०८ ६-७-तमावरणे

[[65]]
श्रीनिवासपरब्रह्मणे नमः

(८. अष्टमस्तबक प्रारम्भः॥)

५७. षष्ठावरणसप्तमावरणदेवताध्यानभेदः

अथषष्ठावरणे पूर्वद्वारोत्तरे तुम्बुरः
रक्ताभं श्वेतवस्त्रं द्विभुजमुरुजटं तुम्बुरुं वायुवाहं
सङ्गीतेशञ्च केतुसृवमभिजिदुडौ सम्भवं गानरावम् ।
वीणा संयुक्त हस्तं सलिलपति हरिन्न्यस्तदृष्टिं प्रपद्ये
स्वाभिख्याद्यर्णबीजं विनुतहरिगुणं शुभ्रयज्ञोपवीतम् ॥ १
’’तुम्बुरवे । मुनिवराय । स्वरेशाय । वेदरूपिणे ॥’’
तद्दक्षिणे नारदः
श्वेतं प्रत्यगवेक्षणं द्विभुजकं रक्ताम्बरं नारदं
तालस्वानयुतं करेण महतीं वीणां निजां बिभ्रतम् ।
वायुं वाहनमास्थितं ध्वजलसत्कूर्चं प्रपद्येऽभिजि
ज्जातं योगि समाह्वयादिमलसद्बीजं स्वराधीश्वरम् ॥ २
’’नारदाय । मुनिवराय । गानरूपाय । ब्रह्म सम्भवाय ॥’’
तद्दक्षिणे ऋतवः
अब्जाभा विमलाम्बराः कुसुमभृद्धस्तास्तटित्केतवो
मूलायामुदिता गबीज सहिता मेघस्वनाराविणः ।
पुष्पस्यन्दन वाहनाष्षडृतवस्ते श्वेत कृष्णाधिपाः
बाहायुग्मभृतो धनाधिप हरिद्दत्तेक्षणाः पान्तु नः ॥ ३
’’ऋतुभ्यः । महाराशिभ्यः । गन्धर्वेभ्यः । तीर्धेभ्यः ॥’’
पश्चिमेप्रजापतिः
श्वेतः प्राङ्मखमूर्तिरेकवसनः कुण्डीस्वरूप ध्वजो
हस्तोद्भासि वराभयाक्ष कलशोजातोऽभिजित्तारके ।
[[66]]
धातापातु सरस्वती सहचरो युक्तश्चतुर्भिर्मुखै
रछंसं वाहनमाश्रितः कलयतु श्रेयस्त्रयी निस्वनः ॥ ४
’’प्रजापतये । स्रष्ट्रे । वेदमयाय । ब्रह्मरूपाय ।’’
उत्तरे मुद्गलः
श्वेताभश्श्रवणोद्भवो दिग्वक्त्रस्त्रयी निस्वनः
पायात्कच्छप वाहनश्च सुगुणानाधो जटामण्डली ।
नामद्यक्षर बीजकः कुशलसत्केतुश्च रक्ताम्बर
स्ताराकार विशुद्धमौक्तिक धरस्फूर्जद्गलो मुद्गलः ॥ ५
’’मुद्गलाय । मुनिवराय । शुद्धाय । सर्वज्ञाय ॥’’
आग्नेय्यां हलेशः
श्वेताभो नीलचेल स्सितखग निनदः पद्महस्तो द्विबाहु
र्याम्याधीशो हलेशः करविधृतहलो मैत्र नक्षत्रजातः ।
उन्मीलत्पुष्पकेतुर्वितरतु नितरां भव्यमव्याहतम्मे
नानालङ्कारयुक्तो मणिमयमकुट स्वाभिधाद्यर्णबीजः ॥ ६
’’हलेशाय । महाबलाय । मायाङ्गाय । वरदाय ॥’’
नैर्ऋत्यां जाम्बवः
राक्ताच्छाद धरो मृगध्वजयुतस्तद्वाहनो रेवती
जातो जाम्बवनामको मरकत श्यामश्च बालापतिः ।
मूर्धोत्तम्भित बालमौलिरुचिरस्सञ्च्छन्न वीरान्वितः
शश्वत्पातु जकारबीजसहितो देवो मृदङ्गारवः ॥ ७
’’जाम्बवाय । बालरूपाय । दर्शनीयाय । नुन्दराय ॥’’
ऐशान्यामसुरः
श्यामं रक्ताम्बर विलसितं शूलिनं रक्तकेशं
घोरं यानध्वजखरयुतं घोरदंष्ट्रं द्विबाहुम् ।

[[67]]
मूलातार प्रभवमसुरं नौमि नीलासनाधं
नानाभूषं मणिरुचिलसन्मूर्तिमप्याद्य बीजम् ॥ ८
’’असुराय । दैतेयाय । घोररूपाय । भयानकाय ॥’’
अन्तराले प्राच्यां किन्नर मिथुनं
प्रत्यग्दिङ्न्यस्त नेत्रं खगचरणयुतं तालवीणाङ्कहस्तं
पुं स्त्री रूपोर्ध्वकायं स्वररव सहितं पक्षयुग्माभिरामम् ।
हस्तेजातं च नालध्वजयुतमनिलाकार यानेन युक्तं
नामाद्यर्णस्वबीजं घुसृणरुचिवपुः किन्नरद्वन्द्वमीडे ॥ ९
’’किन्नर मिधुनाय । तीर्धाय । सङ्गीताय । पक्षिरूपाय’’
दक्षिणे प्रह्लादः
प्रह्लादं रक्तकान्तिं सितवसनयुतं पुष्पहस्तं द्विबाहुं
प्राणेशं नौमि वाजिध्वज वहनयुतं पश्चिमन्यस्तनेत्रम् ।
शङ्खस्वान प्रणादं कपिश निभ जटाजूटधार्युत्तमाङ्गं
प्राणाद्यर्ण स्वबीजं समुदितजननं रोहिणी नाम्नि तारे ॥ १०
’’प्रह्लादाय । विष्णुभक्ताय । प्रजननाय । गदाधराय ॥’’
तत्पश्चिमे मदनः
सौवर्णाम्बरधारिणं करयुगे पुष्पं शरं चैक्षवं
चापं बिभ्रतमुत्तराभिमुखमुन्मीलच्छुकश्यामलम् ।
भूषाढ्यं मकरध्वजञ्च मकरारूढं रतेर्वल्लभं
मं बीजं मदनं पुनर्वसुभवं वन्दे स्वराराविणम् ॥ ११
’’मदनाय । कामाय । सुन्दनाय । दिव्यरूपाय ॥’’
तत्पश्चिमे विपा
वन्दे पाटल पुष्प सन्निभतनुं रक्ताम्बरां पुष्पभृ
द्धस्तां कुञ्चित नील मूर्धजभरां हंसोपवाह्यध्वजाम् ।

[[68]]
फालोपर्यवबद्ध पुष्पक विशाचूडांशुकी निस्वनां
विद्याद्यक्षर बीजकां बहुविधा कल्पां द्विबाहुं विपाम् ॥१२
’’विपायै । विद्युदूृपायै । विशालाङ्ग्यै । मेधायै ॥’’
पश्चिमे व्याजिनी
पीता द्विदोः श्यामपटा शुकध्वजा
तद्वाहना वेणुरवाच पुष्पभृत् ।
चित्रोद्भवा प्राग्वदना विबीजका
स्याद्व्याजिनी कुञ्चित नीलमूर्थजा ॥ १३
’’व्याजिन्यै । सुभगायै । सुन्दर्यै । विशुद्दायै ॥’’
उत्तरे कामिनी
रक्ताश्वेतपटा पुरोर्पितमुखी चित्रोद्भवा कामिनी
बिभ्राणा कुसुमं कुशध्वजवती तद्वाहना च द्विदोः ।
कृष्णाकुञ्चित मूर्थजा परिलसद्वेणुस्वना भूषणै
स्सौवर्णै रुचिराकृतिस्स्फुरतु मे नामाद्यबीजाक्षरा ॥ १४
’’कामिन्यै । कान्तायै । शुभाङ्ग्यै । विमलायै ॥’’
चन्द्रप्रभा
श्वेता दक्षिणदिङ्मुखी सितखगस्वाना विहङ्गध्वजा
तद्याना निटलोर्ध्व कल्पित लसत्पुष्पावचूडाद्विदोः ।
कृष्णाच्छादवती करात्तकुसुमा हस्ताख्यतारोद्भवा
चन्द्राभा कुशलं तनोतु जगतां नामाद्यबीजाक्षरा ॥ १५
’’चन्द्रप्रभायै । तन्वङ्ग्यै । श्वेतरूपायै । धृढव्रतायै ॥’’
तत्पूर्वे सुन्दरः
बिभ्राणः कमलं करेण विविधाकल्पो विहङ्गध्वजः
श्यामाभो गजवाहन श्शतभिषग्जातस्सुनन्दापतिः ।

[[69]]
नामाद्यक्षर बीजको यमदिशामालोकमानस्थ्सितो
ध्यातव्यो हृदि रक्तशाटकधरो दोर्द्वन्द्ववान् सुन्दरः ॥ १६
’’सुन्दराय । सुरप्रियाय । सुखानन्दाय । सौम्याय ॥’’

५८. सप्तमावरणे ब्रह्मादि देवताः

’’पूर्वद्वारोत्तरे ब्रह्मणे तद्दक्षिणेऽर्यम्णे (तौ पश्चिमाभिमुखौ)’’
’’दक्षिणे उत्तराभिमुखाय दण्डधराय ।
पश्चिमे प्राङ्मुखाय पाशभृते ।
उत्तरे दक्षिणाभिमुखाय धनदाय ।
आग्नेय्यां सवित्रे सावित्राय ।
नैर्ऋत्यामिन्द्राय । इन्द्रजाय ।
वायव्यां रुद्राय । रुद्रजाय ।
ऐशान्यां अद्भ्य अपवत्साय नमइति सम्यगर्चयेत् ।’’

५९. अन्तरालदेवाः

’’अन्तराले प्राच्यामुत्तर पार्श्वे ईशानाय, पर्जन्याय, जयन्ताय,
महेन्द्राय, नागाय, भूताय यक्षाय ॥
’’तद्दक्षिण पार्श्वे - आदित्याय, सत्यकाय, भृशाय, अन्तरिक्षाय,
दुर्गायै, घोटमुख्यै, धात्र्यै, पुरुषाय’’
दक्षिणे पूर्वभागे - अग्नये, वितधाय, ग्रहक्षताय, राक्षसाय,
जयाय, कृष्णाय ।
तत्पश्चिम भागे - यमाय, गन्धर्वाय, भृङ्गराजाय, सुरुण्डाय,
शिवाय, प्राणाय ॥
पश्चिमे दक्षिणभागे - निर्ऋतये, दौवारिकाय, पुष्पदन्ताय,
सुग्रीवाय, वक्राय, पुरुहूताय ॥
तदुत्तरभागे सरित्पतये - असुराय, शोषणाय, रागाय,
विद्यायै, यशसे, भद्राय ॥

[[70]]
उत्तरे पश्चिम भागे - जवनाय । नागाय । मुख्याय
भल्लाटकाय । वेदभृते । तापसाय । सन्थुषाय ॥
तत्पूर्वभागे - सोमाय । अर्गलाय । अदितये । सूरिदेवाय ।
नागाय । विद्यायै । अमिताय । पाञ्चभौतिकाय ।
’नम इत्येतान् देवानेकमूर्त्याऽर्चयेत् ॥’’

६०. प्राकारबाह्यदेवताः

’’प्राकारबाह्ये महत्पीठङ्कृत्वाऽनुक्तदेवान् सर्वान् देवानिति
समर्चयेत् ॥’’
अनुक्तास्सर्वे
आकाशद्युतयो वलक्ष वसनाः पुष्पोल्लसत्पाणयो
बाहुद्वन्द्वभृतः खगध्वजयुतास्तद्वाहना देवताः ।
तत्तन्नाम समन्विताः प्रियतमा युक्ताश्च शङ्खस्वना
नामाद्यक्षर बीजका स्सदभिजिज्जातानिषेव्या जनैः ॥ १७
सर्वेभ्यो देवेभ्योनमः
पूज्येते धृवकौतुका यदिदमेवाहुर्जगत्युत्तमम् ।
प्राहुर्मध्यममुच्यते यदिविना तेन धृवः केवलः ॥
पीठार्चनम्
आहुश्चाधममिष्टकाभिरुपलैर्वा क्लुप्त पीठार्चनम् ।
ध्यात्वैवं त्रिविधं विना तु भुवने पूजा तु दोषावहा ॥ १८
पीठलक्षणम्
’पद्मंवा चतुरश्रंवा पीठं वै ब्रह्मणस्मृतं’
’वज्रिणो वज्ररूपन्तु वह्नेः पीठन्तु यष्टिवत् ॥’’
यमस्य मण्डलं पीठमनिलस्य त्रिकोणकं
वरुणस्यार्धचन्द्राभं वेदिस्स्याद्धनदेशयोः ॥

[[71]]
अर्केन्दु वीश चक्राणां शङ्खस्यापीह मण्डलम् ।
यमकं चाक्षहस्योक्तं चतुरश्रन्तु मण्डलम् ॥
अन्येषां चतुरश्रं तु सर्वेषां पीठमुच्यते ।
’’इतिवर्णाधिकारे’’
पूर्वं तोयं ततः पुष्पं बलिम्पश्चाज्जलं तथा ॥
एवं पीठार्चनं कुर्याद्रूपाकारे निवेदयेत् ॥
इति क्रियाधिकारे ॥
’’सर्व प्राकाराणामभावे प्रथामावरणे तत्तत्प्रा
काराश्रितदेवान् ध्यात्वा समर्चयेत् ॥’’
’’अधवा विभवानुसारेण नवविध परिवारोक्त मार्गेण
परिवारार्चनं समारभेदिति मरीचिः ॥’’
आलयान्तरगतादेवा आलय द्वारपालकाः ।
द्वारदेवाश्च नवसु सामान्याः परिकीर्तताः १९
पञ्चभूतपीठाः
श्रीभूतन्यक्ष गरुड भूतपीठामिताभिदाः ।
अधमाधमाः
पञ्चैतेपरिवाराश्च कधिताअधमाधमाः । २०
एतैस्सार्थं महेन्द्राद्या भास्कर प्रमुखास्तधा ॥
अधममध्यमाः
चक्रशङ्खौ षोडशैते स्मृता अथममध्यमाः । २१
एतैस्समं विवस्वान्मित्रः क्षत्ताध्वजश्चयूथेशः ॥
अधमोत्तमाः
तेचैकविंशतिविधाः कधिता अधमोत्तमाः सद्भिः ॥ २२

[[72]]
मध्यमाधमाः
एतैस्समं विवस्वान्मित्रः क्षत्ताध्वजश्चयूधेशः ।
ज्येष्ठाहविः पालकस्सप्तमातरः ।
विघ्नेश्वरो भास्करचन्द्र वेधासो ॥
मध्यममध्यमाः
द्वात्रिंशदेते खलु मध्यमाधमाः
एतैस्समं स्कन्दकुजार्क दुर्गा
बृहस्पतिः पूरुष सत्यमन्दाः ।
ता मातरो रोहिणीकाश्च सप्त
समीरिता मध्यममध्यमास्ते ॥ २४
मध्यमोत्तमाः
एतैस्सप्तर्षि शुक्र ज्येष्ठा रुद्राश्वि जह्नुजा विधयः ।
वागिन्दुकपिल पञ्चभूतैः कधित मध्यमध्यमोत्तमाङ्काः ॥ २५
उत्तमाधमाः
एतैस्समं यातु सुर प्रियानराः
पुष्पेश धात्री भव धर्मशङ्कराः ।
दस्रोहरि व्याहृति मारुताश्च
समीरितास्सद्भिरिहोत्तमाधमाः ॥ २६
उत्तममध्यमाः
एतैस्समं भानवोरुद्रा
एतेचोत्तममध्यमाः ।
उत्तमोत्तमाः
एतैर्वसवो बलिरक्षकश्च
जयाद्याश्चोत्तमोत्तमाः ॥ २७
इति श्रीवैखानसे ध्यानमुक्तावल्यां षष्ठावरण सप्तमावरण
देवताध्यान भेदोनाम अष्टमस्तबकः