श्रीनिवासपरब्रह्मणे नमः
(१०. दशमस्तबक प्रारम्भः॥)
६२. आदिमूर्त्यादिभेदः
आदिमूर्तेः
शेषोत्सङ्गे निषण्णो मृदुचरणवरं दक्षिणं सम्प्रसार्य
स्थाने वामं निकुञ्च्य प्रसृतकरवरं जानुशीर्षे च वामम् ।
दक्षं सन्यस्य शेषेह्युपरि धृतफणैः पञ्चभिश्चादिमूर्ति
श्शङ्खं चक्रञ्च सर्वाभरण मथदधच्छन्नको विद्रुमाभिः ॥१
’’आदिमूर्तये । अमितमहिम्ने । अत्यन्ताद्भुताय । सर्वाधाराय’’
नागराजस्य पूर्वत् ॥
मानुषवासुदेवस्य
श्यामाभं द्विभुजं किरीटरुचिरं शङ्खारि राजत्करं
राजीवायतलोचनं विकसिताम्भोजोपरिस्थायिनम् ।
श्रीवत्साङ्कितवक्षसं परिलसद्राकेन्दु बिम्बाननं
ध्यायामो हृदिवासुदेवमितरैर्विष्णोर्गुणैरन्वितम् ॥२
’’वासुदेवाय । यदुवराय । श्रीमिताय । पुरुषोत्तमाय ॥’’
देवस्य दक्षिणे रुक्मिणी
पद्मस्थामवकुञ्च्य दक्षिणपदं सुस्थाप्य वामं पदं
श्यामाभां वरदायि दक्षिणकरां विस्तार्य हस्तान्तरम् ।
रक्ताच्छादवतीं प्रसून विलसत्फालोर्थ्वभागां हृदि
ध्यायामो घन पीवरस्तनभरां भूषोज्ज्वलां रुक्मिणीम् ॥ ३
’’रुक्मिण्यै । सुन्दर्यै । देव्यै । महालक्ष्म्यै ॥’’
[[92]]
तद्दक्षिणे बलभद्रः
अभयप्रद दक्षिणहस्तं
स्थितमुद्देशक वामहस्तमीडे ।
अखिलाभरणैरलङ्कृताङ्गं
बलभद्रं नत भद्रदानदक्षम् ॥४
’’रामाय । यदुवराय । वीराय । हलायुधाय ।’’
दक्षिण पार्श्वे ब्रह्मा
भूताकारः कनक समरुचिवान् महान्तं कटकमिववहन् ।
हस्तेऽन्यस्मिन्नभयकृदवताद्ब्रह्मा यक्षेश दिगभिमुखः ॥५
’’ब्रह्मणे । प्रजापतये । पितामहाय । हिरण्यगर्भाय ॥’’
देवस्योत्तरे प्रद्युम्नः
प्रद्युम्नमीडे वरदाय दक्षिण
स्वपाणिनान्येन कटितटं स्पृशन् ।
सस्यावलि श्याममशेषभूषणै
रलङ्कृताङ्गं द्विभुजञ्च सुन्दरम् ॥६
’’प्रद्युम्नाय । स्वरूपाक्षाय । मदराशये । महाबलाय ।’’
उत्तरभित्तिपार्श्वे दक्षिणाभिमुखोऽनिरुद्धः
प्रवाल श्री गर्वच्छिदुरमनिरुद्धं स्वमहसा
करं वामं कट्यां निदधत मथान्येन वरदम् ।
रणन्मञ्जीराम्फ्रिुं मणिमय सरस्फूर्ज दुरसं
किरीट प्रान्तोद्यन्मणि किरण सन्नद्ध निटलम् ॥७
’’अनिरुद्धाय । महामतये । वैराग्याय । सर्वतेजोमयाय॥’’
[[93]]
तत्प्राच्यां साम्बः
श्यामलं शमन दिङ्मुखमीडे
दक्षिणेन वरदं स्वकरणे
वामहस्त समुपात्त कटिकं
साम्बमाभरणिनं द्विभुजाढ्यम् ॥ ८
’’साम्बाय । सुखाय । समृद्धाय । सामगाय ॥’’
’’एतेषां पृथक्पृथक् कौतुकबिम्बानि कारयेत् ।’’
’’अथवा ब्रह्मपदमध्ये चतुर्भुजं विष्णुमेव कौतुक
बिम्बं स्थापयेदेवं मानुषवासुदेव ’’इतिकाश्यपः॥’’
क्रिये
कौतुकम्पञ्चबेराणामेकमेव यथाभवेत् ।
तधातु वासुदेवञ्च सङ्कर्षणमिति ब्रुवन् ॥
प्रद्युम्नं साम्बमित्युक्त्वा सानिरुद्धमिति ब्रुवन् ।
ततः पञ्चसु आवाह्य समभ्यर्च यधाविधि ॥
पञ्चभ्योऽऽरोपयेत् एतान् पूजनान्ते यथाविधि॥
कौतुकवासुदेवस्य
रुक्मिण्या रतिलम्पटः करयुगे शङ्खं रथाङ्गं वहन्
कट्यासञ्जित वामपाणिरपरे पाणौ वरं धारयन् ।
बिभ्रन्मूर्ध्नि जटाकलापमकुटं विष्णोर्गुणैश्चेतरै
र्युक्तः कौतुकवासुदेव इति विख्यातो हरिः पातुनः ॥ ९
’’वासुदेवाय । सङ्कर्षणाय । प्रद्युम्नाय । साम्बाय । अनिरुद्धाय ॥’’
दक्षिणे रुक्मिणी
पद्माल्ङ्कृत वामपाणिरपरं विस्तार्य हस्तं स्थिता
देवी दैविक वल्लभा मृदुरणन्मञ्जीरपादाम्बुजा ।
[[94]]
ताटङ्कद्युति चारुगण्ड फलका हाराभिरामस्तनी
श्यामाश्री गुणसंयुता मकुटिनी ध्येया सदा रुक्मिणी ॥ १०
नामानि पूर्ववत् ॥
दैविकं वासुदेवन्तु प्रवक्ष्याम्यानुपूर्वशः ।
सोमच्छन्द विमानंवा ब्रह्मरत्नमधापि वा ॥ ॥इति खिले॥
एवं मानुषमुद्दिष्टं दैविकन्तु प्रवक्षते ।
विष्ण्वादि पञ्चमूर्तीनां श्रियञ्चेति महीमिति ॥ ॥इति खिले॥
दैविकवासुदेवस्य
वन्दे दैविक वासुदेवमितरैर्विष्णोर्गुणैरन्वितं
श्यामं रत्नकिरीट कुण्डलधरं पीताम्बराच्छादितम् ।
राकाचन्द्रनिभाननं सुविलसच्छङ्खारि राजत्करम् ।
कट्यासञ्चित वामपाणिमपरे पाणौ परं बिभ्रतम् ॥ ११
मरीचिनोक्तानि नामानि लिख्यन्ते ॥
भद्रेशाय । पुण्यमूर्तये । वासुदेवाय । पुण्यात्मकाय ।
दक्षिणे श्रीः
रक्ताभां द्विभुजां सुरक्तवनजं वामे करे बिभ्रतीं
कक्ष्याबद्ध विराजित स्तनयुगां क्षौमाम्बराच्छादितम् ।
कोटीरादि समस्त भूषणलसत्तारावलीशोभिताम् ।
लक्ष्मीं धीरमणिस्वनां कलयतां विष्णोस्समीपं श्रिताम् ॥ १२
नामानि पूर्ववत् ॥
वामे मही
श्यामां किरीटादि विभूषणोज्ज्वलां
रक्ताम्बरां बाहुयुगाभिरामाम् ।
रक्तोत्पलालङ्कृत दक्षपाणिं
शङ्खस्वनां भूमिमहं भजामि ॥ १३
नामानि पूर्ववत् ॥
[[95]]
दक्षिणे बलभद्रः
नीलपटं सितवर्णं
हलमुसलाभ्यां विशोभिहस्तयुगम् ।
रेवत्यारमणं
बलभद्रं नौमि राजित किरीटिनम् ॥ १४
’’बलिने । हलधराय । नागराजाय । सङ्कर्षणाय ॥’’
दक्षिणे प्रद्युम्नः
पीताम्बरं कुङ्कम शोणवर्णं
प्रद्युम्नमात्तक्षुरिकं करेण ।
सव्येतरेणान्यकरात्तमध्यं
तं रोहिणीकान्तमहं भजामि ॥ १५
’’रोहिणीपतये । प्रद्युम्नाय । वीराय । बलशालिने ॥’’
दक्षिणे उत्तराभिमुखो विरिञ्चिः
हेमाभं चतुराननं करयुगे कुण्ड्यक्षमालाधरं
हस्त द्वन्द्वकृताञ्जलिं मणिमयालङ्कारयुक्तं सदा ।
नानारत्न विराजमान वपुषं सावित्रिका सेवितं
ब्रह्माणं श्रुति घोषलोलमनिशं कूर्चध्वजं भावये ॥ १६
नामानि पूर्ववत् ॥
देवस्य वामपार्श्वे अनिरुद्धः
करधृत खेटक खड्गं प्रवालशोभं रधापतिं वन्दे ।
पुष्पांशुकमनिरुद्धं नानारत्नादि निर्मित भूषणम् ॥ १७
’’पुरुषाय । सत्याय । अच्युताय । अनिरुद्धाय ॥’’
[[96]]
तद्वामे साम्बः
नीलच्छविं श्वेतपटं द्विबाहु
मुद्देश्य सव्येतर पाणिमन्ये ।
दण्डं दधानं कर नीरजाते
साम्बं नमामीन्दुकरीपतिं तम् ॥ १८
’’साम्बाय । जाम्बवतीसुताय । भद्राय । सुन्दराय ॥’’
तत्तद्देव्याः
’’तत्तद्दक्षिणपार्श्वे तत्तद्देवीं ध्यात्वा समर्चयेत् ॥’’
रेवतीरोहिण्यौ
रक्ताभां बलभद्रदेववनितां तां रेवतीं रोहिणीं
प्रद्युम्नस्य वधूञ्च नीलकिरणां श्यामप्रभां तां रधाम् ।
मूर्थ्ना नौम्यनिरुद्ध देववनितां पीताञ्च साम्बाङ्गनां
रम्यामिन्दुकरीं प्रसारितभुजां पद्मैकहस्तामिमाम् ॥ १९
’’सर्वाएकमूर्त्याऽर्चयेदिति काश्यपः ॥
साम्बस्य वामे दक्षिणाभिमुखो गरुडः
हेमाभं द्विभुजं कृताञ्जलिमहं कोटीरभूषादिमैः
रत्नैश्चापि विराजितं शुकगरुच्छायोपमाच्छादनम् ।
शुद्धेशं श्रुति घोषपक्षयुगलं गुञ्जाभं नेत्रं गरु
त्मन्तं किङ्किणीजालयुक्तरशनं चूडध्वजं भावये ॥ २०
’’इति मरीचिः’’
लक्ष्मीनारायणस्य विशेषः
हस्ते बिभ्रत्सरसिजगदा शङ्खचक्रासि विद्या
पद्मादर्शौ कनककलशं मेघ विद्युद्विलासम् ।
[[97]]
वामोत्तुङ्गस्तनमविरलाकल्पमाश्लेष भोगा
देकीभूतं वपुरवतु नः पुण्डरीकाक्षलक्ष्म्योः ॥ २१
फलश्रुतिः
’’यएवं ध्यायन्ति प्रतिदिवसमेतान् सुरगणान्
जगन्नेतुः शौरेर्जगति बहुमानं दधतिते ।’’
’’इदं किं वक्तव्यं यदिच परिपश्यन्ति त इमान्
हरे रंशान्मर्त्यो भजति हरिसायुज्यपदवीम् ॥ २२
कवेः विनतिः
’’दृष्ट्वा वर्णाधिकारं भृगुमुनिरचितं तत्र तत्रैषदीषत्
वाक्यप्रायां मरीचेः कृतिमपि निखिलामन्ततो वीक्ष्य सम्यक् ॥’’
ग्रन्थपद्यस्वरूपः कृत इह हि मया ध्यानमुक्तावलीति
श्रुत्वा नन्दन्तु सन्तस्सच पुनरमुना प्रीयतां रामचन्द्रः ॥ २३
बालानां बोधनार्थाय ध्यानं किञ्चित्प्रदर्शितं
अधिकारेषु सर्वेषु सन्ति ध्यानानि कोटिशः ॥ २४
इति श्रीवैखानसे ध्यानमुक्तावल्यां मूर्त्यादि मानुष दैविक वासुदेव
ध्यान भेदोनाम दशमः स्तबकः
ग्रन्थश्चायं समाप्तः