भूत्वा अन्ते परमां गतिं च प्रयातीति प्रकीर्णाधिकारे" प्रोच्यते । उपसंहारः एतावता श्रीवैखानसागमग्रन्थपरिशीलनेनानेन अयं च पवित्रोत्सवः सर्वार्थसाधकः सर्वदोषनिवारणोपायः सम्पूर्णार्चनफलप्रदायकः विष्णुसायुज्यसाधकः पवित्रप्राप्तेः मार्गभूतः इति वक्तुं नास्ति संशीतिलेशः । वैखानसागमोक्तेन वैदिकमार्गविधानेन चतुर्वेदमन्त्रसमूहेन च निर्णीतेन अनेन पर्वित्रोत्सवेन भगवान् श्रीमन्नारायणः प्रीतिपात्रो भूत्वा सर्वजनान् संरक्ष्य अतिवृष्टि-अनावृष्टि-भूकम्प - दिग्दाहादिदोषान् दूरीकृत्य सुभिक्ष- सुवृष्टि - धन - धान्य - मनोल्लासादीनि शुभानि अनुगृह्णातीति निश्चप्रचोऽयं विषयः । सर्वे जनाः उत्सवेऽस्मिन् भगवन्तं संप्रार्थ्य शुभानि फलानि प्राप्य सुखजीवने सश्रद्धाः सानन्दा भवेयुः इति आशासे । टिप्पणी स्वस्ति प्रजाभ्यः 9. प्रायो दोषसमुत्पत्तिः चित्तिः तस्य निरासनम् । २. तस्य दोषस्य संधानं प्रायश्चित्तमितीरितम् ॥ क्रियाधिकारः २०, २ अथ पवित्रारोपणं वक्ष्ये । सर्वयज्ञफलप्रदं सर्वदोषोपशमनं सर्वतुष्टिकरं सर्वकामप्रदं सर्वलोकशान्तिदं ह्येतन्मन्त्रक्रियाद्रव्यहीनं यत्कृतं तद्दोषशान्त्यर्थं पवित्रारोपणं कुर्यात् || ३. प्रकीर्णाधिकारः ३२, ३६-३८ ४. अतःपरं प्रवक्ष्यामि सूत्रस्यारोपणक्रमम् युक्तिं चैव तथा मुक्तिमायुः कीर्तिं प्रवृद्धिदम् | धनवृद्धिं च पुण्यानां सर्वपापहरं तथा पृ. ४६९ 15 ५. ६. ७. ८. ९. १०.
सूत्रस्यारोपणं तस्मात् पवित्रं परमं स्मृतम् । संवत्सर नरो भक्त्या संपूज्यैव जनार्दनम् तत्पूजाफलमाप्नोति संपूर्णं लभते ध्रुवम् । वर्षे वर्षे च कर्तव्यं कारयेद्देशिकोत्तमः ॥ ३८, ९-१२ अथातः सम्प्रवक्ष्यामि पवित्रारोपणं हरेः नित्ये नैमित्तिके वापि तथा संवत्सरार्चने । ज्ञानतोऽज्ञानतो वापि ये दोषास्सम्भवन्ति वै पवित्रारोपणेनैव ते शाम्यन्ति न संशयः । सर्वदोषोपशमनं सर्वकामसमृद्धिदम् आयुरारोग्यदं कर्तुः सर्वाध्वरफलावहम् । पवित्रारोपणं विष्णोः कारयेत् सर्वशान्तये ॥ ३१, २१-२४ ४७० पृ. सुवर्णसूत्रमुत्तमम् । मध्यमं रौप्यम् । अधमं कार्पासम् । सर्वदोषविवर्जितं पतिव्रता सुमंगल्या ब्राह्मण्या कन्यकया वा निर्मितं सूत्रं गृह्णीयात् ।। विमानार्चनाकल्पः पृ. ४७० प्रकीर्णाधिकारः ३२, ८२ क्रियाधिकारः ३१, ५६-६६ सुवर्णेन कृतं सूत्रमारोपयेदुत्तमोत्तमम् रजतेन कृतं सूत्रमारोपयेदुत्तमं स्मृतम् । ताम्रसूत्रं कृतारोप्य मध्यमन्तु विचक्षणः क्षौमं वा पटसूत्रं वा कौशेयेनात्र सूत्रकम् । तेषां चैवालाभेतु सूत्रं कार्पासतन्तु वा ब्राह्मण्या निर्मितं वापि कन्यया विधवापि च। साधुशीलवती ग्राह्या सूत्रं केशादिवर्जितम् ॥ ३८, २९-३३ ११. पृ. ४६९-४७० 16 १२.
३८-१८ १३. संक्षोभो जायते तत्र तस्माद्यनेन कारयेत् । ३२,३९ १४. ३१, २४-२८ १५. पृ. ४७५ १६. पृ. ४७०-४७१ १७. ३८, ४२-४४ १८. ३१, ५३-५४ १९. ३२, ७१ २०. ३९, ३५ २१. वासाधिकारः ३२, ५१, ५४ बिल्वञ्च करवीरञ्च जाजी वकुलमेवच कल्हारं च तथाशोकं पद्मं कुमुदमेवच । नीलोत्पलं च मन्दारं द्विकर्णमथापि वा नन्द्यावर्तं च पुन्नागं श्वेतदूर्वाक्षतैर्युतम् । स्थलारविन्दं श्रीपत्रं विष्णुक्रान्तमितिस्तथा तुलसीं चैव सर्वेषां गृहीत्वैव समर्चयेत् । सप्तविंशतिभेदेन क्रमेणैवार्चयेत्तथा ॥ विमानार्चनाकल्पः पृ. ४७५ २२. २३. एवं यः कुरुते भक्त्या पवित्रारोपणं हरेः २४. सर्वाभीष्टमवाप्नोति सर्वदानफलं लभेत् । सर्वपापविनिर्मुक्तः कीर्तिमान् लभते श्रियम् संवत्सरार्चनफलं लब्ध्वा सायुज्यमाप्नुयात् ॥ ३१, ९३बि - ९५ ए एवं कुर्वीत प्रत्यब्दं पवित्रारोपणं हरेः । इहलोके सुखी भूत्वा स याति परमां गतिम् ॥ ३२, १११. 17 18
उपयुक्तग्रन्थाः क्रियाधिकारः यस्.वि.ओ.आर्.ऐ. टि.टि.डि. तिरुपतिः - १९५३ प्रकीर्णाधिकारः टि.टि.डि. तिरुपतिः, १९९७ ब्रह्मोत्सवानुक्रमणिका वैखानसाग्रन्थमाला नल्लूरु, १९५५ श्रीभगवदाराधनचन्द्रिका वैखानसग्रन्थमाला नल्लूरु, १९८७ वासाधिकारः टि.टि.डि. तिरुपति, १९९९ विमानार्चनाकल्पः टि.टि.डि. तिरुपतिः, १९२६ विमानार्चनाकल्पः · राष्ट्रियसंस्कृतविद्यापीठम् तिरुपतिः, १९९३
३. विष्णुबलिसंस्कारः अस्यां भारतीयसंस्कृतिसम्प्रदायपरम्परायां मानवान् सुसंस्कर्तुमनेके संस्काराः स्मृतिधर्मसूत्रप्रयोगग्रन्थेषु उपदिष्टास्सन्ति । ते तावत् गर्भाधानादारभ्य अन्त्येष्टिपर्यन्तं वर्तन्ते। संस्कारेष्वेतेषु केचन गर्भसंस्काराः केचन शारीरकाः केचन अपरसंस्काराश्च । संस्कारस्तावद् द्विविधो वर्तते ब्राह्मो । दैव इति । तयोः ब्राह्मास्तावद् गर्भाधानादयः । पाकयज्ञ-हविर्यज्ञ-सोमयज्ञादयो दैवा भवन्ति । ऋषीणां सलोकतां समानतां सायुज्यं पदं गन्तुं मार्गभूता ब्राह्मसंस्काराः । देवानां सलोकतां समानतां सायुज्यं पदं गन्तुं मार्गभूता दैवसंस्कारा भवन्ति । ब्राह्मसंस्कारेषु वैष्णवत्वसम्पादनाय उत्तमप्रपत्तेरङभूततया गर्भाधानादिषु विद्यतेऽन्यः कश्चन विष्णुबलिसंस्कारः । अयं संस्कारस्तावद् वैखानसगृह्यसूत्रे बोधायनगृह्यसूत्रे अग्निवेश्यगृह्यसूत्रे च उपदिष्टो वर्तते । विष्णुबलिसंस्कारस्याऽस्य स्वरूपं कीदृशमिति ? इदानीं यथामति पत्रेऽस्मिन् मयाऽत्र परिशील्यते । संस्कारस्यावश्यकता ऋतुसडमन-गर्भाधान-पुंसवन-सीमन्त-विष्णुबलीति पञ्चसंस्कारा गर्भसंस्कारा भवन्ति । गर्भसंस्कारस्यान्तिमो विष्णुबलिसंस्कारः । वैखानसा अभिप्रयन्ति, गर्भरक्षणार्थम् आगर्भवैष्णवत्वसिद्ध्यर्थं गर्भचक्राङ्गणदीक्षासम्पादनार्थमष्टमे मासे अयं च संस्कारोऽवश्यमनुष्ठेय’ इति । गर्भोपनिषदि ‘अष्टमे सर्वसम्पूर्णो भवतीति’ उक्तरीत्या अष्टमे मासे मातृगर्भे विद्यमानः शिशुः सर्वाङः सर्वलक्षणसम्पन्नो भवतीति धिया तस्मिन्नेव मासे भगवतः स्थितिकारकस्य श्रीमहाविष्णोरनुग्रहसम्पादनार्थं प्रथमगर्भे विद्यमानाय शिशवे भगवच्छक्तिं प्रेषयन्ति अनेन संस्कारेण । अष्टमे मासे पूर्वपक्षे पुण्ये नक्षत्रे सप्तम्यां द्वादश्यां वा तिथौ रोहिण्यां श्रावण्यां वा नक्षत्रे अयं संस्कारः करणीय इति अग्निवेश्य’ - बोधायन गृह्यसूत्रयोः अस्य संस्कारस्य कालः प्रतिपादितो वर्तते । 19
संस्कारप्रयोगः विष्वक्सेनं सम्पूज्य पुण्याहजलैः सर्वं सम्प्रोक्ष्य होमं हुत्वा गृहस्थः केशवादिद्वादशमूर्तीन् विष्णुना सह आवाह्य भगवद्विग्रहाणां स्नपनविधानेन स्नपनं कृत्वा अभ्यर्च्य विशेष ं विष्णुदैवत्यैर्मन्त्रैर्द्वादशाहुतिभिराज्यहोमं हुत्वा आज्यसंयुक्तं पायसं विष्णवे विनिवेद्य तेन होमः कार्यः । ततः ऋग्यजुस्सामाथर्वणैर्मन्त्रैर्वैष्णवैर्मन्त्रैश्च विष्णुं संस्तुत्य प्रणामैः पायसशेषं पत्नीं प्राशयेत् ।
विशेषेण सुदर्शन पाञ्चजन्यमन्त्राभ्यामायुधौ द्वौ शङ्खचक्रौ अग्नौ तप्त्वा पायसे निक्षिप्य पायसं पत्नीं प्राशयेद्यजमान इति आनन्दसंहितायामुपदिष्टम्। अनेन कर्मणा धन्यो भाग्यवान् गर्भवैष्णवो गर्भचक्राङ्कितः सुतो जनिष्यतीति’, अयञ्च जनो मन्त्रसंस्कृतोऽपि भवेदिति स्पष्टमवगम्यते । पाञ्चरात्रदीक्षोक्तवज्जननानन्तरं भुजाभ्यां तप्तचक्राङ्गणं निषिध्यते वैखानसग्रन्थे । अनेन विष्णुबलिना वीर्यवत्तरः पुरुषो जन्यत इति बोधायन’ - अग्निवेश्य- गृह्यसूत्रयोर्विव्रियते“ । संस्कारफलम् सर्वकारणभूताय श्रियः पतये शेषभूतस्याऽस्य दासस्यानुसन्धानविधानमिति या वैदिकी उत्तमप्रपत्तिरस्ति तस्याः प्रतीकभूतः, नारायणायैव सर्वकालसर्वावस्थोचित- सर्वविधकैङ्कर्याणि स्युरिति भावनया सर्वकारणभूताय विष्णवे तुभ्यमिति भरन्यासप्रकारो यो भवेत् तस्य प्रमेयभूतः, महाविश्वासपूर्वकमनन्यसाध्ये स्वाभीष्टे या शरणागतिर्वर्तते तस्याः निदानभूतः, दिव्यायुध-दिव्यभूषण-दिव्यपरिजन अप्राकृत- अप्रमेय- सत्यकाम - सत्यसङ्कल्पत्वादिगुण-रूप-सौन्दर्यादिभिः विराजमानस्य श्रीमहाविष्णोरर्चनाविधौ गुरुशिष्यपरम्परानुगतेन वैदिकविधानेन योग्यतासम्पादनार्थञ्च अयं विष्णुबलिसंस्कार उद्दिष्टो भवेदिति वैखानसग्रन्थाः विस्तृततया प्रतिपादयन्ति। संस्कारमन्त्राः 20 ॐ भूः पुरुष -In Public domai भुवः पुरुष Digitization Muthulakshmi Research Academy ॐ सुवः पुरुष ॐ भूर्भुवस्सुवः पुरुष केशव- नारायण- माधव- गोविन्द- विष्णु- मधुसूदन- त्रिविक्रम- वामन- श्रीधर- हृषीकेश- पद्मनाभ- दामोदर- ‘आपोहिष्ठा’ ‘हिरण्यवर्णाः’ ‘पवमानस्सुवर्जनः’ ‘अतो देवा’ ‘विष्णोर्नुकं’ ‘तदस्यप्रिय’ ‘प्रतद्विष्णुः’ ‘परो मात्रया’ ‘विचक्रमे ’ ‘त्रिर्देवः पृथिवी’….. 21 am Research Academy In अग्निवेश्य बोधायन गृह्यसूत्रेषु त्रिषु ईमें विष्णुबलिसंस्कारमन्त्रा एकरूपतया प्रतिपादिता इति वक्तुं नास्ति विप्रतिपत्तिः । विष्णोरर्चनाविधौ अधिकारसिद्ध्यर्थमागर्भवैष्णवत्वसम्पादनार्थमुत्तम- प्रपत्तेर्निरूपणार्थं शरणागत्या भगवतः प्राप्त्यर्थञ्च विष्णुबलिसंस्कारो वैदिकमार्गेण वैखानसकल्पसूत्रादि-ग्रन्थेषूपदिष्टो वर्तत इति । टिप्पणी 9. श्रीवैखानसमहिममञ्जरी २. अग्नि.गृ.सू. २.५.७ ३. बो.गृ.सू. १.११.२ ४. ५. ६. श्रीवैखानसकल्पसूत्रम् (स्मार्तम् ३.१३) दशमोऽध्यायः । त्वत्सुतो भाग्यवान् धन्यो गर्भवैष्णवसंज्ञिकः । अप्राकृतो महात्माऽसौ गर्भचक्रेण लाञ्छितः ॥ ७. बो.गृ.सू. १.११.१४ आनन्दसंहिता १० अध्यायः ८. अग्नि.गृ.सू. २.५.७ ९. दशविधहेतुनिरूपणम्, वैखानसमहिममञ्जरी, आनन्दसंहिता । 22 22 अग्निवेश्यगृह्यसूत्रम् उपयुक्तग्रन्थाः यूनिवर्शिटी आफ् ट्रावन्कोर् त्रिवेन्ड्रम् १९४० आनन्दसंहिता वैखानसग्रन्थमाला ईगावारिपालेम् १९२५
श्रीवैखानसगृह्यसूत्रम् ति.ति.देवस्थानानि, तिरुपतिः १९६७ दशविधहेतुनिरूपणम् वैखानसग्रन्थमाला ईगावारिपालेम् १९३१ बोधायनगृह्यसूत्रम् पाणिनि वैदिकग्रन्थालयः । न्यूदिल्ली १९८२ 23 In Puglic dospain Digitization Muthulakshmi Research Academy श्रीवैखानसपाञ्चरात्रयोर्मतभेदः अचिन्त्यमद्भुतं दिव्यम् आलयाङ सुदर्शनम् । विष्णुरूपं ध्वजस्तम्भं तं नमामि हृदा सदा || अर्चास्वरूपस्य भगवतः श्रीमन्नारायणस्य परिषद्गणेषु अन्यतमः गरुडः । अयं ध्वजाग्रभागे स्थित्वा भगवतः श्रीमहाविष्णोरागमनं संसूचयन् तस्य रथस्य गमनागमनाय कारणभूतो वर्तते। आलयेषु विद्यमानानि गोपुर-मण्टप-प्रतिमा-पीठ- ध्वजस्तम्भादीनि सर्वाणि देवालयस्य प्रधानतमानि अङानि भवन्तीति शिल्पागमग्रन्थेषु सर्वेषु सर्वत्र दृश्यते । आलयाङेषु प्रधानतमम् अ ध्वजस्तम्भः स्यात् । ध्वजस्तम्भोऽयम् आलयान्तर्गतस्य देवस्य विजयसूचको भवति । आकाशात् भूमेरागतानां यक्षभूतप्रेतपिशाचादिराक्षसगणानां निवारणार्थमेव ध्वजस्तम्भः कल्प्यत इति च वक्तुं नैव संशीतिलेशः । विशेषतः उत्सवदिनेषु नित्यनैमित्तिककाम्यार्चनादिकर्मसु ध्वजस्तम्भान्तर्गत- वाहनस्वरूपो गरुडः देवब्रह्मवैकुण्ठादिलोकेषु स्थितानां देवता-नामाह्वानार्थं निर्णीत इति भगवतोऽर्चावतारस्य अखिलहेयप्रत्यनीककल्याणगुणाकरस्य अचिन्त्याद्भुतनित्य- यौवनस्वभावलावण्यरन्नाकरस्य श्रीमन्नारायणस्य गुणगणान् प्रतिपादयितुं विज्ञापयितुं स्थानजनमनोद्रव्यादीनां पवित्रीकरणार्थञ्च अयं निर्दिष्ट इति गरुडयुतध्वजस्तम्भः सर्वेष्वपि आलयेषु अवश्यं संस्थापनीय इति च आगमविद्वांसो मुक्तकण्ठेन घोषयन्ति। ध्वजस्तम्भः विना विष्णुयागः क्रियते स च निष्फलो भवतीति अवश्यं ध्वजस्तम्भः संस्थापनीय इति च आगमग्रन्थानाम्’ आशयो वर्तते । अस्माभिः द्रष्टुं शक्यते ध्वजस्तम्भमधिकृत्य विस्तृततया शिल्पग्रन्थेषु वास्तुग्रन्थेषु वैखानसादितन्त्रग्रन्थेष्वपि । वैष्णवागमयोः श्रीवैखानसपाञ्चरात्रयोर्ध्वजस्तम्भकल्पनं कीदृशं वर्तते ? कुत्र साम्यं वरीवर्ति, कुत्र वैषम्यं प्रतिपाद्यते इति ध्वजस्तम्भकल्पने श्रीवैखानसपाञ्चरात्रयोर्मतभेदः इति पत्रेऽस्मिन् मयात्र विचारः क्रियते । ..24
प्रथमतः श्रीविखनसमुनिना प्रवर्तिते वैखानसागमे १. ध्वजस्तम्भदारवः २. ध्वजस्तम्भायामः ३. ध्वजस्तम्भस्थानाम् ४. ध्वजस्तम्भस्थापनमन्त्राः इत्येते विषयाः विचारार्थं स्वीकृता वर्तन्ते । ततः पाञ्चरात्रानुरोधेन परामृश्यन्ते च । ध्वजस्तम्भदारवः यजमानो ब्राह्मणश्चेत् वेंणुदारुः क्षत्रियश्चेत् जातिदारुः वैश्यश्चेत् चम्पकदारुः शूद्रश्चेत् क्रमुको दारुः सङ्ग्राह्या इति वैखानसग्रन्थाः समानतया सुस्पष्टम् उपदिशन्ति। ध्वजदण्डम् ऋजुं क्रिमिकोटररहितम् अनुद्वेजनम् अशनिहतं वातपतितं स्वयं शीर्णं सुषिर - कीट-कोटर वक्रवर्जितं गृह्णीयादिति विमानार्चनाकल्प’- ज्ञानकाण्डयोः’ ध्वजस्तम्भलक्षणं सुस्पष्टं प्रोच्यते । ध्वजस्तम्भायामः ध्वजस्तम्भो विमानसमः पादहीनः अर्धहीनो वा कल्पनीय इति वैखानसग्रन्थाः आदिशन्ति । विमानार्चनाकल्पानुरोधेन’ विमानात् पादाधिकः अर्धाधिको वा ध्वजस्तम्भः स्थापयितुम् अपि शक्यते । ध्वजस्तम्भस्थानम् यूथाधिपाक्षहन्त्रोः पृष्ठे चक्रस्य पृष्टे वा ध्वजस्तम्भस्य स्थानं निर्दिशति विमानार्चनाकल्पः। देवस्य पीठगोपुरयोर्मध्ये पञ्चपदानि परिकल्प्य पीठादारभ्य पञ्चमे पदे ध्वजस्तम्भस्य स्थानं कल्पयेदिति प्रकीर्णाधिकारे’ विशेषतया दृश्यते । ध्वजस्तम्भस्थापनमन्त्राः ध्वजमन्त्रेण ध्वजस्तम्भस्थापनं कार्यमिति प्रकीर्णाधिकारे’ निर्दिशति चेत्, विमानार्चनाकल्पः॰ आदिशति आचार्यः शकुनसूक्तं जपन् ध्वजदण्डं संस्थापयेदिति। 25
एतावत्पर्यन्तं वैखानसग्रन्थानुरोधेन ध्वजस्तम्भविषयाः परामृष्टाः । इदानीं श्रीमन्नरायणस्य मुखोद्गते पाञ्चरात्रागमे कथमेते प्रतिपादिताः कुत्र साम्यं ? कुत्र वैषम्यं ? वरीवर्तीति च यथामति विचारयामः । ध्वजस्तम्भदारवः ध्वजस्तम्भनिर्माणार्थं स्वीकृताः दारुविशेषाः त्रिविधा भवन्ति अन्तस्सार- बहिस्सार-निस्सारा इति । चन्दनादिवृक्षदारवः अन्तस्साराः, क्रमुकादयो बहिस्साराः, सारहीनाः निस्सारा इति पाद्मसंहितायां " प्रोच्यते । चम्पक-देवदारु-चन्दन- खदिर-सालवृक्ष - बिल्व- ककुभालकादयः दारवो अन्तस्साराः, क्रमुक-नालिकेर - हिन्ताल-ताल-वेणुदारवो बहिस्साराः, किंशुकाद्या दारवो निस्सारा इति । एतेषु अन्तस्सार - बहिस्सारा एव स्तम्भनिर्माणार्थं सङ्ग्राह्या भवन्तीति विस्तृतया पारमेश्वरसंहितायां दृश्यते । आर्द्रं नवम् ऋजुं स्निग्धं वक्रस्फोटनवर्जितम् अयुग्मपर्वकं शुद्धं सत्वचं सुस्थिरं दारुमेव स्तम्भार्थं गृह्णीयादिति तत्रैव विशेषतया विव्रियते । १३ चन्दनं चम्पकं बिल्वम् अर्जुनं तेकं खदिरं सालं तिन्दुकं चाष्टकं क्रमुकं नालिकेरकं तालं वेणुं यथासम्भवेन सङ ह्णीयादिति विष्वक्सेनसंहितायां" दृश्यते। वर्णानुसारेण दारुसङ्ग्रहणं वैखानसागमे दृश्यते चेत् पाञ्चरात्रागमे अन्तस्सार-बहिस्सारदारुणां नामानि सुस्पष्टं प्रोच्यन्ते । दारुसङ्ग्रहणविषये किञ्चिदत्र वैषम्यम् अस्त्यपि क्रिमिकोटररहितदारुरेव सङ्ग्राह्य इति विषये उभयोरागमयोः साम्यमेव दरीदृश्यते । ध्वजस्तम्भायामः शततालायामः अशीतितालायामः प्रासादस्य गोपुरस्य वा समानेन ध्वजस्तम्भस्य आयामः कल्पनीय इति विश्वामित्रसंहितायां " प्रोच्यते । शततालायामः, पञ्चाशत्तालायामः, पञ्चविंशतितालायामः अशीतितालायामः चत्वारिंशत्तालायामः गोपुरस्य समानायामः स्तम्भसमानायामः स्तम्भमध्यसमानायामः प्रासादसमानायामः इत्येतेषु आयामेषु अन्यतमेन ध्वजस्तम्भस्य आयामः कल्पनीय 26
इति सविस्तरं विष्वक्सेनसंहितायाम् उपदिश्यते। प्रासादसमः शिखरसमः कण्ठसमः गोपुरसमो वा ध्वजस्तम्भायामः कल्पनीय इति सविस्तृतं निरूप्यते पारमेश्वरसंहितायाम्" । पाञ्चरात्रग्रन्थापेक्षया स्तम्भायामः तालभेदेन बहुविधा भवन्ति । विमानानुसारं ध्वजस्तम्भः कल्पनीय इति वैखानसग्रन्थाः प्रतिपादयन्ति पाञ्चरात्रग्रन्था उपदिशन्ति ध्वजस्तम्भायामः गोपुरसमानेनापि कल्पयितुं शक्यत इति । परीशीलनेनानेन ध्वजस्तम्भायामकल्पने वैषम्यमेव प्रतिभाति उभयोश्शास्त्रयोः । ध्वजस्तम्भस्थानम् देवालये बलिपीठस्य अग्रभागे गोपुरस्य बहिः प्राडणे वा ध्वजस्तम्भस्स्थापनीय इति ध्वजस्तम्भस्य स्थानं पाद्म “विश्वामित्रसंहितयोः " समानतया उपदिश्यते । द्वितीयावारणे तृतीयावारणे चतुर्थावरणे वा गोपुरस्य अन्तरे बलिपीठाद्बहिः प्रदेशे वा ध्वजस्तम्भस्य स्थानं भवेदिति पारमेश्वरसंहितायाम्” आदिश्यते । किञ्चन सादृश्यमेव दृश्यते ध्वजस्तम्भस्थानविषये उभयोर्वैखानसपाञ्चरात्रयोः । ध्वजस्तम्भस्थापनमन्त्राः पारमेश्वरसंहितायां गरुडमन्त्रेण ध्वजस्तम्भस्संस्थापनीयो भवेदिति दृश्यते। विश्वामित्र``-पाद्मसंहितयोः ३ विष्णुसूक्तेन ध्वजस्तम्भः स्थापयितुं शक्यत इति प्रतिपाद्यते । स्थापनमन्त्रप्रतिपादनविधाने उभयोर्वैखानसपाञ्चरात्रागमयोः ऐकमत्यं नावहतीति स्फुटमवगम्यते अस्माभिः । एतावता परिशीलनेनानेन प्रबन्धेन ध्वजस्तम्भस्वरूपनिरूपणे, विमानसमायामप्रतिपादने, बलिपीठस्य अग्रस्थानकल्पने च उभयोश्शास्त्रयोः साम्यं, ध्वजस्तम्भायामे स्थाननिरूपणे मन्त्रप्रतिपादने च उभयोः शास्त्रयोः वैषम्यं च दरीदृश्यत इति निष्कर्षः । विष्णोः प्रधानदेवत्वमङ्गीकृत्य श्रीमन्नारायणस्य गुण-स्वरूप - वैभव- 27
शीलद्यंशानां वर्णनविषये, आलयनिर्माण-विग्रहप्रतिष्ठा-अर्चन - स्नपन -उत्सव- प्रयाश्चित्तादिकर्मणां प्रतिपादने च तत्र तत्र वैषम्यं तत्र तत्र साम्यं च उभौ आगमी प्राप्नुतोऽपि मोक्षप्राप्युपदेशविषये समानत्वञ्च प्राप्नुत इत्यपि वक्तुं नास्ति संशीतिलेशः | आर्षधर्मप्रबोधने वैदिकमार्गनिरूपणे विष्णोः परतत्त्वप्रतिपादने च आगमानां गरिमा इयत्ता इति वक्तुं नैव वयं समर्थाः ।
वैखानस पाञ्चरात्रानुसारिषु दिव्यालयेषु ध्वजस्तम्भः भगवतः श्रीमन्नारायणस्य वैभवगुणनिरूपणसूचको भूतादिनिवारको देवताबृन्दसमाकर्षकश्च भवेदिति उक्त्वा मया विरम्यते । देवगणसमाकर्षं भूतगणनिवारकम् । पवित्रं गरुडस्तम्भं विष्णुध्वजं नमामि तम् ।। इति शम् टिप्पणी 9. अध्वजो विष्णुयागस्तु निष्फलः स्यात् न संशयः । विष्वक्सेनसंहिता - २६, २० २. ३. 28 हरेस्तु पुरतो नित्यं भूतपीठध्वजस्तथा । नियमेन प्रतिष्ठाप्यौ हीनयोर्नोत्सवस्तयोः ॥ तस्मात् सर्वप्रयत्नेन तयोस्संस्थापनं चरेत् । प्रतिष्ठोक्तविधानेन प्रतिष्ठां कारयेत् क्रमात् ।। खिलाधिकारः, ३२, १२-१३ ० खिलाधिकारः - ३२, १९-२० ध्वजार्थं ब्राह्मणानान्तु वेणुदण्ड उदाहृतः । नृपाणां जातिवृक्षेभ्यो वैश्यानां चम्पकस्तथा । शूद्राणां क्रमुकश्चैव सम्प्रोक्तः पुष्टिकामिनाम् || ज्ञानकाण्डः ८९ अध्यायः, क्रियाधिकारः १४, १५, विमानार्चनाकल्पः .५१ पटलः ५१, पटलः
४. ज्ञानकाण्डः ८९ अध्यायः ५. विमानात् पादहीनं वा विमानार्धमधापि वा । खिलाधिकारः ३२, १५० तद्विमानसमायामं पादोनं वाऽर्धमेव वा ।। क्रियाधिकारः १४, १७० विमानस्य समं पादहीनमर्थं वा आयतम् || काश्यपज्ञानकाण्डः ९१ अध्यायः ६. विमानसमं पादाधिकं अर्धाधिकं पादहीनम् अर्धहीनं वा ॥ विमानार्चनाकल्पः ५१ पटलः ७. ५१ पटलः ८. अथ वक्ष्ये ध्वजस्थानं यथाशास्त्रविनिश्चितम् पीठगोपुरयोर्मध्ये पञ्चभागं प्रकल्प्य च ॥ पीठात् त्यक्त्वा चतुर्भागं पञ्चमे ध्वजसंस्थितिः । तत्सन्धौ तु प्रशस्तं स्यात् यथासम्भवमाचरेत् ।। २७, ३०६-३०७ ९. स्थापयित्वा ध्वजं तत्र ध्वजमन्त्रेण मन्त्रवित् ॥ २४, ४६ ० १०. ५१ पटलः ११. अन्तस्सारो बहिस्सारो निस्सारो त्रिविधस्तरुः । क्रमुकादिबहिस्सारं प्रशस्तं विदुरुत्तमम् ॥ अन्तस्सारं चन्दनादि प्रशस्तं स्तम्भकल्पने । निस्सारं वर्जयेत् स्तम्भं शततालायतं शुभम् || १०, १०३-१०४ १२. १६, ३८५-३८८. १३. १६, ३८९ १४. २६, १८-२०० १५. १६. आयामः शततालस्स्यात् विंशन्यूनोऽपि वा भवेत् । मङ लप्रमाणेन स्तम्भस्य द्विजपुडव ! ॥ उच्छ्रायेण समानो वा प्रासादस्य महामते । गोपुरोच्छ्रायमाने वा गरुडस्तम्भ उच्यते ।। १७, ७९-८० २६, २०-२२ 29
१७. १६, ३९८ - ३९९ १८. १८, १००, १०२ १९. १७, ७६ २०. १६, ३८०-३८३ ० २१. २२. ध्वजपीठस्थिते गर्ते रत्नधान्यानि निक्षिपेत् । देशिकस्तार्क्ष्यमन्त्रेण ततो ब्राह्मणसत्तमैः ।। १६, ४११ १७, ८८ २३. १०, ११२-११३ 30 उपयुक्तग्रन्थाः काश्यपज्ञानकाण्डः तिरुमल तिरुपति देवस्थानम्, तिरुपतिः -१९६० क्रियाधिकारः श्रीवेंकटेश्वरप्राच्यग्रन्थमाला, तिरुपतिः -१९५३ खिलाधिकारः तिरुमल तिरुपति देवस्थानम्, तिरुपतिः - १९६१ प्रकीर्णाधिकारः श्रीवैखानसग्रन्थमाला, ईगावारिपालेम् -१९३१ श्रीपारमेश्वरसंहिता कोदण्डरामालयः, श्रीरङम् -१९५३ पाद्मसंहिता पाञ्चरात्रपरिशोधनापरिषत्, मद्रास् -१९८२ विमानार्चनाकल्पः श्रीवैखानसग्रन्थमाला, ईगावारिपालेम् -१९२७ विश्वामित्रसंहिता केन्द्रियसंस्कृतविद्यापीठम्, तिरुपतिः - १९७० विष्वक्सेनसंहिता केन्द्रियसंस्कृतविद्यापीठम्, तिरुपतिः -१९७२ 31
५. वैनतेयविषये श्रीवैखानसपाञ्चरात्रयोर्मतभेदः अथेदानीं प्रस्तूयते भगवतः श्रीमन्नारायणस्य दिव्यवाहनस्य गरुडस्य स्वरूपस्थानादीनां विषये प्रथितयशसोः श्रीवैखानपाञ्चरात्रयोः भगवच्छास्त्रयोः साम्यं वैषम्यं च । विष्ण्वर्चना-प्रतिष्ठा-उत्सवाद्यंशानां स्वरूपनिरूपणे किञ्चन सादृश्यं किञ्चन वैसादृश्यम् उभयोः वैष्णवागमयोः वरीवर्तीति प्रत्यक्षगोचरोऽयं विषयः । सूक्ष्मेक्षिकया परिशीलनेन गरुडस्य स्वरूप - स्थान -मन्त्र- फलविषयेषु भेदः साम्यं च स्पष्टतया दृश्यते । कस्मिन् स्थले साम्यं ? कस्मिन् स्थले वैषम्यम्? अस्तीति प्रधानग्रन्थानामाधारेण समालोचनात्मकमेव पत्रस्याऽस्य मुख्योद्देशः । गरुडः श्रीमहाविष्णोः दिव्यवाहनमिति प्रतिपादने ऐकमत्यमालक्ष्यते उभयोः शास्त्रयोः । गरुडस्तावत् वैखानसपाञ्चरात्रदेवालयेषु नित्य नैमित्तिक काम्योत्सवेषु महोत्सवेषु प्रतिष्ठास्वपि प्रधानं स्थानमाप्नोतीति निर्विवादः । परिषद्गणेषु प्रधानः, सन्तानदोषनिवारकश्च, गर्भालये, मूलमूर्त्या सह, ध्वजस्तम्भे, परिचारकेषु, उत्सववाहनेष्वपि अयं गरुडः उभयोः शास्त्रयोः अङ्गदेवतारूपेण निर्णीतः । प्रस्तुतः । व्यासेन ग्रथिते श्रीमन्महाभारते’ आदिपर्वणि गरुडस्य जन्मवृत्तान्तः एवं कश्यपप्रजापतेः द्वे भार्ये स्तः कद्रुवा विनता चेति । कद्रुवायाः दासी विनता, विनतायाः पुत्रः गरुडः । मातरं दास्यविमुक्तां कारयितुम् अमृतकलशसम्पादने वेगेन देवलोकं गत्वा तत्र दावानलव्यापिनीभ्यः अग्निज्वालायुतेभ्यः महासर्पेभ्यः महाखड्गेभ्यश्च जित्वा अमृतकलशं प्राप्य तत् स्वीकृत्य गगनतले गच्छन्तं तं गरुडं वरप्रदानाय अपृच्छत् सन्तुष्टान्तरङ्गस्सन् श्रीमन्नारायणः । “अजरामरत्वेन श्रीमतां ध्वजलाञ्छनेन माम् अनुगृह्णन्तु भवन्तः” इति तस्य प्रार्थनां श्रुत्वा “भवान् मम वाहनरूपो भव” इति अनुजग्राह जगत्पतिः। नागजातिम् आहाररूपेण स्वीकर्तुं वैनतेयमुथपादिशति तदा देवेन्द्रः । 32
गरुत्मान्, गरुडः, तार्क्ष्यः, वैनतेयः, खगेश्वरः, नागान्तकः, विष्णुरथः, सुपर्णः पन्नगाशनः इति तस्य नामान्तराणि सन्तीति निघण्टुकारेण वर्ण्यते । अत्र प्रथमतः श्रीवैखानसरीत्या ततः पाञ्चरात्ररीत्या च वैनतेयविषयः प्रस्तूयते । वैनतेयस्वरूपम् प्रकाशमयः शुकपिञ्छाम्बरधरः मेखलायुतः सर्वाभरणभूषितः किरीटी छन्दोमयः पक्षद्वयविराजितः हिरण्मयनेत्रयुतः अञ्जलिवद्धः द्विभुजः चूडाध्वजः विशोकेशः वायुवाहनः गरुडः इति वैनतेयस्वरूपं विमानार्चनाकल्पे वर्ण्यते। . शिलया एव वैनतेयं विनिर्मापयेदिति काश्यपज्ञानकाण्डे ’ विशेषतया उपपादितं भवति। प्रतिसंवत्सरं क्रियमाणेषु महोत्सवेषु प्रारम्भदिने ध्वजारोहणम् अन्त्यदिने ध्वजावरोहणम् अवश्यं करणीयं भवेत् । ध्वजारोहणाङ्गतया ध्वजवस्त्रे विष्ण्वालयेषु सर्वेषु गरुडं सम्यक् विलिख्य प्रोक्षणादिकं कृत्वा ध्वजस्य आरोहणं कुर्वन्ति । ध्वजवस्त्रे विलिख्यमानः गरुडः वैखानसग्रन्थेषु सुष्ठु अभिवर्ण्यते । वैनतेयः वामपादं समाकुञ्चयति दक्षिणं पादं प्रसारयति । स्थितः द्विभुजः, अञ्जलियुतः पक्षद्वयसंयुक्तः सुवर्णवर्णः ललाटे ताम्रचूडः नासाग्रे श्यामवर्णः शंखसदृशनखदशनयुक्तः सर्वाभरणभूषितः उरगारूढदक्षिणभुजः हाराङ्गदनूपुरकिरीटसहितः ब्रह्मलोके स्थितान् देवान् उत्सवार्थम् अह्वयन् गरुडः नवतालेन लेखनीय इति विमानार्चनाकल्पे ’ विव्रियते । वैनतेयस्य उभयोः पार्श्वयोः व्यजनम् उपरि छत्रं दक्षिणबाहौ सर्पस्य वालः संस्थापनीयम् इति खिलाधिकारः प्रस्तौति । वामदक्षिणयोः शङ्खचक्रौ द्वौ चामरौ च अवश्यं कल्पनीयाविति ज्ञानकाण्डः” वदति । गरुडस्वरूपं तावत् ब्रह्मोत्सवप्रयोगग्रन्थे’ ‘एवमुपपादितम् । गरुडो वेदमूर्तिस्तु तप्तहाटकंसन्निभः शुकपिञ्छाम्बरधरो झल्लरीमेखलैर्युतः । 33
किङ्किणीजालसंयुक्तः कुण्डलाङ्गदहारधृत् छन्नवीरोदराबन्धः कौबेरमकुटोज्ज्वलः तैषे स्वातीदिने जातः तथाश्वरथवाहनः त्रिवृत्तन्तु शिरस्सामगायत्रं चक्षुरेव च । आत्मा स्तोमाह्वयं साम वामदेव्यं तनुस्तथा बृहद्रथन्तरे पक्षौ यज्ञा यज्ञियपुच्छकः । छन्दांस्यङ्गानि वै तस्य यजूंषि च शफाः स्मृताः ।। वैनतेयस्थानम् भगवदालयस्य द्वितीयावरणे द्वितीयांशे गरुडः संस्थापनीय इति विमानार्चनाकल्पे वैनतेयस्य स्थानं निर्दिश्यते । प्रथमावरणेऽपि स्थापनीयः भवेदिति क्रियाधिकारे” प्रस्तूयते । देवदेवस्य अभिमुखं वैनतेयं संस्थाप्य अर्चयेदिति भृगुः क्रियाधिकारे " आदिशति । नित्याराधने रथ-गज-तुरग-अश्वेषु चतुरङ्गेषु गरुडः संस्थापनीयः इति तत्रैव” वर्ण्यते । शिष्यं परिचारकं गरुडवत् भावयेदिति विमानार्चनाकल्पः १३ प्रतिपादयति । वैनतेयमन्त्राः गरुडः पक्षिराजः सुवर्णपक्षः खगाधिप इति चत्वारि नामानि वैनतेयमुद्दिश्य प्रस्तौति वैखानसग्रन्थः " विमानार्चनकल्पः । “सुपर्णोऽसि" “हविष्मती” इति मन्त्रद्वयेन ध्वजपटस्थापनं", ‘“यमर्पयन्ती” “यस्संहरन्ती" इति मन्त्रद्वयेन गरुडमुद्दिश्य होमः१६, “शतधारगूं” “कदापिसृजत” इति मन्त्रद्वयेन गरुडस्य प्रतिष्ठा" अवश्यं करणीया इति वैखानसग्रन्थेषु वैनतेयमन्त्राः प्रतिपादयन्ति । .वैनतेयार्चनफलम् गरुडस्य निवेदितमन्नं पुत्रकामिन्यः स्त्रियः भुञ्जते चेत् तासां पुत्रोत्पत्तिः जायते“ इति, नित्यार्चनायां वैनतेयं सम्यक् प्रतिष्ठाप्य अर्च्यते चेत् सन्तत्यभिवृद्धिः 34
वाहनाभिवृद्धिः सर्वकामप्राप्तिः विष्णुलोकावाप्तिश्च सम्भवतीति”, गरुत्मतः अर्चनाभावे शतृवृद्धिः जायते" इति उपदिश्यते वैखानसग्रन्थेषु । अनेन श्रीवैखानसभगवच्छास्त्रग्रन्थानामाधारेण वैनतेयस्य स्वरूप-स्थान- मन्त्र-फलविषयाः प्रतिपादिताः । ततः श्रीपाञ्चरात्रभगवच्छास्त्रानुसारेण कथमेते समभिवर्णिता इति सादृश्यविवेचनसरण्या विमृश्यन्ते । वैनतेयस्वरूपम् . तीक्ष्णदंष्ट्रः बृहत्कायः नीलकुंचितनासिकायुतः तप्तकाञ्चनसदृशः सौम्यः ईषत् प्रहसिताननः विचित्राङ्गः नागराजभूषितः नवतालैः निर्मितः वैनतेयः ध्वजपटे स्थापनीय इति वैनतेयस्वरूपं नारदीयसंहितायां " प्रतिपाद्यते । पार्श्वयोरुभयोः वैनतेयस्य शङ्ख, चक्रं, शार्ङ्ग, बाणः, गदा च कल्पनीयानीति विश्वामित्रसंहिताः प्रतिपादयति । ध्याने वैनतेयस्वरूपं स्पष्टतया वैखानसग्रन्थोक्तवत् पाञ्चरात्रग्रन्थेष्वपि दृश्यते । वैनतेयस्थानम् तृतीयावारणस्य बहिः प्रदेशे भगवतः प्रमुखे वैनतेयः कल्पनीय इति वैखानसग्रन्थानां भिन्नतया पाञ्चरात्रपाद्मसंहितायां वैनतेयस्थानम् उपदिश्यते। वैनतेयस्य विष्णुक्रान्तं नृत्तं, तालं ढक्करी इति पाञ्चरात्रसंहितायां तालनृत्ते द्वे किंचिदधिकतया प्रतिपाद्येते । अयमंशः वैखानसग्रन्थेषु कुत्रापि न दृश्यते । २४ सर्वोपद्रवविनाशिनी एका गरुडमुद्रा ५ नित्यार्चनायां स्थापनीया इति, इयं विषसंहारकर्मणि उपयुक्ता ६ स्यादिति च एकः मुद्राविशेषः अपि पाञ्चरात्रग्रन्थेषु अधिकः दरीदृश्यते। वैनतेयमन्त्राः वाहनाय महाविष्णो! तार्क्ष्यायामिततेजसे । गरुडाय नमस्तेऽस्तु सर्वसर्पेन्द्रमृत्यवे ।। अयं मूलमन्त्र इति, अनेन वैनतेयः अर्चनीय इति च नारदीयसंहितायां २७ प्रतिपाद्यते। 35
“सुपर्णोऽसि" इत्यनेन मन्त्रेणैव ध्वजारोहणं कार्यमिति वैखानसग्रन्थोक्तवत् अत्रापि दृश्यते। पक्षीन्द्र विनतादेवि पुत्ररत्न ! महाबल ! । वेदवेद्य! महाभाग ! विहगेश ! नमोऽस्तु ते ॥ अयं वैनतेयमुद्दिश्य प्रतिपादितः मन्त्रविशेषः इति श्रीमन्नारायणसंहितायांः निर्दिश्यते। पाञ्चरात्रग्रन्थेषु वैनतेयमन्त्राः वैखानसग्रन्थोक्तवत् अधिकाः न दृश्यन्ते। वैनतेयार्चनफलम् वैखानसग्रन्थोक्तवत् पुत्रोत्पत्तिः वन्ध्यादोषनिवृत्तिश्च गरुडनिवेदितप्राशनेन सिद्ध्यतीति पाञ्चरात्रग्रन्था अपि ऐकमत्येन घोषयन्त्यपि, अखण्डगुणस्थापनार्थं दोषान् दूरीकारणार्थं विघ्ननाशनार्थम् आत्मसाक्षात्कारार्थं " कल्याणार्थं च वैनतेयार्चनम् उद्दिष्टं भवतीति पाञ्चरात्रग्रन्थानां परिशीलनेन अस्माभिः ज्ञातुं शक्यते। सन्तानसाधनार्थं वैनतेये ष्टिः किञ्चिद्विवरणात्मक तया श्रीमन्नारायणसंहितायां विव्रियते। गरुडमहामन्त्राः गरुडमहाध्यानं च पाद्मसंहितायां सुस्पष्टं सविशेषं साङ्गोपाङ्गं च उपदिश्यते । एतावता वैखानसपाञ्चरात्रग्रन्थपरिशीलनेन वैनतेयस्वरूपनिरूपणे उभयोः शास्त्रयोः सादृश्यं, वैनतेयं स्थान-मन्त्र- फलनिरूपणेषु वैषम्यं तत्र तत्र वर्तमानं यत् तदेव यथा शास्त्रं यथामति प्रतिपादितमत्र मया । भगवच्छास्त्रयोरुभयोः महान् मतभेदः अस्त्यपि वैनतेयार्चनेनानेन विशिष्टफलं ध्वस्तासुरभावं रक्षसुरभावं च साध्यते सर्वैः इति विज्ञाप्य विरम्यते । टिप्पणी अमरकोशः (स्वर्गवर्गः) प्रथमकाण्डः । १. महाभारतम् (आदिपर्व) २. ३. 6. ५. विमानार्चनाकल्पः २९ पटलः । ग्राण्णैव वीशमन्येषां ध्रुवद्रव्येण कारयेत् । ३९ अध्यायः । ५१ पटलः । 36 ६. ७. ८. ९. १०.
पार्श्वयोः व्यजने कुर्यात् उपरि छत्रमेव च। वीशस्य दक्षिणे बाहो वालं सर्पस्य लेखयेत् ।। ३२, २६ - २७ दक्षिणवामयोः चक्रशङ्खौ द्वौ चामरावुपरि छत्रं ९२ अध्यायः । ब्रह्मोत्सवानुक्रमणिका पृ. २८ द्वितीयावरणे द्वितीयांशे गरुडम्। १२ पटलः । प्रथमावरणे वाऽपि द्वितीयावरणेऽपि वा । मण्डपस्य ततो मध्ये स्थापयित्वा समन्त्रकम् । २९-६१ ११. पुरस्ताद्गरुडं तस्य देवाभिमुखमर्चयेत् ॥ ९-१०२ १२. १३. १४. दर्पणे चन्द्र उद्दिष्टः चतुरङ्गेषु पक्षिराट् । क्रियाधिकारः ९-११६ ४२ पटलः । विमानार्चनाकल्पः २० पटलः । १५. विमानार्चनाकल्पः ५१ पटलः १६. विमानार्चनाकल्पः ३२ पटलः १७. क्रियाधिकारः २९-४८ १८. खिलाधिकारः ३२,५७-५८ १९. सन्ततीनां समृद्धिः स्यात् वाहनानां तथैव च। २०. सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति । काश्यपज्ञानकाण्डः ३४ अध्यायः क्रियाधिकारः २९, ६३-६४ २१. १८, २५ - २७ २२. २३. पार्श्वयोरुभयोश्चैव शंखं चक्रं सखड्गकम् । शार्ङ्गं च बाणसहितं गदामपि विलेखयेत् ॥ १७, ४१ तृतीयावरणे स्वासु दिदिक्ष्वादीन् प्रकल्पयेत् । बहिरावरणे तार्क्ष्यं भगवत् प्रमुखं तथा । पाद्मसंहिता ३-१४५ २४. पाद्मसंहिता ५, ३३-४१ २५. २६. वैनतेयस्य मुद्रेयं सर्वोपद्रवविनाशिनी । नारदीयसंहिता ६, ३६ एषा गरुडमुद्रा स्यात् विषसंहारकर्मणि। विश्वामित्रसंहिता १३, ६१ 37
१८, ५९ सुपर्णोऽसीतिमन्त्रेण ध्वजस्यारोपणं भवेत् । पाद्मसंहिता १०, ११७ २७. २८. २९. ३०. पाद्मसंहिता १०, ९६ यज्ञवैभवकाण्डः ८, ८६-८७ विश्वामित्रसंहिता १७, ६८-६९ श्रीमन्नारायणसंहिता इष्टिवैभवकाण्डः ५ अध्यायः ३१. दोषानपनय अखण्डान् गुणान् आवर्ज्य सर्वतः । ३२. ३३. ३४. विघ्नानि जहि सर्वाणि आत्मसात्कुरु मामपि ।। पाद्मसंहिता १०, ९३ नारदीयसंहिता १८, ६५ इष्टिवैभवकाण्डः ५ अध्यायः ३०, ३१६ - ३७५ अमरकोशः उपयुक्तग्रन्थाः चौखाम्बासंस्कृतसंस्थानम्, वारणासी १९९७ काश्यपज्ञानकाण्डः तिरुमलतिरुपतिदेवस्थानाम्, तिरुपतिः १९९८ क्रियाधिकारः तिरुमलतिरुपतिदेवस्थानाम्, तिरुपतिः १९५३ खिलाधिकारः तिरुमलतिरुपतिदेवस्थानम् तिरुपतिः १९९७ 38
नारदीयसंहिता : केन्द्रीयसंस्कृतविद्यापीठम्, तिरुपतिः १९७१ श्रीमन्नारायणसंहिता श्रीभाष्यकारविषयाचार्यपीठम्, श्रीरङ्गम् १९७० पाद्मसंहिता (चर्यापादः) पाञ्चरात्रपरिशोधनापरिषत्, मद्रास १९८२ ब्रह्मोत्सवानुक्रमणिका वैखानसग्रन्थमाला, नल्लूर् १९५५ महाभारतम् ओरियण्टल् बुक् कार्पोरेशन्, न्यूडिल्ली १९७९. विमानार्चनाकल्पः १ तिरुमलतिरुपतिदेवस्थानम्, तिरुपतिः १९९८ विश्वामित्रसंहिता केन्द्रीयसंस्कृतविद्यापीठम्, तिरुपतिः १९७० 39
६. देवालयीयक्रियाकलापस्य प्रचारोपायाः भारतदेशेऽस्मिन् प्रधानतया विराजमानेषु वैखानसाद्यागमग्रन्थेषु अर्चारूपस्य प्रतिष्ठा-स्नपन-अर्चन-उत्सवादिक्रियाणाम् अनुष्ठेयविधेः मुख्यतया, उपदिष्टत्वात् क्रियाभाग एव प्रधानं प्रमेयं च भवति । अतः अस्मिन् क्रियाभागे प्रधानतया अङ्कुरार्पणम् अधिवासः होमः आवाहनम् अर्चनं स्नपनं पवित्रोत्सवः उत्सवः (अयमेव ब्रह्मोत्सवः) इत्याद्याः अनेके आचरणयोग्याः प्रचारांशाश्च भवन्ति । एषु केचन अंशाः एव मया अत्र गृहीताः । तेषां प्रचारः कथमिति चेत् - १. अङ्करार्पणम् देवालयसम्बन्धिनां कर्षण - शङ्कुस्थापन - बिम्बप्रतिष्ठा - स्नपन-उत्सव - प्रायश्चित्तादीनां कर्मणामादौ अङ्कुरार्पणं विधीयते । कर्मेदं देवस्य प्रीतिकरं, हीने चेत् कार्यं सर्वं निष्फलं भवति । अतः सर्वकर्मणामादौ यनेन इदमाचरणीयमिति आगमग्रन्थाः निर्दिशन्ति । तथैव अङ्कुरार्पणे बीजन्यासः मुख्यः । बीजानामधिपतिः चन्द्रः, तस्य कालः रात्रिः तस्मात् अङ्करार्पणं रात्रावेव कर्तव्यम् । दिवाङ्कुरार्पणं न कुर्यादिति च निर्णयः, इत्याद्यांशाः सामान्यजनेभ्यः अवश्यं बोधनीयाः । २. अधिवासः बिम्बप्रतिष्ठायां निर्दिष्टेषु कर्मसु अन्यतमः अधिवासः । अयं बिम्बानां शुद्ध्यर्थं उद्दिश्यते। अहोरात्रं वा केवलं यामं वा अयं कर्तव्यः । अधिवाससमनन्तरमेव प्रतिष्ठार्थं बिम्बानि अर्हाणि भवन्ति । अतः प्रतिष्ठाकर्मणि अधिवासः मुख्यतमः । पण्डितैः अयमंशः सर्वेभ्यो बोधनीयः । ३. आवाहनम् आगमग्रन्थेषु बिम्बावाहनं प्राधान्येन उपदिश्यते । सर्वव्यापिनः परमात्मनः आवाहनम् उद्वासनं कथं सम्भवतः इति सामान्यजनसन्देहस्य समाधानम् अत्र निरूप्यते । यथा- 40 अरण्याम् अन्तर्लीनः वह्निः मथनादेव बहिर्भूतो यथा भवति, तथा विशेषध्यानेन भक्तस्य हृदि स्थितस्य देवस्य साक्षात्कारो भवति । अतः परमात्मानम् आवाह्य अर्चयेदिति आगमेषु प्रतिपाद्यते । ४. अर्चनम् प्रातःकालादारभ्य रात्रिकालपर्यन्तं भगवन्तमुद्दिश्य बहुप्रकारैः क्रियमाणं पूजनम् अर्चनमिति कथ्यते । तत्र प्रातः शयनप्रबोधनम् आवाहनं रात्रौ शयन् . उद्वासनं विधीयन्ते । अत्र प्रथमतः भगवन्तमुद्दिश्य क्रियमाणशयनप्रबोधनम् आवाहनं पिपीलिकादिसर्वप्राणिनां सृष्टेः प्रतीकं, रात्रौ शयनम् उद्वासनं लयस्य चिह्नं च संभाव्येते । भक्ताः भगवन्तं सृष्टिसमये आराधयन्ति चेत् तैः प्रतिदिनं आचर्यमाणाः लौकिकव्यवहाराः सुखमयाः भवेयुः । एवं लयसमये भगवन्तम् आराध्यमानानां भक्तानां सुखनिद्रावाप्तिश्च सिध्येत् । ५. उत्सवः सर्ववर्णाश्रमस्थजनानां धर्मप्रबोधनाय आस्तिकबुद्दिप्रेरणाय आनन्दजननाय च विशेषरूपेण उत्सवविग्रहाणां क्रियमाणं पूजनम् उत्सवपदेन आगमेषु व्यवह्रियते । अस्मिन्नुत्सवे ध्वजारोहण-देवताह्वान - बलिप्रदान - वीथ्युत्सवादिकर्माणि सन्ति । तानि सर्वाणि शास्त्रोक्तरीत्या अनुष्ठेयानि । यथा ब्रह्मेन्द्रादिदेवानाम् आह्वानार्थं ध्वजप्रेषणं, ध्वजारोहणं, देवानां मन्त्रपद्यगद्यादिस्तोत्रैः आह्वानरूपं देवताह्वानं, तेषां हविस्समर्पणं बलिप्रदानं, वृद्धजनदर्शनार्थं गरुड-गज-रथादिषु यानेषु उत्सवबिम्बानां वीथीभ्रमणरूपः उत्सवः इति च तानि कर्माणि निर्दिश्यन्ते । ग्रामादारभ्य पत्तनादिपर्यन्तं स्थितेषु देवालयेषु उत्सवोऽयं प्रतिसंवत्सरं निर्णीतकाले “ब्रह्मोत्सव" नाम्ना महता वैभवेन अद्यापि प्रचलति । आगमविद्वद्भिः अवश्यम् अयमंशः प्रचारे आनेतव्यः । ६. उपसंहारः आलयेषु देवेभ्यः अनुष्ठीयमानानाम् एषां कर्मणां मौलिकप्रचारः उक्तरूपेण आगमपण्डितैः करणीयः । वेदेषु प्रतिपादितानां यज्ञयागादिक्रतूनाम् आचरणे . 41
यत्फलं तदेव आलयेषु अर्चनादिकर्मणाम् आचरणेऽपि सिद्ध्यति । एषाम् अनाचरणे आस्तिकानां धर्मार्थ- काममोक्षरूपचतुर्विधपुरुषार्थफलप्राप्तिः क्लेशतरप्रत्यवायरूपो भवति । तस्मात् क्रियाभागान्तर्गतानाम् अङ्कुरार्पण-अधिवास-होम-विशेषपूजा- पवित्रोत्सव-प्रायश्चित्तादीनां कर्मणाम् आचरणेन भक्ताः सन्मार्गप्रवर्तकाः वैदिकधर्मप्रचारकाः आर्षसम्प्रदायपरिरक्षकाश्च भवेयुः । अतः देवालयाधिकारिणः अर्चकाः आगमविद्वांसः सर्वेऽपि शास्त्रोक्तानुष्ठानैः प्रचारैश्च कृतकृत्याः भवेयुः इति आशासे ।। (शोधपत्रमिदं तिरुमलक्षेत्रे १९९२ तमे वर्षे प्रचलिते अखिलभारतीयवेदशास्त्रसम्मेलने समर्पितमासीत्) 42
७. ब्रह्मोत्सवः भवसागरसन्तरणोपायाः दिव्य-भव्य-संस्कृतिसम्प्रदाय-परमात्मसाक्षात्कार- मनोचाञ्चल्यनिवारणहेतुभूताः आध्यात्मिकतत्त्वसुगन्धाः श्रेयःप्राप्तिसाधनमार्गाश्च वैष्णवागमग्रन्थाः भगवता श्रीमन्नारायणेन उपदिष्टाः वर्तन्ते। तत्तद्देवतानाम्ना प्राधान्यं प्रतिपादयन्तः आगमग्रन्थाः सन्ति बहवः लोके । प्रधानतया दक्षिणभारते विद्यमानेपु सुप्रसिद्धेषु आलयेषु अविच्छिन्नगुरुशिष्यपरम्परागतेन वंशपारंपर्येण च लोके लब्धप्रतिष्ठो राराजते वैखानसागमः । अयं शैव-वैष्णव- शाक्त-गाणापत्य-कौमार- सौरादिषु अन्यतमः, विष्णुपारम्यप्रतिपादकयोः वैष्णवागमयोः मुख्यतमश्च स्यात् । सर्वव्यापिनं श्रीमन्नारायणम् एकस्मिन् विग्रहे समावाह्य नित्य-नैमित्तिक- काम्य-विशेष-पक्ष-नक्षत्रोत्सवैः भगवच्छक्तिं दिनदिनाभिवृद्धिं कृत्वा तया शक्त्या सर्वाणि शुभानि च सम्प्राप्य धर्ममार्गे जीवनविधानं परिवर्त्तयितुं भक्ताः संसिद्धाः जायन्ते।
भगवद्विग्रहे विराजमानानां शक्तीनाम् अभिवृद्ध्यर्थं प्रचाल्यमानेपु आगमोक्त क्रियाविशेषेषु अन्यतमः ब्रह्मोत्सवः । अयं च उत्सवः अनितरसाधारणीभूतस्सन् भक्तेभ्यः वर्णाश्रम धर्मकर्मनिर्वाहके भ्यः. प्रवृत्तिनिवृत्तिमार्गप्रवर्त्तकेभ्यः वृद्धेभ्यः सर्वेभ्यश्च उत्साह-धैर्य-स्थैर्य-विजय- अभय- आयुः-आरोग्य-भाग्यादिसुखप्राप्तेः प्रधानं प्रमेयं च भवतीति वक्तुं नास्ति संशीतिलेशः। अयं च ब्रह्मोत्सवः वैखानसागमे कथम् उपदिष्टः ? तेन ब्रह्मोत्सवकर्मणा कीदृशं फलं अनुभवन्ति भक्ताः इति च विषयविवेचनसरण्या मया अत्र यथामति पत्रेऽस्मिन् प्रस्तूयते । वैखानसागमाक्तदिशा विव्रियमाणे अस्मिन् पत्रे - १ ) ब्रह्मोत्सवपदार्थः, २) ब्रह्मोत्सवभेदाः, ३) ब्रह्मोत्सवकालः, ४) ब्रह्मोत्सवद्रव्याणि, ५) ब्रह्मोत्सवप्रयोगः, ६) ब्रह्मोत्सवफलम् इत्येते षडंशाः अन्तर्भवन्ति, तत्र एकैकं परिशीलयामः । १. ब्रह्मोत्सवपदार्थः सवः- यज्ञः, उत्-उत्कृष्टः, उत्कृष्टः यज्ञविशेषः’ उत्सवः । ब्रह्मणः चतुर्मुखस्य पर्यवेक्षणे आदिदेवाय श्रीमन्नारायणायं क्रियमाणस्य उत्सवविशेषस्य 43
ब्रह्मोत्सवः इति। ‘“ब्रह्म’” नाम बृहत् इत्यर्थः । नित्यनैमित्तिकादिषु उत्सवविशेषेषु बृहद्रूपेण प्रचाल्यमानस्य अस्य कर्मणः ब्रह्मोत्सवः इति नामनिर्वचनं दृश्यते । “अयमात्मा ब्रह्मा’” ‘“स ब्रह्मा स शिवस्सेन्द्रः” इत्यादि श्रुतिशतसमधिगतेन ब्रह्मशब्दः श्रीमन्नारायणस्य पर्यायवाचकः भवेत् । अस्य ब्रह्मणः श्रीमन्नारायणस्य उत्सवः ब्रह्मोत्सवः इति ब्रह्मोत्सवपादर्थः त्रिधा निर्णेतुं शक्यते अस्माभिः । २. ब्रह्मोत्सवभेदाः नित्य- शान्ति - श्रद्धा इति त्रयः उत्सवभेदाः वर्तन्ते । चैत्रादि द्वादशमासेषु एकस्मिन् मासे उत्सवदिनानि सुनिश्चित्य प्रतिसंवत्सरं क्रियते चेत् स नित्योत्सवः, भय-प्रमाद-दुर्भिक्ष-व्याधि-ग्रहपीडाद्यशुभशान्त्यर्थं संकल्प्य अनुष्ठीयते चेत् स शान्त्युत्सवः, श्रद्धया धनं दत्त्वा अनुष्ठीयते चेत् स श्रद्धोत्सवः इति त्रयाणाम् उत्सवानां निर्वचनानि दृश्यन्ते। ३. ब्रह्मोत्सवकालः राज्ञः
राष्ट्रस्य-ग्रामस्य-यजमानस्य वा जन्मनक्षत्रे प्रतिष्ठादिने विष्णुपञ्चकदिनेषु मासनक्षत्रे अयनेषु वा एकम् उत्सवस्य तीर्थदिनमिति निश्चित्य तस्य दिनस्य पूर्वे नव-सप्त- पञ्च-त्रि- एक इति आह्निकेषु एकस्य त्रिगुणं द्विगुणं वा कृत्वा तेषु दिनेषु ब्रह्मोत्सवः कर्तुं पार्यते इति ब्रह्मोत्सवस्य’ कालः दृश्यते । ४. ब्रह्मोत्सवद्रव्याणि गरुडचित्रयुतध्वजवस्त्रं, भेरी-यष्टिः वितानध्वजदर्भमालातरङ्गतोरणपूर्ण- कुम्भकदलीक्रमुकदीपाङ्करैर्युता यागशाला, मालादीप-यन्त्रदीप-हस्तदीप-शूलादीपाः, भेरी-पटह-मर्दल-गोमुख-ताल- काहल-मुरज-वंश-शङ्ख-वीणादिवाद्यविशेषाः, श्वेतछत्राणि, समित् - पुष्प-दर्भ-गन्ध-धूपद्रव्य- अर्घ्यद्रव्य-नववस्त्र -धान्य- तण्डुल-घृत- दीप-हरिद्रा-क्षीरादिद्रव्याणि, नर्तक-गायक-परिचारकाः, पञ्च ऋत्विजः, अग्निकुण्डं, सृक्-सृव-जुहू-उपजुहू-अग्निहोत्रहवण्यादयः, पालाश - बिल्व-शमी-न्यग्रोध- उदुम्बर- अश्वत्थ-खदिर-प्लक्षसमिधः, पद्म-बिल्वपत्र- करवीर-कुमुद-नन्द्यावर्त-तुलसी- 44
स्थलारविन्द-विष्णुक्रान्त- पद्मादीनि पुष्पाणि, रथ- गज- तुरग-शेष-हंसादीनि यानानि एतानि ब्रह्मोत्सवोपयोगद्रव्याणि भवन्ति’ इति वैखानसागमे सुष्ठु उपदिश्यन्ते । ५. ब्रह्मोत्सवप्रयोगः मृत्संग्रहणपूर्वक अङ्करारोपणं प्रथमम् आचार्यः करोति। ब्रह्मोत्सवस्य प्रथमदिने सायंकाले ध्वजचित्रवस्त्रसम्प्रोक्षणं भेरीपूजा, इन्द्र-अग्नि-यम-निर्ऋति, वरुण, वायु, कुबेर, ईशान, ब्रह्मादि देवानाम् आह्वानं तेभ्यः बलिप्रदानं, सुमुहूर्ते ध्वजारोहणं, कुम्भस्थापनं, कुम्भपूजा, होमः इत्येतानि कर्माणि अवश्यम् अनुष्ठेयाणि स्युः । द्वितीयदिनादारभ्य आतीर्थदिनपर्यन्तं प्रतिदिनं प्रातस्सायंकालयोः विशेषहोमाः, ग्रामबलिः, वीथ्युत्सवाः कलशाराधनम्, उत्सवान्तस्स्नपनम् उत्सवादी स्नपनं च इत्येतानि अनुष्ठेयाणि भवन्ति । तीर्थदिने प्रातः चूर्णोत्सवः अवभृथस्नानं चक्रस्नानं च रात्रौ ध्वजावरोहणं पूर्णाहुतिः कुम्भस्थभगवच्छक्तिं प्रधानविग्रहे निक्षेपणं, लोकशान्तेः प्रार्थना, आचार्यसम्माननम् इत्येतानि च अनुष्ठेयाणि स्युः । उत्सवमध्ये परमात्मनः वैवाहिकक्रिया अपि कर्तव्या इति च उपदिश्यते। ६. उत्सवफलम् उत्सवमध्ये भगवन्तं ये सेवन्ते ते सर्वे यज्ञकृतफलं प्राप्नुवन्तीति, कायकृतं यत्पापम् उत्सवदर्शनेन नश्यतीति यजमानस्य दशापराः वंशपुरुषाः दशपूर्वाः आत्मा च एकविंशतिजनाः अनभिलक्ष्यं विष्णोः परमं पदं प्राप्नुवन्तीति सर्वे ग्रामवासिनः व्याधिभ्यः शान्तिं यान्ति इति च उत्सवफलं ’ वैखानसागमे सुष्ठु अभिवर्ण्यते । उपसंहारः भरतभूमौ उत्तरे दक्षिणे च विद्यमानेषु पवित्रदेवालयेषु तत्तन्मासे तत्तद्दिनेषु वैभवेन अनुष्ठीयमाने अस्मिन् ब्रह्मोत्सवे भक्ताः भवगन्तं संप्रार्थ्य दुर्गन्धकलुषि- तदोषभूयिष्ठजीवनविधानात् विमुक्तिं प्राप्य सुगन्धनिर्मलाध्यात्मिक- सम्प्रदायपरंपरापरीप्रवाहस्य वैदिकवाङ्मयस्य प्रतीकाः भवेयुः इति आशास्य विरम्यते। समत्वमाराधनमच्युतस्य 45
टिप्पणी: १. सवो यज्ञः समाख्यातः सर्वयज्ञविशेषतः । उत्कृष्टोऽयं यतः तस्मादुत्सवस्त्वितिकीर्त्यते ।। समूर्तार्चनाधिकरणम्, ५४, २ ( ति.ति. दे. तिरुपति २००१) २. ब्रह्मोत्सवानुक्रमणिका (वैखानसग्रन्थमाला, ननल्लूरु, १९५५) ३. द्वादशमासेषु एकस्मिन् मासे अब्दं प्रति तत्काले नित्यं संकल्प्य यः क्रियते स नित्योत्सवः, भयप्रमाददुर्भिक्षव्याधिग्रहपीडाद्यशुभशान्त्यर्थं संकल्प्य यः क्रियते स शान्त्युत्सवः । श्रद्धा वित्ते यदा युक्ते तदा यः सम्यक् क्रियते स श्रद्धोत्सवः भवेत् । विमानार्चनाकल्पः ५१ पटलः, तिरुमलतिरुपति देवस्थानम्, तिरुपतिः, १९९८ ४. विमानार्चनाकल्पः ५१ पटलः । ५. विमानार्चनाकल्पः ५२ पटलः । ६. क्रियाधिकारः १४ अध्यायः (ति.ति. दे. तिरुपतिः १९५३) ७. ब्रह्मोत्सवानुक्रमणिका पृ. १९६ ८. विमानार्चनाकल्पः ५४ पटलः 46
८. वैखानसागमे तत्त्वविचारः संसारसागरमज्जनोन्मज्जनान् चञ्चलचित्तान् जीवजातान् समुद्धर्तुम् अस्यां भारतभूमौ भगवता परमात्मना उपदिष्टो ग्रन्थसमूहः आगमः । आ समन्तात् गम्यन्ते व्युत्पाद्यन्ते अनेन इति, अमुं ब्रह्माणं गमयतीति च आगमपदार्थः । अयं तावत् अव्यक्तं विभुं निर्विकारं भगवन्तं नयनगोचरे रूपगुणसौन्दर्ययुते अभीप्टे यथायोग्ये विग्रहे समावाह्य तेनैव विग्रहेण स्वाभीष्टानि इहपरसुखानि च सम्पाद्य सर्वैः ब्रह्मानन्दम् अनुभोक्तुं पार्यत इत्यत्र नास्ति संशीतिः ।
आलयनिर्माण - विग्रहकल्पन - विग्रहप्रतिष्ठा- अर्चन स्नपन उत्सव- प्रायश्चित्त- ज्ञान - योगेतिविषयविवेचनप्रतिपादका आगमाः वैष्णव- शैव- शाक्त गाणापत्य सौर - कौमारादयः नैकविधाः सन्तीति सुविदितोऽयं विषयः । विष्णुः आराध्यदेव इति, तत्प्राप्तिरेव मोक्षः तस्यार्चनमेव मोक्षसाधनम् इति निरूपयितुं प्रवृत्ताः वैष्णवागमाः वैखानस - पाञ्चरात्र इति द्वेधा विभक्ता वर्तन्ते । विखनोमुनिद्वारा संप्रवृत्तः वैखानसागमः, साक्षात् श्रीमन्नारायणेन उपदिष्टः पाञ्चरात्रागमश्च । भगवदंशसम्भूतेन विखनोमुनिना श्रौतस्मार्त- धर्म - प्रवरात्मकः एको ग्रन्थविशेषः अस्मभ्यः उपदिष्टो वर्तते’ । तं ग्रन्थमाश्रित्य भृगु - मरीचि - अत्रि काश्यपाख्यैः चतुर्भिः स्वानुभवगोचरैः तत्त्वप्रतिपादनैः नैकविधैश्च अंशैः ग्रन्थाः समुपदिष्टाः वर्तन्ते । ते तावत् विमानार्चनाकल्प - क्रियाधिकार - खिलाधिकार- वासाधिकार - प्रकीर्णाधिकार-यज्ञाधिकार-समूर्तार्चनाधिकारण-ज्ञानकाण्डाः प्रधानाः सन्ति ।
- अङन्यास 1 पारमात्मिकोपनिषन्मन्त्र-यद्देवादिमूलमन्त्र - मूर्तिमन्त्र - सर्वदैवत्य - कलावाहन करन्यास - अन्तर्मातृकान्यासाद्यैः विशिष्टांशैः मूर्तित्वसम्पादनाय उद्दिष्टोऽसौ वैखानसागमः भगवतः तत्त्वप्रतिपादनपर एव इति वक्तुं न कापि विप्रतिपत्तिः । विष्णोः परदैवत्वनिरूपणे विशिष्टं स्थानम् अलङ्कर्वाणे अस्मिन् वैखानसागमे तत्त्वविचारे तत्त्वत्रयम्, अर्थपञ्चकं, भगवतः स्वरूपं, जीवस्य लक्षणं, भगवत्प्राप्तेः 47
- उपायाः, लक्ष्म्याः पुरुषकारत्वं, मोक्षस्वरूपम्, अर्चनावैशिष्ट्यम् इत्येते अंशाः यथाशक्ति यथामति मया अत्र समालोच्यन्ते ।
- तत्त्वत्रयम्
- "
- “द्वावेतौ पक्षी अचरं चरन्तौ नाधुरं व्यधुनीते यश्चैकं भुनक्ति भोको” इत्यस्मिन् श्रुतिमन्त्रे तत्त्वत्रयं निर्दिष्टं भवति । परमात्मा - जीवः - प्रकृतिः इति त्रयाणां समाहारः तत्त्वत्रयं भवति । परमात्मा प्रलयकाले जीवं प्रकृतिं च सूक्ष्मरूपेण स्वस्मिन् शरीरे संस्थाप्य स्थूलरूपेण सर्वं संसृज्य लीलाविचित्रकार्याणि च कुर्वन् आस्त इति ।
- माया प्रकृतिः मायी विष्णुः ।
- प्रकृतिपुरुषौ एतौ अनादी ||
- भगवतः माया प्रकृतिः, मायी च भगवान् विष्णुः प्रकृतिपुरुषौ उभौ एतौ अनादी स्तः । प्रकृतिः चेतना अचेतना इति द्विविधा विभक्ता । अचेतना पञ्चभूतैः मनोबुद्ध्यहंकारैः अष्टधा भिन्ना । चेतना एव जीवाः । इति तत्त्वत्रयं वैखानसग्रन्थेषु निरूपितं भवति । अर्थपञ्चकम् प्राप्यस्य ब्रह्मणो रूपं प्राप्तुश्च प्रत्यगात्मनः । प्राप्त्युपायं फलं चैव तथा प्राप्तिविरोधि च ॥ प्राप्यस्य परमात्मनः स्वरूपं जीवस्य लक्षणं भगवत्प्राप्तेः उपायाः भगवत्प्राप्तिफलं, प्राप्तिविरोधय इत्येतेषां पञ्चानां निरूपणं वैखानसागमग्रन्थेषु सुष्ठु प्रतिपादितं वर्तते । तानि परिशीलायामः ।
भगवतः स्वरूपम्
परमात्मनः स्वरूपं निष्कलं सकलम् इति द्विविधं स्यात् ।
तत्तु निष्कलं भगवान् अशरीरः सन् शरीरी, अणूनां अणुः, महतां महान्, विश्वव्यापनशील, आत्मगुहायां निहितः, निश्चलः निर्गुणः निर्विकल्पः निर्द्वन्द्वः अचिन्त्य इति ।
सकलं तावत् कुलालः यथा घटशरावादीन् कल्पयति तद्वत् जीवः भक्त्या [[48]] ध्यानमथनेन च परमात्मानं मनसि भावयति ।
तया भावनया भगवान् प्रत्यक्षो भविष्यति ।
यथा मथनात् अग्निः ज्वलति तथैव निष्कलरूपः भगवान् सकलस्वरूपं प्राप्नोतीति ।
जीवस्य लक्षणम्
‘विष्णोर् विभूतिर् एव प्रकृतिः’ ।
इदं तावत् जगद्-रूपेण परिणमति ।
चेतना अचेतना इति जगत् द्विविधं भवेत् ।
अचेतना तावत् अष्टधा भिद्यते ।
पुण्य-पाप-फलानि अनुभोक्तुम् अनेकेषु शरीरेषु प्रविश्य
शुभाशुभकर्माणि कुर्वन्तः
संसारसागारमज्जनोन्मज्जनाः जीवसमूहा एव चेतनाः ।
एते तु प्रत्यागात्मानः नित्याः मुक्ताः बद्धा इति त्रिविधा वर्तन्ते ।
नित्यास् तावत् अनन्तगरुडविष्वक्सेन-श्रीभूत??-सनक-सनन्दादयः ।
मुक्ताः भगवदुपासनेन मोक्षं प्राप्ताः ।
संसारिणस् सन्तः स्वकर्मणा प्रवर्तिताः एव बद्धा इति ।
भगवत्प्राप्तेः उपायाः
क्रियावानेष ब्रह्मविदां वरिष्ठः " आत्मक्रीडा आत्मरतिः १२ प्लवाह्येते अदृढा यज्ञरूपा'३ इत्यादि श्रुतिप्रमाणैः वैखानासानां जीवनमार्गः उत्तमप्रपत्तिपूर्वकभगवदाराधनेनैव निर्दिष्टः । दर्शन-स्पर्शन-विविधोपचार- नृत्त-गीत - वाद्यकरणाद्यैः भक्तसखः भक्तबन्धुः भगवान् परमात्मा आनन्दम् अनुभवति । बालाः यथा क्रीडनैः तृप्तिमनुभवन्ति तद्वत् परमात्मा तावद्भिः क्रियाविशेषैरेव प्रवर्तते । ते तु क्रियामार्ग वैखानसैः अनुष्ठीयन्ते इति निश्चप्रचोऽयं विषयः । एव सर्वलक्षणसंपन्नः गर्भस्थजीवः विष्णुबलिसंस्कारेण अनन्यसाध्यस्वाभीष्ट- महाविश्वासपूर्वकशरणागतिं प्राप्नोति । सैव भगवत्प्राप्तेः उपायभूता भवतीति च वैखानसानां सिद्धान्तः ।
लक्ष्म्याः पुरुषकारत्वम्
। योवा भूते र्भूतिरासीत् इत्यस्मिन् मन्त्रे " आनन्दरूपस्य भगवतः 49
आनन्दरूपिणी लक्ष्मी, न तु पृथक् परतत्त्वरूपा इति श्री श्रीशयोः सम्बन्धः चन्द्र- चन्द्रिकयोः सम्बन्धवत् वर्ण्यते । ‘ईश्वरीं सर्वभूतानां १६ अस्येशाना जगतो विष्णुपत्नी " इत्याद्यैः मन्त्रैः लक्ष्म्याः सर्वेश्वरीत्वम् आत्मेश्वरीत्वञ्च प्रत्यपादि । विष्णोः संकल्पानुरूपा नित्यानन्दमयी मूलप्रकृतिरूपा प्रमाणाप्रमाणसाधारणी अव्यक्तरूपिणी आद्यन्तरहिता लक्ष्मीः" । इमां लक्ष्मीमाश्रित्य जीवाः विकारगुणान् प्राप्य प्रकृतिजान् गुणान् अनुभूताः वर्तन्ते” । प्रकृतिस्थस्य परमपुरुषस्य श्रीमन्नारायणस्य अपृथक्सद्धरूपेण प्रवर्तितायाः लक्ष्म्याः विशिष्टं पुरुषकारत्वञ्च आपाद्यत" इति । एतावता लक्ष्मीविशिष्टः श्रीमन्नारायण एव प्रपत्तेर्योग्य इति निष्कर्षः। अर्चनावैशिष्ट्यम् ‘प्रवः पान्तमन्थसो धियायते’ इति श्रुतिरीत्या " अज्ञानात् अस्मान् उद्धर्तुं सर्वपापनिवृत्तिपूर्वकमुक्तिं प्रापयितुं विष्ण्वर्चनं प्रतिपादितं वर्तते । अर्चनमिदं सद्वारकम् अद्वारकमिति द्विविधं स्यात् । अष्टाक्षर
द्वादशाक्षर पुरुषसूक्त पारमात्मिकादिमन्त्रैः यत् क्रियते तदेव अद्वारकं भवतीति, इतरमन्त्रैः यत् क्रियते तदेव सद्वारकं भवेत् । जप-होम-ध्यानैर्युतम् एतत् अद्वारकं, ज्ञान-शक्ति-बल- ऐश्वर्य-वीर्य-तेजोभिः षाड्गुण्यपरिपूर्णैर्युतस्य दिव्यदेह-दिव्यरूप-दिव्याभरण-सौगन्ध्य- सैकुमार्य-लावण्यातिशयाद्यैः संयुक्तस्य परमात्मनः साक्षात्काराय मन्त्रसाफल्याय मनोनिश्चलत्वसम्पादनाय च निर्णीयत इति वक्तुं नास्ति प्रभेदः । २३ मानसीपूजा - होमपूजा - बेरपूजा इति, एतासु तिसृषु पूजासु बेरपूजा एव उत्कृष्टतमा परिपूर्णा, भगवत्प्राप्तेः साधनतमा मुक्तेः उपायभूता च स्यादिति नास्ति विप्रतिपत्तिः । सद्वारकमिदं वैखानसग्रन्थेषु उत्तमब्रह्मविद्यानाम्ना वर्ण्यते ।
मोक्षस्वरूपम्
50
संसारवासनात् मुक्तिः एव मोक्षः ।
स च मोक्षः सालोक्य-सामीप्य-सारूप्य-सायुज्य-रूपः चतुर्विधः ।
आमोदप्राप्तिरेव सालोक्यं
प्रमोदप्राप्तिरेव सामीप्यं
सम्मोदप्राप्तिरेव सारूप्यं
वैकुण्ठप्राप्तिरेव सायुज्यं भवेत् ।
नित्यानन्दस्य अमृतरसपानवत् सर्वदा तृप्तिकरस्य नित्यनिषेवणस्य परंज्योति
परमात्म
सच्चिदानन्दस्वरूपस्य विभव ऐश्वर्य-सौशील्य दिव्याभरण - दिव्यदेह पन्नीपरिवारसंयुक्तस्य श्रीमन्नारायणस्य प्राप्तिरेव मोक्षः । तत् परमं पदं सूरयः सदा पश्यन्तीति श्रुतौ वर्ण्यते । उपसंहारः १६ जीवाः भगवन्तं समाश्रित्य अर्चनामार्गेणैव शाश्वतं स्थानं वैखानसग्रन्थेषु प्रतिपादितं यत्तत्त्वविचारम् अस्ति तदेव स्वीकृत्य जन्मसाफल्यं प्राप्नुवन्तु इत्युक्त्वा सर्वेऽपि जीवाः मङलानि च पश्यन्तु इति च आशास्य विरम्यते । टिप्पणी ‘स्वस्ति पन्थामनुचरेम’ १. अथाऽग्नौ नित्यहोमान्ते सायं प्रातरतन्द्रितः विष्णोर्नित्यार्चनं कुर्यात् सर्वदेवार्चनन्तु तत् । इति वैखानसे सूत्रे प्रोक्तं सङ्क्षेपतोऽर्चनम् ऋषिभिः तदुपन्यासो विस्तृतश्च समन्ततः । बहुप्रयोगो व्याख्यातो लोकानां हितकाम्यया काश्यपेनात्रिणा चैव मया चैव मरीचिना । सोऽयं तत्सूत्रमूलत्वात् विधिर्वैखानसस्स्मृतः।। क्रियाधिाकरः २७,८८-९१ २. पारमात्मिकोपनिषत् ४, २ ३. विमानार्चनाकल्पः ८० पटलः ४. प्रकृतिपुरुषौ उभौ अनादी । ताभ्यां लोकप्रवर्तनम् । विकारगुणास्सर्वे प्रकृतिसमुद्भूताः । कार्यकारणकर्तृत्वे हेतुः प्रकृतिः । सा प्रकृतिः श्रीरिति व्याख्याता । ज्ञानकाण्डः ३८ अध्यायः ५. सा प्रकृतिर्द्विविधा भवति । अचेतना चेतना चेति । अचेतना पञ्चभूतैः मनोबुद्ध्यहंकारैः अष्टधा भिन्ना । अन्या जीवभूता चेतनेति । 51
विमानार्चनाकल्पः ८० पटलः ६. मोक्षोपायप्रदीपिका ७. तद्ब्रह्मणो निष्किलस्सकलश्च स्वभावः विमानार्चनाकल्पः ८. तद्विष्णोः विभूतिः श्रीः सा च मूलप्रकृतिरूपा शक्तिः । विमानार्चनाकल्पः ८० पटलः ८० पटलः ९. अथ अयं देहः जन्मकृत्वा भार्यामयपाशानिबन्धितो भगवन्मायया मोहितत्त्वात् कामक्रोधलोभमोहमदमात्सर्यहिंसाऽऽदीनि करोति । योनिद्वारेण निष्क्रम्य पुनः पुनः पापीयसीं योनिं प्राप्य पुनर्जायमानः स्वर्गनरकफलेषु कर्मसु प्रवर्तते । विमानार्चनाकल्पः ८८ पटलः १०. प्रत्यगात्मानः त्रिविधाः नित्या मुक्ताः बद्धाः इति । नित्या अनन्तसनकादयः, मुक्ताः भगवदुपासने मोक्षं गताः । बद्धाः संसारिणः क्षेत्रज्ञाः बहवः । मोक्षोपायप्रदीपिका ११. मुण्डकोपनिषत् ३, १-४ १२. मुण्डकोपनिषत् ३, १-४ १३. मुण्डकोपनिषत् १, २-२ १४. दर्शनस्पर्शनविविधोपचारसमर्पणनृत्तगीतवाद्यकरणादिना भगवान् भक्तबन्धुः भक्तसख इति चोच्यते । बालः क्रीडनकैरिवेति भगवतो भक्तैः क्रीडामोदः प्रतिपाद्यते। उत्तमब्रह्मविद्यासारः ख ६८ १५. पारमात्मिकोपनिषत् ११-१ १६. श्रीसूक्तम् ९ १७. यजुर्वेदः (संहिता) ४, ४-३७ १८. तद्विष्णोः विभूतिः श्रीः सा च नित्या आद्यन्तरहिता अव्यक्तरूपिणी प्रमाणा प्रमाणसाधारणीभूता विष्णोः संकल्पानुरूपा नित्यानन्दमयी मूलप्रकृतिरूपा शक्तिः । विमानार्चनाकल्पः ८० पटलः १९. तया प्रकृत्या सदा संश्लिष्टाः पुरुषाः प्रकृतिस्था जीवा आत्मानः क्षेत्रज्ञाश्च 52
बहवः तेऽपि नित्याः । विमानार्चनाकल्पः ८० पटलः २०. मोक्षोपायप्रदीपिका ख५० २१. ऋग्वेदसंहिता २, २-२६ २२. उत्तमब्रह्मविद्यासारः ८९ २३. मानसी होमपूजा च बेरपूजेति सा त्रिधा । यज्ञेष्वेतेषु विधिवद्वेरपूजा विशिष्यते । खिलाधिकारः २, २६०, ३०- २४. संसारबन्धवासनात् मुक्तिः मोक्षः विमानार्चनाकल्पः ९४ पटलः २५. तदपि समाराधनविशेषात् चतुर्विधपदावाप्तिः, सालोक्यं सामीप्यं सारूप्यं सायुज्यमिति. आमोदप्राप्तिः सालोक्यं प्रमोदप्राप्तिः सामीप्यं, सम्मोदप्राप्तिः सारूप्यं, वैकुण्ठप्राप्तिः सायुज्यमिति । विमानार्चनाकल्पः ९४ पटलः २६. तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ऋग्वेदसंहिता १, २. उत्तमब्रह्मविद्यासारः सुन्दरराजभट्टाचार्यः उपयुक्तग्रन्थाः तिरुमलतिरुपतिदेवस्थानम्, तिरुपतिः, १९९८ काश्यपज्ञानकाण्डः रों.भ.पार्थसारथिभट्टाचार्यः तिरुमलतिरुपतिदेवस्थानम्, तिरुपतिः १९९८ क्रियाधिकारः तिरुमलतिरुपतिदेवस्थानम्, तिरुपतिः, १९५३ 53 54
खिलाधिकारः रो. भ. पार्थसारथिभट्टाचार्यः तिरुमलतिरुपतिदेवस्थानम्, तिरुपतिः १९९७ पारमात्मिकोपनिषत् दीवि वेंकटनृसिंहाचार्यः वैखानसभगवच्छास्त्रग्रन्थमाला, नल्लूरु १९४८ मोक्षोपायप्रदीपिका रघुपतिभट्टाचार्यः वैखानसभगवत्शास्त्रग्रन्थमाला, नल्लूरु - १९४८ मुण्डकोपनिषत् प्रतिवादिभयंकरम् अनन्ताचार्यः सुदर्शनमुद्राक्षरशाला, काञ्चीपुरम् - १९०५ विमानार्चनाकल्पः व.रघुनाथचक्रवर्तिभट्टाचार्यः तिरुमलतिरुपतिदेवस्थानम्, तिरुपतिः १९९८
९. वैखानसीयं जिज्ञासाधिकरणम् श्रीलक्ष्मीवल्लभारम्भां विखनोमुनिमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ।। निरुपमगुणसिन्धुः नित्यलक्ष्मीसमेतः निखिलनिगमवेद्यः सर्वजगत्कारणभूतः नित्यः निर्मलः निरवधिकः समस्तकल्याणगुणाकरः परमपुरुषश्च श्रीमन्नारायणः। निखिलजगदेकशरण्य अपहतपाप्मत्व अनवधिककृपालुत्वादि कल्याणगुणाकरस्य तस्याराधनेन मुक्तिः साध्या इति निरूपयितुं प्रवृत्ताः दशमशताब्दीयाः सर्वशास्त्रपारङ्गताः सर्वतन्त्रस्वतन्त्राः तिरुमलक्षेत्रे विराजमानस्य श्रीवेङ्कटेश्वरस्य पादपद्माराधनतत्पराः गोविन्दाचार्यस्य पुत्राश्च श्रीनिवासदीक्षिताः । श्री वैखानसकु लसम्भूताः एते तावत् परमकारुणिकस्य संसृतिसिन्धु निमज्जचेतनवर्गोद्धरणाय प्रवृत्तस्य पराशरस्य ब्रह्मसूत्राणां भाप्यं शारीरकं चतुरध्यायात्मकं च प्रबन्धम् एकमनुगृहीतवन्तः । प्रबन्धस्याऽस्य श्रीविशिष्टाद्वैतभाष्यं लक्ष्मीविशिष्टाद्वैतभाष्यमिति नामान्तरे वर्तेते ।
प्रबन्धेऽस्मिन् प्रधानप्रतिपाद्यो अंशः लक्ष्मीविशिष्टः विष्णुः एव आराध्यः, प्राप्यः, वन्दनीयः, पूजनीयश्च इति ।
विशिष्टं च विशिष्टं च विशिष्टे,
तयोः विशिष्टयोः विशिष्टयोर् अद्वैतं विशिष्टाद्वैतम्।
स्थूल-चिद्-अचिद्-विशिष्ट-ब्रह्मणः
सूक्ष्म-चिद्-अचिद्-विशिष्ट-ब्रह्मणश् च अभेदस्य प्रतिपादितत्वात्
विशिष्टाद्वैतं भवतीति निर्वचनं वक्तुं पार्यते ।
भाष्यस्याऽस्य स्वरूपनिरूपणे अध्यायाः४, पादास्तु १६, अधिकरणानि १५६, सूत्राणि च ५६५ विद्यन्ते ।
एकैकस्य अधिकरणस्य एकैकं नाम विषयप्रतिपाद्येन निर्धार्यते ।
एतेषु जिज्ञासाधिकरणम् आद्यम् अधिकरणं भवति ।
अस्मिन् जिज्ञासाधिकरणे “अथाऽतो ब्रह्मजिज्ञासा” इति सूत्रस्य विवरणं पारमात्मिकछान्दोग्याद्युपनिषन्मन्त्रैः श्रीवैखानसकल्पोक्तैः सूत्रैः तदागमोक्त-ज्ञानयोगविषयैश्च समन्वयं क्रियते ।
प्रसङ्गेऽस्मिन् लक्ष्मीविशिष्टाद्वैतभाष्य-जिज्ञासाधिकरणे के के विषयाः प्रतिपादिताः ? तेषां वैशिष्ट्यं कीदृशम् ? इति मया अत्र यथाशक्ति प्रस्तूयन्ते ।
तत्राऽपि अतः-शब्दार्थः, अथ-शब्दार्थः, ब्रह्मपदार्थः, ब्रह्मणः विशेषणानि, ब्रह्मणः निष्कलत्वं, ब्रह्मणः सकलत्वम्, उपासना भेदाः, लक्ष्मीविशिष्टविष्णुरेव आराध्यः, [[55]] वैखानसानां श्रेष्ठत्वम्
इत्येते अंशाः विषयपरिशीलनेन विषयविवेचनसरण्या च समालोच्यन्ते ।
अथ-शब्दार्थः अत्र अकारः श्रीमन्नारायणवाचकः । “अक्षराणाम् अकारोऽस्मि "” इति वचनेन अकारः परब्रह्मणः परमपुरुषस्यैव नामान्तरं वर्तते । अथ शब्दप्रयोगेन मङ्गलार्थम् आनन्तर्यार्थं च बोध्यते । शुभव्याप्तये अशुभनिरस्तये च अथ शब्दः प्रथमं प्रयोक्तं भवति । कर्मज्ञानापेक्षया ब्रह्मज्ञानसंपादनस्य प्रवृत्तिः आवश्यकी इति ज्ञापनाय अथ शब्दस्य प्रस्तावः कृतः ।
अतः-शब्दार्थः कर्मज्ञानात् ब्रह्मज्ञानम् उत्कृष्टं भवति । कर्मज्ञानेन अल्प-अस्थिरफलं संभवतीति, अनल्प-स्थिरफलं ब्रह्मज्ञानेनैव साध्यमिति हेतोः अतः शब्दः बादरायणेन सूत्रे प्रयोक्तः ।
ब्रह्म-पदार्थः
ब्रह्मणः जिज्ञासा ब्रह्मजिज्ञासा, ब्रह्मशब्दः श्रीमन्नारायणवाचकः । श्रीमन्नारायणस्यैव ब्रह्मशब्दः संगच्छते । यथा - नारायणपरं ब्रह्म तत्त्वं नारायणः परः नारायणात् ब्रह्मा जायते नारायणात् रुद्रो जायते" स ब्रह्मा स शिवस्सेन्द्र: ५ अग्निर्वै देवानामवमः विष्णुः परमः विष्णुः सर्वेषमधिपतिः परमः पुराणः तत्त्वं तत्त्वविदेकात्मा’ इत्यादिवाक्यैः श्रीमन्नारायणस्य तत्त्वमेव ब्रह्म, तद्विदः, ब्रह्मविदः इति तत्त्वशब्दः श्रीमन्नारायणे एव पर्यवस्यतीति च अवगम्यते ।
ब्रह्मणः विशेषणानि
परमात्मनः स्वरूपं द्विविधं स्यात्,
निष्कलं सकलम् इति ।
निष्कलं नाम निरवयवत्वं,
सकलं नाम सावयवत्वम्,
एतदुभयमपि तस्य ब्रह्मणः नारायणस्य [[56]] स्वाभाविकम् इति वक्तुं न कापि विप्रतिपत्तिः ।
ज्ञाता ज्ञेयवस्तुनः भिन्नत्वात्
जीवात्मानः परमात्मनः भिन्नाः भवन्ति ।
प्रलये सर्वोपसंहारकत्वं
प्रलयात् पूर्वं चराचर-प्राणिसमूहे परमात्मा नारायणः
सूक्ष्मरूपेण स्थित्वा
जगद्-रक्षण-भारं च वहतीति ।
“द्वावेतौ पक्षी अचरं
चरन्तौ नाधुरं व्याधुनीते ।
यश्चैकं भुनक्ति भोक्त्रे स्वाहा’
इति मन्त्रेण अस्माभिः अवगन्तुं शक्यते ।
ब्रह्मणः निष्कलत्वम् [[१०]]
“सुसूक्ष्मस् सार्वस् सर्वेषाम् अन्तरात्मा
तस्थुस् तस्थुषां जंगमो जंगमानाम् ।
विभुर्विभूणां विभवोद्भवाय स्वाहा”
इत्यनेन मन्त्रेण क्षीरे घृतं, तिले तैलं, पुष्पेषु गन्धः, फलेषु रसः, काष्ठेषु अग्निः सूक्ष्मरूपेण यथा वर्तन्ते, तथा चेतनाचेतनात्मकेषु सर्वेषु परमात्मा तिष्ठति । अनेन कारणेन परमात्मनः चिदचिद्रूपविशिष्टत्वं प्रत्यपादि।
चिदचिद्रूपविशिष्टः श्रीमन्नारायणः दृश्यः अदृश्यः अत्यच्छः अमलः नित्यः अचिन्त्यः अप्रमेयः निर्गुणः निश्चलः निरवयवः निराद्यन्तः निर्विकल्पः निर्द्वन्द्वः अतीन्द्रियः सुसूक्ष्मत्वात् अनिर्देश्यः परंधामः परंज्योतिः सर्वज्ञः सर्वशक्तिमयः सर्वाधारः सनातनः सर्वकारणः ज्ञातृज्ञेयः ज्ञानघनः जाग्रत्-स्वप्न-सुषुप्तितुर्यावस्थानगः बहिः-प्राज्ञः, आत्मगुहायां निहितः, त्रिगुणात्मकश्च इति भगवतः निष्कलत्वं प्रतिपाद्य,
रुद्र-ब्रह्म-ईशानादिरूपाणि च सर्वाणि श्रीमन्नारायणे एव पर्यवस्यन्तीति
लक्ष्मीविशिष्टाद्वैतभाष्ये ब्रह्मणः स्वरूपं प्रत्यपादि ।
ब्रह्मणः सकलत्वम्
सकलत्वं नाम सगुणत्वं सावयवत्वं सरूपत्वं च ।
मथनात् अग्निः यथा ज्वलति,
तद्वत् ध्यानमथनेन भक्त्या भगवान् श्रीमन्नारायणः दिव्यरूपं प्राप्य
उपासकानाम् अभीष्टानि कुरुते
इति ब्रह्मणः सगुणत्वं तत्रैव विव्रियते ।
उपासनाभेदाः
वेदान्तवाक्यार्थज्ञानेनैव भगवद्भक्तिरूपोपासनात्मकविचारम् अवश्यं कर्तव्यमिति धिया उपासनाविधिः अपि तत्र उपदिश्यते । तत्रापि भक्तिः आवश्यकी । भक्त्या भगवन्तं नारायणमर्चयेत्” संसारार्णवनिमग्नः जीवात्मा मोक्षप्राप्तेः भक्त्या भगवदर्चनम् अवश्यं करणीयमिति ज्ञायते । तदेव उपासना नाम्ना व्यवहियतेति उपासनायाः लक्षणं 57
जिज्ञासाप्रकरणे विधीयते । भगवतः उपासना जप- होम - अर्चन - ध्यानेति भिद्यते चतुर्विधा । तत्र तावत् अष्टाक्षर-द्वादशाक्षर ऋक्सावित्रीमन्त्रेषु अन्यतमेन भगवन्तं ध्यायेच्चेत् स जपः, वैदिकैर्मन्त्रेः अग्निं पूजयेच्चेत् सः हेमः, गृहे आलये वा उपचारैः परमात्मानम् अर्च्यते चेत् तत् अर्चनम्, अष्टाङ्गयोगमार्गेण परमात्मनं जीवात्माना चिन्तयेच्चेत् तत् ध्यानमिति उपासनाभेदाः विव्रियन्ते । एतेषु चतुर्षु अर्चनमेव ब्रह्मविद्या इति इयं सर्वासु विद्यासु उत्तमा भवतीति च अर्चनायाः वैशिष्ट्यम् अपि अत्रैव उपदिश्यते। लक्ष्मीविशिष्टः विष्णुः एव आराध्यः लक्ष्मीः पुरुषकारभूता सा विष्णोः विभूतिः, नित्या आद्यन्तरहिता अव्यक्तरूपिणी प्रमाणा अप्रमाणसाधारणीभूता विष्णोः सङ्कल्पानुरूपा नित्यानन्दमयी मूलप्रकृतिरूपा च भवति । इयं तावत् विष्णोः देहानुरूपा कमला नित्यविभूतिश्च |१३ “पुण्याञ्च पुण्यः’ “मामात्मगुप्तां””” “यं चिन्तयन्तो’१५ ,,,१६ “सो नो भूतो यो वा "”” “सत्वेव नित्यं “ “वायुरन्तरात्मा’ १९ इति पारमात्मिकोपनिषन्मन्त्रैः लक्ष्मीविशिष्टः श्रीमन्नारायणः एव शरण्यः इति अस्माभिः अवगन्तुं पार्यते । “योवाभूतेर्भूतिरासीत् सावानन्दं प्रत्यानन्दम् । संजुषन् व्रजामि सत्यं सत्याय स्वाहा’’। इत्यनेन मन्त्रेण भगवन्तं पद्मासहायं परमपुरुषं श्रीमन्नारायणं प्रपद्य स्वात्मानं तस्मै समर्प्य सर्वभरं न्यसेत् इति भरन्यासप्रकारः अपि विशेषतया पारमात्मिकोपनिषदि प्रतिपाद्यते ।
वैखानसानां श्रेष्ठत्वम्
निषेकादिसंस्कारैः संस्कृताः विष्ण्वाराधनतत्पराः श्रौतस्मार्तादियज्ञावलम्बिनः गर्भवैष्णवलाञ्छनाः वर्णाश्रमधर्मनिरताः वंशपारंपर्यरताश्च वैखानसाः इति वैखानसानां श्रेष्ठत्वं प्रतिपाद्य तैः यत्कृतम् अर्चनं मुक्तेः उपायभूतं सद्यः फलप्रसादजनकं विष्णोः तुष्टिकरं चेति वैखानसाराधनस्य श्रेष्ठ्यमपि लक्ष्मीविशिष्टाद्वैतभाष्ये न्यरूपि । सर्वजगद्धितार्थी श्रीनिवासदीक्षितः पुनरावृत्तिरहितं परमं पदं 58 In Public domain Digitization Muthulakshmi Research Academy प्रापयितुकामस्सन् पारमात्मिकश्रुतीः क्षीरार्णवरूपेण संकल्प्य श्रीविखनोमुनिप्रसादात् निशितबुद्धिरूपमन्थरगिरिणा विमध्य पीयूषरूपं लक्ष्मीविशिष्टाद्वैतभाष्यम् उद्धरति । तं विबुधाः जिज्ञासवः मुमुक्षवः सर्वे भवतापशान्त्यै आध्यात्मिकादि- सर्वसांसारिकदुःखनिवृत्तिफलकभगवत् प्राप्त्यै भक्ति-पूर्वकादरातिशयेन आस्वाद्य पुनरावृत्तिरहितं परमं पदं च प्राप्य सुखार्थिनो भवन्तु इति आशास्य विरम्यते । समत्वमाराधनमच्युतस्य ।
टिप्पणी १. भगवद्गीता १०.३३ २. तैत्तिरीयोपनिषत् नारायणवल्ली ३. नारायणोपनिषत् ४. तत्रैव ५. तैत्तिरीयारण्यकम् ८.२६ ६. ऐतरेयब्राह्मणम् १-१-१ ७. पारमात्मिकोपनिषत् १-१ ८. विष्णुसहस्रनामस्तोत्रम् ९. पारमात्मिकोपनिषत् ४-२ १०. पारमात्मिकोपनिषत् १-२ ११. श्रीवैखानसगृह्यसूत्रम् ४-१२-१२० १२. विमानार्चनाकल्पः ९५ पटलः १३. विमानार्चनाकल्पः ८६ पटलः १४. पारमात्मिकोपनिषत् ९-६ १५. तत्रैव ९-७ १६. तत्रैव ९-८ १७. तत्रैव ९-९ १८. तत्रैव ९-१० १९. तत्रैव १० - २ २०. तत्रैव ११-१ 59 60
भगवद्गीता, उपयुक्तग्रन्थाः चौखाम्बा संस्कृतसंस्थानम्, नवदेहली - १९८३ तैत्तिरीयोपनिषत्, उभयवेदान्तग्रन्थमाला, मद्रास् - १९५१ श्रीनारायणोपनिषत्, वासुदासाश्रमम्, नडिगड्डपालेम् - १९८३ विमानार्चनाकल्पः, तिरुमलतिरुपतिदेवस्थानम्, तिरुपतिः, १९९८ पारमात्मिकोपनिषत् भाष्यम्, श्री वैखानसग्रन्थमाला, नल्लूरु - १९४८ श्रीविष्णुसहस्त्रनामस्तोत्रम्, गणेश् अंड् को, पब्लिकेशन्स्, मद्रास्, १९६६ श्रीवैखानसगृह्यसूत्रम्, तिरुमलतिरुपतिदेवस्थानम् तिरुपतिः, १९७७ १०. पाञ्चरात्रागमः पञ्चकालपरामर्शश्च न्यरूपि आगमग्रन्थेषु समस्तवस्तुजातान्तरात्मनः निखिलदेवताबृन्द वन्दित- चरणारविन्दयुगलस्य षाड्गुण्यपरिपूर्णस्य श्रीमन्नारायणस्य मुखारविन्दात् विनिस्सृतं पाञ्चरात्रमिति । लीयन्ते इतराणि शास्त्राणि यस्मिन् तदिति, यद्वत् तारागणं चन्द्रश्च दिवसे न शोभन्ते तद्वत् पाञ्चरात्रे सर्वाणि शास्त्राणि पञ्चत्वं गमिष्यन्तीति, यस्य देहिनः पाञ्चभौतिकविकारगुणाः शब्द-स्पर्श-रूप-रस- गन्धादयः सर्वे यस्मात् शास्त्रात् सुखप्रदाः भविष्यन्ति तदेव पाञ्चरात्रमिति च पाञ्चरात्रस्य निर्वचनं नैकविधं दृश्यते । उपादिशत् श्रीमन्नारायणेन इदं शास्त्रं पञ्चसु रात्रिषु पञ्चायुधांशसम्भूतेभ्यः शाण्डिल्यादिभ्यः । वर्तन्ते पाञ्चरात्रस्य बहूनि नामानि तन्त्र- आगम- एकायन-प्रकृतिवेद-मूलवेद- सात्त्वत- भगवच्छास्त्र -महोपनिषत् - भागवतमिति । पाञ्चरात्रागमे अष्टचत्वारिंशदधिकद्विशतग्रन्थाः सन्तीति पाद्मादिसंहितासु निर्दिश्यन्ते । इदं महोपनिषत् चतुर्वेदसमन्वितम् - महाभारतम् : १२-३२६-१००-१ महोपनिषत् नाम्ना प्रसिद्धं चतुर्वेदसमन्वितम् इदं पाञ्चरात्रम्। तत्र प्रवक्ष्यामि विप्रर्षे! तन्त्रं वै लोकविश्रुतम् ज्ञानयोगक्रियाचर्या चतुष्पादसमन्वितम् । रहस्यमद्भुतं दिव्यं यन्मया कपिलात् श्रुतम् संक्षिप्तं च महार्थं च सर्वसिद्धिप्रसाधनम् । सार्धकोटिप्रमाणेन ब्रह्मणा केशवात् श्रुतम् तस्मात् समुद्धृतं तन्त्रं वारिधेरमृतं यथा ।। पाद्मसंहिता ज्ञानपादः २, २-४ ज्ञान-योग-क्रिया-चर्येति चतुर्भिः पादैः विभक्तमिति दृश्यते । सृष्टिः, जीवः, मुक्तिः, भुवनकोशस्वरूपं, व्यूहवर्णनमिति विशिष्टैः अंशैः 61
सुस्पष्टमुपवर्णितः ज्ञानपादः । योगपादस्तावत् योगाङ्गविवरणं योगेन परमात्मोपासनमित्यादिभिः प्रतिपादितः । तत्रापि आत्मोन्नतिसाधकानां नाडीशुद्ध्यादीनां यम-नियम- आसन- प्राणायाम-प्रत्याहार-धारण ध्यान - समाधीनां योगाङ्गानां विचारः क्रियते अस्मिन् योगपादे । तत्र
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् । क्षमा धृतिर्मिताहारो शौचं चेति यमा दश || पाद्मसंहिता योगपादः १-८ इति एभिः दशभिः यमाङ्गैः तपः पृभृति रूपस्तु नियमः कथ्यते पुनः । १-९ नियमलक्षणैश्च जीवः मनसः शुद्धिं शरीरशुद्धिं च सम्पाद्य स्वस्तिक - पद्म- वीर-सिंह - भद्र - गोमुखादिभिः आसनविशेषैः भ्रूमध्ये दृष्टिं स्थिरीकृत्य रेचनं पूरणं वायोः रोधनं रेचनं तथा । चतुर्भिः क्लेशनं वायोः प्राणायाम उदीरित: ॥ पाद्मसंहिता योगपादः ३-७ रेचकादिभिः प्रणायामेन निर्धूतसर्वपाप्मा योगसिद्धो जितेन्द्रियश्च भूत्वा अष्टादशसु मर्मस्थानेषु स्थानात् स्थानात् वायुं समाकृष्य आत्मनि संधार्य पाञ्चभौतिकविकारमये अस्मिन् देहे पृथिव्यादिपञ्चभूतानि मनसि धारणं कृत्वा स्वहृदयकमले परस्य ज्योतिरूपस्य आनन्दमयरूपस्य सूर्यकोटिसमप्रभाभासुरस्य परमात्मनः वासुदेवस्य च चिन्तनेन ध्यानं कृत्वा अणिमादिफलानि प्राप्य जीवात्मनः परस्यापि यदैक्यमुभयोरपि । समाधिस्सतु विज्ञेयः साध्वर्थानां प्रसाधकः ।। पाद्मसंहिता योगपाद: ५-१७ “अहमेव परं ब्रह्म” इति भावनया जीवः शाश्वतपरब्रह्मस्थानं भगवतः स्वरूपं प्राप्नोति। एतैः योगविशेषैः एव द्वितीयः योगपादः पाञ्चरात्रे सुस्पष्टं अभिवर्णितः। 62
पाञ्चरात्रागमोक्ततृतीये क्रियापादे भूपरीक्षा ग्रामनिर्माणं कर्षणम् आलयनिर्माणं विग्रहप्रतिष्ठेत्याद्यंशाः सङ्कलिताः वर्तन्ते । तत्रापि भूपरीक्षायां सपद्म- भद्रक पूर्ण-धूम्रादीनां भूमेर्लक्षणं, ग्रामादीनां स्वरूपं, कर्पणविधिः, बालागारकल्पनं शङ्कुस्थापनं, गर्भन्यासविधिः, उपपीठ - अधिष्ठान-पाद- प्रस्तर-ग्रीवा-शिखरलक्षणैर्युक्तस्य विमानस्य रूपभेदाः परिवार देवतास्थानकल्पनं मण्डपादीनां स्थानानि, प्रतिमाद्रव्याणि, शिलास्वरूपं, बेरनिर्माणविधिः मूर्तिस्वरूपं, तत्रापि अङ्गुलिविधिः, शूलस्थापनप्रकारः, मत्स्याद्यवतारमूर्तीनां कल्पनप्रकारः, चित्रं चाप्यर्धचित्रं च चित्राभासमिति त्रिधा कौतुकं तत्र दृश्यन्ते यस्मिन्नवयवास्स्फुटम् । सर्वे समन्ताच्चित्रं तु तद्विज्ञेयं चतुर्मुख हस्ताद्यवयवा यस्मिन्पुरोभागे समीक्षितुम् । शक्यं नापरभागे तु तदर्थं चित्रमिष्यते रूपिता प्रतिमा या तू वर्णैरेव सितादिभिः । कुड्यादौ चित्रमाभासं तत्कौतुकमुदाहृतम् चित्रमुत्कृष्टमित्युक्तमर्धं मध्यममुच्यते । आभासमधमं विद्धि मन्दिरे वाऽथ वेश्मनि स्थापयेद्ध्रुवबिम्बार्धं पूर्वालाभे यथोत्तरम् ॥ पाद्मसंहिता क्रियापादः २१, ४६-५० इति चित्र - चित्रार्ध- चित्राभासानां भगवतः आकृतेः निरूपणं, प्रतिमायाः अङ्गुलिप्रकारः, अङ्गुरार्पण - अधिवास - अक्ष्युन्मोचन - होम - स्नपन - शयनाधिवास- अष्टबन्धन - आवाहनादिविग्रहप्रतिष्ठाविधयः, दशावतारप्रतिष्ठा, पाणिग्रहणप्रकारः, मण्टपादीनां प्रतिष्ठा, बलिपीठप्रतिष्ठा, विष्वक्सेनस्य उत्पत्तिस्थानादयः इति ब्रह्मन् क्रियास्सर्वाः कथिताः पृच्छतस्तव । क्रियापादः ३२, १३४ इत्यादयः क्रियान्तर्गतांशाः सर्वे पाञ्चरात्रग्रन्थेषु क्रियापादे सोपपत्तिकं साङ्गोपाङ्गं च उपदिश्यन्ते । 63
चतुर्थे चर्यापादे तावत् दीक्षाविधिः भगवदाराधनाप्रकारः नित्यहोमः नीराजनविधिः महाभिषेक: नित्योत्सव समाराधनकालविभागः सहस्रकलशाभिषेकप्रकारः अङ्करार्पण-ध्वजारोहण-भेरीपूजा - भेरीताडन- देवताह्वान- विशेषपूजा-वीथ्युत्सव - उत्सवान्तस्नपन - विशेषहोम - अवभृथस्नान- अर्चन- निवेदनोपायोगिफलपुष्पनिर्देशः पञ्चकालविधिः पवित्राद्युत्सवविशेषाः जीर्णोद्धारविधिः नित्याराधनप्रायश्चित्तप्रकारः उत्सवप्रायश्चित्त नारायणबलिः अर्चनान्तर्गतहृदय-शीर्ष-
शिखा - कवच - अस्त्र - नेत्र - कुम्भन्यास - सुदर्शन शङ्ख प्रणव चक्र-गदा- गरुड - विष्वक्सेनादि मुद्राविधयः, द्वादशाक्षरमन्त्रकल्पः अष्टाक्षरमन्त्रवैभवः विष्णुगायत्र्यादिमन्त्रोद्धारः सुदर्शन- महामन्त्रवैभवः इत्यादयः प्रतिष्ठानन्तरक्रियास्सर्वाः पाञ्चरात्रागमे चर्यापादे सुष्ठु अभिवर्णिताः वर्तन्ते । पाञ्चरात्रसंहितासु, चर्यापादे विशिष्टाः पञ्चकालविधयः अपि सम्यक् प्रतिपादिताः वर्तन्ते । ताः परिशीलयामः पाश्ञ्चकालाः शरीरं सुसंकृत्य मनश्शुद्धिं च संपाद्य स्वाध्यायैः मन्त्रैः भगवन्तं समाराध्य योगाङ्गैः जीवात्मपरमात्मनोः संयोगः यथा साधितुं शक्यते यथा पञ्चकालाः तेषां विधयश्च तत्रैव सम्यक् निरूपिता भवन्ति। पाञ्चरात्रसंहितोक्तदिशा ताः पञ्चकालविधयः पाञ्चरात्रागमे कथं प्रतिपादिताः, तासां प्रयोजनं कीदृशं वर्तते इत्यादयः विषयाः पत्रेऽस्मिन् मया अत्र समालोच्यन्ते । अद्यं कर्माभिगमनमुपादानमतः परम् इज्या च पश्चात् स्वाध्यायस्ततो योगस्ततः परम् । पञ्चैते विधयस्तेषां कालाः पञ्चैव ते क्रमात् ॥ 1 पाद्मसंहिता चर्यापादः १३, ३-४. अभिगमन - उपादान - इज्या स्वाध्याय - योग इति कालाः पञ्च, कल्याणकामुकस्य मुमुक्षोः अत्यन्तम् एते उपयोगाः भविष्यन्तीति च पाञ्चरात्रे प्रतिपाद्यन्ते । 64 अहोरात्रं पञ्चधा विभज्य एकैकस्मिन् विभागे तास्ताः विधयः
4 अवश्यमनुष्ठेयाः इति महर्षीणाम् आदेशः । तेषु पञ्चसु कालेषु प्रथमः अभिगमनकालः । अभिगमनकालः अभिगमनेऽस्मिन् काले शयनादुत्थाय हरिं सङ्कीर्त्य भूमिं संप्रार्थ्य शौच - दन्तधावन - मुखक्षालन स्नान सन्ध्यावन्दन - तर्पणादीनि कृत्वा -
अभिवाद्यगुरून् वृद्धान् तथा भागवतान् क्रमात् । प्रविश्य स्वाश्रमं देवमभिगम्य यथाविधि || पाद्मसंहिता १३, २८
गुरून् वृद्धान् भागवतान् प्रणम्य स्रक् वस्त्रभूषण ताम्बूल मुखशोधनादि कर्माणि च करोति गृहस्थः । मङ्गलकर्मभिः एतैः शरीरं सुसंस्कृत्य भगवतः पूजां कर्तुं संसिद्धो भवति मुमुक्षुः अस्मिन् अभिगमनकाले । उपादानकालः पुष्पाणि फलमूलानि विविधान्योषधीरपि दध्यादि च हविर्योग्यं तण्डुलानि गुलानि च । स्नानीयानि च वस्त्राणि स्वादूनि सलिलानि च दर्भान् पर्णानि समिधो यथाशक्ति यथावस्तु । अहृत्य याज्ञिकार्थैर्वा पूजास्थाने निवेशयेत् ॥ १३, ३१ - ३३ पुष्पाणि फलमूलानि ओषधयः हवींषि वस्त्राणि दर्भान् समिधः पर्णानि एतादृशानि द्रव्याणि सुसंपादयितुम् अयं च उपादानकालः निर्दिष्टो भवति । इज्याकालः च हुत्वा षडङ्गन्यासेन शरीरं सुसंस्कृत्य अर्ध्याद्युपाचारैः भगवते प्रणामं कृत्वा नित्यहोमं जितं ते पुण्डरीकाक्ष ! नमस्ते विश्वभावन ! नमस्तेऽस्तु हृषीकेश! महापुरुष पूर्वज ! नमस्ते वासुदेवाय शान्तानन्दचिदात्मने अजिताय नमस्तुभ्यं षाङ्गुण्यनिधये नमः || पाद्मसंहिता चर्यापादः ४३-४४. 65
इत्यादिभिः प्रार्थनाश्लोकैः भगवन्तं ध्यात्वा जन्मप्रभृतिदासोऽस्मि तनयोऽस्मि ते । त्वं च स्वामी गुरुर्माता पिता च मम माधव । पाद्मसंहिता ४३, ६१. इति शरणागत्या परमात्मानं संप्रार्थ्य वैश्वदेवं सूत्रोक्तपञ्चमहायज्ञान् च हुत्वा यज्ञस्वरूपस्य श्रीमहाविष्णोः अनुग्रहसंपादनाय प्रयन्नं करोति मुमुक्षुः अस्मिन् योगकाले । उपसंहारः एतैः अभिगमन-उपादान- इज्या स्वाध्याय- योगेति पञ्चभिः कालैः भगवन्तं परमात्मानं श्रीमन्नारायणं ध्यायन् यः मुमुक्षुः एकवर्षात्मकः कालः अर्चनं करोति चेत् सः सालोक्यसम्पदं, षड्वर्षात्मकः कालः अर्चनं करोति सः सारूप्य - सामीप्य- सम्पदं, द्वादशवर्षात्मकः कालः अर्चनं समाचरति सः सायुज्यसम्पदं प्राप्नोतीति च पाञ्चरात्रसिद्धान्तः । द्वादशाक्षरतत्त्वज्ञः चतुर्व्यूहविभागवित् । अच्छिद्रपञ्चकालज्ञः स विप्रः तारयिष्यति ॥ इति शाण्डिल्यस्मृतिवाक्यानुसारेण एतैः पञ्चकालैः समायुक्तः अच्छिद्रपञ्चकालज्ञः पाञ्चरात्रज्ञः भवसागरसंतरणोपायान्वेषणजनान् सर्वान् अवश्यं तारयिष्यतीति ज्ञातुं पार्यते । इदं पाञ्चरात्रं वैदिकमार्गेण साक्षात् श्रीमन्नारायणस्य मुखारविन्दात् विनिस्सृतमिति विज्ञापनं कृत्वा ज्ञान
योग - क्रिया - चर्यैः चतुर्भिः पादैः विलसितेनानेन शास्त्रेणैव सर्वे जनाः परमात्मप्राप्तौ सफलाः धन्याः आनन्दाः भवेयुः इति च आशास्य विरम्यते । 66 इति शम्
उपयुक्तग्रन्थाः पाद्मसंहिता पाञ्चरात्रपरिशोधना परपित् मद्रास्, १९८२ महोत्सवविधिः पद्मश्री पब्लिकेषन्स् तिरुपतिः, १९८५ श्रीप्रश्नसंहिता राष्ट्रियसंस्कृतविद्यापीठम् तिरुपतिः, १९६९. विश्वामित्रसंहिता राष्ट्रियसंस्कृतविद्यापीठम् तिरुपति:, १९९१. योगदर्शनम् चौखाम्बा सुरभारती प्रकाशन् वाराणसी, १९८८. श्रीपाञ्चरात्ररक्षा अडयार् लैब्ररी अण्ड् रीसर्चसेन्टर् मद्रास्, १९६७. 67
११. अभ्युदयनिःश्रेयसोपायाः आगमाः ज्ञायते सर्वैः यदखिलहे यप्रत्यनीक कल्याणैकतानस्वेतरसमस्तवस्तु- विलक्षणानन्तज्ञानानन्दैकस्वरूपस्य स्वाभिमतनित्यनिरवद्यानुरूपस्वरूपरूपगुण विभवैश्वर्य शीलाद्यनवधिकातिशयासङ्ख्ये यकल्याणगुणगणस्य भगवतः उच्छ्वासनिःश्वासरूपाः वेदाः इति । यो ब्रह्माणं विदधाति पूर्वं यो वै वेदाश्च प्रहिणोति तस्मै । श्वेताश्वतरोपनिषत् इति श्रुतिवचनात् अवगम्यते वेदान् चतुर्मुखब्रह्मणे उपादिशत् श्रीमन्नारयणेन इति । ते वेदास्तावत् निगमपदेनापि व्यवह्रियन्ते । आगम्यते प्रमीयते हिताहितप्राप्तिपरिहारौ अनेन आप्तवचनादाविर्भूतः अर्थविशेषसंवेदनरूपः आगच्छन्ति बुद्धिमारोहन्ति यस्मादभ्युदयनिःश्रेयसोपायः आगमः इति च विविधैः निर्वचनैः अभ्युदयनिःश्रेयसोपायरूपेण आविर्भूयते तस्मात् निगमात् आगमशास्त्रम् इति । गुरुशिष्यपरम्परोपदेशक्रमागतं साकारार्चनमहिमाप्रतिपादनपरं ग्रन्थजातम् आगमशब्देन अभिधत्ते । तच्च तावत् विष्णुर्वै सर्वा देवताः । पुरुष एवेदं सर्वम् । (ऋग्वेदसंहिता - ८ -४ -१७) स ब्रह्मा स शिवः सेन्द्र : । (तैत्तिरीयारण्यकम् ८-२३) एष ब्रह्मा एष इन्द्रः एष प्रजापतिः एष सर्वा देवताः । अग्निर्वै देवानामवमः विष्णुः परमः तदन्तरेण सर्वा अन्या देवताः । (ऐतरेयब्राह्मणम् १-१-१) यस्मात्परं नापरमस्ति किञ्चित् यस्मात् नाणीयो नज्यायो अस्ति कश्चित् वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् । (तैत्तिरीयारण्यकम्-५) 68
प्रवः पान्थमन्धसो धियायते महे शूराय विष्णवे चार्चत। (ऋग्वेदसंहिता २-२-२६) इत्यादिना श्रुतिप्रतिपादितवचसा निगममार्गेण मनसा चिन्तनीयतया उपदिश्यमानं भगवतः विविधरूपतामाधृत्य समूर्तयजनम् आलयनिर्माण-प्रतिष्ठा-अर्चन-उत्सव- स्नपन - विशेषपूजा-चित्तनैर्मल्यसाधनरूपयोग-भगवत्तत्वावगमनज्ञान ‘पबृम्हणाय आराधनावैकल्यापगतनिरूपणपर-प्रायश्चित्तादिरूपेण निगमार्थोप प्रवर्तमानोऽयमागमः व्यपदिश्यते ऋषिभिः श्रेयप्रदमभ्युपगतवद्भिः ।
साकारार्चनारूपपरार्थयजनप्रतिपादनपरः सोऽयमागमः तत्तद्देवतापारम्येण विराजते इति । यथा चेत् शिवपारम्यः शैवागमः, शक्तिपारम्यः शाक्तागमः, गणपतिपारम्यः गाणापत्यागमः, विष्णुपारम्यः वैष्णवागमः इत्यादिरूपेण कौमारसौरागमादयश्च भिद्यन्ते । एतैः शैवाद्यागमैः अनुसृत्य यद्यप्यद्य भारते विभिन्नेषु कोणेषु अर्चनादिक्रियाकलापाः तत्तदालयेषु परमद्य अनुस्यूततया विपुलतया च प्रचलन्तीति सार्वजनीनोऽयमंशः । आगमग्रन्थाः कामिकागम - योगजागम-चिन्त्यागम-कारणागम- अजितागम- दीप्तागम- सूक्ष्मागम-सहस्रागम-अंशुमदागम-सुप्रभेदागम - निःश्वासागम-स्वायम्भुवागम- अनिलागम-वीरागम-रौरवागम-मकुटागम-विमलागम-चन्द्रज्ञानागम-बिम्बागम- प्रोद्गीथागम-ललितागम-सिद्धागम-सन्तानागम-सर्वोत्तरागम-पारमेश्वरागम-किरणागम- वातुलागमाः इति अष्टाविंशत्यागमग्रन्थाः शैवसम्बद्धाः इति । सात्वत-पौष्कर-जयाख्य-पाद्म-श्रीप्रश्न-विश्वामित्र- विष्वक्सेन-विष्णु- श्रीमन्नारायण-अनिरुद्ध- परम-पारमेश्वर-हयशीर्ष-अहिर्बुध्न्य-भारद्वाज-पुरुषोत्तम- वामन-विष्णुतिलक-कपिञ्जल-मार्कण्डेय-काश्यप-शेष-नारदीय-अनिरुद्धेत्यादि संहिताग्रन्थाः वैष्णवागमान्तर्गतपाञ्चरात्रसम्बद्धाः इति ज्ञायते । क्रियाधिकार-खिलाधिकार-यज्ञाधिकार-वासाधिकार-प्रकीर्णाधिकार- अर्चनाधिकार-निरुक्ताधिकार-प्रतिगृह्याधिकार-चित्राधिकार-मानाधिकार-वर्णाधिकाराः, 69
जय-आनन्द-संज्ञान-वीर-विजय - विजित-विमल-ज्ञानसंहिताः, पूर्व-आत्रेय-उत्तरतन्त्राणि, सत्य-तर्क-ज्ञानकाण्डाः इत्येते वैष्णवागमान्तर्गतवैखानससम्बद्धाःभवन्ति। शक्तितत्त्वविमर्शिनी-शारदतिलक - नारायणीयतन्त्र-कुलार्णवतन्त्र - भैरवतन्त्र- ललितातन्त्र-रुद्रयामिलतन्त्र-कौलोपनिषत् - कालीहृदय-योगिनीहृदय-पिङ्गलतन्त्र- गान्धर्वतन्त्र-मायातन्त्र-मालिनीतन्त्रम् इत्येते ग्रन्थाः शाक्तागमसम्बद्धाश्च भवन्तीति ज्ञायते । सर्वेष्वपि एतेषु ग्रन्थेषु विषयानुरोधेन ज्ञान-योग-क्रिया-चर्या इति चत्वारः पादाः विभज्यन्ते। तेषु तेषु पादेषु उपदिष्टान् अंशान् यथाशक्ति परिशीलयामः । ज्ञानपादः भगवतः तत्त्वं ज्ञानं, भगवान् परमात्मा सगुणः क्षीरे सर्पिरिव, तिलेषु तैलमिव, पुष्पेषु गन्ध इव, काष्ठेषु अग्निरिव अणोरणीयान् महतो महीयान् सर्वव्यापकः सन् प्रतिभाति । ध्यानमथनेन हृदि परमात्मा आविष्करोति । तं परमात्मानं प्रति मनसा ध्यायन् भक्ताः आर्षसंस्कृतिधर्मसंरक्षकाः सम्प्रदायप्रवर्तकाश्च भवेत् । भगवान् परमशिवः षट्त्रिंशत्तत्त्वात्मकः इति शैवागमे वर्ण्यते। चिदचिदात्मकः भगवान् कल्याणगुणसहितः हेयगुणरहितः दिव्यगन्ध - दिव्यमाल्यानुलेपनः दिव्याभरणभूषितस्सन् विराजते इति, स एव सर्वं जगत् संसृज्य संरक्षति स एव आधारः शेषी कर्मसाक्षी सर्वान्तर्यामी इति च ज्ञानपादे परमात्मनः तत्त्वं सुष्ठु अभिवर्ण्यते । योगपादः जीवात्मपरमात्मनोर्योगो योग इति, यम-नियम-आसन-प्राणायाम-प्रत्याहार- ध्यान-धारण-समाधिरिति अष्टाङ्गैः योगः विभज्य एकैकस्य प्रधान्यम्, एभिः योगाङ्गानुष्ठानेन परमात्मसाक्षात्कारः भविष्यतीति उपदिश्य यथा शरीरमालिन्यनिवारणनमार्गः अर्चनार्हयोग्यता-सम्पादनसिद्धिश्च योगपादे उपवर्ण्यते। क्रियापादः क्रिया नाम भगवदाराधनरूपा । सा आश्रमविहितधर्मक्रिया ज्ञान - वैराग्य- ध्यानानि च। मनसा भगवतः स्वरूपचिन्तनं, श्रोत्रेण तत् कथाश्रवणं, चक्षुषा 70 देवताकारसन्दर्शनं, घ्राणेन गन्धानुभवनं, पाणिना देवतानमस्कारश्च क्रियाः भवन्ति । आलयनिर्माण-विग्रहकल्पन-विग्रहप्रतिष्ठा - अर्चन - स्नपन - उत्सव - प्रायश्चित्तेत्यंशाः क्रियापदेन अन्तर्भूताः भवन्तीति वैखानसागमे दृश्यन्ते । एतेषां क्रियानुष्ठानानां भक्तः देवयानमार्गेण भूरादीन् लोकान् प्राप्य ब्रह्मकटाहं भित्वा ततो विरजां प्रविश्य कृतसूक्ष्मदेहपरित्यागः सन् पूर्वोक्तवैष्णवाण्डं गच्छतीति विज्ञायते। तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । विज्ञानमानन्दं ब्रह्मा | सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता । आनन्दं ब्रह्मणो रूपं तच्च मोक्षोऽभिव्यज्यते । इत्यादिभिः श्रुतिवाक्यैः भगवदाराधकानां सायुज्यप्राप्तौ ब्रह्मणा सहात्यन्तानन्दानुभव- प्राप्तिस्सम्भवतीति सिद्धम् । क्रियापादे यानि यानि अर्चनादिकर्माणि सन्ति, तेषाम् अनुष्ठानफलं किम् ? इति मया अत्र पट्टिकारूपेण समालोचनार्थं प्रदर्श्यते । क्रियापादे उपदिष्टानाम् उत्सवादीनां फलनिरूपणविवरणपट्टिका उत्सवः उत्सवकालः फलम् नित्यार्चनम् षट्कालेषु घण्टानादम् बलिः अर्चनाकाले अर्चनाकाले सर्वत्र शान्तिः राक्षसपलायनम् देवतातृप्तिः स्नपनम् निर्दिष्टे काले शान्तिः बिम्बशुद्धिश्च उत्सवः निर्दिष्टे काले विशेषपूजा विशेषकाले पवित्रोत्सवः निर्दिष्टे मासे प्रजावृद्धिः विशेषफलम् अर्चनादोषनिष्कृतिः . शान्तिः दोषकाले उपद्रव शान्तिः मार्गशीर्षमासपूजा मार्गशीर्षमासे संवत्सरार्चनफलम् पुष्यमासपूजा पुष्यमासे क्षीरनिवेदनफलम् माघमासपूजा माघमासे धूपदानफलम् लक्ष्मीपूजा उत्तरफल्गुणीनक्षत्रे - धनप्राप्तिः 71 चैत्रमासे वैशाखमासे ज्येष्ठमासे
चैत्रमासपूजा वैशाखमासपूजा ज्येष्ठमासपूजा पुष्पदानफलम् पानीयदानफलम् वस्त्रदानफलम् आषाढमासपूजा
आषाढमासे अर्घ्यदानफलम् श्रावणमासपूजा
श्रावणमासे संवत्सरनिवेदनफलम् भाद्रपदमासपूजा
भाद्रपदमासे अपूपनिवेदनफलम् आश्वयुजमासपूजा- कार्तिकमासपूजा आश्वयुजमासे कार्तिकमासे मुखवासनिवेदनफलम् दीपदानफलम् ।। वर्धन्ते यद्येतेन नित्यनैमित्तिककाम्यविशेषोत्सवानुष्ठानेन विशेषफलसिद्धिः शान्तिः सौभाग्यं, श्रीः, विजयः, आनन्दश्च । राजा, राष्ट्रं, ग्रामः, यजमानः, सर्ववर्णाश्रमजनाश्च सर्वे सत्फलानि साधयन्ति ते तावत् तरन्ति वंशपुरुषान् च तारयन्ति इति च क्रियापादानुष्ठानसारांशः भवेत्। चर्यापादः मनसः चर्या नाम संसिद्धीकरणम् । भगवदाराधनां कर्तुं योग्यतासम्पादनाय द्रव्यसमुपार्जनं जप-अर्चन - होम - ध्यान-यो गादिकर्मभिः आध्यात्मिकौन्नतीसाधनमुपनयनाश्रमधर्म अनुष्ठानकर्मभिः आध्यात्मिकतत्त्वसंसोधनं नैर्मल्यसिद्धि-साधनोपायाश्च चर्यापादे उपदिश्यन्ते। पूजार्हपुष्प-चन्दन-अक्षत-नदीजल-पात्रशुद्धिः वस्त्र- हविः-फलादीनां संसद्धिीकरणमेव चर्यापादश्च उपदेशसारः । उपसंहारः कलौ आगमसम्मतः इति वाक्यमनुसृत्य यज्ञ-दान-जप-ध्यान-अर्चनादिकर्मसु अर्चनाकर्म एव उत्कृष्टः विनून : विशिष्टतमश्च भवतीति । आगमशास्त्रोक्तकर्माचरणमेव अवश्यमनुष्ठेयमिति आगमशास्त्रं तावत् शिल्प- वास्तु- धर्म-सङ्गीत-ज्योतिष-रेखा-मन्त्र-तन्त्रादिभिः अङ्गि भवतीति तदेव सर्वैः आदरणीयम् अध्ययनाध्यापनीयं च भवतु इत्याशास्य विरम्यते। समत्वमाराधनमच्युतस्य 72
विमानार्चनाकल्पः, तिरुमलतिरुपतिदेवस्थानम्, तिरुपतिः - १९९८. पारमात्मिकोपनिषत्, श्रीवैखानसभगवच्छास्त्रग्रन्थमाला, नल्लूरु - १९४८ वैष्णवागमविमर्शः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी - १९९७ आगममीमांसा, उपयुक्तग्रन्थाः लालबहादूरशास्त्री केन्द्रीयसंस्कृतविद्यापीठम्, . . . नई दिल्ली- १९८२ श्रीवैखानसकल्पसूत्रम्, श्रीवैखानसट्रस्ट, तिरुमल - २००५. समूर्तार्चनाधिकरणस्य समीक्षात्मकमध्ययनम् श्रीसीतारामप्रकाशनम्, नरसरावपेट २००७ 73
१२. वैष्णवागमयोर्विभवः
अचिन्त्य - दिव्य - अद्भुत - नित्य यौवन - स्वभाव - लावण्यरत्नाकरः सर्वकल्याण-गुणनिधिः स्वेतरसमस्तवस्तुविलक्षणस्वरूपः अपहतपाप्मा दिव्यो देव एकः श्रीमन्नारायणः । स एव सृष्टिस्थितिलयकर्ता, प्राप्यः, वन्दनीयः, पूजनीयः, अर्चनीयश्च इति वर्ण्यते वैष्णवागमयोः । असौ शेषपर्यङ्के शयितस्सन् वैकुण्ठे त्रिपाद्विभूतौ प्रवर्तमानः पर इति प्रसिद्धिमाप्नोति । सृष्टिप्रलयजगद्रक्षणार्थं व्यूहरूपो भूत्वा क्रमशः दुष्टराक्षसनिग्रहार्थं विभवरूपेण अवतीर्णो भवति च । ततः हृदयगुहान्तर्वर्ती सन् अन्तर्यामिरूपेण प्रकाशते अपि । परादिषु पञ्चसु अवताररूपेषु अन्तिमोऽयम् अर्चारूपः देवालयेषु अद्य स्वयंव्यक्त- दिव्यं - आर्ष- मानुष- सैद्धादिरूपेण विद्योतते । परादिषु पञ्चसु अवताररूपेषु तृतीयःरूपः विभवः । असौ तावत् विशिष्टः भवः तत्तत्सजातीयरूपेण आविर्भूतश्च भवेत् ।
धर्मसंस्थापनार्थाय अधर्मनिरसनाय च प्रवृत्तो भगवान् मत्स्य - कूर्म वराह- नृसिंह- वामन - परशुराम श्रीराम - बलराम - श्रीकृष्ण- कल्कीति दशधा अवतारैराविर्बभूव ।
!.. मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः । रामो रामश्च रामश्च कृष्णः कल्कीति ते दश ।। क्रियाधिकारः ११,१ मत्स्यादीनां दशानामेतेषां विभवरूपाणां कल्पने प्रतिष्ठामन्त्रविधाने च वैखानसपाञ्चरात्रयोः कुत्र कुत्र साम्यं ? कुत्र कुत्र वैषम्यं ? वरीवर्तीति पत्रेऽस्मिन् प्रस्तूयते मया । मत्स्यादीनां भेदाः 74 मत्स्यः कूर्मो द्विधा प्रोक्तौ वराहस्त्रिविधः स्मृतः पञ्चधा नारसिंहस्तु त्रिविधो वामनः स्मृतः । एकधा भार्गवो रामो राघवो द्विविधः स्मृतः द्विविधो बलभद्रश्च कृष्णोऽसङ्ख्यातविग्रहः ।। एकधा कल्किरूपश्च तेषां श्रुणुत लक्षणम् ॥ क्रियाधिाकरः ११, १-४
इति मत्स्यः द्विविधः, कूर्मस्तु द्विविधः, त्रिविधो वराहः, नृसिंहस्तावत् पञ्चविधः, द्वेधा वामनः, एको भार्गवरामः, श्रीरामस्तु द्विविधः, बलभद्रस्तु द्विविधः, बहुविधः कृष्णः, कल्की एकश्च इति मत्स्यादीनां दशानां मूर्तिविशेषाणां निर्माणभेदाः सन्तीति वैखानसागमे एव उपदिश्यन्ते । एतान् पाञ्चरात्रागमेन सह साम्यवैषम्यौ कीदृशौ ? इति विचारयामः । मत्स्यमूर्तिः तत्र वेदापहारि दैत्यनिरासपूर्वकं ब्रह्मणे प्रमाणप्रदानार्थम् अवतीर्णो मत्स्यवतारः । अयं मत्स्यकायः सुदीर्घः समुद्रमध्ये स्थितः पञ्चायुधछत्रचामराद्यैश्च सहितो भवतीति पाञ्चरात्रागमे’ मत्स्यमूर्तेः स्वरूपं निरूप्यते । वैखानसागमे तावत् अयं द्विविधः भवेदिति तत्र प्रथमः रूपः तप्तहाटकासङ्काशः महाजलौघप्रलये चराचरजगत्क्षये तत्तोयम् उपसंहर्तुम् आसीदिति, द्वितीयस्तावत् अञ्जनाभः कल्पावसानप्रलयलीनवेदोपदेशकः इति च उपवर्ण्यते’ । वरुणसूक्तमन्त्रैः मत्स्यमूर्तिप्रतिष्ठा कार्या इति पाञ्चरात्रागमे प्रोच्यते । वैखानसागमे’ तावत् ‘यत्स्वयं सृष्ट’ इत्यनेन मन्त्रेण प्रतिष्ठाङभूतमावाहनं कार्यमिति दृश्यते । मत्स्यमूर्तिकल्पने तावत् वक्तुं शक्यते वैष्णवागमयोः किञ्चन वैषम्यमेव प्रतिभातीति । कूर्ममूर्तिः जीवानामजरामरणहेतुभूतामृतोत्पादनमन्थराधारत्वेन अवतीर्णः कूर्मावतारः। अयं तपनीयनिभः । अस्य कच्छपस्य पृष्ठे स्थितो मन्थरगिरिः वासुकि-ब्रह्म-शङ्करैः सहितः वासुकेः पूर्वभागः राक्षसैस्सहितः पुच्छभागः देवतागणः संयुक्तः भवति इति पाञ्चरात्रागमे’ कूर्ममूर्तेस्स्वरूपं निरूप्यते । वैखानसागमे तावत् अयं द्विविधः भवेदिति निर्दिष्टः । तत्र प्रथमः रूपः स्वस्थानचलितक्षोणी भरणाय प्रवृत्तः इति, द्वितीयस्तावत् अमृतोद्धार मथितमन्थराधारकः इति, अयम् अञ्जनाभः इति चोपवर्ण्यते । कूर्मप्रतिष्ठायां वेदमन्त्राः नैव निर्दिष्टाः पाञ्चरात्रागमे । वैखानसागमें 75
तावत् ‘रायामीश’ इति मन्त्रेण कूर्ममूर्तेः प्रतिष्ठा कार्या इति संसूच्यते । कूर्ममूर्तिकल्पने तावत् वक्तुं शक्यते वैष्णवागमयोः । मूर्तिकल्पने किञ्चन साम्यं मन्त्रनिर्धारणे वैषम्यमेव प्रोच्यते इति । वराहमूर्तिः संसारनिमग्नजलोद्धरणकामः स्वमहिषीमुद्धर्तुमवतीर्णो वराहावतारः । कण्ठपर्यन्तं नरवत् मुखं वराहवत् वराहरूपो भवति । अयं चतुर्भुजः स्फटिकप्रभः शङ्खचक्रधारी पीतवस्त्रधारी च भवेत् । असौ वामहस्तस्य कूर्परे धरणीम् उद्धृत्य दक्षिणपाणिना संस्पृशन्, श्रीवत्साङ्कः किरीटी श्रीदेवीसहितः वराहमूर्तिः भवतीति च पाञ्चरात्रागमे’ कूर्ममूर्तेस्स्वरूपं वर्ण्यते । वैखानसागमे’ तावत् अयम् आदिवारहः, प्रलयवराहः, यज्ञवराहश्च इति त्रिविधः भवति । तत्र प्रथमः आदिवारहः नररूपः चतुर्भुजः, सस्यश्यामनिभः, पातालमग्नां भूदेवीं पादौ प्रगृह्य समुद्धृत्य मूर्ध्नि जिघ्रन् च आदिवराहः समासीनो भवेत् । चतुर्वेदाः श्वेताभास्सन्तः वाहनस्थानम् आश्रिताः भवन्त्यत्र । प्रलयवराहस्तावत् तप्तहाटकासङ्काशः नीलाम्बरधरः अभयदक्षिणहस्तः कट्यवलम्बित-वामहस्तः दक्षिणे महीसहितः सर्वदेवैः परिवृतश्च भवेत् । यज्ञवराहो भवति सर्वयज्ञाविनाशकं हिरण्याक्षं संहर्तुम् उद्युक्तः यज्ञस्थापकः श्वेतवर्णः श्रीभूसहितः सिंहासने सुखासीनः इति । पाञ्चरात्रागमे वराहमूर्तेः प्रतिष्ठायां वेदमन्त्रः नैव सूचितः । वैखानसागमे ‘क्ष्मामेकाम्’ इति मन्त्रेण वराहमूर्तिप्रतिष्ठा कार्या इति संसूच्यते । १० वराहमूर्तिकल्पने तावत् वक्तुं शक्यते वैखानसागमे मूर्तिस्वरूपं सुस्पष्टं विशेषतया च उपदिश्यते इति, पाञ्चरात्रागमे सामान्यतया निर्दिष्टं भवतीति प्रतिपाद्यते। नृसिंहमूर्तिः 76 प्रतिष्ठाविधाने उभयोः आगमयोः मन्त्रपरिकल्पनं भिद्यते इति । आश्रितरक्षणार्थं महासुरं हन्तुं स्तम्भोद्भूतो नरसिंहावतारः । नृसिंहः बहुविधः इति । तत्र सिंहमुखः भ्रुकुटीकुटिलः त्रिनेत्रः मकुटोज्ज्वलः
रक्तकञ्चुकसंयुक्तः समासीनः जान्वोरुपरि प्रसारितहस्तः चतुर्भुजः अष्टभुजः षोडशभुजो वा भवति इति, उत्सङे रिपुं हिरण्यकशिपुं नखैः विदारितोरस्कः रुधिरसंयुक्तः इति च नृसिंहस्य लक्षणं पाञ्चरात्रागमे” वर्ण्यते । वैखानसागमे तावत् गिरिजस्स्थूणजश्चैव सुदर्शननृसिंहकः । तथा लक्ष्मीनृसिंहश्च पातालनरसिंहकः ।। इति पञ्चविधः प्रोक्तो नारसिंहो मनीषिभिः । क्रियाधिकारः ११, २८ इति नृसिंहः पञ्चविधः भवतीति विव्रियते । गिरिज-स्थूणज-सुदर्शन-लक्ष्मीनृसिंह- पातालनृसिंहः इति नृसिंहरूपाणि पञ्चविधानि भवन्तीति सामान्यतया नृसिंहः कोटिसूर्यप्रतीकाशः अत्यन्तं भीषणाकारः भक्तनामाभयप्रदः इति च वर्ण्यते । सिंहासने समासीनः प्रसारितदक्षिणपादः समाकुञ्चितवामपादः शङ्खचक्रधरः अभयदक्षिणहस्तः कटिविन्यस्तवामहस्तः श्रियासहितः नृसिंहः गिरिजः इति, तीक्ष्णदंष्ट्रेक्षणः भयानकः रक्ताम्बरधारी श्वेताभः सर्वाभरणसंयुक्तः नृसिंहः स्थूणजः इति, चक्रमध्ये विराजमानो मूर्तिः सुदर्शनमूर्तिः, लक्ष्म्यासह विराजितो मूर्तिः लक्ष्मीनृसिंहः इति, गरुडस्कन्धे समासीनः शेषस्य फणामण्डलमण्डितः अष्टभुजयुतः पातालनृसिंहः इति च नृसिंहमूर्तिनां पञ्चविधरूपाणि सुस्पष्टं सविस्तरम् उपवर्ण्यन्ते तत्र १२ । पाञ्चरात्रागमे‘३ ‘युञ्जीते’ त्यनुवाकेन मन्त्रेण प्रतिष्ठा कार्या इति, वैखानसागमे” ‘यो वा नृसिंहः’ इति मन्त्रेण नृसिंहस्य प्रतिष्ठापनं कार्यमिति चोपदिश्यते । नृसिंहमूर्तिकल्पने तावत् वक्तुं शक्यते रूपनिर्माणे किञ्चन साम्यमेव प्रतिभातीति उभयोः वैखानसपाञ्चरात्रयोः । प्रतिष्ठामन्त्रविचारे कश्चन भेदः एव प्रदर्शितः उभयोः । वामनमूर्तिः त्रिविक्रमो भूत्वा स्वपादारविन्दोद्भवेन जलेन जगद्रक्षणार्थम् अवतीर्णो 77
वामनावतारः । वामनः वामनाकारः श्यामलः दण्डधारी मृगाजिनधरः दक्षिणहस्तेन वसुन्धरां याचमानः त्रैलोक्याक्रमणोद्यतः अष्टभुजः चतुर्भुजो वा वामभागे बलिचक्रवर्तिसहितः ऊर्ध्वलोके ब्रह्मणा गङाजलेन क्षालितवामपादः सर्वदेवैः संयुक्तः भवेदिति वामनमूर्तेर्लक्षणं सामान्यतया पाञ्चरात्रागमे” वर्ण्यते । .१६ वैखानसागमे ं तावत् वामनः त्रिधा प्रोक्तः । स च त्रिलोकाक्रमणोद्यतः हूर्षवेगसमायुतः सर्वाभरणभूषितः, ऊर्ध्वप्रसारितवामपादः, धृतछत्रधरः आकाशस्थः जानुमात्रोद्धृतवामपादः प्रथमः त्रिविक्रमरूपः, नाभिमात्रोद्धृतवामपादः द्वितीयः रूपः, लालाटमात्रोद्धृतवामपादः तृतीयः रूपश्च भवतु इति ब्रह्मणा प्रक्षालितपादपद्मः सर्वदेवैः संयुक्तः इति च वामनमूर्तेः त्रिविक्रमस्य लक्षणं विशेषतया परिदृश्यते । ‘युञ्जीते’ त्यनुवाकेन मन्त्रेण प्रतिष्ठा कार्या इति पाञ्चरात्रागमे" प्रोच्यते चेत् ‘यो वा त्रिमूर्तिः’ इति मन्त्रेण वामनमूर्तेः प्रतिष्ठापनं कार्यमिति वैखानसागमे“ वर्ण्यते । वामनमूर्तेः कल्पने तावत् कश्चन रूपभेदः उभयोः आगमयोः प्रतिभाति सामान्यतः । मन्त्रविधाने विद्यते भेदः स्पष्टः । परशुरामः दुष्टक्षात्रियनिरसनार्थमवतीर्णो परशुरामः । जटामकुटधारी, दक्षिणहस्तधृतपरशुः, वामहस्तधृतशरः परशुरामः भवतीति पाञ्चरात्रागमे" परशुरामस्य लक्षणम् उपदिश्यते । २० वैखानसागमे तावत् अत्यन्तं भीषणाकारः दक्षिणहस्तधृतपरशुः, उद्देश्यवामहस्तः जटामकुटधारी, नीलाम्बरः परशुरामः भवतीति परशुरामस्य लक्षणं विव्रियते । नृसूक्तेन परशुरामस्य प्रतिष्ठा निर्दिष्टा पाञ्चरात्रागमे । ‘विष्णुर्वरिष्ठ’ इत्यनेन मन्त्रेण प्रतिष्ठापनं कार्यमिति वैखानसागमे संसूच्यते । उभयोरागमयोः परशुरामस्य रूपनिर्माणे सामान्यभेद एव प्रतिपादितो भवेत् । मन्त्रप्रतिपादने भिद्येते उभौ वैखानसपाञ्चरात्रागमौ । 78 श्रीरामः
धर्मसंस्थापनार्थमवतारः रामावतारः । त्रिभङः, द्विभुजः, श्यामवर्णः, प्रसन्नाभः, कम्बुग्रीवः, महोरस्कः, सर्वलक्षणसंयुक्तः, सर्वलोकसुखावहः, श्रीरामः, भवति इति, वामे लक्ष्मणः, दक्षिणे सीतासहितश्च, पुरोभागे मारुतिः भवतीति श्रीसीतारामलक्ष्मणहनुमतां रूपकल्पनं वैखानसपाञ्चरात्रयोः समानतया निर्दिश्यते। २३ पुरुषसूक्तेन श्रीरामस्य प्रतिष्ठापनं समुद्दिष्टं पाञ्चरात्रागमे" । वैखानसागमे" ‘रायामीश’ इति मन्त्रेण श्रीरामस्य प्रतिष्ठा कार्या इति संसूच्यते । बलरामः प्रलम्बादिनिरसनार्थमवतीर्णो बलभद्ररामावतारः । अयं तावत् द्विभुजः, धवलवर्णः, दक्षिणहस्तधृतमुसलः, वामहस्तधृतलाडलः, चतुर्भुजः, नीलवस्त्रधारी, रेवतीसहितः इति बलरामस्य लक्षणं वैखानसपाञ्चरात्रयोः २६ समानं वर्ण्यते । ‘क्ष्मामेका ‘मिति मन्त्रेण अष्टोत्तरशतवारं हुत्वा बलरामस्य प्रतिष्ठा करणीया इति वैखानसागमे ँ प्रतिष्ठामन्त्रः उपदिश्यते । पाञ्चरात्रागमे मन्त्रः नैव निर्दिष्टः भवति । श्रीकृष्णः मन्त्रपरिकल्पने वैषम्यं रूपवर्णने साम्यं च प्रतिभाति वैखानसपाञ्चरात्रागमयो । चरमोपायप्रदानार्थमवतीर्णः श्रीकृष्णावतारः । श्रीकृष्णः श्यामवर्णः, द्विभुजः, क्रीडायष्टिधरः, सर्वाभरणसंयुक्तः, सुन्दरः, सौम्यलोचनः इति श्रीकृष्णस्य सामान्यलक्षणं वर्ण्यते । अयं तावत् नवनीतनटं वाऽथ तथा कालीयमर्दनम् । गोपालविग्रहं वाऽथ पार्थसारथिमेव वा ।। रूपाण्यन्यान्यसङ्ख्यानि कृष्णस्य मुनिसत्तमाः ॥ क्रियाधिकारः ११, ११४-११५ इति नवनीतनटः, कालीयमर्दनः गोपालविग्रहः पार्थसारथिः इति श्रीकृष्णः बहुरूपधरः भवति इति वैखानसागमे उपदिश्यते । 792
पाञ्चरात्रागमानुसारेण श्रीकृष्णः देवीसहितः, रथसारथिः, गरुडाधिष्ठितः, विश्वरूपः, बृन्दावनगतः, गवामनुचरः, नृत्यरूपः, नवनीतनटः, क्रीडायष्टिधरः इति बहुधा वर्ण्यते । श्रीकृष्णः अनेकविधः भवतीति सामान्यतया निर्दिष्टं वैखानस पाञ्चरात्रागमयोः ‘सत्यस्सत्यस्थ’ इत्ययं मन्त्रः श्रीकृष्णस्य प्रधानतमः मन्त्रः इति वैखानसागमे प्रदर्श्यते। पाञ्चरात्रागमे तु वसुदेवसुतस्यापि स्थापनं वासुदेववत्। पाद्मसंहिता २९, २८ इति श्रीकृष्णस्य प्रतिष्ठा श्रीमन्नारायणस्य प्रतिष्ठावत् उपदिष्टा । कल्की रूपवर्णने उभयोः नैव भेदः प्रदर्शितः । मन्त्रनिरूपणे वैषम्यम् एव दृश्यते । अधर्मिष्ठान्निरस्य पूर्णधर्मप्रवर्तनार्थं कल्क्यवतारः । ३० रक्ताभः हयवाहनः द्विभुजः चर्मवस्त्रधारी खड्गखेटकधारी जटामकुटसंयुक्तः ब्रह्मतेजोविराजितः भवति इति कल्किनः लक्षणं वैष्णवागमयोः समानतया परिगण्यते । ‘ऋतं च सत्यं चे’ ति मन्त्रः वैखानसागमग्रन्थेषु प्रदर्शितः कल्किनः प्रतिष्ठायाम् । कल्किविष्णुप्रतिष्ठापि यथापुरमुदीरिता । पाद्मसंहिता २९-३० इति विष्णोः प्रतिष्ठावत् कल्किनः प्रतिष्ठा कार्या इति पाञ्चरात्रागमः उपदिशति । अत्रापि मन्त्रभेदः एव वर्तते न तु रूपभेदः उभयोः । उपसंहारः मत्स्य-कूर्म-वराह-नृसिंह-वामन-परशुराम-श्रीराम-बलराम - श्रीकृष्ण-कल्की इति दशानाम् अवतारविशेषाणां प्रतिष्ठाकर्मसु उभयोः वैखानसपाञ्चरात्रयोः मन्त्रभेदः सुष्ठु प्रदर्शित इति स्पष्टं वक्तुं शक्यते । मत्स्य-वराह-वामन-परशुरामाणां बिम्बकल्पने भेदोपभेदाः स्पष्टतया दृश्यन्ते। अत्रैव वैषम्यं दरीदृश्यते । कूर्म-नृसिंह-श्रीराम-बलराम-कृष्ण-कल्किनां रूपकल्पने 80 समानत्वं प्रदर्शितं भवतीति वक्तुं शक्यते । अर्चनादिकर्मणां भेदप्रदर्शनमेव उभयोरागमयोः प्रधानतमः प्रमेयः भवति। स एव अत्रापि दृश्यते । चतुर्वेदमन्त्रविनियोगः वैखानमागमे उपदिष्टः वर्तते । मुद्रा-बीजाक्षर- तन्त्रविधानं पाञ्चरात्रागमे निर्दिष्टं भवति । पूजाभेदः उभयोः आगमयोः प्रदर्शितोऽपि नित्यानन्दम् अमृतरसपानवत् सर्वदा तृप्तिकरे नित्यनिषेवणे परंज्योतिषि प्रवेशनमेव विष्णुपदप्राप्तिः भवतीति लक्ष्यसिद्धिः उभयोः आगमयोः समानतया वर्णिता । अतः आर्षजिज्ञासवः आगमज्ञाः संस्कृतिसम्प्रदायपरिरक्षकाः विद्वत्तल्लजाः सर्वे अनयोः उभयोः प्रतिपादितान् आगमविषयविवरणमार्गभेदोपभेदान् सर्वान् अधीत्य तैस्तैर्मार्गः एव भगवन्तं परमात्मानं संसेव्य आध्यात्मिकानन्दतुन्दिल- सर्वस्वाः भवन्तु इति संप्रार्थ्य विरम्यते । टिप्पणी 9. पाद्मसंहिता २७, २-५ २. क्रियाधिकारः ११, ५-८ ३. वारुणेनैव सूक्तेन तथाष्टाक्षरविद्यया । पाद्मसंहिता २९,४. ४. विमानार्चनाकल्पः ५५ पटलः ५: ६. पाद्मसंहिता १७, ७-११ स्वस्थानचलितक्षोणीभरणायादिकच्छपः । द्वितीयश्चामृतोद्धारमनन्तमन्थराधारकः ॥ क्रियाधिकारः ११, १० ७. विमानार्चनाकल्पः ५५ पटलः ८. नरवत् कण्ठपर्यन्तं वक्त्रसृष्टिर्वराहवत् चतुर्भुजं शङ्खचक्रधारिणं स्फटिकप्रभम् । पीतवस्त्रं मुकुटिनं श्यामलाकृतिमेव वा ॥ पाद्मसंहिता २७, १२-१३ ९. क्रियाधिकारः, ११, ११-२६ १०. क्ष्मामेकामिति मन्त्रेण शतमष्टोत्तरं यजेत् ॥ क्रियाधिकारः, ११, २७. 81
११. नृसिंहमूर्तिर्बहुधा तत्र काचित् प्रदर्श्यते । वक्त्रं केसरिणो वक्त्रं नरस्येव चतुर्भुजमुदायुधम् । रक्तकञ्चुकसंयुक्तं श्रीवत्साङ्कं विराजितम् शुद्धस्फटिकसङाशं शङ्खचक्रविराजितम् । / उत्सङे देवदेवस्य हिरण्यकशिपुं रिपुम् । नखैर्विदारितोरस्कं स्रवद्रुधिरपिङलम् ॥ पाद्मसंहिता २१, २२-३७ १२. क्रियाधिकारः ११, २७ - ५९ १३. पाद्मसंहिता २९, ९. १४. १५. युञ्जीतेत्यनुवाकेन समावह्य जनार्दनम् ।। यो वा नृसिंह इत्युक्त्वा शतमष्टोत्तरं यजेत् ।। क्रियाधिकारः, ११, ५३ पाद्मसंहिता १७, ४१-५३ १६. क्रियाधिकारः, ११, ३०-७९ १७. १८. १९. पाद्मसंहिता २९,११ यो वा त्रिमूर्तिरित्येकं शतमष्टाधिकं यजेत् ।। क्रियाधिकारः, ११, ८० असीनं द्विभुजं शान्तं जटामकुटधारिणम् परशुं सशरं चापि दक्षिणेतरहस्तयोः । धारयन्तं सुवर्णाभं ब्राह्मया लक्ष्म्या विराजितम् ।। पाद्मसंहिता१७,५५-५६ क्रियाधिकारः ११, ८१-८६ २०. २१. जामदग्न्यं नृसूक्तेन स्थापयित्वा जनार्दनम् ।। पाद्मसंहिता २९, १३ २२. विष्णुर्वरिष्ठ इत्युक्त्वा सप्तत्येकोत्तरं यजेत् ॥ क्रियाधिकारः ११,८५ २३. पाद्मसंहिता १७, ६१-१११ क्रियाधिकारः ११, ८६-९८ विमानार्चनाकल्पः ५८ पटलः २४. २५. 82 रामं पुरुषसूक्तेन स्थापयित्वा यथाविधि ।। रायामीश इति जपन् सप्तत्येकोत्तरं यजेत् ॥ पाद्मसंहिता २९, १६ क्रियाधिकारः ११,९८ २६. २७. २८. २९. ३०.
पाद्मसंहिता १७, ११३-११७ क्रियाधिकारः ११, ९९-९०७ क्ष्मामेकामिति मन्त्रेण शतमष्टोत्तरं यजेत् । अन्यत्सर्वं विशेषेण विष्णोरिव समाचरेत् ॥ क्रियाधिकारः ११, १०७ पाद्मसंहिता १८, १-३७, क्रियाधिकारः ११, सत्यस्सत्यस्थ इत्युक्त्वा शतमष्टोत्तरं यजेत् । ११४-१२४ हरेरिव समस्तानि स्थापनादीनि कारयेत् ॥ क्रियाधिकारः ११, १२३ पाद्मसंहिता १८, ३८-४५ क्रियाधकिारः ११, १२५-१२७ क्रियाधिकारः उपयुक्तग्रन्थाः तिरुमलतिरुपतिदेवस्थानम् तिरुपतिः, १९९८ यतीन्द्रमतदीपिका उभयवेदान्तपीठम्, विजयवाडा, १९७५ पाद्मसंहिता (प्रथमभागः ) पाञ्चरात्रपरिशोधनापरिषत्, मद्रास्, १९७४ विमानार्चनाकल्पः तिरुमलतिरुपतिदेवस्थानम्, तिरुपतिः, १९९८ 83
१३. परमात्मा - श्रीपारमात्मिकोपनिषत् श्रीमन्नारायणः सर्वदेवतास्वरूपः ईश्वरः विश्वरूपः श्रीवेङ्कटेश्वरः अर्चारूपः अन्तर्यामी ज्योतिस्स्वरूपः प्रणवरूपः आनन्दरूपः सर्वलोकाधिपः उत्कृष्टः पुरातनः लोकनां श्रेष्ठः सुसूक्ष्मः सर्वहितः अणूनाम् अणुः विभूनां विभुः ज्योतिषां ज्योतिः ऐश्वर्यरूपः बृषभाचलवासी क्रीडात्मकः कामप्रदः सर्वैश्वर्यवान् मङ्गलप्रदः आकाशात्मा वाय्वात्मा प्रकृत्यात्मा ह्लादात्मा कामात्मा ब्रह्मात्मा सर्वकारणात्मा पुरुषश्च इत्येवं नैकविधैः स्वरूपैः परमात्मा नानाविधदुःखपरम्परावाहिनि क्लिश्यमानं जीवजातं समुद्धरति संरक्षति च इति विष्णोर्वैशिष्ट्यम् उपपादयन् वैखानसभगवच्छास्त्रसिद्धान्त व्याख्यान-संहिताग्रन्थेषु प्रधानतमत्वेन राराजति श्रीपारमात्मिकोपनिषन्नामकः ग्रन्थः।
उपनिषत्सु वर्तते प्रधानतया इयं श्रीपारमात्मिकोपनिषत् । वैदिकवाङ्मये अनेकाः उपनिषदः सन्त्यपि काश्चन प्रसिद्धाः काश्चन अप्रसिद्धाः लोके वर्तन्ते। तत्र उपनिषत् नाम उप उपगम्यमाचार्यम् उपलभ्य वा ब्रह्मोपदेशं निश्शेषेण नितरां वा सत् अवसादयित्री या पराविद्या सा उपनिषद् भवेत्। अध्यात्मविद्यां सरलमार्गेण समुपदिश्य ज्ञानपिपासूनां जिज्ञासूनां च दुस्स्तरस्य संसारसागरस्य पारं नीत्वा उपनिषच्छब्दः स्वार्थं सार्थकं करोति । ज्ञानप्रतिपादका इयम् उपनिषत् ब्रह्मविद्यारहस्योद्घाटनकारिणी विवेक वैराग्याभ्याम् अविद्याध्वंसकारिणी त्रिविधदुःखप्रशमनकारिणी अखिलभवभयहारिणी ब्रह्मानन्दप्रदायिनी च भवति । विष्णोः स्वरूपवर्णनप्रतिपादनावसरे विशिष्टं स्थानं प्राप्य कृष्णयजुश्शाखान्तर्गता श्रीपारमात्मिकोपनिषत् वैखानसवाङ्मये सुप्रसिद्धा भवति । इयं च उपनिषत् अधिकतया वैखानसार्चकैरेव पठन पाठन - पारायण - होमकर्मसु उपयुज्यते च । श्रीविखनोमुनिना प्रणीतात् श्रीवैखानसकल्पसूत्रनामकग्रन्थात् प्राचिनतमः ग्रन्थः अयम्। इयं च उपनिषत् उपनिषदन्तर्गताः मन्त्राश्च, श्रीमन्नारायणस्य मुखारविन्दात् विनिस्सृताः अपौरुषेयाः वैखानसब्राह्मणानां प्रधानतमाः 84
वैखानससाहित्यस्य आधारभूताश्च भवन्तीति वक्तुं नैव संशीतिलेशः । परमात्मा
श्रीपारमात्मिकोपनिषत् इत्यस्मिन् शोधलेखे श्रीपारमात्मिको पनिषदः स्वरूपं, श्रीपारमात्मिकोपनिषदः भाष्यं, श्रीपारमात्मिकोपनिषदः स्थानं, श्रीमहाविष्णोः स्वरूपं, मन्त्रविनियोगः इत्येते अंशाः यथामति मया अत्र प्रस्तूयन्ते । तत्र आदौ श्रीपारमात्मिकोपनिषदः स्वरूपम् श्रीपारमात्मिकोपनिषत् एकादशानुवाकैः सहिता वर्तते । एकैकस्मिन् अनुवाके दश दश मन्त्राः विद्यन्ते । अन्तिमे एकादशानुवाके पञ्चमन्त्राः एव विद्यन्ते । एकैकः मन्त्रः एकैकः देवतापरः । एकैकस्य मन्त्रस्य तस्य देवस्य च चतुर्मूर्तिनाममन्त्राः अपि पण्डितैः सङ्कलनं क्रियते । एतैः चतुर्मूर्तिमन्त्रैः सह उपनिषन्मन्त्रा अर्चनादिहोमकर्मसु विनियुज्यन्ते । श्रीपारमात्मिकोपनिषदः भाष्यम् अद्य सर्वतन्त्रस्वतन्त्रेण कौशिकगोत्रजेन गोविन्दाचार्यसूनुना दशमशताब्दीयेन श्रीश्रीनिवासविदुषा लिखितं भाष्यमेकं सुप्रसिद्धं श्रीपारमात्मिकोपनिषदः लभ्यते । अयं च श्रीनिवासदीक्षितः वैखानसविद्वल्लोकस्य पूजनीयः वन्दनीयश्च । भाष्यस्याऽस्य विवरणरूपा चन्द्रिका नाम व्याख्या एका अपि इदानिम् उपलभ्यते । चन्द्रिकायाः निर्माता श्रीसुन्दरराजसूरिः अयं एकोनविंशतिशताब्दीयः वैखानसपण्डितश्च। अस्याः उपनिषदः भट्टभास्करीयपाठः तस्य व्याख्यानमपि एकं प्रसिद्धं वर्तते । पारमात्मिकोपनिषदः अन्तर्गतानमन्त्राणां विवरणपरः भाष्यव्याख्या- सहितग्रन्थः आन्ध्रदेशे वैखानसपण्डितैः विद्वद्भिश्च बहुवारं मुद्राप्य लोकार्पणं च क्रियते । वैखानससाहित्यविज्ञानां सर्वस्वरूपः वैखानसजनानां प्रामाणिकरूपः अत्यन्तं मूर्धन्यभूतः अयं भवतीति वक्तुं नैव संशीतिलेशः । श्रीपारमात्मिकोपनिषदः स्थानम् वैखानसागमग्रन्थेषु प्रसिद्धा इयं पारमात्मिकोपनिषत् विविधानां देवतानां 85
वैशिष्ट्य तेषां ध्यानं, महिमा च निरूप्यन्ते । अस्यां मत्स्य कूर्म-वराह- नृसिंह वामन-परशुराम-श्रीराम - बलराम - कल्कीति दशानाम् अवताराणाम् आत्मादीनां पद्मनाभादीनां रूपाणाम् अर्चारूपस्य श्रीवेङ्कटेश्वरस्य हयग्रीवस्य च देवतानां मन्त्राणां सङ्कलनम् अस्याम् उपनिषदि वर्तते । सर्वदेवतामन्त्ररूपा इयम् उपनिषत् भवसागरसन्तरणोपायनिरूपणपरा च विद्यते । तस्यां वर्णिताः देवाः ये सन्ति ते सर्वेऽपि श्रीमहाविष्णोः प्रतिरूपाः एव भवन्तीति अनया ज्ञायते । पञ्चोत्तरशतमन्त्रप्रयुक्तसहिता इयम् उपनिषत् वैखानसग्रन्थेषु अत्यन्तं प्रधानस्थानम् आवाहतीति वक्तुं नैव भेदः । श्री श्रीनिवासदीक्षितविरचितस्य श्रीलक्ष्मीविशिष्टाद्वैतभाष्यस्य श्रीपारमात्मकोपनिषद्ग्रन्थः प्रधानाकरोऽपि भवति। अस्मिन् भाष्ये परब्रह्मणः स्वरूपनिरूपणप्रसङ्गे जीवस्य वर्णनसन्दर्भे प्रकृत्याः निरूपणप्रतिपादने प्रपत्तिविषये अस्याम् उपनिषदि विद्यमानाः मन्त्राः एव प्रधानाकराः भवन्ति । श्रीपारमात्मिकोपनिषदि विद्यमानानां मन्त्राणां समन्वयमेव श्रीलक्ष्मीविशिष्टाद्वैत-भाष्यमिति वक्तुं शक्यते । श्रीमहाविष्णोः स्वरूपम् श्रीमहाविष्णुः सर्वेषु लेकानाम् अधिपः उत्कृष्टः पुरातनः लोकानां श्रेष्ठश्च असौ च तावत् सुसूक्ष्मः सर्वहितः सर्वेषाम् अन्तरात्मा स्थावराणां स्थावरः जङ्गमानां जङ्गमः विभूणां विभुः विभवस्य उद्भवः इति । विष्णुस्सर्वेषामधिपतिः परमः पुराणः । परो लोकानामजितो जितात्मन् भवते भवाय ।। १-१ स एव अणोः अणीयान् आकाश-भू - पर्वतादिभ्यः महीयान् । जीवस्य हृदयगुहायां निहितः वीतशोकः अयम् अन्तर्यामी च भवति । सूर्यचन्द्रादीनां ज्योतिः नक्षत्रादीनां ज्योतिः सत्वात्मकः सत्वरूपः अयमेव विष्णुः ज्योतिस्स्वरूपः आदित्यमण्डलमध्यवर्ती शब्दब्रह्मरूपः परंब्रह्मा परंज्योतिः प्रणवरूपः भवेदिति, क्रीडाप्रदः आनन्दरूपः ऐश्वर्यरूपः भक्तवत्सलः नित्यैश्वर्यरूपः 86
रक्षकश्य भवतु इति च - रयीणां पतिं बृहन्तं रारागमुक्तं गुरुं सनीकं । तं रायो रूपं रयिभूतभूतं रयिमत्सुरमित्रे ।। ७-९ इत्यस्मिन् मन्त्रे निरूप्यन्ते । परमात्मा श्रीमन्नारायणः बहुधा विराजते । अयं सर्वान्तर्यामी सर्वान्तरात्मा च। तस्य आत्मनः लक्षणं स्पष्टं वर्ण्यते पारमात्मिकोपनिषदि । स च आत्मा बहुविधः भवेत् । तद्यथा- एतेषाम् आकाशात्मादीनां लक्षणानि तत्तन्मत्रेषु यथा उपासकानां योग्यः तथा विस्पष्टं निरूप्यते अस्यामुपनिषदि । एते सर्वे आत्मानः श्रीमहाविष्णोः प्रतिरूपाः अवतारमात्राः श्रीमहाविष्णोराज्ञाया प्रवर्तमाना एव विद्यन्ते । हयग्रीवस्वरूपं नृसिंहलक्षणानि पञ्चभूतात्मकः श्रीमन्नारायणः पुरुष-सत्य- अच्युत-अनिरुद्ध-पुण्य-सुवहादीनां वैशिष्ट्यं स्पष्टतया अस्यां पारमात्मिकोपनिषदि वर्ण्यते । मामात्मगुप्तां सत्यस्य सर्वस्य वितानरूपाम् । सञ्जूजुषन्तीं परमां पवित्राम् ।।११-५ मन्त्रेऽस्मिन् मां आत्मगुप्तां ज्ञानस्य सर्वस्य आच्छादनरूपा योगिनां हृदयेषु स्थिता परमा पवित्रा सन्तारयन्ती शुद्धा अप्रमत्ता पुरुषकारभूता लक्ष्मी इति लक्ष्म्याः स्वरूपं विशिष्टतया अस्याम् उपनिषदि विव्रियते। परमपुरुषरञ्जनप्रदा शोभना कीर्तिमती लक्ष्मी माम् अवतु। सा अस्मान् सन्ततधाराप्रवाह जलैः सिञ्चतु । इयं लक्ष्मी शतसहस्रादिपुत्रपौत्रान् ददातु। तापत्रयपरिभवभूतोऽहं तां शरणागतिं व्रजामि इत्यपि पारमात्मिकोपनिषदि वर्ण्यते। द्वावेतौ पक्षी अचरं चरन्तौ नाधुरं व्यधुनीते। यश्चैकं भुनक्ति भोक्त्रे । ४-२ इत्यस्मिन् मन्त्रे शरीरे स्थितौ जीवात्मपरमात्मानौ पक्षिसदृशौ भवतः । परमात्मा जीवस्य धुरं न वहति । कर्मफलमनुभोक्तुमेव जीवं प्रेरयति 87
परमात्मा । जीवः परमात्माधीनोऽपि स्वकर्मानुसारं पुण्यपापफलानि अनुभवतीति तत्र परमात्मा शरीरेषु साक्षिमात्रेण तिष्ठतीति च संसूच्यते । मन्त्रविनियोगः विग्रहप्रतिष्ठा-अर्चन-स्नपन-उत्सव-प्रायश्चित्तादिकर्मसु पारमात्मिकोपनिषदि विद्यामानैः मन्त्रैरेव होमः कार्य इति एतेषां मन्त्राणां होमेन विग्रहशक्तिः दिनदिनाभिवृद्धिर्भवतीति च न्यूनातिरिक्तदोषाणां निवारणं च स्यादिति भृगु-मरीचि- अत्रि-कश्यपैः ऋषिभिः स्वीय अधिकार संहिताग्रन्थेषु उपदिश्यन्ते । उपसंहारः अस्माभिः ज्ञायते यत् इयं च पारमात्मिकोपनिषत् वैष्णवोपनिषत्सु मुख्यतमा विष्णोः स्वरूपवैभवप्रतिपादने विशिष्टा उन्नता वैखानसभगवच्छास्त्रोक्तरीत्या क्रियमाण बिम्बप्रतिष्ठार्चनादिकर्मसु प्रधानतमा च विराजते इति । उपनिषद्ग्रन्थः अयं सर्वैः अध्ययन-अध्यापन-यजनयाजनकर्मसु अवश्यं विनियोगरूपः भवतु इत्याशास्य विष्णोः वैभवप्रतिपादनद्वारा सर्वे आर्षधर्मजिज्ञासवः वैष्णवाग्रेसराः भवन्तु इति च संप्रार्थ्य विरम्यते । ॥ तद्विष्णोः परमं पदम् || ।। 88 उपयुक्तग्रन्थाः काश्यपज्ञानकाण्डः, तिरुमलतिरुपतिदेवस्थानम्, तिरुपतिः १९९८ क्रियाधिकारः तिरुमलतिरुपतिदेवस्थानम्, तिरुपतिः १९८४.
समूर्तार्चनाधिकरणम् तिरुमलतिरुपतिदेवस्थानम्, तिरुपतिः २००१ विमानार्चनाकल्पः वैखानसग्रन्थमाला, ईगावारिपालेम्, १९२६ श्रीपारमात्मिकोपनिषद्भाष्यम् वैखानसभगवच्छास्त्रग्रन्थमाला, नल्लूरु, १९४८ 89
१४. क्रियावानेषब्रह्मविदां वरिष्ठः आगमविद्वद्भिः परिनिर्धार्यते यदचिन्त्यदिव्याद्भुतनित्ययौवन- स्वभावलावण्यरन्नाकारस्य अखिलहेयप्रत्यनीककल्याणगुणाकरस्य सर्वज्ञस्य सर्वशक्तेः नियामकस्य सर्वाधारस्य सगुणरूपस्य परमात्मनः अनुग्रहसम्पादनाय क्रियमाणस्य आचारविशेषा क्रिया इति । अजामेकां लोहितश्शुक्लकृष्णाम् महानारायणीयम् ८-४ नित्योऽनित्यानां चेतनश्चेतनानाम् कठोपनिषत् ५ -१३ इत्यादिभिः श्रुतिभिः नित्यत्वेन स्थितानां प्रकृतिपुरुषाणां सृष्टिः प्रलयदशायां सूक्ष्मरूपेण अविभक्तनामरूपेण च विद्यते। सृष्टिकाले परमात्मनोऽनुप्रवेशानन्तरं स्थूलरूपत्वं विभक्तनामरूपभाक्त्वञ्च भवति । तत् सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्चत्यच्चाभवत् ॥ तैत्तिरीयोपनिषत् २-६ इति श्रुतिवाक्येन समिष्टिसृष्टिः विशेषेण व्यष्टिसृष्टिरपि परमात्मनः समजायते इति ज्ञायते । परमात्मा तावत्
स देव सोम्य! इदमग्र आसीत् एकमेव अद्वितीयम् | छान्दोग्योपनिषत् ६-२-१ इति श्रुत्या प्रतिपादित अभिन्ननिमित्तोपादानकारणभूतः, यतो वा इमानि भूतानि जायन्ते । तैत्तिरीयोपनिषत् ३-१ इति श्रुत्या जगत्कारणभूतः ब्रह्मशब्दवाच्यश्च भवेत् । तस्य परमात्मनः सत्यं ज्ञानमनन्तं ब्रह्म | तैत्तिरीयोपनिषत् २-१-१ 90 इत्यादि श्रुतिवाक्येन स्वरूपं निरूप्यते । सत्यत्वादिविशिष्टस्य तस्य आनन्दो ब्रह्मेति व्यजानात् नारायणपरं ब्रह्म तैत्तिरीयोपनिषत् ३-६ नारायणोपनिषत् १-५ तत्त्वं नारायणः परः महानारयणोपनिषत् ९-४ एको ह वै नारायणआसीत् महोपनिषत् १-१ अध्यात्मोपनिषत् अपहतपाप्मा दिव्यो देव एको नारायणः इत्यादिश्रुतिवाक्यैः परमात्मा तावत् श्रीमन्नारायणः स एव सृष्टिस्थितिलयकर्ता इति निर्धार्यते । तस्य परब्रह्मणः श्रीमन्नारायणस्य आलयनिर्माण विग्रहकल्पन - विग्रहप्रतिष्ठा - अर्चन - स्नपन - उत्सव - प्रायश्चित्तादिविषय उपदेशसर्वस्वः विखनोमुनिप्रोक्तः भृग्वादिभ्यः प्रसारितः वैदिकः सर्ववेदार्थसारभूतश्च वर्तते वैखानसागमः । तत्र आगमः निगमात् सञ्जातः । आसमन्तात् गम्यन्ते व्युत्पाद्यन्ते अनेनेति, अमुं ब्रह्माणं गमयति प्रापयतीति च आगमपदार्थः दृश्यते । बहवः आगमाः सन्त्यपि वैखानसागमः श्रीमन्नारायणस्य. हृदयपुटात् सञ्जातस्य श्रीविखनोमुनेः सकाशात् आविर्भूत इति स च तावत् अनादिकालादारभ्य गुरुशिष्यपरम्परागतेन अर्चास्वरूपस्य श्रीवेङ्कटाद्रिदिव्यक्षेत्रे विराजमानस्य श्री श्रीनिवासस्य दिव्यसन्निधावारभ्य ग्रामादिपट्टणपर्यन्तं प्रविराजतीति ज्ञायते ।
विशिष्टेऽस्मिन् वैखानसागमे चरित क्रिया- ज्ञान - योगेति चत्वारः पूजामार्गाः सन्तीति बहुप्रयोगक्रमेण क्रियामार्गः मरीचिना उपदिष्टो वर्तत इति च विमानार्चनाकल्पे तत्त्वज्ञानोपदेशविधिपटले इत्थं वर्ण्यते । 91
अथातो मरीचिं मुनयः प्रणम्य चरित - क्रिया - ज्ञान - योगेषु चर्तुर्षु पूजामार्गेषु चरितं भगवता विखनसा सूत्रे विस्तरेण प्रणीतम् । अन्यत् संक्षेपेणोक्तम्। तदुपन्यासो बहुप्रयोगक्रमेण क्रियामार्गस्त्वयाप्रणीतः । अय वक्ष्ये विशेषेण क्रियायोगाश्रितं फलम् । अथ वक्ष्ये विशेषेण क्रियालोपे च यत्फलम् । पञ्चत्रिंशे तु संप्रोक्तं क्रियायोगाश्रितं फलम् । षड्भिः सहस्रैः श्लोकैस्तु क्रियाङ्गमुपवर्णितम् । | इति भृगुप्रोक्ते प्रकीर्णाधिकारे अपि तत्र तत्र क्रियायाः प्रस्तावना प्रस्तूयते । अत्र क्रियाशब्देन भगवदर्चनरूपविशेषक्रियैव गृह्यते । तत्र न तु साधारणी। साधारणक्रियावतां ब्रह्मवरिष्ठत्वप्रतिपादनासामञ्जस्यात् क्रिया द्विविधा तत्क्रिया अतत् क्रिया चेति । तत्र तत्क्रिया नाम परब्रह्मणः परमपुरुषस्य आराधनारूपक्रिया इति, अतत्क्रिया नाम तत्तदाश्रमोक्त कर्मकलापः इति श्रीलक्ष्मीविशिष्टाद्वैतभाष्ये जिज्ञासाधिकरणे प्रस्तूयते । सर्वेऽपि वैदिकाचाराः सर्वे यज्ञाः तपांसि च विष्णुपूजाविधेर्भेदाः तत् कर्मफलदो हरिः इति वचनात् सर्वेषां कर्मणां तत् क्रियात्वे सिद्धे नैव भिन्नः इति। आत्मक्रीडा आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः मुण्डकोपनिषत् ३-१ इत्यत्र आत्मनः क्रीडा आत्मनि क्रीडा वा अर्थः भाति । अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी । मोदते भगवान् भूतैः बालः क्रीडनकैरिव ॥ इति महाभारतवचनात् स्नानाद्याचमन पुष्पगन्धधूपदीपहविरादिनृत्तगीत वाद्यस्तुतिभिश्च दिव्यमङ्गलविग्रहविशिष्टेन श्रीमन्नारायणेन सह क्रीडा तदेकपरतानिरतिः इति, नान्यक्रियाविवक्षिता इति च ज्ञायते । 92
समूर्ताराधने भूपरीक्षा कर्षणं तरुणालयप्रकारः शङ्कस्थापनं विमानविधिः बिम्बकल्पनं बिम्बप्रतिष्ठा आसन स्वागत अनुमान पाद्य आचमन- पुष्प-
1
गन्ध - - - धूप दीप अर्घ्य आचमन स्नान प्लोत वस्त्र उत्तरीय - यज्ञोपवीत - पाद्य - आचमन पुष्प- गन्ध - धूप दीप आचमन - हविः
पानीय आचमन मुखवास बलि प्रणाम प्रदक्षिण- पुष्पाञ्जलि - स्तुति
नृत्त - गेयादिभिः उपचारैः सहितापूजा, स्नपनं उत्सवः पवित्रोत्सवः प्रायश्चित्ताश्च विमानार्चनाकल्प - क्रियाधिकार खिलाधिकार - यज्ञाधिकार - वासाधिकार प्रकीर्णाधिकार - ज्ञानकाण्ड - समूर्ताचनाधिकरणेषु वैखानसग्रन्थेषु वर्णिताः याः क्रियाः सर्वा अवश्यमस्माभिः अनुष्ठेया इति ताभिरेव कर्ता ब्रह्मविदां वरिष्ठः ब्रह्मैव भविष्यतीति च सर्वेषाम् उपनिषद्ग्रन्थानां च उपदेशसारः । क्रियावाने षब्रह्मविदां वरिष्ठः इति श्रुतिप्रमाणेन ब्रह्मविदो नाम ब्रह्मज्ञानध्यानादिपरा इति तेषां क्रियावतां श्रेष्ठत्वं च साङ्गोपाङ्गं प्रस्तूयते । अतः अत्र क्रियाशब्दः ब्रह्मेन्द्रियव्यापारपर एव इति प्रायः प्रयुञ्जते । वैखानसभगवच्छास्त्रोक्त चरित - क्रिया- ज्ञान योगेषु चतुर्षु पूजामार्गेषु प्रोक्तेन क्रियाशब्देनैव भगवद्यजनव्यापाररूपार्चनेनैव संगच्छते । ताभिः वैखानसभगवच्छास्त्रोक्त क्रियाभिरेव मुक्तिस्साध्या इत्युक्त्वा विस्तरभयाद्विरम्यते । ब्रह्मविद् ब्रह्मैव भवति । दशविधहेतुनिरूपणम् वैखानसग्रन्थमाला, ईगावारिपालेम्, १९३१ प्रकीर्णाधिकारः उपयुक्तग्रन्थाः तिरुमलतिरुपतिदेवस्थानम्, तिरुपति १९९७ 93 94
श्रीलक्ष्मीविशिष्टाद्वैतभाष्यम् श्रीविखनसट्रस्ट्, तिरुमल - २००४ मुण्डकोपनिषत् जियर् एड्युकेषनल ट्रस्ष्ट्, सीतानागरम् - २००३ विमानार्चनाकल्पः तिरुमलतिरुपतिदेवस्थानम्, तिरुपति : - १९२६
१५. आगमानां श्रुतिमूलकत्वम् सर्वैः ज्ञायते यदागमः नाम उपासना अनुष्ठानादि विषयकराद्धान्त- प्रधानप्रतिपाद्यः ग्रन्थविशेष इति । तपः पूतेन अन्तःकरणेन साक्षात्कृतो मन्त्रकदम्बः निगमः चेत् मन्त्रकदम्बस्याऽस्य विवरणात्मकपराणि जप- होम - अर्चन ध्यानेति चतुर्विधानां मोक्षमार्गाणां सविस्तरं साङ्गोपाङ्गं च निरूपणपराणि च शास्त्राणि तन्त्राणि भवन्ति । तानि तन्त्राण्येव आगमपदेनाभ्युपगच्छन्ति। अत एव निगमादेव आगमाः समुत्पद्यन्ते इति ज्ञायते । कृते श्रुत्युक्तः आचारः त्रेतायां स्मृतिसम्भवः । द्वापरे तु पुराणोक्तः कालौ आगमसम्मतः ।। इति कुलार्णवतन्त्रवचनानुसारं कलियुगेऽस्मिन् वैदिकयज्ञयागादि कर्मकाण्डानां न फलानुबन्धित्वं आगमोक्ततान्त्रिकजपादीनाम् उपचारपूर्वक अर्चनादि विविधानुष्ठानविधीनामेव फलानुजनकत्वं च विधीयते । सृष्टिश्चः प्रलयश्चैव देवानां च तथार्चनम् साधनं चैव सर्वेषां पुरश्चरणमेव च । षट्कर्मसाधनं चैव ध्यानयोगश्चतुर्विधः सप्तभिर्लक्षणैर्युक्तं त्वागमं तद्विदो विदुः ॥ सृष्टि-प्रलय- देवार्चन
साधन पुरश्चरण
ध्यान - योगादीनां विवरणात्मकरूपः आगम इति कोशग्रन्थेषु’ आगमपदस्यार्थः दरीदृश्यते। अत एव मननात् मन्त्रः, तननात् तन्त्रमिति व्यवहारः अस्ति। निगमादागतत्वात् अस्य शास्त्रस्य आगम इति वक्तुं प्रभवति । असौ च गुरुशिष्यपारंपर्यक्रमागतशास्त्रसन्दर्भ एव भवति । तत्तत् देवता प्राधान्येन आगमाः बहुविधाः भिद्यन्ते वैखानस - पाञ्चरात्र - शैव-गाणापत्य - सौर - शाक्तादिभेदेन ।
आगमाः सर्वेऽपि श्रुतिमूलकाः कथं भवन्ति, श्रुतिसम्बद्धाः अंशाः कुत्र कुत्र प्रयुज्यन्ते इति यथामति पत्रेऽस्मिन् प्रस्तोतुमिच्छामि । आदौ वैखानसागमः श्रुतिमूलकः कथं ? इति विचारयामः । 95
वैखानसागमः मरीचिरूवाच सुप्रसन्नं परमात्मानं नारायणं ध्यात्वा अभिवन्द्य श्रुत्यनुकूलेन मार्गेण चतुर्वेदोद्भवैः मन्त्रैः तमर्चयन्तः, श्रुतिभिरभिहितं शाश्वतं अतीन्द्रियम् । सर्ववेदार्थसारभूतम् अप्रतर्क्यम् अनिन्दितं वैदिकैः उपसेवितं विष्णोः आराधनं सर्वभूतहितार्थाय शाब्दं प्रमाणमवलम्ब्य || इति विमानार्चनाकल्पोक्त’ वाक्यानुसारं वैखानसागमः चतुर्वेदमन्त्रसमन्वितः शब्दप्रमाणमात्रः भवतीति तत्र तत्र संसूच्यन्ते । यथा कर्मण एकस्य कल्पिताः पञ्चवह्नयः तथैवैक विमानस्य पञ्चबेराणि कल्पयेत् । अथवा त्रीणि बेराणि यथा त्रेताग्निकल्पनम् || इति क्रियाधिकारश्लोकानुसारं वैदिकश्रौतयागादिषु यथा गार्हपत्य- आहवनीय-दक्षिणाग्नि - सभ्य- आवसथ्यरूपाः पाञ्चाग्नयः साध्यन्ते तथा अस्मिन्नागमे ध्रुव कौतुक - स्नपन - उत्सव - बलिनामकेति पञ्चबेराणि च समाराध्यन्तेऽपि ।
स वा एष पुरुषः पञ्चधा पञ्चात्मेति । " पञ्चधाग्नीन् व्यक्रामत् विराट्स्रष्टेति ॥ इति श्रुतिप्रमाणानुसारं पञ्चाग्निवत् पञ्चबेरपूजाविधानं परिकल्प्यते अस्मिन् वैखानसागमे । अग्न्याधानं प्रतिष्ठा स्यात् इष्टिः पर्वार्चनादिका । यागश्चावभृथान्तः स्यादुत्सवस्तद्विधानतः ।। इति तन्त्रवाक्यानुसारं वैदिकश्रीतयागेषु निर्दिष्टानाम् अग्न्याधेय - इष्टि- अवभृथैः आगमग्रन्थेषु प्रोक्तैः प्रतिष्ठा - नित्यार्चन कर्मविशेषैः साम्यं परिकल्प्यते च अत्र ।
अवभृथम् इति त्रिभिः 96
ये नखाः ते वैखानसाः वैखानसं पूर्वेऽहन्सामभवति’ वैखानसा वा ऋलय इन्द्रस्य प्रिया आसन् वैखानसायाच्युतसंंं श्रयाय" इत्यादिभिः श्रुतिमन्त्रैः वैखानसं शास्त्रं श्रुतिमूलकं भवतीति वक्तुं नैव सन्देहलेशः । एतानि ऋषिदेवता छन्दांसि अविदित्वा यो अधीते अनुब्रूते जपति जुहोति
इति यजुर्वेदसर्वानुक्रमसूत्रमाधारीकृत्य सर्वेषां मन्त्राणां देवता-ऋषि-छन्दसां ज्ञानम् अनुष्ठातुः अत्यावश्यकमिति श्रुतिवाक्यमाधारीकृत्य इत्थं प्रोच्यते आगमे वैखानसे" । विमानार्चनाकल्पः अथाऽतो मन्त्राणां कल्पं व्याख्यास्यामः । अथाऽतो प्रणवस्वरूपं वक्ष्ये । अथ सावित्रीकल्पं वक्ष्ये । इति तत्र तत्र उपदिश्य त्रिकालसन्ध्याविधानध्यानादीनामपि वैदिकीं पद्धतिमेव अनुसरति वैखानसागमः । एवं च श्रौतयागाराधनं वैखानसे मते समूर्ताराधनरूपेण परिणतिं गतमिति वयं बाढं वक्तुं शक्नुमः । वैखानसागमः श्रुतिमूलकः इति निश्चप्रचोऽयं विषयः अत्र । .. पाञ्चरात्रागमः कथं श्रुतिसम्बद्धः इति इदानीं परिशीलयामः । पाञ्चरात्रागमः श्रुतिमूलमिदं तन्त्रं प्रमाणं कल्पसूत्रवत् । वेदमेकायनं नाम वेदानां शिरसि स्थितम् । तदर्चनं पञ्चरान्नं मोक्षदं तत् क्रियावताम् ॥ 97
इति पाञ्चरात्रसंहितावाक्यानुसारं १२ पाञ्चरात्रं श्रुतिमूलमिति ज्ञायते। छान्दोग्योपनषदि१३ ऋवेदं भगवोऽध्येमि’ इत्यस्मिन् मन्त्रे प्रयुज्यमानम् एकायनपदं पाञ्चरात्रस्य नामान्तरमिति ईश्वरसंहितावचनानुसारं" वक्तुं पार्यते । यथा - श्रुणुध्वं मुनयः सर्वे वेदमेकायनाभिधम् । मोक्षायनाय वै पन्था एतदन्यो न विद्यते । तस्मादेकायनं नाम प्रवदन्ति मनीषिभिः ||
एकायनश्रुतिमधीयाना औपगायन कौशिक - शाण्डिल्य - भरद्वाज - मौञ्जायनाख्याः पञ्चसंख्याकाः आचार्याः शास्त्रमेनं प्रवर्तयामासुः इति उच्यते पाञ्चरात्रागमे । श्रूयते शतपथब्राह्मणे" पाञ्चरात्रसत्रम् । तदनुसारं पञ्चकाल- पञ्चयज्ञ - पञ्चस्वरूप - पञ्चसंस्कारादीनाम् अंशानां विवरणात्मकविवेचनं पाञ्चरात्रागमे दृश्यते। अवभृथं कर्म नित्यनैमित्तिकंकालोत्सवाः प्रतिष्ठा इत्येतानि पाञ्चरात्रागमोक्तकर्माणि सर्वाणि वैदिक श्रौतयागानां प्रतिनिधिरूपत्वेन निर्दिष्टानि भवन्तीति नैव सन्देहलेशः । पाञ्चरात्रागमः श्रुतिसम्बद्धः इति निश्चप्रचोऽयं विषयः अत्र । शैवागमः शैवागमः कथं श्रुतिमूलकः इति इदानीं परिशीलयामः तैत्तिरीयसंहितायां शतरुद्रियाध्याये ६ रुद्रस्य महान् महिमा वर्ण्यते ।
रुद्रः तावत् साद्योजात - वामदेव - अघोर तत्पुरुष - ईशान इति पञ्चस्वरूपः भवतु इति विव्रियते तत्रैव। शैवागमः पञ्चभ्यः परमशिवस्य मुखेभ्यः समुत्पन्नः इति श्रुतिमूलानुसारं निरूप्यते शैवागमे । नमक - चमकमन्त्रादीनां विनियोगः अधिकतया शैवागमप्रतिष्ठार्चनाभिषेकादिकर्मसु परिदृश्यते। उत्सवादीनाम् आचरणविधानमपि श्रुतिमूलकत्वेनैव प्रतिभाति शैवागमे । श्रौतयागप्रतिनिधिभूताः अर्चामूर्तयः श्रौतयागसदृशाः विशेषार्चनादयः 98
विशेषयागसदृशाः उत्सवादयश्च अपि स्पष्टं परिदृश्यन्ते अगमेषु सर्वेषु सर्वत्र । अतः सर्वेऽपि आगमाः श्रुतिमूलकाः एव भवन्तीति मे द्रडीयान् विश्वासः । इतरेषु गाणापत्य - सौर- शाक्तादिषु आगमेषु एतादृशविधानेनैव अंशाः सर्वेऽपि निर्दिष्टाः भवन्तीति वक्तुं नैव संशीतिलेशः । आगमानां सर्वेषां श्रुतिमूलकत्वमेव साध्यमिति सर्वे आगमज्ञाः विद्वांसः समालोचकाः गवेषकाः प्राच्यपाश्चात्यविद्वांसः अपि अभिप्रयन्ति । अतः सर्वे आगमोक्तक्रियाकलापैरेव धन्याः वैदिकाः भगवदनुग्रहतत्पराः आध्यात्मिकसम्पन्नाः भवन्तु इति आशास्य विरम्यते । टिप्पणी 9. वाचस्पत्यम् घत. ऋ पृ. ६१८ २. १०१ पटलः ३. ९, ७ ४. ५. ६. महानारायणोपनिषत् १७, १४ वैखानसमन्त्रप्रश्नाष्टकम् (वैश्वानरसूक्तम्) समूर्तार्चनाधिकरणम् २७, ४-५ ७. तैत्तिरीयारण्यकम् १-२५. २३. ८. तैत्तिरीयसंहिता ७-१-४-३ ९. ताण्ड्यब्राह्मणम् १४-४-७ १०. श्रीवैखानसमन्त्रप्रश्नाष्टकम् (सर्वदैवत्यम्) ११. विमानार्चनाकल्पः ८३ पटलः १२. विष्वक्सेनसंहिता ८, ६ श्रीपुरुषोत्तमसंहिता १-१४ १३. ७, १, २ १४. ९, १८-२२ १५. १३-६-१ १६. ४-५ 99
आगममीमांसा आचार्य व्रजवल्लभद्विवेदः उपयुक्तग्रन्थाः ग्.ए."… घड्ढट्ठीञळठठदड्डुञण, केन्द्रीयसंस्कृतविद्यापीठम्, न्यूदिल्ली १९८२ ईश्वरसंहिता श्री पि.बि. अनन्ताचार्यस्वामी काञ्चीपुरमुद्राक्षरालयः, काञ्चीपुरम् १९२१ वैखानसवैभवम् रों. पार्थसारथिभट्टाचार्युलु र. घ.ऽ..घ.ग्ञटड्डुञ, तिरुमल १९८४ पारमेश्वरागमः 100 प्रो.एन्.आर्.भट्ट ऋक्तइ. ऋतण्तडी, पाण्डिचेरि १९८२ विमानार्चनाकल्पः ति.ति.देवस्थानाम्, तिरुपतिः १९९८ १६. आगमशास्त्रवैशिष्ट्यम् अखिलाण्डकोटिब्रह्माण्डनायकस्य सृष्टिस्थितिसंहारकारणभूतस्य सर्वव्यापिनः परमात्मनः एकत्र स्मरणम् आवहनम् आह्वानमेव आगमशास्त्रस्य मुख्यत्वं वस्तु विद्यते । परमात्मनः उच्छ्वासनिःश्वासरूपेण निगदितस्य वेदराशेः निगम इति यथा प्रसिद्धिरस्ति तथा वेदमन्त्राणां विनियोगरूपस्य आचार-गति- प्राप्तिरिति अंशानां निरूपणपरस्य शास्त्रस्य च आगम इति प्रसिद्धिः राराजति । अमुं ब्रह्माणं गमयति, आसमन्तात् गम्यन्ते व्युत्पाद्यन्ते अनेन इति । सृष्टिश्च प्रलयश्चैव देवानां च तथार्चनम् साधनञ्चैव सर्वेषां पुनश्चरणमेव च । षट्कर्मसाधनं चैव ध्यानयोगश्चतुर्विधः सप्तभिर्लक्षणैर्युक्तं त्वागमं तद्विदो विदुः ।। ’ इत्यादिभिः निर्वचनैः शिल्प - वास्तु - ज्योतिष - रेखा - मन्त्र - यन्त्र - तन्त्रोद्धारादिभिः शास्त्रैः समाहारस्वरूपमेव आगम इति आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः इति वाक्यानुसारेण च आगमशास्त्रस्य स्वरूपं वैशिष्ट्यं च स्फुटमवगम्यतेऽत्र । तत्तद्देवताप्राधान्येन आगमाः भिद्यन्ते बहुविधाः । विष्णुरेव प्रधानदेव इति वैष्णवागमः शिव एव परस्वरूपः इति शैवागमः, शक्तिरेव सर्वस्वरूपिणी इति शाक्तेयागमः, गणपतिरेव प्रधानं तत्त्वमिति गाणापत्यागमः इति बहवोआगमाः अद्य भारते देशे प्रधानतया विद्यन्ते । शैवागमः परमशिवस्य पञ्चभ्यः मुखेभ्यः कामिकाद्यष्टाविंशत्यागमाः समुत्पन्नाः इति शैवागमस्वरूपः भवेत्। वैष्णवागमः द्विविधः वैखानस - पाञ्चरात्र इति, तच्च श्रीमन्नारायणस्वरूपः श्रीविखनोमुनिः श्रुतिमार्गोपेतस्सन् चतुर्वेदोद्भवैः मन्त्रैः ध्रुवकौतुकादि पञ्चबेरपूजाविधानं साङ्गोपाङ्गं भृग्वादिमहर्षिभ्यः प्रत्यपादि’ । ज्ञायते यत् रात्रिर्नाम अज्ञानं पञ्चत्वं नाम नाशः अज्ञाननाशकं 101
विज्ञानप्रदायकं पञ्चभिः संस्कारैः उपेतं, पांचकालविवरणोपेतं मुद्रा - मन्त्र - यन्त्र
तन्त्र - दीक्षादिविधिभिः निर्दिष्टं पाञ्चरात्रं श्रीमन्नारायणेन प्रतिपादितमिति । एतादृशैः इतरेऽपि आगमाः अविच्छिन्नतया गुरुशिष्यपरंपरानुगतेन भारतीयसंस्कृतेः प्रधानचिह्नत्वेन प्रविराजमानेषु मन्दिरेषु तत्तत् सम्प्रदायानुसारम् अनुष्ठानरूपेण विद्योतन्ते इति सर्वजनविदितोऽयमंशः । आगमेषु उपदिश्यमानानाम् अंशानां समालोचनेन प्रधानतया तत्त्वत्रयं, वास्तु-विन्यासविधिः, शिला- दारुपरीक्षा, अङ्गुलविचारः, रन्नन्यासविधिः, भक्तेः लक्षणं, परमात्मनः लक्षणं, क्रियायाः वैशिष्ट्यं, इत्येते अंशाः प्रतिपादिताः वर्तन्ते। एतान् आगमशास्त्रवैशिष्ट्यमिति पत्रेऽस्मिन् यथामति समालोचितुम् इच्छामः । तत्रादौ तत्त्वत्रयम् तस्य भावस्तत्त्वमिति तस्य परब्रह्मणः परमात्मनो नारायणस्य भावः “तत्त्वं नारायणः परः" इति श्रुतिः । । तदवगमनं ज्ञानं तद्विदः ब्रह्मविदिः । तस्मात् परमात्मा ‘ज्ञेयः जीवात्मा ज्ञाता श्रुतयो ज्ञानमिति ब्रह्मवादिनो वदन्ति विमानार्चनाकल्पः ८५ पटलः परमात्मनः वस्तुतत्त्वज्ञानं श्रुतिवाक्यप्रमाणैरेव संगच्छते अतः तेन ज्ञानेन जीवात्मा ज्ञेयस्वरूपं परमात्मानं प्राप्नोति इति तत्त्वत्रयमिदं वैष्णवागमयोः साङ्गोपाङ्गम् उपदिश्यते । पति - पशु - पाशमिति तत्त्वत्रयज्ञानं शैवागमेऽपि परिदृश्यते। वास्तुविन्यासविधिः ग्राम - अग्रहार - नंगर - पत्तन - खर्वट - कुटिक - सेनामुख - राजधानी शिबिर इति ग्रामादिभेदाः आगमग्रन्थेषु प्रतिपादिताः । तत्र विप्राणां सभृत्यानां निवासो ग्रामः । विप्रमुख्यानाम् अग्रहारः । अनेकजनसंबाधमनेकशिल्पिक्रयविक्रयाधिष्ठितं पत्तनम् । उभयसम्मिश्रं खर्वटम् । 102 उपवर्ण्यते।
सपरिवारकैकग्रामणीकं कुटिकम् | सर्वजातिसमाकीर्णं नृपवेश्मसमायुतं सेनामुखम् । चतुरङ्गसमाकीर्णा नृपतद्भृत्यजुष्टा राजधानी । नृपसेनाचमूनाथनिवेशनं शिबिर इति । ग्रामादीनां स्वरूपं सुष्ठु आगमग्रन्थेषु एवं विद्यमानेषु ग्रामादिषु चतुष्षष्टिपदं एकाशीतिपदं षट्पञ्चाशदुत्तरद्विशतपदं वा विभज्य तत्र एशान्यां पदे शङ्करस्य वारुण्यां पदे विष्णोः आदित्यांशे भास्करस्य सुग्रीवे षण्मुखस्य जयन्ते कृष्णस्य पुष्पदन्ते राघवस्य माहेन्द्रे मत्स्यस्य सत्यके कूर्मस्य नैर्ऋत्यां वाराहस्य जवने नृसिंहस्य च स्थानानि कल्पनीयानि इति आलयस्य पार्श्वे अर्चकानां आवांसस्थानम् आग्नेय्यां गोष्ठागारम् नैर्ऋत्याम् आपणम् पैशाचबाह्ये अम्बष्ट्वानां स्थानं वारुण्यां वणिजां स्थानं सौम्ये द्विजानां स्थानं . ऐशान्यां नदीतीरे श्मशानं 1.03
वारुण्यां तटाकं च परिकल्प्य चतुर्वीथिकं त्रिवीथिकं द्विवीथिकं एकवीथिकं वा ग्रामादीन् निर्मापयेदिति साङ्गोपाङ्गं वास्तुविन्यासविधिः उपदिश्यते । शिला - दारुपरीक्षा विग्रहनिर्माणार्थम् आलयनिर्माणार्थं वा ग्राह्याशिला त्रिविधा भवति पुरुष- स्त्री- नपुंसका इति । पुरुषशिलया पुंबेराणि स्त्रीशिलया स्त्रीबेराणि नपुंसकशिलया विमान-मण्डप-स्तम्भादीनि कल्पनीयानि । त्रयाणाम् एतेषां स्वरूपं आगमग्रन्थेषु सुष्ठु उपदिश्यते । तत् परिशीलयामः । विशालामायतां कृष्णां स्त्रियं विद्याच्य तां शिलाम् एकवर्णा घना स्निग्धा व्यक्तघोषा पुमान् भवेत् । अव्यक्तघोषवर्णं च कर्कशं च नपुंसकम् ॥ समूर्तार्चनाधिकरणम् १२, ४-५ एकवर्णा घना स्निग्धा घण्टानादध्वनियुता या शिला पुरुषशिला इति, विशाला आयता कृष्णा कांस्यध्वनियुता शिला स्त्रीशिला इति, कर्कशा अव्यक्तघोषा वर्णविहीना शिला नपुंसका इति च विव्रियते । इति । दारुपरीक्षा अपि स्पष्टं प्रोच्यते तत्र । वृक्षाः त्रिविधाः पुंस्त्रीनपुंसकाः आमूलाग्रमार्जवयुताः सुवृत्ताः शाखानेकयुताः पुंवृक्षाः, स्थूलमूलाः कृशाग्राः स्त्रीवृक्षाः, कृशमूलाः नपुंसकवृक्षाः इति, तस्मात् वृक्षात् तत्तद्दारुसङङ्ग्रहणं कार्यमिति उपदिशति आगमग्रन्थः । अङ्गुलविचारः अङ्गुलं त्रिविधं भवति मान - मात्र - देहलब्धाङ्गुलनामभिः। मानाङ्गुलविधानेन भूमिर्देवालयादीनां मानं मानाङ्गलेन वै । क्रियाधिकारः ३-१३ भूमेः देवालयस्य च विशालं परिमाणं मानाङ्गुलेन कार्यमिति गृहं शय्यासनं यानं पात्रमायुधमेव च । 104 इध्मस्रुक्स्रुवजुह्वादीन् कुर्यान्मात्राङ्गलेन वै ।। क्रियाधिकारः ३-१४ गृहस्य, शय्यायाः, यानस्य, पात्रादीनां, आयुधानां जुह्वादीनां होमद्रव्याणां
च परिमाणं मात्राङ्गुलेन कार्यमिति, विग्रहनिर्माणं देहलब्धाङ्गलेन कल्पनीयमिति आगमग्रन्थानां उपदेशसारः । अङ्गुलविचारे सुस्पष्टं परमाणु- अणु-केश- लिक्षादीनां लक्षणानि शास्त्रान्तरज्ञानापेक्षया आगमग्रन्थेषु विव्रियन्ते । प्राचीनज्योतिष-गणितादीनाम् आधारभूतः एव अयमङ्गुलविचारः इति वक्तुं पार्यते अस्माभिः । रत्नन्यासविधिः बिम्बस्य अधोभागे विद्यमाने आधारपीठे अनेकानि रत्नानि अनेकानि द्रव्याणि च अवश्यं स्थापनीयानि इति एतेषां रत्नानां द्रव्याणां समाहारेण शक्तिः एका आविर्भूय तया शक्त्या विग्रहं तेजोविराजमानं दिव्याद्भुतलावण्यस्वरूपं अङ्ग- उपाङ्ग-सौष्ठवं च साधयतीति आगमिकानां विश्वासः । यथा ब्रह्मस्थाने ब्रह्ममणिं ब्रह्मादेवादिमुच्चरन् अमृताश्मकादिरन्नानि मध्येऽवान्तरदिक्ष्वपि । ततो बीजानि धातूंश्य न्यसेत् मध्यपदे अष्टके सौवर्णं गैरिकं मध्ये हरितालं मनश्शिलाम् । अञ्जनं श्यामकासीसं सौराष्ट्रकं तथा गोरोचनं चतुर्दिक्षु तत्तन्मन्त्रैश्च सन्यसेत् सर्वगन्धयुतं सर्वबीजं ब्राह्मे तु सन्यसेत् ॥ इति भक्तेर्लक्षणम् क्रियाधिकारः ८, ७-१९ भक्तिर्नाम सेवालक्षणमिति सा कामहालाहलाग्न्यमृतधारा सङ्कल्पबीजहरा, देहबन्ध-मोक्षप्रदायिनी सङ्कल्पकण्टकाविद्धविशल्यकरणी, योगाद्ध्यङ्करवर्धनी दुःखत्रयजालभेदिनी सुखचिन्तामणिप्रदा इति, अतः भक्त्या भगवन्तं नारायणमर्चयेदिति च उपदिश्यते आगमग्रन्थेषु । परमात्मनः लक्षणम् परमात्मा सर्वव्यापी यथा क्षीरे आज्यमिव तिलेषु तैलमिव पुष्पेषु गन्थ 105
इव फलेषु रसइव काष्ठे अग्निरिव अणोरणीयान् महतो महीयान् च विराजतीति तं परमात्मानं भक्त्या एकत्र स्मरणं आह्वानं आवाहनमेव मुख्योद्देश्यमिति आगमग्रन्थानां सारः । क्रियायाः वैशिष्ट्यम् क्रिया द्विधा, सा अन्तःकरणव्यापाररूपा बाह्यकरणव्यापाररूपा च । भगवत्प्राप्ति-साधनभूतक्रियाः जपादयः तत्रापि प्रधानभूता क्रिया भगवदर्चनरूपा । अथ परा यया तदक्षरमधिगम्यते इति श्रुत्या’ अक्षरशब्दवाच्यब्रह्मप्राप्तिसाधनतया अर्चनक्रिया विशिष्टा उत्कृष्टा च ज्ञायते ।
आगमग्रन्थेषु प्रोक्ताः आलयनिर्माण - विग्रहप्रतिष्ठा - अर्चन स्नपन - उत्सव-प्रायश्चित्त ज्ञान योगांशाः सर्वे मोक्षोपायभूत चतुर्विधपूजामार्ग- मायाविमोचन सालोक्यादिप्रकारा निगद्यन्ते । भक्त्या कृतस्य भगवदर्चनस्य परमोपायः मोक्ष इति सिद्धान्तः आगमेषु सर्वधा आगमोक्तक्रियाकलापैरेव सर्वेषां चञ्चलचित्तानां कलौ युगेऽस्मिन् अल्पज्ञानां जीवानां भगवदाराधनमेव मुक्तेस्साधनतममिति प्रदर्श्यन्ते च तत्र तत्र । आगमज्ञाः समालोचनतत्पराः विद्वांसश्च अत्र प्रतिपादितान् एतान् विशिष्टान् गुणान् विचार्य शास्त्रवैशिष्ट्येनानेन ज्ञानधुरंधराः ज्ञानपिपासवः आगमधुरीणाः भवन्तु इति आशास्य विरम्यते । समत्वमाराधनमच्युतस्य । टिप्पणी 9. शब्दवाचस्पत्यम् घत. ऋ पृ ६१८ २. به بعد ४. ५. 106 वैष्णवागमविमर्शः रात्रिरज्ञानमित्युक्तं पञ्चेत्यज्ञाननाशकम् । तच्छास्त्रं पाञ्चरात्रं स्यादन्वर्थस्यानुरोधतः - श्रीप्रश्नसंहिता २-४० विमानार्चनाकल्पः ३ पटलः समूर्तार्चनाधिकरणम् ६. ७. ८.
विमानार्चनाकल्पः ७ पटलः काश्यपज्ञानकाण्डः २० अध्यायः
सर्वाधारं सनातनम् अप्रमेयमचिन्त्यं निर्गुणं निष्कलं क्षीरे सर्पिः तिले तैलं पुष्पे गन्धं फले रसं काष्ठे अग्निमिव सर्वव्यापिनं परमात्मानं मनसा संकल्प्य आवाहयेत्। विमानार्चनाकल्पः ३१ पटलः मुण्डकोपनिषत् १-५ कारणागमः उपयुक्तग्रन्थाः श्रीवेङ्कटेश्वरवेदविश्वविद्यालयः, तिरुपतिः २००९ क्रियाधिकारः श्रीवेङ्कटेश्वरओरियन्टल् सिरीस्, टि.टि.डि., तिरुपतिः १९५३ समूर्तार्चनाधिकरणम् तिरुमल तिरुपति देवस्थानम्, तिरुपतिः २००१ पाद्मसंहिता पाञ्चरात्रपरिशोधना परिषत्, मद्रास् १९७४ विमानार्चनाकल्पः तिरुमल तिरुपति देवस्थानम्, तिरुपतिः - १९९८ 107
१७. वैष्णवागमद्वैविध्यम् सृष्टिप्रलयदेवतार्चन पुनश्चरण षट्कर्मसाधन चतुर्विधध्यानयोगात्मकं आगममिति आगमपदार्थः निघण्टुकारैः प्रतिपाद्यते । संसारान्धकारात् मानवानां विमोचनमेव शास्त्रस्यास्य मुख्योद्देशः । अस्य आगमस्य स्रष्टा साक्षात् परमात्मा इति निर्णेतुं शक्यते । अयंचागमः प्रधानतया शैववैष्णवभेदेन द्विविधः । ईश्वरस्य सद्योजातादि पञ्चानां मुखानां अष्टाविंशत्यागमाः प्रादुर्भूताः स एव शैवागमः । वैष्णवागमः प्रधानतया द्विधा विभज्यते, वैखानसपाञ्चरात्रेति नाम्ना । वैखानसागमस्य कर्ता साक्षात् विखनोमुनिः । तस्य चतुर्मुखः कल्पसूत्रप्रवर्तकः इति च विशेषणान्यपि वर्तन्ते । पाञ्चरात्रागमस्य कर्ता साक्षात् श्रीमन्नारायणः । अत्र वैखानस - पाञ्चरात्रयोः आराध्यस्य स्वरूपः आराधनांगभूतं द्रव्यं मोक्षप्राप्तिः इति त्रिषु विषयेषु साम्यं प्रवर्तते सति क्रियाविधाने बहुषु स्थलेषु द्वैविध्यं प्रतिपाद्यते । द्वैविध्यस्यास्य विवरणरूपमेव व्यासस्य मुख्योद्देशः । चरित-क्रिया-विभागयोस्स्वरूपं, विधिविधानानि, मुद्राविधानं, बेरविधानं, उपचारविधिः, नैमित्तिकोत्सवविधयः ध्वजारोहणप्रकारः इत्यंशानां द्वैविध्यम् अधोनिर्दिष्टाः विव्रियन्ते । तत्र चरितविभागः चरित - क्रिया - ज्ञान - योगेति चतुर्भिः विभागैः सुप्रसिद्धः वैष्णवागमः। अत्र चरितं नाम विखनोमुनिप्रणीतनिषेकप्रभृति श्मशानान्ताः अनुष्ठानार्हाः संस्काराः इति वैखानसे मरीचि प्रोक्ते विमानार्चनाकल्पे प्रतिपाद्यते । यथा चरितं भागवता विखनसा सूत्रे विस्तरेण प्रणीतम् इति (८० पटलः) । पाञ्चरात्रे बिम्बप्रतिष्ठापनानन्तरे आलये अनुदिनं आचार्यमुखे अनुष्ठीयमान अर्चनोत्सव स्नपनविशेषपूजा- प्रायश्चित्तात्मकाः चर्या इति उपवर्ण्यते इति चरितभागस्य द्वैविध्यम् । क्रियाभागं नाम कर्षणादि आलयनिर्माणादारभ्य प्रतिष्ठान्ताः अर्चनोत्सव स्नपन विशेषपूजा प्रायश्चित्तादयश्च इति वैखानसागमे निर्दिश्यते । पाञ्चरात्रे कर्षणादारभ्य प्रतिष्ठान्ता एव क्रिया इति क्रियायाः निर्वचनं संक्षेपं क्रियते । अवशिष्टज्ञानयोगविभागेषु द्वैविध्यं न किंचिदपि प्रवर्तते । एतत् चरित क्रिया ज्ञानयोगविभागानां द्वैविध्यम् । 108
निषेकादि संस्कारयुक्त वंशपारंपर्येण स्वाध्यायेन च वैखानासागमः प्रवर्तितः। शास्त्रोक्तैः पञ्चसंस्कारैः वंशपारंपर्यैश्च पाञ्चरात्रं निर्दिष्टं भवति । विधिविधाने द्वैविध्यमेतदेव | वैखानसागमे अर्चनाविधौ सुदर्शन - शंखेति द्वे मुद्रे एव प्रदर्श्यते । अत्र अर्चनाभागं सर्वं मन्त्ररूपेण उद्दिश्यते । तस्मात् वैखानसं वैदिकमिति प्रसिद्दोऽभूत् । पाञ्चरात्रागमे अर्चनाविधौ हृन्मुद्रा शीर्षमुद्रा शिखामुद्रा अस्त्रमुद्रा चक्षुर्मुद्रा योगमुद्रा कुम्भमुद्रादिविंश्त्युत्तरशताधिकाः मुद्राः निर्दिष्टाः । अत्र अर्चनाविधानं सर्वं तन्त्रयुक्तेन प्रतिपादितम् । मुद्राविधाने वैष्णवागमद्वैविध्यं अयमंशापेक्षया सुविदितं वर्तते । बेरविधाने वैखानसागमे प्रतिष्ठाविधौ ध्रुवकौतुकोत्सव स्त्रपनबलिनामकैः चलाचलात्मकैः पंचबेरैश्च पूजनं गर्भगृहे उत्तमोत्तममिति प्रतिपाद्यते । पाञ्चरात्रसंहितासु ध्रुवाकौतुकोत्सव स्नपन बलि शयनेति षट्बेरविधिः प्रदर्शिता । परादिपंचावतारेषु व्यूहरूपस्य द्वैविध्यं पाञ्चरात्रे वासुदेव सङ्घर्षण प्रद्युम्न अनिरुद्धेति चतुर्विधात्मकं व्यूहमिति विश्वामित्रसंहिता निर्दिष्टा । विष्णु पुरुष सत्याच्युत अनिरूद्धेति पंचविधात्मकं रूपं व्यूहमिति वैखानससंहिता निर्दिशति ।
अर्चनांगभूत षोडशोपचारविषये द्वैविध्यं अधोनिर्दिष्टम् वर्तते । यथा आसन स्नानालंकार पाद्याचमन पुष्पगन्धधूपदीप अर्ध्याचमन हविः पानीय आचमन मुखवास दक्षिणा इति षोडशोपचारस्वरूपं वैखानसागमे प्रदर्शितम्। अत्र उपचाराणां आदौ आवाहनं, अन्ते उद्वासनं, सामान्यतया स्वीकृतमिति सूच्यते। तस्मात् आवाहन उद्वासनेत्युपचारद्वयं संख्यारूपेण न परिगण्यते । पाञ्चरात्रे एतदुपचारद्वयं संख्यारूपेण स्वीक्रियते । यथा आवाहन आसन पाद्यार्थ्याचमन स्नपनवसनोपवीत गन्धपुष्पविन्यास धूपदीपनैवेद्य अंजलिमुद्राप्रदक्षिण उद्वासनमिति विष्वक्सेनसंहितायां प्रतिपाद्यते । एतत् षोडशोपचारस्वरूपविधानम् । कृष्णजन्मोत्सवविषये श्रावणेमासि कृष्णाष्टमीतिथौ कृष्णार्चनं कुर्यादिति वैखानसागमः । सिंहमासे कृष्णपक्षे त्वष्टम्यां रोहिणीयुते । हर्षकौलवसंयुक्ते बुधवारे शुभेदिने ।। श्रीप्रश्नसंहिता ४१-३ 109
इत्यत्र सिंहमासे रोहिणीनक्षत्रदिने कृष्णजन्मोत्सवं कुर्यादिति पाञ्चरात्रसंहिता उपदष्टिा । अत्र सौरमासप्रयुक्तं पाञ्चरात्रं, चान्द्रमासप्रतिपादितं वैखानसमिति विज्ञायते । आरोहणं दिवाकुर्यादिति प्रातःकाले एव उत्सवांग ध्वजारोहणम् अवश्यं कर्तव्यमिति पाञ्चरात्रसंहिता निर्दिशति । साये ध्वजारोहणं कुर्यादिति वैखानससंहिता आदिशति । विभाग - विधान - अर्चनोत्सवादीनामंशानां वैखानसपाञ्चरात्रयोः बहुषु स्थलेषु द्वैविध्यं प्रवर्ततेऽपि आराध्यस्य श्रीमन्नारायणस्य विषये तस्य अर्चनमेव मोक्षप्राप्तिः इति सिद्धान्तविषयेऽपि साम्यं प्रवर्तितम् । तस्मात् वेदान्तदेशिकैः शरणागतिदीपिकायां इत्थं प्रदर्शितम् । त्वां पाञ्चरात्रिकनयेन पृथग्विधेन वैखानसेन च पथा नियताधिकाराः । संज्ञाविशेषनियमेन समर्चयन्तः प्रीत्या नयन्ति फलवन्ति दिनानि धन्याः ।। इति । अत्र वैष्णवागमस्य समानविधिः तयोराराधनामार्गस्य वैशिष्ट्यं च सुप्रदर्श्यते। तथैव महाभारतेऽपि । (२४-२३४२) कथं त्वमर्चनीयोऽसि मूर्तयः कीदृशास्तुते । वैखानसाः कथं ब्रूयाः कथं वा पाञ्चरात्रिकाः ।। इति वैखानस पाञ्चरात्रागमद्वयं प्रति समानतया कीर्त्यते । तस्मात् प्राचीनार्वाचीनैश्च विद्वांसैः इदमागमद्वयं समानतया दृष्टिपथं अलंकरोतु इति आशासे । 110 Pioखानसागमस्य ग्रन्थसंख्या १८. भारतदेशेऽस्मिन् अतिप्राचीनः वैदिकमार्गानुगामी अर्चनाविध्युपदेष्टा वैखानसागमः आगमेषु विशिष्टं स्थानं प्राप्नोति । अनेन वैखानसागमानुसारेण विष्ण्वालयेषु वंशपारंपर्येण अर्चनाविधयः अद्यापि प्रवर्तन्ते । अस्य आगमस्य मूलकर्ता भगवान् विखनोमहर्षिः । अस्य महर्षेः भृगुमरीच्यत्रिकाश्यपाख्याः चत्वारः शिष्याः आसन् । शिष्यास्ते गुरोरनुज्ञया क्रमेण अधिकार-संहिता - तन्त्र-काण्डाख्यान् अनेकन् ग्रन्थान् विरच्य लोके अस्यागमस्य प्रचारं चक्रुः । तेषु अस्य आगमास्य ग्रन्थाः कतिसंख्याकाः सन्ति तेषु मुद्रितग्रन्थाः कति अमुद्रिताः कति एकैकः ऋषिः कतिसंख्याकान् ग्रन्थान् विरचितवान् इत्यादयः विषयाः पत्रेऽस्मिन् विमृश्यन्ते। वैखानसागमस्य ग्रन्थसंख्यागणनप्रकारः प्राधान्येन (पंचसु ग्रन्थेषु ) विमानार्चनाकल्पे (१०१ पटलः), आनान्दसंहितायां (१७ अध्यायः), यज्ञाधिकारे (५१ अध्यायः), समूर्तार्चनाधिकरणे (अनुबन्धः क-४-२६, ३५) वासाधिकारे (२अध्यायः) च दृश्यते । एषु ग्रन्थेषु आनन्दसंहिता-विमानार्चनाकल्पौ मरीचिकृतौ। समूर्तार्चनाधिकरणम् अत्रिणा प्रणीतम्। यज्ञाधिकार - वासाधिकारौ भृगुप्रोक्तौ भवतः एतेषु पञ्चसु ग्रन्थेषु प्रतिपादितानंशान् आधारीकृत्य भृगुमरीच्यत्रिकाश्यपानां चतुर्णां ग्रन्थसंख्या अधोनिर्दिष्टेन प्रकारेण विर्धारितुशक्यते । . तत्र प्रथमतः भृगुमहर्षेः ग्रन्थसंख्या परामृश्यते । भृगुग्रन्थपरिगणने विमानार्चनाकल्पे खिल, पुरातन्त्र, वासाधिकार, चित्राधिकार, मानाधिकार, क्रियाधिकार, अर्चाधिकार, यज्ञाधिकार, वर्णाधिकार प्रकीर्णाधिकार, प्रतिगृह्याधिकार, निरुक्ताधिकार, खिलाधिकाराख्याः त्रयोदशाधिकाराः भृगुनिर्मिताः इति प्रतिपाद्य तेषां ग्रन्थसंख्या ८८,००० परिमाणात्मकाः इति च उक्तम् । (अत्र ग्रन्थशब्दस्य द्वात्रिंशदक्षरसमुदायः श्लोकः इति ज्ञातव्यः) आनन्दसंहितायां खिल, खिलाधिकार, पुराधिकार, वासाधिकार, अर्चाधिकार, मानाधिकार, क्रियाधिकार, निरुक्ताधिकार, प्रकीर्णाधिकार, यज्ञाधिकाराख्याः दश अधिकाराः भृगुविरचिताः इति तेषां ग्रन्थसंख्या ६४,००० इति च सूचितम् । 111
यज्ञाधिकारमनुसृत्य खिल, क्रियाधिकार, वासाधिकार, मानाधिकार, निरुक्ताधिकार, प्रकीर्णाधिकार, अर्चनाधिकार, यज्ञाधिकार, वर्णाधिकार, पुरातन्त्र, उत्तरतन्त्राख्याः एकादश अधिकाराः भृगुनिर्मिताः इति तेषां ग्रन्थसंख्या ५०,००० इति च ज्ञायते । समूर्तार्चनाधिकरणे तु खिल, खिलाधिकार, पुरातन्त्र, वासाधिकार, चित्राधिकार, क्रियाधिकार, मानाधिकार, प्रतिगृह्याधिकाराख्याः अष्टौ अधिकाराः भृगुनिर्मिताः इति तेषां ग्रन्थसंख्या ६४,००० इति च प्रतिपादितम् । वासाधिकारे पुरातन्त्र वासाधिकार चित्राधिकार सोमाधिकार क्रियाधिकार निरुक्ताधिकार अर्चनाधिकार यज्ञाधिकार वर्णाधिकार प्रतिगृह्याधिकाराख्याः दश अधिकाराः ६४,००० ग्रन्थात्मकाः भृगुनिर्मिताः इति निर्दिष्टम् । एषु पञ्चसु ग्रन्थेषु अधिकसंख्याकाः अधिकाराः भृगुणा उपदिष्टाः इति विमानार्चनाकल्पे एव निरूपितम् । एतदनुसृत्य आनन्दसंहितायां चित्राधिाकारवर्णाधिकारप्रतिगृह्याधिकाराख्याः त्रयः अधिकाराः न प्रतिपादिताः । यज्ञाधिकारे तु अधिकतया उत्तरतन्त्रं दृश्यते । समूर्तार्चनाधिकारे विमानार्चनाकल्पोक्ताः अर्चाधिकार यज्ञाधिकार वर्णाधिकार प्रकीर्णाधिकार निरुक्ताधिकाराख्याः पंच अधिाकाराः एव निर्दिष्टाः । वासाधिकारे विमानार्चनाकल्पोक्ताः खिल खिलाधिकार मानाधिकार प्रकीर्णाधिकाराख्याः चत्वारः नोक्ताः । तत्रापि विमानार्चनाकल्पे अनुक्तः सोमाधिकारः वासाधिकारे अधिकतया प्रतिपाद्यते । अयं च ग्रन्थः विमानार्चनाकल्पोक्त मानाधिकार एव इति निर्णेतुं शक्यते । इत्थं भृगुग्रन्थपरिशीलने विमानार्चनाकल्पोक्त त्रयोदश अधिकाराः एव भृगुग्रन्थाः इति निर्णेतुं शक्यते । एतेषु त्रयोदश भृगुग्रन्थेषु क्रियाधिकार यज्ञाधिकार प्रकीर्णाधिकार वासाधिकार खिलाधिकाराख्याः पञ्च एव मुद्रिताः आसन् । खिल वर्णाधिकार पुरातन्त्र मानाधिकारचित्राधिकार उत्तरतन्त्र अर्चनाधिकाराः मातृकारूपेण प्राच्यपुस्तकालयेषु अर्चकानां गृहेषु च अद्यापि उपलभ्यन्ते । खिलप्रतिगृह्याधिकारौ नाममात्रेण उपलब्धौ सर्वेऽपि ग्रन्थाः श्लोकरूपेणैव सन्ति । 112
द्वितीयांशत्वेन मरीचिमहर्षेः ग्रन्थसंख्या विचार्यते विमानार्चनाकल्पे जयसंहता आनन्दसंहिता संज्ञानसंहिता वीरसंहिता विजयसंहिता विजितसंहिता विमलसंहिता ज्ञानसंहिताख्याः इत्यष्टौ संहिताः १,८४,००० ग्रन्थपरिमाणात्मकाः मरीचिनिर्मिताः इति उपदिष्टम् । आनन्दसंहितानुरोधेन जयसंहिता आनन्दसंहिता संज्ञान संहिता वीरसंहिता विजयसंहिता विमलसंहिता कल्पसंहिताख्याः अष्टौ संहिताः १,८४,००० ग्रन्थत्मकाः मरीचिकृताः भवन्ति । यज्ञाधिकारे मरीचिना एकादशसंहिताः निर्मिताः इति ताः लक्षग्रन्थात्मकाः इति च प्रतिपादितम् । समूर्तार्चनाधिकरणे अनन्तसंहिता परसंहिता ज्ञानसंहिता जयसंहिता वीरसंहिता सत्यसंहिता इति षट्संहिताः लक्षग्रन्थात्मकत्वेन निरूपितम् । अत्र वासाधिकारसमूर्तार्चनाधिकरणयोः द्वयोः मरीचिकृताः संहिताः अंगिरसनाम्ना व्यवहृता भवन्ति । अत्र आनन्दसंहितोक्त कल्पसंहितायाः नाम विमानार्चनाकल्प समूर्तार्चनाधिकरण-वासाधिकरेषु न सूचितम् । विमानार्चनाकल्पे प्रतिपादिता ज्ञानसंहिता आनन्दसंहितायां न दृश्यते । वासाधिकारसमूर्तार्चनाधिकरणयोः प्रतिपादिते आनन्दसत्यसंहिते द्वे विमानार्चनाकल्पे न सूचिते । विमानार्चनाकल्पोक्ताः आनन्दसंज्ञानविजितविमलसंहिताः समूर्तार्चनाधिकरणे नोपलभ्यन्ते । उपर्युक्तानामंशानां परिशीलनेन मरीचिकर्तृका ग्रन्थासंख्या अस्माभिः निर्णेतुं न सुशकम्। परन्तु विमानार्चनाकल्पोक्तप्रकारेण अष्टौ संहिताः मरीचिकर्तृकाः इति संभाव्यते । तासु मरीचिप्रोक्तासु संहितासु विमानार्चनाकल्पः गद्यरूपेण आनन्दसंहिता तु शलोकरूपेण च दृश्यन्ते। तृतियांशत्वेन अत्रिमहर्षेः ग्रन्थसंख्या परिशील्यते । विमानार्चनाकल्पे पूर्वतन्त्रम् आत्रेयतन्त्रं विष्णुतन्त्रम् उत्तरतन्त्रमिति तन्त्र चतुष्टयं ८८,००० ग्रन्थपरिमाणात्मकम् अत्रिनिर्मितम् इति निर्दिष्टम् 1 आनान्दसंहितायां पूर्वतन्त्रं विष्णुतन्त्रम् अत्रिनिर्मितम् इति उपपादितम् । यज्ञाधिकारानुसारेण एकादशतन्त्राणि २५,००० ग्रन्थपरिमाणात्मकानि अत्रिनिर्मितानि 113
भवन्ति । समूर्तार्चनाधिकरणे पाद्मतन्त्रं विष्णुतन्त्रम् आत्रेयतन्त्रमिति चत्वारि तन्त्राणि ८८,००० ग्रन्थपरिमाणात्मकानि इति निर्दिष्टानि । वासाधिकारे तु उत्तरतन्त्रं विष्णुतन्त्रम् आत्रेयतन्त्रं पूर्वतन्त्रमिमि चत्वारि तन्त्राणि ८८,००० ग्रन्थसंख्यात्मकत्वेन कथितानि । यज्ञाधिकारे केवलं ग्रन्थसंख्यायाः निर्दिष्टत्वेन तन्त्राणाम् अनिर्दिष्टत्वेन च अस्य प्राधान्यं न दीयते । विमानार्चनाकल्पोक्त आत्रेयतन्त्रस्य स्थाने आनान्दसंहितायां महातन्त्रं सूचितम् । विमानार्चनाकल्पे प्रथमतः पूर्वतन्त्रं निर्दिष्टम्। समूर्तार्चनाधिकरणे आदौ पाद्मतन्त्रस्य निर्देशः कृतः । यज्ञाधिकारं विवर्ज्यते चेत् विमानार्चनाकल्पादि ग्रन्थान्तरेषु ग्रन्थसंख्या एकरूपतया प्रतिपादितत्वात् अत्रिणा तन्त्रचतुष्टयं प्रणीतमिति निश्चेतुं शक्यते । अत्रिनिर्मितानि एतानि चत्वारि तन्त्राणि नोपलपभ्यन्ते । परन्तु उत्तरतन्त्रस्यान्तर्गतं समूर्तार्चनाधिकरणं एकमेव मुद्रितं भवति । अयं ग्रन्थः श्लोकरूपः । I चतुर्थांशत्वेन काश्यपग्रन्थसंख्या विचार्यते । विमानार्चनाकल्पात् सत्यकाण्ड तर्ककाण्ड ज्ञानकाण्डाख्याः त्रयः काण्डाः काश्यपनिर्मिताः इति ज्ञायते । तेषां ग्रन्थसंख्या ६४,००० इति । आनन्दसंहितायां सत्यकाण्ड- कर्मकाण्डज्ञानकाण्डसनातनकाण्डाख्याः चत्वारः काण्डाः ९२,००० ग्रन्थात्मकाः काश्यपविरचिताः इत उक्तम् । यज्ञाधिकारे काश्यपनिर्मितग्रन्थाः पंचसंख्याकाः इति तेषां ग्रन्थसंख्या १२,५०० इति च विवृतम् । समूर्तार्चनाधिकरणे तु सन्तानकाण्ड काश्यपकाण्ड सत्यकाण्ड तर्ककाण्ड ज्ञानकाण्डाख्याः पंचकाण्डाः १६,००० ग्रन्थात्मकाः इति उपवर्णितम् । वासाधिकारे तु सन्तानकाण्ड काश्यपकाण्ड सत्यकाण्ड तर्ककाण्ड ज्ञानकाण्डाख्याः पंचकाण्डाः २०,००० ग्रन्थरूपा इति निर्दिष्टम् निर्दिष्टेषु विमानार्चनाकल्पादिषु ग्रन्थेषु काश्यपकर्तुकाः रचनाः आधिक्येन समूर्तार्चनाधिकरण वासाधिकारयोरेव दृश्यन्ते । समूर्तार्चनाधिकरणवासाधिकारयोः प्रतिपादितौ सन्तानकाश्यपकाण्डौ विमानार्चनाकल्पौ न निर्दिष्टौ । कश्यपेन अधिकतया २८,००० संख्यात्मकत्वेन ग्रन्थः विरचित इति आनान्दसंहितायां उक्तत्वात् अयमेव 114
सनातनकाण्डः इति व्याख्याकारैः कथितम्। भृग्वत्रिभ्याम् उपदिष्टस्य सन्तानकाण्डस्य मरीचिप्रतिपादितस्य सनातनकाण्डस्य च साम्यं वर्तते । तस्मात् काश्यपनिर्मितग्रन्थाः पंचसंख्याकाः एव इति सर्वैः अङीक्रियते । एषु ग्रन्थेषु ज्ञानकाण्डः एक एव गद्यरूपेण उपलभ्यते । ग्रन्थोऽयं मुद्रितञ्च । इत्थं भृग्वत्रिकाश्यपमरीचीनां ग्रन्थपरिशीलनेन इदं ज्ञायते यत् भृगोस्त्रयोदश काश्यपस्य पञ्च अत्रेश्चत्वारः मरीचेस्त्वष्टौ कृतयः सन्तीति अस्माभिः निर्णेतुं शक्यते । एतदनुसृत्य वैखानसागमस्य ग्रन्थसंख्या त्रिंशत्परिमिता भवन्ति । तेषु भृगोश्चत्वारः अन्निकाश्यपयोरेकैकः मरीचेः द्वावेव संपूर्णतया मुद्रितग्रन्थरूपेण अद्य उपलभ्यन्ते । भृगोः सप्त ग्रन्थाः मातृकारूपेण दरीदृश्यन्ते । अन्ये नाममात्रेणैव व्यवह्रियन्ते । ये ग्रन्थाः मातृकारूपेण उपलभ्यन्ते तान् ग्रन्थान् आगमपण्डिताः अचिरेणैव कालेन संपाद्य प्रकाशयन्तु इति आशासे । । श्रुतिस्मृतिनदीपूर्णं शास्त्रकल्लोलसंकुलम् । विष्णुभक्त्युदकं शुद्धं वन्दे श्रीविखनोऽर्णवम् || 115
१९. वैखानसं विष्णुपारम्यम्
भगवतः श्रीमन्नारायणस्य +आराधनं सर्वाभ्युदयसाधकम्
इति विपश्चिद्-अपश्चिमानां निश्चप्रचम् ।
अत्र “विष्णोस्तन्त्रं द्विधा प्रोक्तं” इति आर्षवचनेन
“वैखानसं पाञ्चरात्रम्” इति निगमान्त-देशिकानां वचनानुरोधेन च
तदाराधनाप्रतिपादितं शास्त्रं द्वैविध्यं च समश्नुते ।
तत्र तु एकं वैखानसं शास्त्रम् ।
अस्य वैखानस-शास्त्रस्य मूलं
महर्षिकुलतिलकेन भगवता विखनसा प्रणीतं कल्पसूत्रं भवति ।
सूत्रमिदं स्मार्त-धर्म-प्रवर-श्रौतविभागः चतुर्धा भिद्यते ।
कल्पसूत्रेऽस्मिन् स्मार्ते सप्त, धर्मे त्रयः, प्रवरे एकः, श्रौते च एकविंशतिः प्रश्नाः भवन्ति ।
स्मार्तसूत्रे अष्टादशसंस्काराः, पाकयज्ञाः, अपरसंस्काराश्च विवृताः भवन्ति ।
धर्मे-ब्रह्मचारि-गृहस्थ-वानप्रस्थ-सन्यासा इति चत्वारः आश्रमधर्माः प्रतिपादिताः ।
प्रवरे प्रवरविधानं
श्रौते तु हविर्यज्ञाः सोमयज्ञाः अपराधप्रायश्चित्ताश्च अंशाः उच्यन्ते ।
महर्षिणा विखनसा आरचितेषु +एवं-विधेष्व् अंशेषु
सर्वत्रापि परमवैष्णवत्वं विष्णुपारम्यं च प्रकाशयति ।
तथाहि आदौ सूत्रोपक्रमे मात्रादीन् अष्टाधिकारिणस् सुनिरूप्य
अष्टमश्रेणीं प्राप्तस्य मुनेः वरीयस्त्वं प्राबोधयत्।
नारायणपरायणो निर्द्वद्वो मुनिः
“संस्कारविशेषात् पूर्वात् पूर्वात् परो वरीयान्”
इति ।
अत्र यतोऽहि जागर्ति संसारोत्तारकत्वम् अपवर्गान्तः फलप्रदत्वं च
श्रीमन्नारायणस्यैव अतो वरीयस्त्वं
मुनित्व-सहचरित्वम् एव भवति ।
मुनेर् नारायणपरत्वात् अतो नात्रप्रतिबन्धः ।
अपि च मुनिर्नाम मननशीलः
मननं तु विषयविशेषसंशीलनं
तच्चात्र शुभाश्रयसंशीलनमेव
तच्च नारयणपरायणस्यैव भवति ।
तदेवं स्यान् नामाऽन्वर्थम् ।
अत्र श्रीमद्-अष्टाक्षरमहामन्त्र परायणत्वम् अवगमयतीति
तदेव विष्णुपारम्यं भवति ।
किंच सूत्रोपसंहारे द्वात्रिंशत् प्रश्नान्ते
“ध्यायन्नारायणं यत् प्रायश्चित्तमभिदधाति
आनर्थक्यात् प्रसङ्गे तत् कुर्यात् ।
आपत्सु तद्धनं तद्धनम् इत्याह विखनाः इति”
अत्र विध्यपराधे सति
यत् प्रायश्चित्तं विधीयते
तत् श्रीमन्नारयणस्य ध्यायन्नेव कुर्यात्।
तत् प्रसाङानाम् आनर्थक्यात् कर्मसाद्गुण्यात् आधायकत्वाच्च । अपि च भवत्यपराधोऽप्यापत्सु आपत्सु तद्धनं श्रीमन्नारायणस्मरणमेव धनम् । अतः तन्निवारकत्वं सर्वापन्निवारकस्य श्रीमन्नारायणस्यैव भवतीति महर्षेराशयः ।
116
I
आपत्सु इत्यत्र बहुवचनं सर्वाप्यापदस्संगृह्णाति । अत एव वेदव्यासेन श्रीमन्महाभारते सभापर्वणि ९० अध्याये द्रौपद्याः आपदि महत्यापदि संप्राप्ते स्मर्तव्यो भगवान् हरिः” इति उच्यते । वैखानसकल्पसूत्रे एकत्रिंशः प्रश्न आद्ये हविर्यज्ञप्रायश्चित्तप्रकरणे “विद्यपराधे प्रायश्चितं दोषविघातार्थं विधीयते । अनाज्ञाते विशेषे ध्यानं नारायणस्य तज्जपेज्याहोमाश्चहननार्थाः इत्येकस्मिन् दोषे श्रुतानि प्रायश्चितानि समुच्चीयन्ते” इत्यत्र विध्यपराधे सति दोषनिघातार्थं प्रायश्चित्तं भवति । अनाज्ञाते विशेषे तज्जपेज्याहोमैश्च समुच्चीयन्ते । तथा च जपहुतार्चनध्यानरूपसमाराधनं चतुर्विधमपि श्रीमन्नारायणविषयकं दोषनिवारणकमपि च भवति। अतः अनाज्ञाते विशेषे तत् समुच्चयः आवश्यक इति महर्षेराशयः । एवं च उपक्रमे नारायणादेव सर्वार्थसिद्विरिति उपसंहारे नारायणादेव सर्वदोषनिवृत्तिर्भवतीति दृश्यते । इदमेव परमवैष्णवतायाः परमं निदानं भवितुमिति, अपि च महर्षिणा मध्ये मध्ये अनुगृहीतान्तास्त्वन्येऽपि विषयाः केचिदुदाह्रियन्तेऽत्र । आचमनविधौ “विष्णुः प्रीणातु इति हृदयं" इत्यत्र हृदयगुहान्तर्वर्ती परमात्मा विष्णुः इति निश्चित्य हृदयस्पर्शनमभिधत्ते । भगवदाराधनाप्रकरणे गृहे विष्णोः प्रतिष्ठां उक्त्वा तस्य आराधनं च विष्णुसूक्तेन अभिधाय पुरुषसूक्तेन स्तुतिप्रणामे च वक्ष्यन् ‘“द्वादशाष्टाक्षराभ्यां पुष्पाणि ददाति" इति व्यापकत्रयान्तर्भूताभ्यां परमवैष्णवमन्त्राभ्यां द्वादशाक्षराभ्यां भगवतः श्रीमन्नरायणस्य शरणीकरणीययोः द्वयोः चरणयोः पुष्पाञ्जलिनिक्षेपमनुगृह्णाति महर्षिः विखनाः । इदं आत्मनिक्षेपस्याप्युपलक्षणमिति संप्रदायविदः अभिप्रयन्ति । प्रायश्चित्तप्रकरणे षष्ठप्रश्ने “प्रायश्चित्ते अनुक्ते वैष्णवं प्रायश्चित्तं” इत्यत्र विध्यपराधसंजनितदोषनिघातार्थं वैष्णवमन्त्र एव प्रभवतीति महर्षेराशयः । अष्टमप्र वर्णाश्रमधर्मप्रकरणे ब्रह्मचारिविषये प्राजापत्यः स्नात्वा नित्यकर्म ब्रह्मचर्यशीलः नारायणपरायणः वेदवेदाङार्थान् विचार्य दारसङ्ग्रहणं करोति" इत्यभिधत्ते। गृहस्थविषये “नारायणपरायणः सायंप्रतरग्निहोत्रं हुत्वा" इत्युच्यते। वनस्थविषये नारायणपरायणः 117
तपश्शीलो भवति इति दृश्यते । अग्निष्टोमप्रकरणे “अथ यजमानो हचं यच्छति नारायणपरायणस्तूष्णीमास्ते । प्रागुदयान्नक्षत्राणां यदिप्रमत्तो वाचं विसृजेत् । वैष्णवीं व्याहृतीश्चानूच्य पुनर्वाचं यच्छेत्” इत्यत्र यजमानस्य तारकोदयपर्यन्तं विधीयमानं वाङ्नियमनं तूष्णीमवस्थानं नारायणपरायणत्वे सत्यनंतफलप्रदं भवेत् इति अभिधत्ते। तत्रापि यदि विध्यपराधस्यात् अपराधसंजनित दोषनिवारकतया वैष्णवमन्त्रानधीत्य पुनर्वाचं यच्छेदित्यभिधत्ते । तथा च विधिप्रायश्चित्तयोः उभयोः अपि यथा वैष्णवत्वं प्रकाशेत तथा विधत्ते महर्षिरितिविशेषः । एवं चैतत् सूत्रम् आमूलाग्रं श्रीमन्नारायणपारम्यं पुरस्कृत्यैव प्रवृत्तमित्यतः वैखानसं परमवैष्णवं विष्णुपारम्यं च भवति । व्यासमन्वादयः स्वेषु धर्मशास्त्रपुराणेतिहासादिषु वैखानससिद्धान्तान् प्रमाणीकुर्वन्तः सन् सर्वे जनाः वर्णाश्रमधर्मानुष्ठानविषयेषु वैखानस - सूत्रानुष्ठानमावश्यकमिति प्रबोधयन्ति । तद्यथामनुस्मृतौ वानप्रस्थधर्मनिर्णये षष्ठाध्याये । पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा । कालपकवैः स्वयंशीर्णैः वैखानसमते स्थितः || इत्यत्र तृतीयाश्रमी वानप्रस्थः वैखानससूत्रोक्तधर्मान् अनुतिष्ठन् वर्तेत इत्यभिधत्ते । अत्र व्याख्याता वैद्यानाथदीक्षितः विखनसा प्रोक्ते सूत्रे वानप्रस्थधर्माणां पूर्णः उपदेश लभ्यत इति तस्यां व्याख्यायां कथयति । वेदव्यासः अपि श्रीमन्महाभारते शान्तिपर्वणि २५० अध्याये । पुष्पैरेके फलैरेके मूलैरेके दृढव्रताः । वर्तयन्ति यथान्यायं वैखानसमतं श्रिताः ।। इति तृतियाश्रमिणः वैखानससूत्रोक्तधर्मान् अनुतिष्ठन्तो वर्तेयुरिति बोध्यते । मनुव्यासादिभिः प्रमाणतया स्वीकृतं शिष्टैः प्रामाणिकशिरोमणिभिः अनुसृतं परमवैष्णवं कल्पसूत्रम् अनुगृह्णाति भगवान् विखनाः इति निष्कर्षः । 118 विखनोमुनिशिष्याः भृगु-मरीचि - अत्रि- कश्यपाः चत्वारः महर्षयः अधिकार-
संहिता-तन्त्र-काण्डनामविभागैः अष्टाविंशति सहस्रात्मकं लक्षचतुष्टयग्रन्थपरिमितं वैखानसागमनामकं ग्रन्थजातमेकं विष्णुपारम्यमनुसृत्य उपदिशन्ति । तत्र मरीचिना स्वविमानार्चाकल्पनामके ग्रन्थे ऋषिप्रश्नोत्तरसंदर्भ केन मार्गेण कैर्मन्त्रैः कं देवमर्चयन्तः कान् लोकान् गमिष्यन्तीति नानालोकनिवासिनाम् ऋषीणां प्रश्नानुपादाय श्रुत्यनुकूलेन मार्गेण चतुर्वेदोद्भवैः मन्त्रैः सुप्रसन्नं परमात्मानां श्रीमन्नारायणमर्चयन्तः श्रुतिभिरभिहितं शाश्वतमतीन्द्रियं परात्परं देवैरप्यनभिलक्ष्यं तद्विष्णोः परमंपदं गच्छेयुः इति प्रतिपादितः । ततः विष्णुपारम्याराधनयोः श्रुतिमूलकतां निरूप्य समूर्ताराधनस्य श्रैष्ठयं च अभिधाय तदाराधनप्रकारमेव पूर्वाङ : उत्तराडैस्सहितेन विवृणोति । तदेव श्रीवैखानसशास्त्रं श्रीमन्नारयणैक विषयकतया परमवैष्णवं भवति । तत्रैव आगमे प्रतिष्ठाप्रकरणे ३१ पटले कुम्भपूजायां आचार्यः “विष्णुर्मांरक्षत्विति आत्मरक्षासूक्तं जपित्वा समाहितो ध्यानमाचरेत्" इत्युच्यते। अनेन ध्यानमथनात् आचार्यस्य हृदि सन्निहितः विष्णुः रक्षकः ध्येयः ध्याता आराधकः उपासकश्चेत्यादयो विषयाः परमवैष्णवाः संगृहीताः भवन्ति । आराधने तु ४१ पटले “पुरुषसूक्तेन संस्तूय अष्टाक्षरेण द्वादशाक्षरेण वा पुष्पाञ्जलिं ददाति’” इत्यत्र आराधकस्तु आराधनान्ते पुरुषसूक्तेन परमपुरुषं लक्ष्मीपतिं श्रीमन्नारायणं संस्तूय वैष्णवमन्त्रराजेन अष्टाक्षरेण द्वादशाक्षरेण वा भगवतः तस्य श्रीमन्नारायणस्य चरणकमलयोः पुष्पाञ्जलिं दद्यात् इति प्राबोधयत् । प्रायश्चित्ते तु ६४ पटले वैष्णवमन्त्राणां अनुष्ठानादेव विद्यपराधसंजनित सर्वदोषनिवारकत्वं संभवतीति बोधयति । महर्षिकुलतिलकेन भगवता विखनसा अनुगृहीतं कल्पसूत्रं तच्छिष्यैः महर्षिभिः भृग्वादिभिः संगृहीतं श्रीवैखानसस्यागमं सिद्दान्तं च परमवैष्णवत्वमिति परमार्थः । वैखानसार्यदिव्याज्ञा वर्धताम् अभिवर्धताम् । 119
विविधशोधपत्रिकासु प्रकाशितनिबन्धानां सूची १. स्नपनविषये श्रीवैखानसपाञ्चरात्रयोर्मतभेदः, अजस्रा, अखिलभारतीयसंस्कृतपरिषत्, लखनो, जुलै, १९९९ २. पवित्रोत्सवः सुरभारती, बरोडा संस्कृतविश्वविद्यालयः, बरोडा, २००१-२००२ ३. विष्णुबलिसंस्कारः सारस्वती सुषमा, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी, Dec. - Mar. - २००२-०३ ४. ध्वजस्तम्भकल्पने श्रीवैखानसपाञ्चरात्रयोर्मतभेदः Oriental Journal Of SVORI, S.V.U., Tirupati, Vol. XLVI. 2003. ५. वैनतेयविषये श्रीवैखानसपाञ्चरात्रयोर्मतभेदः महस्विनी, राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः, कर्ता. २००३ ६. देवालयीयक्रियाकलापस्य प्रचारोपायाः, Proceedings of the National Conference on Vedas and sastras, TTD., Tirupati - 2004. ७. ब्रह्मोत्सवः, हिमांशुश्रीः The Felicitation Volume of Acharya Dr. V.P. Himamsu, Puri, 2005. ८. वैखानसागमे तत्त्वविचारः Oriental Journal Of SVORI, S.V.U., Tirupati, Vol. XLIX. 2006. ९. वैखानसीयं जिज्ञासाधिकरणम्, श्रुतिविवेचिनी, S.V.V.V. Peetham, T.T.D., Tirumala, Dec. 2006. १०. पाञ्चरात्रागमः पञ्चकालपरामर्शश्च, संस्कृतमञ्जरी संस्कृतअकाडमी, दिल्ली, March, 2007 ११. अभ्युदयनिःश्रेयसोपायाः आगमाः, श्रुतविवेचिनी S.V.V.V. Peetham, TTD, Tirumala, Febru. 2008 १२. वैष्णवागमयोर्विभवः, महस्विनी, 120 राष्ट्रियसंस्कृतविद्यापीठम्, Tirupati, 2008 १३. परमात्मा - श्रीपारमात्मिकोपनिषत्, शोधप्रभा, श्री.ला.ब.शा.रा.सं. विद्यापीठम्, New Delhi, July, 2009 १४. क्रियावानेषब्रह्मविदां वरिष्ठः, शेवधिः, यस्.वि.वेद विश्वविद्यालय:, Tirupati, 2010 July - December. १५. आगमानां श्रुतिमूलकत्वम्, महस्विनी राष्ट्रियसंस्कृतविद्यापीठम्, Tirupati, 2011. १६. आगमशास्त्रवैशिष्ट्यम्, शोधप्रभा श्री.ला.ब.शा.राष्ट्रियसंस्कृतवद्यिापीठम्, नई दिल्ली १७. वैष्णवागमद्वैविध्यम्, सप्तगिरि तिरुमलतिरुपतिदेवस्थानम्, तिरुपति, October, 1992 १८. वैखानसागमस्य ग्रन्थसंख्या, सप्तगिरि, तिरुमलतिरुपतिदेवस्थानम्, तिरुपति, March, 1992 १९. वैखानसं विष्णुपारम्यम्, सप्तगिरि, तिरुमलतिरुपतिर्देवस्थानम्, तिरुपति, March, 1995. 121
About the Author is holiness the reverred Dr. Vedantam Sri Vishnubhattacharyulu, born to Desikacharyulu and Dhanalaxmi in the year 05-07-1964 was well educated in M.A Sanskrit, M.Phil (Agama), Ph.D(Vaikhanasagam). He is well equipped in study of Vaikhanasagam and jyotisha. Traditionally and gained prolific and Immense knowledge. At present he is Associate Proffessor in Agama, Rashtriya Sanskrit Vidyapeetham, Tirupati. But know he holds the Honorary post as such 1) Advisor of Vaikhanasagama, TTD. 2) Member of The Examination Board, Vaikhanasagama, Department of Endowments, Govt. of Andhrapradesh. Since he is acquainted with knowlege of spiritual, moral, ethical works. He himself had published more than twenty books in Sanskrit and Telugu Languages. His Research articals are more than thirty books in Telugu and Sanskrit Literature. Besides he delivered commentaries more than Hundred that are live commentaries on various religious and spiritual topics in A.I.R., T.V., S.V. Bhakti Channel etc. As a guidance to the students who done their M.Phil were three and Four Ph.Dstudents. Presently there are Five Research students working under him. His experiences with public as such, he supervised and conducted Brahmotsava, Pavitrotsava, Ashtottarshatakundatmaka mahavarnayaga, Shantiyaga and Samprokshana etc. He Eventfully conducted Seminars on Agamas and Vedas. Also Training classes for Archakas through S.V.E.T.A., T.T.D. Being such a great persona of the age, he beign honoured with Ugadi Puraskaram in 2006 by the Govt. of Andhrapradesh.