०९ दशावताराः

[[73]]
श्रीनिवासपरब्रह्मणे नमः

(९. नवमस्तबकप्रारम्भः॥)
६१. दशावतार ध्यानभेदाः

पृथगालयाश्रितस्वतन्त्रलक्ष्मी
फुल्लाम्भोजाधिवासां परिकलित वरा भीति वामान्य हस्तां
पद्मद्वन्द्वाऽभिरामोऽभय करकमलां फाल्गुने चोत्तराजाम् ।
मौलिस्फूर्जत्करण्डाकृति मणिमकुटां पद्मकिञ्जल्कवर्णां
तादृक्चेलाभिरामां श्रियमिहकलये स्वर्णताटङ्कभूषाम् ॥ १
’’श्रियै । धृत्यै । पवित्र्यै । महालक्ष्यै ॥’’
उत्तरे पृथगालयाश्रित गोदा
धम्मिल्लं दधतीं भजे वसुमतीं वामान्यहस्त स्फुर
त्कलाछरां शुचिफल्गुनीभजनितां वामं करं तन्वतीम् ।
आरक्ताम्बर धारिणीं चरणयोः सौवर्णमञ्जीरिणीं
कर्णाभ्यां मकराङ्ककुण्डलधरां भूवद्गुणान्यान्विताम् ॥ २
गोदायै । वसुमत्यै । लक्ष्मीसख्यै । विष्णुपत्यै ॥
दशावताराः
’’मत्स्यः कूर्मो वराहश्च नारसिंहोऽथवामनः ।
रामो रामश्च रामश्च कृष्णः कल्कीति ते दश ॥
आविर्भावप्रादुर्भावौ
’’आविर्भावाः पञ्चपूर्वे, प्रादुर्भावास्तथोत्तरे ।
अवतारभेदाः
मत्स्यकूर्मौ द्विधाप्रोक्तौ वाराहस्त्रिविधस्मृतः ।
पञ्चधा नारसिंहस्तु द्विविधो वामनस्मृतः ।
[[74]]
एकथा भार्गवोरामो राघवो द्विविधस्मृतः ॥
द्विविधो बलभद्रश्च कृष्णोऽसङ्ख्यात विग्रहः ।
पङ्चधा कल्किरूपश्च तेषां श्रुणुत लक्षणम् ॥
’’इतिक्रियाधिकारे’’
प्रथमावरणे द्वितीये वा पूर्वद्वारोत्तरे मत्स्यस्य
रक्तास्यं रक्तनेत्रं शशिधवलतनुं मत्स्यरूपं वलग्ना
दर्वागूर्थ्वन्तु मर्त्याकृतिमरिजलजाभीति कट्यात्तपाणिम् ।
उन्मीलत्कृष्णपक्षं कटकमकुट केयूर भूषाभिरामं
नित्यं ध्यायामि चित्ते निरुपमकरुणं भक्तलोके सृजन्तम् ॥३
’’प्रलयाय । संहाराय । स्रष्ट्रे । वेदमयाय ॥’’
अपिच ॥
हेमाभं सृणिचक्रनन्दक लसत्कौमोदकी पाशस
द्बाणाब्जोन्नत शारङ्ग शोभितकरं सुश्यामरेखान्वितम् ।
मात्स्याद्यक्षर बीजकं जलसदृक्केतुं पयोवाहनं
जातं च श्रवणे झषाकृतिमहं नौम्याश्विने मासिच ॥ ४
’मत्स्याय’ । जलजाय । भद्राय । क्रीडात्मकाय ॥’
तद्दक्षिणे कूर्मस्य
अर्वाक्कूर्मं वलग्नादुपरि नरतनुं पञ्चवर्णाभिरामं
शङ्खं चक्रं दधानं कटिनिहितकरं भाविताभीति हस्तम् ।
राजत्केयूर हार प्रभृति बहुविधा कल्पविभ्राजिताङ्गं
देवन्ध्यायेदवन्ध्यामितपरिचरणं विष्णुवच्चान्यचिह्नम् ॥ ५
’’कूर्मरूपाय । वसुधाधराय । महाशक्तये । महाबलय ॥’’
पाशेक्षुचक्र सृणिनन्दक शङ्ख शारङ्ग
कौमोदकी युत भुजं प्रणमामि कूर्मम् ।
कृष्णं कु बीजममृतध्वजमाशुशुभ्रं
तं नक्रयानमिषग श्रवणर्क्ष जातम् ॥ ६
’’आकूबराय । कूर्माय । विष्णवे । वसुधाधराय ॥’’

[[75]]
दक्षिणे वराहस्य
श्यामाभमुज्ज्वल विभूषण भूषिताङ्गं
दोर्भिश्चतुर्भिरभयप्रद शङ्खचक्रम् ।
अन्यत्कटीमभिमृशं मणिभूषिताङ्गं
श्रीभूमिसेवित वराहहरिं भजामि ॥ ७
’’वराहाय । वरदाय । भूमिसन्धारणाय । वज्रदंष्ट्राय॥’’
आदिवराहस्य
श्यामाभां पुष्पचेलां करपुट सहितासारितोद्रक्तपादां
लज्जाहर्षेणयुक्तां त्रिकभुजशिखरे धारयन् वामदोष्णा ।
पादावन्येन गृह्णन् पुनरितरकरौ शङ्खचक्रे दधानौ
बिभ्रत् क्षोणीं च जिफ्रुन् शिरसि किटिवरो मामवत्वात्तभूषाम्॥ ८
’’नामानि पूर्ववत् ॥’’
देव्याः
भुवे । पृथुलायै । उर्व्यै । मह्यै ।
प्रलयवराहस्य
वामं व्याकुञ्च्य पादं विदधदपि ततं दक्षिणं शङ्खचक्रो
द्भासी सिंहासनस्थः कनक सुवसनो नीलवर्णश्चतुर्दोः ।
बिभ्राणो भूरि हेमाभरणमभयकृद्दक्षिणात्मीय हस्तः
कट्यां न्यस्तान्यहस्तः प्रलयकिरिवरः पातु भूमी समेतः ॥ ९
’’प्रलयवराहाय । प्रलयहराय । भूरिशब्दाय । जगत्त्रायकाय ।’’
तद्दक्षिणे मही
आसीनां प्रविसार्य दक्षिण पदं सव्याङ्घ्रिमाकुञ्च्यस
द्दूर्वाभां जलदांशुकां भजमहीं देवीं लसद्भूषणाम् ।

[[76]]
रम्यां सव्यकरोल्लसत्त्कुवलयां विन्यस्य सव्येतरं
पाणिं विस्मयफुल्ललोचनयुगां देवं विलोक्यासने ॥ १०
नामानि पूर्ववत् ।
अपिच ॥
कौमोदकी खेटक शङ्ख शक्ति
खगाति तीक्ष्णारि वराभयाङ्कैः ।
भुजैर्लसन्तं निशितोग्रदंष्ट्र
महं नमामि प्रलयाख्य घृष्टिम् ॥ ११
नामानि पूर्ववत् ॥
यज्ञवराहस्य
आकुञ्च्य वामपदमन्यदपि प्रसार्य
पाणि प्रकाशित वराभय शङ्खचक्रम् ।
श्री भूसमेतममिताभरणं सिताङ्गं
सिंहासनस्थमथ यज्ञवराहमीडे ॥ १२
’’यज्ञवराहाय । वेदमयाय । यज्ञेशाय । यज्ञवर्थनाय ॥’’
तद्दक्षिणे श्रीः
आकुञ्च्याङ्ङ्घ्रिं सव्यमन्यं निषण्णा
मासार्याब्जं वामहस्ते दधानाम् ।
न्यस्तासव्यामासने स्मेरदृष्टिं
पीतांवन्दे सर्वभूषां श्रियं ताम् ॥ १३
’’नामानि पूर्ववत् ॥’’
वामे मही
श्यामाभां वामपार्श्वे चरणमथ पुनर्दक्षमाकुञ्च्य वामं
चासीनां सम्प्रसार्योत्पल सुमममलं बिभ्रतीं दक्षिणेन ।

[[77]]
पीठे विन्यस्य वामं भुजमथहरिणीं देवमुद्वीक्ष्य किञ्चि
त्स्मेरं वक्त्रं दधानां प्रणमत निखिलं भूषणं धारयन्तीम् ॥१४
’’नामानि पूर्ववत् ॥’’
अपिच ।
कौमोदकी कमल चक्र सुशङ्खपाणि
माशुक्ल सूकर मुखं घननीलवर्णम् ।
आजानु हेमरुचिमाकटि शुक्लवर्ण
माकर्णमर्ककिरणं च भजे वराहम् ॥ १५
’’नामानि पूर्ववत् ॥’’
कौतुकबिम्बरूपम्
’’कौतुकं विष्णुरूपञ्च चतुर्बाहुं समर्चयेत् ॥’’ ॥इतिखिले॥
नरसिंहभेदाः
’’गिरिजस्थूणजश्चैव सुदर्शन नृसिंहकः ।
तथालक्ष्मी नृसिंहश्च पाताल नरसिंहकः ॥ ॥इतिक्रियाधिकारे॥
पश्चिमे प्राङ्मुखो नारसिंहः
व्यत्यस्याङ्घ्रिद्वयञ्चोत्कटिकमधिवसन्नासनञ्चोर्ध्वजानु
न्यस्त स्वीय द्विहस्तो दधदरिजलजौ चेतराभ्यां कराभ्याम् ।
आबद्धं योगपट्टं नृहरि तनुरति स्वच्छदंष्ट्राकरालो
राकाचन्द्र प्रकाशश्शमयतु दुरितं भूषणैर्भूषिताङ्गः ॥ १६
’’नारासिंहाय । तपोनाधाय । महाविष्णवे । महाबलाय ॥’’
गिरिजः
दक्षं प्रसार्य चरणं विनिकुञ्च्यचान्यं
सिंहासनस्थमुभयोरवलम्बि पाणिम् ।
शङ्खारिहस्तमरुणांशुकमिद्धभूषं
श्वेतङ्करण्डमकुटं नरसिंहमीडे ॥ १७
’’नामानि पूर्ववत् ॥’’

[[78]]
दक्षिणे श्रीः
आसीनां प्रविसार्य दक्षिणपदं सव्यं समाकुञ्च्यच
स्वर्णाभां वरदाङ्क दक्षिणकरामाहोस्विदुच्चासने ।
सन्यस्तस्वक सव्यपाणिकमलां लक्ष्मीं भजाम्यादरा
द्राजद्भूषणभूषितां नरहरेर्दाक्षिण्यपार्श्वस्थिताम् ॥ १८
’’नामानि पूर्ववत् ॥’’
वामे मही
श्यामाभां विनिकुञ्च्य दक्षिणं पदं सव्यं प्रसार्यस्थितां
पीठन्यञ्चित वामपाणि कमलामाहोस्विदुद्यत्कराम् ।
प्रस्तौम्युत्पलशोभि दक्षिणकरां सद्भूषणैर्भूषितां
पार्श्वे मर्त्यहरेस्थ्सितां गुणयुतैः स्तोत्रैर्महीं सव्यके ॥ १९
नामानि पूर्ववत् ॥ अपिच॥
नरहरिः
ह्रादिन्यङ्कुशपाश खेटक गदा शक्त्यब्जसीरासि स
त्खड्गोद्दण्ड कुठारशूल मुसल प्रासारि दण्डाम्बुजैः ।
तोत्रोद्यद्वरदाभयश्च विलसद्धस्ताम्बुजं भीषणं
राजत्कौस्तुभ संयुतं नरहरिं साष्टाङ्गतोऽहं भजे ॥ २०
स्थूणजः
श्वेतो रक्तपटो निकुञ्च्यचरणं वामं स्वसिंहासने
सौपानादथवोर्थ्वमाततपदं स्कन्थं सटालं वहन् ।
पातु स्थूण नृकेसरी बहुविधा कल्पोऽब्ज चक्राभयान्
बिभ्रन्नुग्र दृगूरु कल्पितकरस्तीक्ष्णोग्र दंष्ट्रैः करैः ॥ २१
’’नारसिंहाय । तपोधनाय । भक्तवत्सलाय । अनन्ताय ॥’’
अपिच ॥

[[79]]
सव्याङ्घ्रिं प्रविसार्य चेतर पदं व्याकुञ्च्य तज्जानुके
हस्तं दक्षिणमाविसार्य करवन्नागस्य सिंहासने ।
आसीनं लसदूरु देश निहितोद्यद्वामहस्तं भजे
देवीभ्यां सहितं सुदर्शनलसच्छङ्खं नृसिंहं विभुम् ॥ २२
स्तम्भोद्भवः
स्तम्भोद्भवं कुलिश पाशगदाङ्कुशारि
शङ्खैर्विराजितकरं स्तनयित्नुवर्णम् ।
वन्दे नृसिंहमवकृत्त हिरण्य वक्ष
श्च्योतत् क्षवोद्भव सुशोण नखाग्रभीमम् ॥ २३
सुदर्शननरसिंहः
अनेकार्काकार प्रविलिखित षट्कोण विलस
त्स्पुरच्चक्रस्यान्तस्थ्सितमरुणभासं नरहरिम् ।
नमश्शङ्खं चक्रं दधतमथथोर्भ्यामभयदं
परेणापन्नानां वरमनति भीमं तदपरात् ॥ २४
गिरिज वन्नामानि ॥
लक्ष्मीनृसिंहः
श्लिष्यन्तीं सव्य दोष्णो कमलवर धरां सुप्रस्ताङ्घ्रिपद्मां
वामङ्कस्थां सलज्जामुरसि कृतकुचां वामदोष्णाब्धिकन्याम् ।
आलिङ्गन् दक्षिणाङ्ङ्घ्रिं तदितरमपिच स्वैरमाकुञ्च्यपादं
बिभ्राणः शङ्खचक्रे अभयवरकरः पातुदेवो नृसिंहः ॥ २५
पातालनृसिंहः
जानूद्धृत्यच सव्यकं तदितरेणासीन सर्पासने
कुर्वाणे हृदयेऽञ्जलिं करयुगे नान्येन भोगीश्वरम् ।
स्कन्धे भूषण भूषिते त्रिवलयं भोगंवहन्तं शिर-
स्तूद्थृत्य स्वफणावली विलसितं बिभ्रत्यलं भूषणे ॥ २६

[[80]]
निधायन्तश्शेषं चरणमथ सव्यं विनमितं
प्रसार्यान्यं स्कन्थे फणिभुज इमं नौमि नृहरिम् ।
चतुर्दोर्भिश्चक्रं शरमभयखड्गौच दधतं
करैस्सव्यैश्शारङ्गं जलज सुगदा खेटकमसि ॥ २७
गिरिजवन्नामानि ॥
उत्तरे वामनः
कुवलयद्युतिर्दण्डी यज्ञोपवीत शिखाधरो
विमलतर कौपीनाच्छादो रुरुध्वज वाहनः ।
समुपगत वां बीजो बिभ्रन्मृगाजिन मेखले
जनित इषुमासे विष्ण्वर्क्षे सरक्षतु वामनः ॥ २८
’’वामनाय । वरदाय । काश्यपाय । अदितिप्रियाय ॥’’
त्रिविक्रमः
दानार्धं प्रविसारितैक सुकरं सुश्यामलाङ्गं विभुं
सार्थं सव्य महाङ्घ्रिणो धृतभुजं सच्चक्रशङ्खान्वितम् ।
चित्तेऽहं कलये त्रिविक्रममुरो राजद्रमानायकं
रत्नोद्बद्ध किरीटदीधितिजितानेकार्कबिम्बं सदा ॥ २९
’’त्रिविक्रमाय । त्रिलोकेशाय । विष्णवे । सर्वाधाराय ॥’’
अपिच ॥
शारङ्ग शङ्ख शरशक्ति गदासि
व्यालसत्सित सुदर्शनखड्गैः ।
शोभिताष्ट करपल्लव रम्यं
तं त्रिविक्रममहङ्कलयामि ॥ ३०
आग्नेय्यां परशुरामः पश्चिमाभिमुख उत्तराभिमुखो वा
नीलाभो जामदग्न्यो भृतपरशु धनुस्साक्षमालश्च खर्वो
वल्काच्छादः किरीटाङ्गद परिविलसत्सर्व सौन्दर्य शोभी ।

[[81]]
वैशाखे श्रावणे भूस्तुरग वहनवान्प्राप्तजाताद्यबीजो
युक्ताश्चापध्वनेन प्रणत शुभवहः पातु राजन्ययोधी ॥ ३१
’’रामाय । ऋषि सुताय । विष्णवे । परशुपाणये ॥’’
तद्दक्षिणे कमलां सीतावत्कारयेत् ।
नैर्ऋत्यामुत्तराभिमुखः प्राङ्मुखोवा राघवः
देवः श्रीवत्सवक्षा मरकतरुचिरो दक्षिणेनात्तबाणो
दोष्णान्येनात्त चापो मणिमयमकुटाद्युल्लसद्भूषणाढ्यः ।
तिष्ठन् भूमौ त्रिभङ्ग्या ह्यदितिभ जनितो माघमासे विकेतु
स्सीतेशश्चक्ररावः कुसुमक वाहनः पातुरामाद्यबीजः ॥ ३२
’’रामाय । दाशरधये । वीराय । काकुत्थ्साय ।’’
तद्दक्षिणे सीता
हेमाभा शुभ्रवस्त्रास्फुट कमल लसद्वामहस्ता प्रसार्या
सव्यं वक्त्रं परं कुञ्चित पदकमला सुस्थिता सव्यपादा ।
सीतानामाद्य बीजोत्तरभ समुदिता फाल्गुणेमासि देवी
पायादस्मानपायान्मणि मकुटधरोद्बद्धकेशोच्चयावा ॥ ३३
’’सीतायै । अयोनिजायै । लक्ष्म्यै । वैदेह्यै ॥’’
वामे सौमित्रिः
हेमाभोप्यसिताम्बरोदरमिषुं पाणावसव्येवहन्
सव्ये दोष्णिधनुस्त्रिभङ्गि मधुरस्तिष्ठन् सबीजान्वितः ।
वैशाखोज्ज्वल रोहिणी जननवानुद्बद्धकेशोच्चयो
ध्यातव्यो रधवाहनो ध्वजविराजत्पादुको लक्ष्मणः ॥ ३४
’’रामानुजाय । सौमित्रये । लक्ष्मणाय । लक्ष्मीवर्थनाय ॥’’

[[82]]
दक्षिणे भरतः
भूषावान् भरतो जपाभ वसनं बिभ्रत्त्रिभङ्ग्यास्थित
श्श्याम श्रीरसिखेट पाणिरमलानाधो भ बीजान्वितः ।
चैत्रेस्वात्युदितश्शताङ्गवहनः सत्पादुका केतनः
पायादूर्ध्व निबद्ध कुन्तलभरः पापापहः प्राणिनाम् ॥ ३५
’’भरताय । कैकेयाय । रामानुजाय । धर्मचारिणे ॥’’
वामे शत्रुघ्नः
शत्रुघ्नः कनकद्युतिर्नवजपारक्ताम्बरो निर्मला
नाथः पूष विभूषणीय मिथुनेमासे धनिष्ठोद्भवः ।
नामाद्यक्षर बीजवान्मकुटकेयूर भूषोज्ज्वलः
पायादुच्चपि नद्धकेश निचयः पाण्योर्धनुर्बाणभृत् ॥ ३६
’’रामप्रियाय । शतृघ्नाय । विजयाय । भरतानुजाय ॥’’
दक्षिणे पुरतो हनुमान्
संरक्षेदञ्जनाभो धवलवसनभृद्दक्षिणेन प्रवृण्व
न्वक्त्रं दोष्णापरेणांशुकमपि दधन्नव्रुगात्रोऽधितिष्ठन् ।
वार्ता विज्ञापनेच्छुर्मृगवहनयुतो दण्डकेतुः कबीजो
विष्ण्वरेक्ष् श्रावणेमास्युदित इहकपीन्द्राकृतिर्नैक भूषः । ३७
’’कपिवराय । हनुमते । शब्दराशये । महामतये ॥’’
दक्षिणे शरं
शरं क्लीबं श्यामं विशदवसनं त्र्यक्षमुदधि
स्वनं रौद्रं पक्षध्वजमनिल वाहं वरुण भे ।
भवं माघेमासे शरधरशिरस्कं कलयतां
शरण्यं शं बीजं समुपगतमन्तर्मनुमहे ॥ ३८
’’शराय । महारवाय । अमोघाय । तीक्ष्णधाराय ॥’’
वामे शारङ्गं पूर्ववत् ॥

[[83]]
दक्षिणे सुग्रीवः
सुग्रीवं रक्तवर्णाम्बरमतिधवलं प्राञ्जलिं पादनव्रुं
वैशाखाश्रेषकाजं ध्वजवहनमृगं मेघरावं सुबीजम् ।
तारायाः प्राणनाधं भुजगरुचिकरं हारकेयूरकोटी
राद्यैर्भूषा विशेषैरधिक विलसिताशेष गात्रं भजामि ॥ ३९
’’सुग्रीवाय । सुन्दराय । महाबलाय । अर्कसूनवे ॥’’
वामे विभीषणः
कृष्णं रक्तकचाम्बरं स्वहृदये बद्धाञ्जलिं शूलिनं
मूलाजं घनवाहन ध्वजवरं दंष्ट्राभिरामाननम् ।
शुद्धा प्राणसखं विबीजसहितं नक्तं चराधीश्वरं
चित्तेऽहं कलये विभीषणमनेकाकल्प विभ्राजितम् ॥ ४०
’’विभीषणाय । राक्षसाधिपतये । सुमनस्काय । रामप्रियाय ॥’’
अभिमुखे अङ्गदः
हर्यक्ष ध्वजवाहनं सितरुचिं रामस्य पादानतं
रक्तास्यं परिपाटलाम्बरधरं सिंहारवं प्राञ्जलिम् ।
वैशाखोज्ज्वल रोहिणी समुदितं ध्यायामि चित्तेऽङ्गदं
कारुण्याब्धिमकारबीजसहितं काम्यार्थसंसिद्धये ॥ ४१
’’अङ्गदाय । वालिपुत्राय । रामप्रियाय । देवभक्ताय ॥’’
पट्टाभिरामस्य
आसीनं भद्रपीठे निजपदकमलं दक्षिणं वामजानु
न्यासज्य ज्ञानमुद्रामुरसि विदधतं पाणिना दक्षिणेन ।
अन्यं वामाङ्घ्रि जानुन्यवततमवसज्याग्रतो ब्रह्मतत्वं
व्याचक्षाणं मुनिभ्यस्स्वपरिजनवृतं राममन्तस्स्मरामि ॥ ४२
नामानि पूर्ववत् ॥

[[84]]
वामे सीता
सव्यं प्रसार्य पदमासनगं तदन्य
त्सङ्क्षिप्य दक्षिण करात्तनवारविन्दाम् ।
सीतां ततापरकरां रघुवीर वाम
पार्श्वस्थितां बहुविधाभरणां नमामि ॥ ४३
दक्षिणे लक्ष्मणः
आदाय राम धनुषा सह कार्मुकं स्वं
पार्श्वस्थितं रघुपतेर्मकुटाभिरामम् ।
वक्षोऽर्पिताञ्जलिपुटं विनयावनव्रुं
भूषोज्ज्वलं मनसि लक्ष्मणमाश्रयामि ॥ ४४
दक्षिणे भरतः
हस्ताम्बुज द्वयगृहीत सितातपत्र
मंसार्पितेषुधिशरासमुदार वेषम् ।
पार्श्वस्थितं रघुवरस्य विवृत्त हार
विभ्राजि पार्श्वमनिशं भरतं प्रपद्ये ॥ ४५
वामे शत्रुघ्नः
दुग्ध प्रवाल धवलं रघुवीर पार्श्वे
धुन्वः प्रकीर्णकमुदार सुवर्ण दण्डम् ।
नानाविधाभरण रम्यतनुस्तनोतु
शत्रुघ्न इष्टफलमंसधृतेषु चापः ॥ ४६
पुरस्ताद्धनुमान्
संसृष्ट गुल्फयुगमास्थितमूर्थ्वजानु
मग्रेप्रभोर्विधृत पुस्तक वल्लकीकम् ।
चञ्चच्छिखं धवल सूक्ष्मतरोपवीतं
सङ्क्षिप्तवालमनिलात्मजमाश्रयामि ॥ ४७

[[85]]
पुरस्ताद्गरुडस्थाने हनुमान्
वन्दे हनूमन्तमपि द्विहस्तं
ताव्रूननं स्वर्णनिभं सपुच्छम् ।
स्थितञ्च कौपीनधरं कपीशं
धृताञ्जलिं कुण्डल शोभिकर्णम् ॥ ४८
वायव्यां बलभद्ररामः
शङ्खाभं नीलवस्त्रं हलमुसलधरं वाममितराभ्याम् ।
शङ्खारावं कराभ्यां हयवरवहनं गाढमुद्बद्धकेशम् ।
वैशाखे रोहिणीजं हयमयविलसत्केतुमाख्यादिबीजं
तिष्ठन्तञ्च त्रिभङ्ग्याऽनिशमपि बलभद्राभिधं राममीडे ॥ ४९
’’रामाय । यदुवराय । विष्णवे । हलायुधाय ॥’’
तद्दक्षिणे रेवती
पद्मं दक्षिणं पाणिनोपदधतीं पद्मप्रभारेवतीं
पद्माच्छादवतीं ततापरकरामुच्चैर्निबद्धालकाम् ।
तैष्ये पुष्यभ सम्भवां सुवदनां रेवाद्यबीजाम्भजे
ताटङ्काङ्गद नूपुर प्रभृतिभिर्भूषाभिरुद्भासिताम् ॥ ५०
’’रेवत्यै । इन्दिरायै । लक्ष्म्यै । रामप्रियायै ॥’’
ऐशान्यां कृष्णः
श्यामाभं रक्तचेलं त्रिणतमभिनवं बरिछ बराछवचूडं
भामा रुक्मिण्यधीशं विहरण रसिकं श्रावणे रोहिणीजम् ।
यष्टिं पाणाववामेदधतमितरदोः कूर्परे सत्यभामा
मालम्ब्यासीनमीडे ग्रधित कचभरं कृष्णमत्यन्तरम्यम् ॥ ५१
’’ब्रह्मबीजं हृदि न्यस्य प्रणवैरथ वेष्टयेत् ।
एवन्तु बीजसहितं कृष्णरूपं विचिन्त्यच ॥’’
’’कृष्णाय । पुण्यनारायणाय । वटपत्रशायिने । त्रिदशाधिपतये’’

[[86]]
तद्दक्षिणे रुक्मिणी
रुक्माभां धवलाम्बरां सरसिजं वामे करे बिभ्रतीं
कृत्वा दक्षिणमाततं स्थितवतीमुद्बद्ध धम्मिल्लकाम् ।
नामाद्यक्षर बीजमञ्जुल धरां हारादिभूषोज्ज्वलां
ध्यायेद्दक्षिणतः प्रियस्य कमला चिह्नान्वितां रुक्मिणीम् ॥ ५२
’रुक्मिण्यै । सुन्दर्यै । पवित्र्यै । कृष्णवल्लभायै ॥’’
वामे सत्यभामा
उच्चैर्बद्धकचां करे विदधतीं वामेतरे हल्लकं
विस्तीर्णाऽन्यकरां सबीजसहितां रक्तांशुकां श्यामलाम् ।
उन्मीलन्मणिनूपुरादिविविधालङ्काररम्याकृतिं
भामां सत्यपदादिमां नतजनत्राणादृतामाश्रये ॥ ५३
’’सत्यभामायै । सत्यै । सन्नत्यै । क्षमायै ॥’’
देवस्य दक्षिणे गोपालः
रक्ताभो वेणु हस्तो धवलपटधरो वाहपत्रध्वजश्री
र्जातो माघेचमासे प्रवरगुणयुतो वारुणे हंसरावः ।
गोपीनाथस्सदाऽव्यात्सतत नरहरि ध्यानयुक्तो गबीजो
गोपालो भूषिताङ्गो मुकुल करपुटो दक्षिणे चोत्तरास्यः ॥ ५४
’’गोपालाय । सर्वनाथाय । कृष्णसखाय । सर्वाध्यक्षाय ॥’’
वामे श्रीदामा
श्रीदामा कङ्कुनीलः सितपटसहितो वाहपत्रध्वजाढ्यः ।
पूर्वाषाढार्क्षजातो द्विभुज परिवृतो विष्णुचिन्तापरश्च ।
श्रीबीजो वेणुनादः करपुटसहितः प्रोष्ठपूर्वे पदेऽस्मिन्
मासे जातोऽथ गोपीपतिरवतु लसद्दक्षिणाशामुखश्च ॥ ५५
’’श्रीदाम्ने । पुण्यरूपाय । पुण्यात्मकाय । देवसखाय ॥’’

[[87]]
राजगोपाल ः
बिभ्रद्दक्षिणपाणिना बहुविधैः पुष्पैः कृतं दण्डकं
भूम्युत्तम्भित हेमयष्टि शिरसि न्यस्तान्य हस्ताम्बुजः ।
नानारत्न विराजमान मकुटो दिव्याङ्गराजोज्ज्वलः ।
पायान्मां सह (भीष्मराज) विष्णुचित्तसुतया श्रीराजगोपालकः ॥ ५६
वामपार्श्वे गरुत्मन्तं, दक्षिणे रुक्मिणीं तथा ।
गरुडं पूर्ववत् कुर्यात् सर्वाभरणभूषितम्॥ इति वर्णाधिकारे।
दक्षिणे गोदा
धम्मिल्ल मुद्वहन्तीं
दक्षिणकर विधृत फुल्लकलाछराम् ।
शुचिमासि फल्गुनीजां
ततवामकरां भजामहे गोदाम् ॥ ५७
’’विष्णुचित्तसुतायै । गोदायै । रुक्मिण्यै । विष्णुवल्लभायै ॥’’
वामभागे तारक्ष्यः
तार्क्ष्यांशं हरिवाम भागवसतिं पक्षद्वयालङ्कृतं
कोटीराङ्कशिरस्कमुज्ज्वल महाभूषं विबीजान्वितम् ।
वक्षोभाग कृताञ्जलिं कनकसच्छायं सपीताम्बरं
वन्दे सुन्दर नामकं सकरुणं तिष्ठन्तमराछसने ॥ ५८
’’सुन्दराय । विहगाय । कृष्णवाहनाय । ताराक्ष् ्यय ॥’’
’’वामभागे गरुत्मन्तं गोपालकमथापिवा ।
गरुडं पूर्ववत्कुर्याद्गोपालं गोपवेषकम् ॥ ’’इतिखिले’’ ॥
नवनीतनटस्य
उत्तान व्रजानापसव्य चरणं तद्भिन्नमाकुञ्च्य वै
तिष्ठन्तं नवनीतहस्तमखिलैर्भूषादिभिर्भूषितम् ।

[[88]]
तिर्यक्सारित वामबाहुमभयं हस्तेऽपसव्ये सदा
कुर्वन्तं गतवस्त्रमुद्यत कचग्रन्थिञ्च कृष्णं भजे ॥ ५९
’’नवनीतनटाय । कृष्णाय । देवकीसुताय । बालरूपिणे ॥’’
अपिच ॥
ध्यायाम्युद्धृत दक्षिणाङ्घ्रि मवनौ निक्षिप्त पादान्तरं
बाहुं वाममृजुं वितत्य दधतं हैय्यङ्गवीनम्परे ।
उन्मीलन्मणि किङ्किणी घणघणन्मध्यं किशोराकृतिं
कृष्णं काञ्चन नूपुराञ्चित पदं मन्दस्मितालङ्कृतम् ॥ ६०
नामानि पूर्ववत् ॥
वेणुनादस्य
व्यत्यस्याङ्घ्रितलं स्थितो भुवि कराभ्यां शङ्खचक्रेवह
न्नन्याभ्यामवलम्ब्य वेणुमनिलैरापूरयन्वक्रजैः’’
किञ्चित्साचिमुखाम्बुजस्सुनयनो रम्यत्रिभङ्गीस्थितः
पिञ्छा पीडधरः कृपामयतनुः कृष्णो दिशेन्मङ्गलम् ॥ ६१
’’कृष्णाय । वेणुधराय । जगन्मोहनाय । त्रिदशाधिपाय ।’’
कालीयमर्दनस्य
उद्यत्कालियनामपन्नगफणानृत्यत्पदाम्भोरुह
स्तद्वालोर्थ्व विकृष्य दक्षिणकरो बिभ्रत्परेणाभयम् ।
वक्त्रोत्तम्भित नीलकुन्तल लसद्बरछस्त्रसत्तद्वधू
मौलिस्थाञ्जलिबन्थ याचित शमः कृष्णस्स पुष्णातु नः ॥ ६२
’’कालीयमर्दनाय । कृष्णाय । गोपालाय । वटपत्रशायिने ॥’’
’’अन्येषां रूपाणां तत्कर्मनाम संयोज्यार्चयेत् ॥ ॥इतिखिले॥
गोवर्थनधरस्य
चक्रशङ्ख गिरिपद्म विराज
त्पाणि पल्लवमुदग्र घनाभम् ।

[[89]]
रक्षितारमथगोनिकराणां
कृष्णमिन्द्र मुनि नारदवन्द्यम् ॥ ६३
ज्ञानगोपालः
पीताम्बरोद्द्वेष्टित गात्रयष्टिं
विज्ञान मुद्रान्वित पाणिपद्मम् ।
सवेणुमासञ्जित किङ्किणीकं
कृष्णं भजे रक्षित योगिबृन्दम् ॥ ६४
सन्मोहनगोपालः
पुण्ड्रेक्षु चापाङ्कुश वेणुनाद
शङ्खारि पुष्पेषु भुजाष्टकं तम् ।
स्वर्ण प्रभं मन्मध गोप मीडे
लक्ष्मीहृतार्थाङ्गमहं मुरारिम् ॥ ६५
सन्मोहन गोपालाय ॥
’’पश्चिमोत्तरभागे कल्की (कर्की)’’
कल्की तुरङ्गवदनः करकमलगृहीत शङ्खरधचरणः ।
अपरमपि चादिमूर्तेर्लक्ष्म भजन् भवतु बोधलक्ष्येनः ॥ ६६
’कल्किणे । विष्णवे । कामरूपिणे । संहारात्मकाय ॥’’
अपिच हयग्रीवः
वपुषि मनुजमश्वं सम्मुखे नीलवर्णं
भयजनकमजस्रं खेट शङ्खारि खड्गैः ।
विलसित करपद्मं तं हयग्रीवमीडे
नतसुरकुल मौलिस्रक्छटालङ्कृताङ्घ्रिम् ॥ ६७
हयग्रीवविशेषः
हयग्रीवं ध्यायाम्यति विकसित श्वेतकमले
समासीनं जानूपरितल निविष्टाङ्घ्रि कमलम् ।

[[90]]
शरज्ज्योत्न्सा शुभ्रं दधतमध पद्माक्ष वलयं
वहन्तं तं योगादपरमधतत्पट्टमनलम् ॥ ६८
विद्याधीशानमुद्यत्कनकरुचिभरं नीरजाताक्षमालां
दोर्भ्यां धत्तारमत्यद्भुततर विभवं पुस्तकं चादिदेवम् ।
राकाश्वेतांशुकान्तिं मृदुमयवदनं शङ्खचक्रे द्वयाभ्यां
सम्यक्सम्भूषिताभ्यां करसरसिरुहैर्थारयन्तं तमीडे ॥ ६९
कनकद्रुम मूलभद्रपीठे
निवसन्तं शशिभं तुरङ्गवक्त्रम् ।
अमृताक्ष सुपुस्तकुण्डिकाढ्यं
कलये चेतसि विश्वरूप सङ्ङ्ञम् ॥ ७०
’’दशावताराणामालेख्य देवताऽवरण देवताश्च नलिख्यन्ते
ग्रन्थविस्तर भयात् ॥’’
इति श्रीवैखानसे ध्यानमुक्तावल्यां दशावतार ध्यानभेदोनाम
नवमस्तबकः

[[91]]