[[53]]
श्रीनिवासपरब्रह्मणे नमः
(७. सप्तमस्तबक प्रारम्भः॥)
४२. पञ्चमावरणदेवता ध्यानभेदः
पञ्चमावरणे पूर्वद्वारोत्तरे कुहूः
खगध्वजां तद्वहनां शुकस्वरां
धृताम्बुजां कुञ्चित नीलमूर्थजाम् ।
मषीरुचिं पश्चिमदिङ्मुखीं कुहुं
कुशाद्यबीजां कुसुमाम्बरां स्मरेत् ॥१
’’मेदिन्यै । कुह्यै । सुदंष्ट्रायै । क्षमायै ॥’’
तद्दक्षिणेऽनुमतिः
सितश्यामां खड्गध्वज वहन युक्तां शुकरवां
जपापुष्पाच्छादामभिजिदुडुजातामनुमतिम् ।
तबीजेनोपेतां कुसुमधर हस्तामपर दि -
ङ्मुखीं देवीन्ध्यायेदभिमत फलस्योपगतये ॥२
’’अनुमत्यै । स्वरूपायै । तन्वङ्ग्यै । सुभगायै ॥’’
४३. सप्तमातरः
’’तद्दक्षिणे सप्तमातरस्सर्वाः पश्चिमाभिमुखाः ॥’’
ब्रह्माणी
ब्रह्माणी कलशाक्ष सूत्रसहिता पिङ्गा प्रसार्य स्थिता
वामं पादमजा जटामकुटिनी दर्भध्वजा पातु माम् ।
सङ्घात स्वन शब्दिनी सित खगारूढा क बीजाक्षरा
रक्ताच्छादवती त्रिलोकजननी दण्डङ्करे बिभ्रती ॥३
’’ब्रह्माण्यै । पिङ्गलायै । गौर्यै । सर्वतोमुख्यै ॥’’
[[54]]
सरित्प्रिया
वैशाखे भरणीभवा ककुदसद्वेणी पिशाचध्वजा
श्वेताकृष्णपटीधरा त्रिशिखभृत्पाणिस्त्रिनेत्रान्विता ।
भक्ताभीष्टदसौरभेय वहना सद्माद्य बीजाक्षरा
स्वाख्यानेन सरित्प्रिया ककुदनिस्वाना प्रसार्यस्थिता ॥४
’’सरित्प्रियायै । विश्वरूपायै । उग्रायै । गणेश्वर्यै ॥’’
वैशाखिनी
वैशाखी कनकद्युतिस्सितपटा शक्तिं करे बिभ्रती
तिष्ठन्ती प्रसृतैक पादकमला नामाद्यबीजाक्षरा ।
ज्येष्ठेमासि हुताश तारकभवा सा ताव्रुचूडध्वजा
देवी बरिछण वाहना दिशतु मे श्रेयश्चतुर्दोर्युता ॥५
’’वैशाखिन्यै । खण्डिन्यै । गायत्र्यै । षण्मुख्यै ॥’’
विश्वगर्भा
मेघस्वानरवां प्रसार्यचरणं पीरे ठस्थितां वामकं
पौषे वैष्णव तारजां विदधतीं शङ्खञ्च चक्रं करे ।
पक्षीश ध्वजवाहनां भगवतीं ध्यायाम्यहं वैष्णवीं
श्यामां पीतशटाभिराम वपुषं दिव्याक्षमालाधराम् ॥
’’विश्वगर्भायै । विशोर्मिण्यै । कृष्णायै ’रोहिण्यै ॥’’६
वाराहिणी
मुद्रां प्रासकरीं हलञ्च मुसलं रक्तैः कपालैर्युता
वाराही दधतीगुण ध्वनियुता नामाद्यबीजाक्षरा ।
आर्द्राजा त्रियुगा स्थिता नतपदं देवी पिशाचध्वजा
तद्याना च मम श्रियं प्रदिशतु श्यामा च रक्ताम्बरा ॥ ७
’’वाराह्यै । वरदायै । उर्व्यै । वज्रदंष्ट्र्यै ॥’’
सप्तमस्तबक ः
[[55]]
इन्द्राणी
इन्द्राणी शुकतुण्डरम्यवसना पादं प्रसार्य स्थिता
नामाद्यक्षर बीजका कुलिशधृक्सा वेणुपत्रध्वजा ।
ज्येष्ठाख्योडुनि माखमासि जनिता शब्दं वषट्कारकं
बिभ्राणाय वसस्य भासुरतनुः श्रेयःप्रदद्यान्मम ॥८
’’जयन्त्यै । कौशिक्यै । इन्द्राण्यै । घनाघन्यै ॥’’
काली
कम्बीजा रुधिराम्बरा घनरुची रक्तोग्रनेत्राञ्चला
भूृभङ्गी विकृताननाऽर्थ शशभृद्दंष्ट्राहि भूषादिधृक् ।
काली शूल कपालिनी हुतवहध्वाना पिशाचध्वजा
वह्निज्वालकचा भृदुग्र कलभारूढाभरण्युद्भवा ॥९
’’काल्यै । नालीकदंष्ट्र्यै । वृषभवाहनायै । वेदधारिण्यै ॥’’
४४. पश्चिमे प्राज्मुखाः जयाद्याः
जया
आसीना सुखमूढ पङ्कजकरा शुक्लाम्बरा प्राङ्मुखी
वीणावेणुरवाऽति पाटल तनुर्ज्येष्ठे धनिष्ठोध्भवा ।
नीलाकुञ्चित कुन्तलोभयभुजा कीरोपवाहध्वजा
सा देवी शुभमध्यमाऽवतु जया नामाद्यबीजाक्षरी ॥ १०
’’जयायै । सुखप्रदायै । समृद्धिन्यै । भद्रायै ॥’’
विजया
हेमाभा शुकपत्र सन्निभपटा ज्येष्ठे धनिष्ठोडुजा
हस्ते चामरभृत्करं नतवती वामं विबीजान्विता ।
वीणा वेणुरवा चकास्तु विजया नीलावकुञ्चत्कचा
सा कीरध्वजवाहना स्वचरणं वामं निकुञ्च्य स्थिता ॥ ११
’’विजयायै । विशोकायै । पुण्यायै । कामनन्दायै ॥’’
[[56]]
विन्दा
विन्दा श्यामतनुर्विपाटलपटा स्वे चामरे दक्षिणे
हस्ते सन्दधती तदन्यविततं ज्येष्ठे धनिष्ठोद्भवा ।
वीणावेणुरवा शुकध्वजयुता तद्वाहनाकुञ्चय
न्त्यङ्घ्रिं वाम्नमशुक्ल कुञ्चितकचा देवी वि बीजाऽवतु ॥ १२
’’विन्दायै । लाभायै । प्रमत्तायै । अजेयायै ॥’’
नन्दा
झषदल निभाच्छादा कृष्णावकुञ्चित मूर्थजा
समासीना वामम्पादं प्रसार्य न बीजका ।
निवसतु धनिष्ठजा ज्येष्ठे शुकध्वज वाहना
कनकरुचिरा वेणुस्वरा हृदि नन्दका ॥ १३
’’नन्दकायै । मधुजनन्यै । सुमुक्तायै । सुभगायै ॥’’
पुष्टिका
हेमाभा पुष्प चिह्नाम्बर भृदुभयदोः कुञ्चितानीलकेशी
जाताज्येष्ठे धनिष्ठोडुनि चमररुहं बिभ्रत् दक्षिणेन ।
हस्तं विस्तार्यचान्यं ध्वज वहनशुका पुष्टिकाऽऽख्यादिबीजा
वीणावेणु प्रणादा सुदृगमलमुखी प्राङ्मुखी श्रेयसेऽस्तु ॥ १४
’’पुष्टिकायै । मोहवत्यै । पुण्यदायै । प्रमत्तायै ॥’’
कुमुद्वती
सस्यश्यामनिभाम्बरा कुमुदरुक्पुष्पाङ्किता वामदो
स्तिष्ठन्ती ह्यवरं प्रसार्यच भुजं ज्येष्ठे धनिष्ठोडुनि ।
कृष्णा कुञ्चित मूर्धजा शुकलसद्यान ध्वजा प्राङ्मुखी
कुम्बीजातु कुमुद्वती मम हृदि स्याद्वेणु वीणारवा । १५
’’कुमद्वत्यै । सुवहायै । सुसम्भरायै । सद्वृतै्यै ॥’’
सप्तमस्तबक ः
[[57]]
उत्पलका
पायादुत्पलकातिनील वसना ज्येष्ठेधनिष्ठोद्भवा
नीलाकुञ्चित मूर्थजोत्पल रुचिस्साकीर यानध्वजा ।
पुष्पं दक्षिण दोष्णिदीर्घमपरं दोर्बिभ्रती वल्लकी
वेणुस्वानयुता पुरस्त्वभिमुखी नामाद्य बीजाक्षरा ॥ १६
’’उत्पलकायै । सुगन्धिन्यै । सर्वमोदायै । सर्वात्मकायै ॥’’
विशोका
शुक्रेमासे धनिष्ठाकृत जनिरवतात्कीरपत्राभचेला
विं बीजा कीरयानध्वज युगपमिताशोक पुष्पा विशोका ।
वामं व्यातत्य तस्यापरमपि कुसुमग्राही दोरुद्वहन्ती
वीणावेणु प्रणादा हरिदिगभिमुखी कुञ्चिता नीलकेशी ॥ १७
’’विशोकायै । धनदायै । अक्षतायै । अमितायै ॥’’
४५. उत्तरे दक्षिणाभिमुखास्सप्तरोहिण्यः
कुण्ठिनी
पायाद्दक्षिणदिङ्मुखी मरकतश्यामा प्रसार्यस्थिता
रोहिण्यां जनिता कुबीज सहिता नीलावकुञ्चत्कचा ।
पुष्पग्राहिकरा मयूरविलसद्यानध्वजा भूषिता
पुष्पाछ्छादवती मृदङ्गनिनदा देवीच साकुण्ठिनी ॥ १८
कुण्ठिन्यै । नन्दिन्यै । धरित्र्यै । रजित प्रियायै ॥
ग्रन्धिनी
पुष्पाच्छादा मरकत रुचिर्ग्रन्थिनी पुष्पहस्ता
पायाद्यानध्वज भुजगभुक्सुस्थिताऽङ्घ्रिं प्रसार्य ।
रोहिण्याख्ये ह्युडुनि जनिता कुञ्चिता नीलकेशी
बीजं नामादिममुपगता सा मृदङ्गप्रणादा ॥ १९
’’ग्रन्थिन्यै । वेगिन्यै । जयायै । प्रवाहिण्यै ॥’’
[[58]]
कृच्छ्रिणी
मरकतरुचिः पुष्पाच्छादा शिखिध्वज वाहना
द्विभुजा कुसुमधरा कृच्छ्रिण्या नीलकुन्तला ।
उडुनि जनिता रोहिण्यां मृदङ्गरवाऽवतात्
प्रसृतमुखिता कुम्बीजा सा च दक्षिणमुखी ॥ २०
’’कृच्छ्रिण्यै । शाखिन्यै । वाहिन्यै । योक्त्रिण्यै ॥’’
जारिणी
हस्ते पुष्पं दधाना मरकतमणिरुक्पुष्पवासा मृदङ्ग
स्वानाऽव्या त्केकियानध्वज युगुडुनि सा रोहिणी नाम्निजाता।
नामाद्यर्ण स्वबीजा यमदिगभिमुखी कुञ्चिता नीलकेशी
सर्वालङ्कारयुक्ता तदयदमुषिता जारिणी नामधेया ॥ २१
कुण्ठिन्यै । जारिण्यै । चर्दिन्यै । प्रवाहिण्यै ।
विकारिणी
मरकत रुचिरव्याद्रोहिणीजा मृदङ्ग
ध्वनि रुरग भुगुद्यत्केतु यानाऽऽद्यबीजा ।
विधृत कुसुमपाणिर्दामिनी पुष्पचेला
शमन दिगवलोकी कुञ्चिता नीलकेशी ॥ २२
’’विकारिण्यै । दामिन्यै । वैशिन्यै । विद्युतायै ॥
दर्दृणी
प्रसूनाच्छादाऽव्याद्ध्वनिजितमृदङ्गा मरकत
प्रभा दर्दृण्याख्या शिखिवहनकेतुः कुसुमभृत् ।
स्वनामाद्यं बीजं परिगतवती दक्षिणमुखी
प्रसूता रोहिण्यां सुतसुरसिता कुञ्चितकचा ॥ २३
दर्दृण्यै । इन्दुकरायै । सौमनस्यै । प्रविद्युतायै ॥
सप्तमस्तबक ः
[[59]]
इन्द्रियविकारिणी
प्रसून वसना शिखिध्वजवहा मृदङ्गध्वनिः
कृतान्त हरिदुन्मुखी मरकतप्रभा पुष्पभृत् ।
इ बीज सहिता द्विदोर्दिशतु रोहिणी जन्मभा
क्शमिन्द्रियविकारिणी सिततरावकुञ्चत्कचा ॥ २४
’’इन्द्रिय विकारिण्यै ॥ प्रवर्तिन्यै । गङ्गावाण्यै । सृजन्यै ॥’’
४६. प्राच्यां प्रत्यङ्मुखास्सप्तर्षयः
भृगुः
ब्राह्मं पीठमधिष्ठितो धृतमृगत्वग्ब्रह्म दण्डाभये
बिभ्रद्दक्षिण पाण्युपात्त कलशो दण्डं वहन् वैणवम् ।
अङ्कोत्तानित वामपाण्युपरितस्सन्यस्तहस्तो जटी
नासाग्रार्पित दृग्भृगुर्गुणयुतः पायाद्भृबीजोब्जवान् ॥ २५
’’पद्मापित्रे । धातृनाधाय । ख्यातीशाय । भृगवे ॥’’
मरीचिः
ब्रह्मेपीठे मरीचिं दृगुपहितनसाकोटिमङ्गारवर्णं
पर्यङ्कोत्तान वामं विततकटि तटन्यस्त हस्तं म बीजम् ।
आषाढे पूर्वफल्गुन्युडुनिकृतजनिं भृङ्गवाहं मृगत्व
क्चेलं सम्भूतिनाथं भजथ हयरवं ध्यायिनं विप्रकेतुम् ॥२६
’’सम्भूतीशाय । मरीचये । शोचिष्मते । पौर्णमासभृताय । क्षमाय ॥’’
पुलहः
ताव्रूभं ब्रह्मपीठे स्ववहितमतुलाधारमीशं क्षमाया
नासाग्रस्थार्धमीलद्दृशमथपुलहं तं जटालं जबीजम् ।
ध्यायन्तं पुष्पकेतुं कलशधरमिषे हस्तजं चाक्षरावं
ध्यायेद्वामाख्य हस्ता धरित तदितरोत्तानहस्ताञ्चिताङ्कम्॥ २७
’’पुल्हाय । कर्दमाद्याय । सौमनस्याय । महाधृतये ॥’’
[[60]]
पुलस्त्यः
अङ्कस्थलोत्तानित वामहस्त
न्यस्तान्यहस्तं प्रणुमः पुलस्त्यम् ।
प्रतीश्वरं प्राक्पुलहे निविष्टै
र्विशेषणैः पीत विशेषमन्यैः ॥ २८
’’महाधृतये । पुलस्त्याय । प्रीतिभर्त्रे । वशङ्कराय उदात्तोनिधये॥’’
क्रतुः
क्रतुं श्वेतं ब्रह्मासन निलयमुत्तानितकरो
परिन्यस्तं वामं स्वकरमधनासाग्रगदृशम् ।
क्रबीजं वैशाखे मृगशिरसि जातं हयरवं
भजे दूर्वाराख्य ध्वजमृषिवरं सन्नतिपतिम् ॥ २९
’’राज्याय । सिद्धिराजाय । निष्कसूदनाय । सन्नतीशाय । क्रतवे॥’’
वसिष्ठः
ऊर्वाणाभिद केतुरुज्ज्वलनिशागौरस्तुरङ्गस्वन
स्तैषे पौष्णभजो व बीजसहितस्सब्रह्मदण्डायुधः ।
ब्राह्मं पीठमधिष्ठितोऽवतु वषट्काराख्यवाहस्स्वयं
योगध्यानपरःक्रतोर्गुणयुतोऽरुन्धत्यधीशोमुनिः ॥ ३०
’’ऊर्जापतये । राजपूर्वाय । वसिष्ठाय । वाक्पतये ॥’’
अत्रिः
ऊर्वाणध्वजमत्रिमश्वनिनदं ब्रह्मासनस्थं मृदु
च्छायं कार्तिकमासि वैष्णवभजं नामाद्यबीजाक्षरम् ।
नासाग्रार्पित लोचनं हृदि वषट्काराख्यवाहंस्मरे
दङ्कोत्तानित वामपाणिगतमन्यं चानसूयापतिम् ॥ ३१
’’अत्रये । नियामकाय । सत्यनेत्रगुरवे । अनसूयेशाय ॥’’
सप्तमस्तबक ः
[[61]]
अगस्त्यः
हस्तेजात मिषेतुमासि कुसुमाकारध्वजं पाणिना
कुण्डी मक्षपटञ्च बिभ्रतमथप्राणाधिनाथं धृतेः ।
श्यामंरक्तपटञ्च हंसवहनं नामाद्यबीजाक्षरं
कृष्णञ्चर्मवसान मक्षनिनदं ध्यायेदगस्त्याभिदम् ॥ ३२
’’अगस्त्याय । मुनिवराय । धृतीशाय । कुम्भसम्भवाय ॥’’
आग्नेय्यां वत्सराः
पद्मपत्र रुचयोऽब्ज निनादाः
स्वातिजाश्च सुशशध्वजवाहाः ।
वत्सरा द्विभुकास्सुगणेशाः
पान्तु पुष्प वसनाश्च सबीजाः ॥ ३३
’’वत्सरेभ्यः । वसुसुतेभ्यः ॥ निधिभ्यः । धर्मसूनुकाभ्यः ॥’’
नैर्ऋत्यां प्राणादयः
हेमाभा धवलाम्बराः कपिलसद्वाहाश्च शङ्खध्वजा
हंसध्वानयुता यबीजसहिता स्स्वात्युद्भवाः कुर्वताम् ।
नानालङ्कृति भासमान वपुषस्स्वस्वायुधोद्भासिताः
प्राणाद्याममशर्म पञ्चपवनास्ते दायिनीवल्लभाः ॥ ३४
’’प्राणाय । अपानाय । व्यानाय । उदानाय । समानाय ॥’’
४७. वायव्यां सप्तमरुतः
धूमत्विषः श्वेतपटान् द्विबाहून्
प्लवङ्गवाहान् जलजध्वजांश्च ।
हंसस्वनांश्चोदयिनी सनाधा
न्वन्दे धृतासीन्मरुतो यबीजान् ॥ ३५
’’मरुद्भ्यः । लोकदरेभ्यः । सप्तसप्तगणेभ्यः । मरुद्वत्सुतेभ्यः ॥’’
[[62]]
४८. ऐशान्यां शतरुद्राः
श्वेताभान् मृगरिपुचर्म चेलयुक्तान्
पिङ्गाक्षान्वरुण सुदिङ्मुखान् शबीजान् ।
संयुक्तानपरगुणैस्तु रुद्रतुल्यान्
ध्यायामो हृदि शतरुद्रसञ्ज्ञदेवान् ॥ ३६
’’शतरुद्रेभ्यः । ओषधीभ्यः । त्र्यम्बकेभ्यः । कपालपाणिभ्यः ॥’’
४९. तद्दक्षिणे अन्तराले एकादशरुद्राः
श्वेतान्व्याफ्रु त्वग्धरान्प्रत्यगास्या
न्नीलग्रीवां स्त्र्यक्षणान् रुद्रतुल्यैः ।
अन्यैर्भेदैर्भासमानान् गुणानां
वन्दे रुद्रानन्तरेकादशांश्च ॥ ३७
’’अजैकपादे । अहिर्बुध्न्याय । पिनाकिने ।
पराजिताय । मृगव्याधाय । शर्वाय । निर्ऋतये ।
ईशानाय । कपालिने । भवाय । स्थाणवे ॥’’
५०. तद्दक्षिणे द्वादशादित्याः
रक्तान् सिताच्छाद भृतश्च रेणुका
सुवर्चला नामवधू द्वयान्वितान् ।
आदित्यवच्चान्य विशेषणाङ्कितान्
आदित्य नाम्नां कलये दशाप्युभौ ॥ ३८
’’धात्रे । अर्यम्णे । अंशाय । मित्राय । वरुणाय । भगाय ।
इन्द्राय । विवस्वते । पूष्णे । पर्जन्याय । त्वष्ट्रे । विष्णवे ॥’’
५१. दक्षिणे गन्धर्वाः
दंष्ट्रावक्त्राः कुसुमवसनाः पद्मकिञ्जल्कवर्णाः
सिंहस्वाना धनद हरिदालोकिनस्सौम्यजाताः ।
सप्तमस्तबक ः
[[63]]
गन्धर्वा मे विदधतु शुभं पाशिनो रेफबीजा
रक्तासक्ता भुजयुगयुता यानकेतूकृतेभाः ॥
’’गन्धर्वेभ्यः । रम्येभ्यः । सुरजेभ्यः । सौमजेभ्यः ॥’’ ३९
५२. तत्पश्चिमे मुनयः
उदङ्मुखा हेमरुचस्तपोधिपा
जटाधरामित्र भजाजलस्वनाः ।
कुशान्विताः कृष्णमृगत्वगंशुका
स्तपाद्यबीजा मुनयस्स्फुरन्तुमे ॥ ४०
’’मुनिभ्यः । तपोनाथेभ्यः । कुशेभ्यः । पापविनाशिभ्यः ॥’’
५३. पश्चिमे अप्सरसः
इन्द्राशाभिमुखास्सुवर्णरुचयः पुष्पाम्बराः पद्मभृ
द्धस्ता उत्तरफल्गुनी, भजनिता अर्काद्य बीजाक्षराः ।
कृष्णाकुञ्चित मूर्धजाश्शुकरवा हंसध्वजाश्चेतसि
ध्यायाम्यप्सरसो वलक्ष विहगा रूढास्सुभूषोज्ज्वलाः ॥ ४१
’’अप्सरोभ्यः । अमृतजाभ्यः । भोगवहाभ्यः । सरोजाभ्यः ॥’’
५४. उत्तरे अश्विनौ
ध्यातव्यौ नृभिरश्विनौ सितखगस्वानावशोक स्फुर
त्पुष्पाच्छादनशालिनौ द्विभुजकौ गोक्षीरवर्णाकृती ।
पौलोमीपतिदिङ्मुखौ शिखिवरारूढौ तथा सुन्दरी
नाधौ नित्यमकार बीजसहितौ तौ काकपक्ष ध्वजौ ॥ ४२
’’अश्विनीभ्याम् । यमलाभ्याम् । युग्माभ्याम् । त्वाष्ट्र पुत्राभ्यां॥’’
५५. उत्तरे वसवः
कमलरुचयो यमाशास्याश्शशध्वजवाहना
स्सरसिजधरा श्शङ्खध्वाना भुजद्वयशालिनः ।
[[64]]
ददतु वसवः श्रेयः स्वात्युद्भवाश्च वसुप्रिया
विलसितमुखाः प्राप्यबीजं वकारमलङ्कृताः ॥ ४३
’’धराय । धृवाय । सोमाय । अपानाय । अनलाय ।
अनिलाय । प्रत्यूषाय । प्रभासाय ॥’’
५६. तत्पूर्वे विद्याधराः
श्यामादक्षिणदिङ्मुखा धृतगदास्संरक्त केशांशुकाः
बिभ्राणा निजपाणिना डमरुकं विद्याधरीनायकाः ।
दंष्ट्रास्याद्ध्वज यानभूतमहिषा मन्त्रादि बीजाक्षरा
मेघस्वानभृतो द्विबाहव इमे रक्षन्तु विद्याधराः ॥ ४४
’’विद्याधरेभ्यः । मन्त्रबलेभ्यः । पुष्पजेभ्यः । भोगजेभ्यः ॥’’
इति श्रीवैखानसे ध्यानमुक्तावल्यां पञ्चमावरण
देवताध्यानभेदोनाम सप्तमस्तबकः