[[48]]
श्रीनिवासपरब्रह्मणे नमः
(६. षष्ठस्तबक प्रारम्भः॥)
४१. चतुर्थवरण देवताध्यानभेदः
चतुर्थावरणे प्राग्द्वारादुत्तरे गविष्ठः
असिद्युतिः पीतपटश्चदण्डभृत्खगध्वजः श्रावणजो रथस्थितः ।
गविष्ठनामा प्रियसत्यलोचनो गबीजको नादरवः श्रियन्दिशेत् ॥ १
’’गविष्ठाय । त्रैष्टुभाय । गुह्याय । आकाशाय ।’’
द्वारदक्षिणे हरिणी
श्यामाभार्तकवस्त्रोत्पल लसितकरा पद्मनेत्रा सुभूषा
वैशाखे रेवतीजा मणिमयमकुटा शङ्खनादा लबीजा ।
सावित्री केतुरेवं बिभृत बल महाचातकेनोह्यमाना
विष्णोः पौराणिकी सा विलसतु महिषी भूमिराद्यन्तरङ्गे ॥ २
’’नामानि पूर्ववत् ॥’’
पश्चिमे तोयः
तोयःपाशीगजस्थः कुवलय समरुक्प्राङ्मुखः कीरपिञ्छा
च्छादो हर्यक्षकेतुः कतिपय कनकालङ्क्रियाकः प बीजः ।
आषाढे वारुणर्क्षे जननमुपगतो दर्दुरस्वानयुक्तो
भक्तानामीप्सितार्थं प्रदिशतु कनका नाम देवीसमेतः ॥ ३
’’पवित्राय । अमृताय । तोयाय । गह्वराय ॥’’
दक्षिणे अग्निः
पिङ्गं नीलपटं तमुत्तरमुखं स्वाहापतिं कृत्तिका
जातं प्रोष्ठपदे कपिध्वजयुतं शक्तिं करे बिभ्रतम् ।
[[49]]
ध्यायामो हृदि वीतिहोत्रमिभराड्यानं रबीजान्वितम् ।
स्वाहानाथः कृत कंसनिर्मित महाघण्टा निनादोज्ज्वलम् ॥४
’’वीतिहोत्राय । आभुरण्याय । शुद्धाय । अग्नये ॥’’
उत्तरे वायुः
वायुं दक्षिणदिङ्मुखं लसदसिं वेणुध्वजोद्भासितं
श्यामं पीत सुवासनं गजवरारूढं यबीजान्वितम् ।
माखे स्वातिभवं भजामि चरितानाथं च शङ्खध्वनिं
केयूराङ्गद हारकुण्डल महाभूषादि वेषोज्ज्वलम् ॥ ५
’’असवे । समीरणाय । वायवे । पृषदश्वाय ॥’’
आग्नेय्यामृग्वेदः
ऋग्वेदं स्फटिकद्युतिं सितखगध्वानञ्च रक्ताम्बरं
विद्यानाधमृकारबीजसहितं याम्योडुजं कार्तिके ।
तं ध्यायेदृतुषट्क केतुवहनं पुष्पं वहन्तं करे
प्रत्यग्दिग्वदनं द्विबाहुमनिशं सर्वार्थसंसिद्धये ॥६
’’ऋग्वेदाय । मधुने । सोमाय । क्रतवे ॥’’
नैर्ऋत्यां यजुर्वेदः
पीतं प्राङ्मुखमर्जुनाम्बर धरं यज्ञङ्करे बिभ्रतं
बुद्धीशं सर्ववाहमग्निविलसत्केतुं यबीजान्वितम् ॥
तैषेमासि पुनर्वसूडुजनितं तं कांस्यतालारवं
बाहुद्वन्द्वयुतं भजे हृदि यजुर्वेदं प्रसन्नाननम् । ७
’’यजुर्वेदाय । दध्ने । मिश्राय । इष्टाय ॥’’
वायव्यां सामवेदः
प्राङ्मुखं बालसूर्याभमीशं मते
र्मार्ग मूलोद्भवं पिङ्गलाच्छादनम् ।
[[50]]
गानशब्दञ्च नामाद्य बीजाक्षरं
सप्तगानध्वजं सामवेदं भजे ॥ ८
’’सामवेदाय । घृताय । वज्राय । यज्ञाय ॥’’
ऐशान्यामथर्ववेदः
भिभ्राणः श्वेतवस्त्रं सितखगवहनः कूर्चहस्त्तोऽञ्जनाभो
हंसध्वानः कलेशः सरसिजनयनः पुष्टितोऽथर्ववेदः ।
जापाद्यर्ण स्वबीजस्सृवमय विलसत्केतनोमासि पूर्वा
षाढाबिजातो नभस्ये विलसतु हृदि मे पश्चिमाशावलोकी ॥९
’’अथर्ववेदाय । पवित्राय । क्षीराय । पुण्याय ॥’’
शिवः
अन्तराले प्राच्यां शिवः पूर्ववत् ॥
तद्दक्षिणे विष्णुः
विष्णुः पश्चिमदिङ्मुखः कनकरुक्कीरच्छदाच्छादनः
श्रीकान्तः प्रणवात्मकोऽभय गदाभृद्दस्त युग्मेन च ।
चैत्रे च श्रवणोद्भवो मम हृदि स्यात्पञ्च शब्द ध्वनिः
पक्षीशध्वज वाहनो रथपदं शङ्खं त्वबीजोवहन् ॥ १०
’’विष्णवे । व्यापिने । रत्नाय । विश्वाय ॥’’
तद्दक्षिणे काश्यपः
नीलः पुष्प पटंवहन् धनददिग्दत्तेक्षणो वैणवं
दण्डं बिभ्रदयं कमण्डलु लसत्केतुर्विबीजान्वितः ।
यानेन त्रिपदामयेन सहितो हस्तर्क्षजः काश्यपः
शङ्खध्वान रवश्चकास्तु हृदये नित्यं क्षमेशो मम ॥ ११
’’काश्यपाय । विश्वमूर्तमे । अक्षताय । तक्षकाय ।’’
[[51]]
तत्पश्चिमे गुहः
रक्तो भूषितमूर्तिरुत्तरमुखो षड्दोष्षडास्यो गुह
श्शक्तिं तीक्ष्णतरां वहन्नुपगतः केतुं रणत्कुक्कुटम् ।
गुम्बीजी धृतबालमौलिक शिरास्स्याद्देवयानी पतिः
शङ्खध्वानयुतो मयूर वहनो वह्न्यर्क्ष जः फाल्गुने ॥ १२
’’जगद्भुवाय । यजद्भुवाय । विश्वभुवाय । रुद्रभुवाय ।
ब्रह्मभुवाय । भूर्भुवाय ॥’’
पश्चिमे पङ्त्कीशः
पङ्त्कीशं श्यामवर्णं सितवसनधरं प्राङ्मुखं खड्ग खेटौ
बिभ्राणं भूतयानध्वज मितमकुटं चण्डिका प्राणनाधम् ।
फल्गुन्यामुत्तरस्यामुपजनितमहं चेतसा भावयेयं
नामाद्यस्स्वर्ण बीजं जलजरवयुतं नायकं भूतपूर्वम् ॥१३
’’पङ्त्कीशाय । मित्राय । वरदाय । भूतनायकाय ॥’’
तदुत्तरे पवित्रः
श्वेताम्बरं प्राङ्मुखमञ्जनाभं
क्लीबं वृषस्थं गलकाख्यकेतुम् ।
पवित्रमुग्रस्वनमूर्मिशस्त्रं
सौम्यं नमस्यामि पकार बीजम् ॥
’’पवित्राय । मन्त्राय । जप्याय । शुद्धाय ॥’’
उत्तरे पवनः
पिङ्गं दक्षिण दिङ्मुखं परिवृत श्यामाम्बरं वाहने
तिष्ठन्तं वृषभे नपुंसकतनुं पद्माद्यबीजाक्षरम् ।
ध्यायामो गलकाख्य केतुममितालङ्कारमूर्म्यायुधं
देवं तं पवनाख्यमुग्रनिनदं स्वाभीष्टसंसिद्धये ॥ १५
’’सर्वतीर्थज्लाय । पुण्याय । पवनाय । पुण्यपूजिताय ।’’
[[52]]
तत्पूर्वे तक्षकः
याम्याशोन्मुखमभ्रनीलवपुषं हेमाम्बरं तक्षकं
बिभ्राणं फणपञ्चकं मणियुतं यद्वा फणासप्तकम् ।
ध्यायेयं हृदि हस्तताल निनदं तट्यादि बीजाक्षरं
पाधोजध्वज वाहनं भुजगभे जातं जरावल्लभम् ॥ १६
’’तक्षकाय । सर्पराजाय । क्षितिजाय । धराधराय ॥’’
इति श्रीवैखानसे ध्यानमुक्तावल्यां चतुर्थावरण देवताध्यान
भेदोनाम षष्ठस्तबकः