[[39]]
श्रीनिवासपरब्रह्मणे नमः
(५. पञ्चमस्तबक प्रारम्भः॥)
द्वितीयतृतीयावरण देवता ध्यानभेदः
प्रथमावरणे द्वितीयेवा पूर्ववदिन्द्रादीन् ध्यात्वा समर्चयेत्प्रागादि
द्वार दक्षिण पार्श्वेषु कोणेषु तत्तद्दिगीशानर्चयेदिति मरीचिः ॥
४०. नवग्रहाः
द्वितीयावरणे प्राग्द्वारादुत्तरे सूर्यः
रक्तः शुक्लांशुकः पश्चिमदिगभिमुखः पद्महस्तो द्विबाहुः
सिन्दुध्वानः खबीजश्शितकिरणशतो रेणुकावर्चलेशः ।
सप्तश्यामाश्ववाहश्शिरसिपरिलसन्मण्डलो हस्तजातश्चा
दित्यः श्रावणे मास्यवतु नतजनान् बाडबाभिख्यकेतुः ॥१
’’आदित्याय । भास्कराय । सूर्याय । मार्ताण्डाय ॥’’
तद्दिगीशस्य दक्षिणे चन्द्रः
श्वेतः पश्चिम दिङ्मुखः शरधनुष्पाणिश्च रक्ताम्बरो
हेमाश्वाष्टक वाहनस्सित खगध्वानः कुलीरध्वजः ।
चन्द्रः पातु समण्डलावृत शिरा बीजं सकारम्भजन्
रोहिण्यारमणश्च सौम्यजनितोऽप्यात्रेय गोत्रोद्भवः ॥२
’’सोमाय । यज्ञाङ्गाय । इन्दवे । चन्द्राय ॥’’
दक्षिणेऽङ्गारकः
बन्धूकद्युतिमुत्तराभिमुखमानीलाम्बरं शक्ति भृ
त्पाण्यग्रं शरभध्वजं हयधृतं वङ्गाख्यराष्ट्रेश्वरम् ।
नामाद्यक्षर बीजमब्जनिनदं चित्तेऽहमङ्गारकं
कल्याणाय शुकं जुषासहचरं वन्देऽश्वनीसम्भवम् ॥३
’’अज्गारकाय । वक्राय । रक्ताय । धरासुताय ॥’’
[[40]]
तस्य पश्चिमे बुधः
कोटीरज्जलजारवो वरगदा हस्तो रथस्धो बुधः
श्यामो गारुडरत्नभृन्मृगपतिस्फूर्जध्वजोदङ्मुखः ।
नामाद्यक्षर बीजको दिशतु शं रक्ताम्बरश्श्यामलः
स्रग्गन्धश्च सुशीलया दयितया युक्तः श्रविष्ठोद्भवः ॥४
’’बुधाय । श्यामाय । सौम्याय । श्रविष्ठजाय ॥’’
पश्चिमे दिगीशस्य दक्षिणे बृहस्पतिः
पीतं प्राग्वदनं कुशध्वजयुतं यज्ञोपवीतैर्वृतं
हंसस्थं धृतदर्भहस्तमसिताच्छादञ्च तारापतिम् ।
नामाद्यक्षर बीजमेव कलयेदाषाढतिष्योद्भवं
सिन्धूर्वीपति हंसरावनिनदं सब्रह्मपाशङ्गुरुम् ॥५
’’पीतवर्णाय । गुरवे । तैष्याय । बृहस्पतये ॥’’
तस्योत्तरे शुक्रः
प्रोग्वक्त्रो रजतद्युतिः परिदधद्वल्कं मृगत्वग्जटा
धारी वारिदवाहनः सृवलसत्केतुश्च शङ्खस्वरः
शुक्रश्चेतसि रोहिणीभ जनितो नामाद्यबीजाक्षरो
ध्यातव्यस्सुमदापतिर्बुधजनैर्माखे भवो भार्गवः ॥६
’’शुक्राय । भार्गवाय । काव्याय । परिविसर्पिणे ॥’’
उत्तरे दिगीशस्य पश्चिमे शनैश्चरः
मन्दो दक्षिण दिङ्मुखोऽञ्जन रुचिश्चीरैः कुशैश्चाम्बरं
बिभ्रत्सूकर केतुवाहनयुतः सौराष्ट्रदेशोद्भवः ।
माघेमासिच रेवतीजननवान् शङ्खस्वनोऽयं द्विदोः
नामाद्यक्षर बीजकश्च कुमुदा भर्ता जयन्नोऽवतात् ॥७
’’सूर्यपुत्राय । मन्दाय । रैवत्याय । शनैश्चराय ॥’’
पञ्चमस्तबक ः
[[41]]
तत्प्राच्यां राहुः
श्यामाभं दक्षिणाशामुखमरुणजपाचेलकं दोर्द्वयाढ्यं
नामाद्यर्ण स्वबीजं ध्वजमयभुजगं नागचूलिकमस्तकम् ।
राहुं जारा सहायं फणभृदुडुभवं मण्डलाक्रान्त मौलिं
ध्यायेत्पाशायुधं तं त्रिभुवन विदितं सर्पयानाधिरूढम् ॥८
’’राहवे । दैतेयाय । उरगेशाय उग्राय ॥’’
प्राच्यां केतुः
अश्रेषाजनितस्तु मध्यमभवो वैढूर्य भूषान्वितो
धूव्रूभो विशदाम्बरो यमहरिद्वक्त्रः किरीटीद्विदोः ।
नामाद्यक्षर बीजको वरगदा हस्तोऽहियान ध्वजो
नागेशोऽवतु केतुनामभृदयं मां नागचूलीशिराः ॥९
’’केतवे । कृष्णवर्णाय । रौद्राय । प्रकाशिने॥’’
’’यद्दिग्द्वारं तद्दिग्द्वारपार्श्वे वा समर्चयेदिति मरीचिः ॥’’
तृतीयावरणे प्राग्द्वारदक्षिणे गङ्गा
श्वेता पश्चिम दिङ्मुखा स्वहृदय न्यस्ताञ्जलिः पावनी
साकूर्मध्वजवाहनाऽभ्धि महिषी गङ्गा गबीजाद्विदोः ।
कृष्णाकुञ्चित मूर्धजाऽब्ज निनदा पादं प्रसार्योषिता
मासे त्वाश्वयुजेऽति पीतवसना रेवत्यभिख्यर्क्षजा ॥ १०
’’नलिन्यै । जाह्नव्यै । गङ्गायै । लोकपावन्यै ॥’’
दक्षिणे यमुना
श्यामाभोत्तरदिङ्मुखापिकरवा रक्तांशुका पुष्पभृत्
हस्तापीनकुचा सुभूषिततनुः कान्ताझषारोहिणी ।
तैषेमासिच मूलजाध्वजलसन्मत्स्याय बीजान्विता
कृष्णाकुञ्चित मूर्थजाच यमुना ध्येयाद्विबाहुर्जनैः ॥ ११
’’यमुनायै । स्फाटिकायै । नदीवरायै । पावनायै ॥’’
[[42]]
पश्चिमे नर्मदा
रक्ताभा धवलाम्बराऽम्बुजसुखासीना पयः कुक्कुट
स्वाना कच्छपवाहन ध्वजवती पुष्पस्रजं बिभ्रती ।
नामाद्यक्षर बीजका धृतसुमा पीडा पुरस्तान्मुखी
ध्यातव्या हृदि नर्मदाभयभुजा चैत्राश्विनी सम्भवा ॥’’ १२
’’नर्मदायै । नदीवरायै । विद्युद्रूपायै । विशालायै ॥’’
उत्तरे सिन्थुः
तैषे पौष्णभवाच दक्षिणमुखी पुष्पांशुकाऽब्धि स्वना
हस्ते पद्मधरा सितासित तनूरुद्बद्ध केशी द्विदोः ।
सिताद्यक्षर बीजका मकरमारूढा च तत्केतना
सिन्थुः पातु सुमध्यमा भुवि सुखासीना सुमस्रग्थरा । १३
’’सिन्थवे । नदीवरायै । मृद्वङ्ग्यै । साधनायै ।’’
प्राग्द्वार उत्तरे दुर्गा
श्यामा पीत सुचेलकोत्तरमुषी कक्ष्यावबद्धस्तनी
चक्राब्जाभय कट्युपार्पितकरा हर्यक्षवाहध्वजा ।
दुर्गा कार्तिकमासि वह्निभ भवा साकं स घण्टारवा
नामाद्यक्षरबीजका बहुविधाकल्पा सदा रक्षतु ॥ १४
’’अपिच ।
स्थिताऽऽकुञ्च्यैकाङ्घ्रिं कनकमयपीठे सुवदना
करैश्चक्राब्जेष्वासन परशु शूलासि धरिणी ।
कुमार्यराछनल्पाभरण रुचिराङ्गीपशुबलि
ग्रहा त्र्यक्षी देवी भृशमवतु कौबेरमकुटा ॥ १५
’’दुर्गायै । कात्यायन्यै । वैष्णव्यै । विन्थ्यवासिन्यै ॥’’
पञ्चमस्तबक ः
[[43]]
आग्नेय्यां सरस्वती
किञ्जल्काभा जटाला कुवलयनयना बिभ्रती ज्ञानमुद्रा
मारूढा बालकाख्यं सितखगमतुलाम्भोरुहब्रह्मपीठा ।
गोकेतुश्चात्त पुस्ताक्ष वलय कलशाघोर घण्टानिनादा
तैषार्कराक्ष् सरस्वत्यवतु भृगुवधूः श्वेतवस्त्रा सबीजा ॥ १६
’’सिद्ध्यै । विश्वायै । भृगुपत्य्नै । सरस्वत्यै ॥’’
नैर्ऋत्यां श्रीः
हेमाभाश्रीर्निबद्ध स्फुटतर कुसुमा पीडचूडा किरीटा
मुक्ताहाराऽथ कक्ष्या ग्रधित गुरुकुचा श्वेत पद्मासनाढ्या ।
श्री बीजा पद्महस्ता मणिरवसहिता फाल्गुने चोत्तराजा
क्षौमं दिव्यं दधाना विलसतु हृदये शङ्ख नीत्याख्यवाहा ॥ १७
’’नामानि पूर्ववत्’’
वायव्यां ज्येष्ठा
रक्तापुष्प पटा घनस्तनभरा पुष्पाङ्क पात्रं धरा
सव्ये पीतगदाभृदुक्षसहिता वामेऽरुण श्यामरुक् ।
मौञ्जी काञ्चि युताच वायसरवा ज्येष्ठोडुजोदङ्मुखी
पञ्चाशत्खरयुग्रधध्वजधरा ज्येष्ठादि बीजाक्षरा ॥ १८
भूर्ज्येष्ठायिन्यै । भुवर्ज्येष्ठायिन्यै । सुवर्ज्येष्ठायिन्यै ॥
भूर्भुवस्सुवर्ज्येष्ठायिन्यै ॥’ कलिराजिन्यै’’
ऐशान्यां महाकाली
चैत्रार्द्रा जनिता लसड्डमरुका पादम्प्रसार्यस्थिता
पैशाचध्वज वाहना ढमरुक ध्वानाऽट्टहासान्विता ।
भूृभङ्गी विकटा कपाल गुणभृद्रक्तावकुञ्चत्कचा
दंष्ट्रिण्यार्द्रक शूलकोग्रनयना श्यामाम्बरारक्षतु ॥ १९
[[44]]
अपिच ॥ महाकाली
षड्भिः शूल कपाल पाश डमरु प्रासान् सखेटान् करैः
भिभ्राणाधृत बालमौलि रुचिर प्रौढोत्तरासङ्गका ।
रौद्री नित्यमुदग्रहासनगता बन्धूकरक्ताकृतिः
श्लिष्यत्पीनकुचाप्युदङ्मुख महाकाली मबीजाऽवतु ॥ २०
’’धात्र्यै । महोदर्यै । रौद्र्यै । महाकाल्यै ॥’’
अन्तराले प्राच्यां सुरा
रक्ता पश्चिमदिङ्मुखा कुसुमभृद्धस्ता जपाभाम्बरा
वीणा वेणु रवालि कोपरि लसत्पुष्पावचूडोज्ज्वला ।
कृष्णाकुञ्चित मूर्धजा भगवती स्वात्युद्भवा सुन्दरी
कापोत ध्वजवाहना हृदिवसेन्नामाद्य बीजान्विता ॥ २१
’’सुरात्मिकायै । सुमुख्यै । विद्युद्रूपायै । सुभागायै’’
दक्षिणे सुन्दरी
स्वर्णावारुण दिङ्मुखा कुसुमभृद्धस्ता सिताभाम्बरा
वीणावेणुरवालिकोपरि लसत्पुष्पाव चूडोज्ज्वला ।
कृष्णाकुञ्चित मूर्धजा हृदिवसेत्स्वात्युद्भवा सुन्दरी
नामाद्यक्षर बीजका सितगरुद्यानाच तत्केतना ॥ २२
’’सुन्दर्यै । विशालायै । पद्माक्ष्यै । पद्मवर्णिन्यै ॥’’
तद्दक्षिणे स्वाहा
उदग्वक्त्रा रुक्मद्युतिररुणवस्त्रोभयभुजा
विशाखा वैशाखे भवसुजनिता हंसनिनिदा ।
पुरोदेवं पश्यन्त्यवतु विततदक्षिण करा
निकुञ्चत्स्वाहोग्रा व्यजनसहिता दक्षिणकरा ॥
’’स्वाहायै । शुभाङ्ग्यै । मृद्वङ्ग्यै । साधनायै ॥’’ २३
पञ्चमस्तबक ः
[[45]]
पश्चिमे स्वधा
श्यामापाण्डुरुदङ्मुखी व्यजनयुक्पुष्पाङ्क हस्ताद्विदोः
कृष्णाच्छादवती शुकध्वजयुता तद्वाहनाऽग्नि ध्वनिः ।
कृष्णाकुञ्चित मूर्थजा हृदिवसेत्सङ्क्षिप्त वामाङ्घ्रिका
सव्याम्फ्रिुं प्रविसार्य याम्यजनिता मासे नभस्ये स्वधा ॥ २४
’’स्वधायै । समृद्ध्ये । कुलवृद्धिन्यै । सन्नत्यै ॥’’
पश्चिमे संह्लादिनी
अवतु धवलचेला प्राङ्मुखी काञ्चनाभा
ध्वजवहसितवक्षा कुञ्चिता नीलकेशी ।
धृतकुसुमकरा संह्लादिनी तैषमूला
जनिरसुकृत वीणावेणुनादाऽद्यबीजा ॥ २५
’’संह्लादिन्यै । वरारोहायै । मयूरकण्ठ्यै । मुद्वर्धिन्यै ॥’’
उत्तरे राका
हेम्नामिश्र सितद्युतिः कुसुमभृत्पाणिश्च हंसध्वजा
तद्वाहा मणिभूषिता मलयदिग्वक्त्रा च मूलोद्भवा ।
वीणावेणु रवाच रक्तवसना राकाकृतिस्स्मर्यतां
नीलाकुञ्चित कुन्तलोभयभुजा नामाद्यबीजाक्षरा ॥ २६
’’राकायै । मुख्यायै । रक्ताङ्ग्यै । वराननायै ॥’’
तत्पूर्वे सिनीवाली
वीणावेणुरवा सितासितरुचिर्हंसध्वजा तद्वहा
याम्याशाभिमुखी सबीजसहिता मूलोद्भवा युग्मदोः ।
नीलाकुञ्चितमूर्थजा कुसुमभृत्पाणिश्शमीपुष्पक
च्छायाचारपटावताद्बहुविधा कल्पा सिनीवाल्यसौ ॥ २७
’’सिनीवाल्यै । गभस्तिन्यै । हितदायै । पुण्यदायै ॥’’
[[46]]
पचनालये हविरक्षकः
कृष्णाभं सितचेलमुत्तरमुखं नामाद्य बीजाक्षरं
हर्यक्ष ध्वजमश्ववाहममिताकल्पं हवीरक्षकम् ।
शूलेनानृजुनापरिष्कृतकरं शङ्खध्वनिं रोहिणी
सञ्जातं सुगुणेशमब्जनयनं ध्यायेत्सहस्सम्भवम् ॥ २८
’’हविरक्षकाय । आग्नेयाय । शैलूषाय । पचनाय ॥’’
पुष्पसञ्चयन स्थाने पुष्परक्षकः
सौवर्णाभमुदङ्मुखं कुवलयश्यामाम्बरालङ्कृतं
शुद्धाङ्गी सहितं च शङ्खनिनदं रेवत्युडौ सम्भवम् ।
नामाद्यक्षर बीजकं गजवरारूढं प्रसूनध्वजं
ध्यायेच्चेतसि पुष्परक्षकमथ स्वाभीष्टसंसिद्धये ॥ २९
’’पुष्परक्षकाय । हरिताय । अधिवासाय । फुल्लाय ॥’’
पुरुषः
स्नानोदकसञ्चयस्थाने पुरुषः पूर्ववत् ॥
प्लोत वस्त्रोत्तरीय सञ्चयस्थाने त्वष्टा
हेमाभं शुकपीतचारुवसनं कुण्ड्यक्षमाला करं
सावित्री पतिमच्छपक्षवहनं हुङ्कार कण्ठध्वनिम् ।
केतूभूत कमण्डलुं धृतजटं रूपाद्यबीजाक्षरं
त्वष्टारं कलयेऽभिजिद्भवमहं निश्शेषभूषोज्ज्वलम् ॥ ३०
’’त्वष्ट्रे । रूपजाताय । निधिजाय । प्लोताधिपतये ।’’
शयनस्थाने कौमोदकी
पीता पश्चिमदिङ्मुखी सरसिजं हस्ते वहन्ती द्विदो
रक्ताच्छाद धराशिरो धृतगदा घोरप्रणादागदा ।
हर्यक्षध्वज वाहना प्रदिशतु श्रेयः श्रविष्ठोदिता
पञ्चमस्तबक ः
[[47]]
भक्तौघस्य गकारबीजसहिता कौमोदकी साहरेः ॥ ३१
’’गदायै । कौमोदक्यै । पुण्यदायै । पीतायै ॥’’
हविर्द्रव्य सञ्चयस्थाने मुरुण्डः
भूतावाहन मेदिवान् घनरुचिः प्राचेतसाशामुखो
बिभ्रद्वक्रित दण्डमब्ज निनदः श्वेताम्बरालङ्कृतः ।
नामाद्यक्षर बीजकस्त्रिशिख सत्केतुश्च कुम्भोदरो
ध्यातव्यश्च मुरुण्डकः फणिभुजस्सर्वापतिस्सौख्यदः ॥३२
’’सर्वेशाय । जगन्नाथाय । चामुण्डाय । सर्वतश्चराय ।’’
होमस्थाने बलिरक्षकः
श्यामं पश्चिमदिङ्मुखं रथवहं पीताम्बरालङ्कृतं
बाहुद्वन्द्वयुतं मृगेन्द्रविलसत्केतुञ्च दण्डायुधम् ।
नामाद्यक्षर बीजमब्जनिनदं ध्यायामि चित्तेऽनिशं
सर्वज्ञं बलिरक्षकं सुमनसा नाथं श्रविष्ठोद्भवम् ॥३३
’’बलिरक्षकाय । दण्डधराय । सर्वज्ञाय । समाय ॥’’
इति श्रीवैखानसे ध्यानमुक्तावल्यां द्वितीय तृतीयावरण
देवताध्यान भेदोनाम पञ्चमस्तबकः