[[27]]
श्रीनिवासपरब्रह्मणे नमः
(४. चतुर्थस्तबक प्रारम्भः॥)
द्वारदेवता द्वारपालध्यानभेदः
२८. द्वारदेवाः
प्रथम द्वारदेशे च धात्रादीनर्चयेत्क्रमात् ।
नान्यत्र केवलं तत्तद्वारपालान् समर्चयेत् ॥
’’इतियज्ञाधिकारे’’
द्वारस्य दक्षिणस्तम्भे धाता
वेणुस्यन्दन वेणुवर्ण रुचिरं नामाद्य बीजान्वितं
ध्यायाम्याश्विन मासि हस्तजनितं पुष्पध्वजोद्भासितम् ।
धातारं तमुदङ्मुखं स्धितमनल्पाकल्प विभ्राजितं
सन्थिन्याःपतिमब्धिघोषनिनदं विष्णुं स्मरन्तं हृदि ॥१
’’धात्रे । दम्भिने । सनिलाय । गन्थर्वाय ॥’’
द्वारस्य वामस्तम्भे विधाता
ऊर्थ्वेशो गजवाहनश्शुक गरुद्वर्णो विधाता स्थितः
शङ्खध्वानयुतः फणि प्रविलसत्केतुर्विबीजान्वितः ।
पायाद्दक्षिण दिज्मुखस्समुदितो हस्ताभिधायामुडौ
मासे कार्तिकके सुवर्ण विलसद्भूषोज्ज्वलः प्राञ्जलिः ॥२
’’विधात्रे । कीनाशाय । मूरुण्डाय । निर्णकाय ॥’’
द्वारस्य अथः पट्टिकायां भुवङ्गः
पायादुत्तरतः प्रसारितपदः कुर्वन् शिरोदक्षिणे
खप्रेक्षी शुभनासिकः कुवलयश्यामांशुरग्निध्वजः ।
प्रीतीशो वृषवाहनोऽतिरुचिराकल्पो भुवङ्गाभिधो
नामाद्यक्षर बीजवानथ धनुर्मासस्य हस्तोद्भवः ॥३
[[28]]
’’भृतये । भुवङ्गाय । उत्सङ्गाय । पीठाय ॥’’
’’पूजकादिभिरर्चनाकालादन्यत्र नलङ्घ्य उपरि शिरस्थ्साने
पूजयेदिति मरीचिः ॥’’
द्वारोपरि पतङ्गः
शुक्लाभोऽधोमुखो यो हयवरवहनो विजिकेतुर्भरण्या
नाधो राजत्कवाटोर्थ्वविलसित शिखाश्लिष्ट मूर्तिः पतङ्गः ।
हस्तर्क्षे पौषमासे जननमुपगतो नामवर्णाद्यबीजः
शङ्खारावाभिरामो मनसि तमनिशं भावयाम्यर्थसिद्ध्यै ॥४
’’पतङ्गाय । उत्कराय । अपदानाय । कपर्दिने ॥’’
’’पतिरं वरुणञ्चैव कवाटे दक्षिणोत्तरे ।
यत्रयत्र कवाटोऽस्ति तत्र तत्र समर्चयेत् ॥’’
’’इत्यर्चनाधिकारे ॥’’
दक्षिणकवाटे पतिरः
द्वारदक्षिणतः स्थितः करिवरं प्राप्तोनिजं वाहनं
स्वर्णच्छाय तनुर्मितैर्विलसितो हेमात्मभिर्भूषणैः ।
माखेमासि तु हस्तजो वृषलसत्केतुः प बीजान्वितो
भद्रं मे वितनोतु शङ्खनिनदो देवोबलेशोऽनिशम् ॥५
’’पतिराय । बलिदाय । मध्यगाय । वङ्घनाय ॥’’
द्वारवामकवाटे वरुणः
हेमाम्भोजरुचिः कियत्कनक सम्मिश्रो धरण्याःपति
रछस्ते फाल्गुनमासि लब्धजननः प्राप्तोरधं वाहनम् ।
शङ्खोद्भासित केतनः सवरुणः शङ्खध्वनिः प्राञ्जलिः
भद्रायास्तु वकारबीज सहितो भक्तेप्सितार्थ प्रदः ॥६
’’वरुणाय । तेजसे । दंशिने । तरत्सिने’’
[[29]]
२९. विमानपालाः
आलयस्य बहिःपार्श्वे प्राग्द्वारमध्ये प्राङ्मुखो न्यक्षः
सश्येन ध्वजवाहनः कनक वर्णाच्छादनो दण्डभृ
द्दूर्वाङ्कूर रुचिर्न्यबीजसहितः प्रज्ञप्तिनाधः स्वयम् ।
रोहिण्यामुपलम्भित स्वजननो न्यक्षाभिधः प्राङ्मुखो
देवो नस्सकलार्थलाभ घटना दत्तादरः स्यात्सदा ॥७
’’न्यक्षाय । दैत्यकाय । पीवराय । आर्यकाय ।’’
विमानस्य दक्षिणे विवस्वान्
शुभ्राच्छादनवान् जपारुचितनुर्दण्डं करेणोद्वह
न्नुत्सादिन्यधिपस्तुरङ्ग वहनस्सोभिण्डिवाल ध्वजः ।
सृग्ध्वानश्च मखोद्भवः प्रथम वर्णाकार बीजोदिशं
पश्यन् दक्षिणतो विवस्वदभिदो देवस्सदारक्षतु ॥८
’’विवस्वते । भरताय । विश्वकर्मणे । मरीचिमते ॥’’
वामानस्य पश्चिमे मित्रः
मित्राख्यास्सबहुप्रजापरिबृढो यश्शारभाणोपमः
पुष्पाच्छादनवान् हलायुधधरोनामाद्यबीजोज्ज्वलः ।
मेघध्वानयुतः कपोतवहनो धूमध्वजः पश्चिम
प्रेक्षीमङ्गल भूषनान्विततनुः पायाद्विशाखोद्भवः ॥९
’’मित्राय । हित्वराय । राजिष्मते । रमणकाय ॥’’
विमानस्य उत्तरे क्षत्ता
पश्यन्नुत्तरतो दिशं कनकरुक्पुष्पाम्बरो दण्डभृ
द्वाणीशः श्रुतिनिस्वनो मृगलसद्यानो लुलायध्वजः ।
मूलायां प्रभवः क्षबीज सहितः क्षत्ताविधत्ताम्मुदं
केयूरादि सुवर्णभूषणमयालङ्कार शृङ्गारितः ॥ १०
’’क्षत्रे । महीधराय । उर्वराय । शेवधये ॥’’
[[30]]
’’द्वारेशाश्च विमानेशा बलिं भूतद्वयन्तथा ।
रूपं नेच्छन्ति ते पीठे तस्माद्ध्यात्वा समर्चयेत् ॥’’
’’चन्द्रबिम्बवदाकाशे दर्पणे प्रतिबिम्बवत् ॥’’ ॥इतिखिले॥
३०. गर्भालयद्वारपालकौ
’’यजेद्गर्भगृहाद्बाह्ये मणिकं द्वारदक्षिणे ।
वामभागे तथा सन्थ्यां तस्य पत्नीं समर्चयेत् ॥’’
प्रथम द्वारदक्षिणे मणिकः
श्वेतं शुक्लाम्बर विलसितं केतुभूत सृवन्तं
सन्द्यानाधं द्विरद वहनं रोहिणी तारजातम् ।
शङ्खध्वानं मनसि मणिकं यन्त्रिकारूप शस्त्रं
ध्वायाम्युच्चैः प्रधित यशसं प्राप्यबीजं मकारम् ॥ ११
’’मणिकाय । महाबलाय । विमलाय । द्वारपालकाय ।’’
प्रथम द्वारवामे सन्थ्या
हेमाभां धवलाम्बरां करलसत्पुष्पांशुकाराविणीं
सन्थ्यां नौमि सकारबीज मधुरां नानाविभूषोज्ज्वलाम् ।
सध्रीचीं मणिकस्य विष्णु भवन द्वारोपकण्ठे स्थितां
भक्ताभीष्ट फल प्रदान निपुणां न्यस्याम्फ्रिुमुत्पीठके ॥ १२
’’सन्थ्यायै । मुनिपत्न्यै । प्रभावत्न्यै । ज्योतिरूपायै । दृढव्रतायै।’’
मुखमण्डप द्वारदक्षिणे विखनाः
हेमाच्छादं स्पटिकदृशं विध्युडूत्पत्ति भाजं
दिव्यानाधं कुशपरिलसत्केतनं दण्डपाणिम् ।
वेदारावं रुरुमय महावाहनं दोश्चतुष्कं
विं बीजं तं विखनसमहं प्राप्तवन्तं भजामि १३
’’विखनसे । तपोयुक्ताय । सिद्धिदाय । सर्वदर्शिने ॥’’
[[31]]
तस्य वामे तापसः
श्वेताभं रुरुवाहनं करलसद्दण्डं श्रुतिध्वानिनं
कूर्चोद्भासित केतनं सुरवरं बीजं तकारं श्रितम् ।
पुष्योद्भूतमुदार रक्तवसनं सन्धिन्यधीशं भजे
देवं बाहुयुगाभिराम वपुषं भूषोज्ज्वलं तापसम् १४
’’तापसाय । सिद्धिदाय । सर्वदर्शनाय । सहस्राश्वमेधिने’’
३१. प्रधमावरण द्वारपालकौ
प्रधमावरण द्वारदक्षिणे किष्किन्धः
अग्न्याभं विशदांशुकं कमठवद्ध्यानं दृढाद्यक्षरं
बीजं प्राप्य विराजितं शरलसत्केतुं सदण्डायुधम् ।
किष्किन्धं मृगराज घोषमनिशं ध्यायाम्यहं प्रोष्ठपा
ज्जातं त्रासक शङ्ख चक्रममलं सम्मोहिनी नायकम् ॥ १५
’’किष्किन्धाय । बहुमर्दनाय । बहुसेनाय । दृढव्रताय ॥’’
वामे तीर्थः
आर्द्राजं धवलं जपाभ वसनं कूर्मं श्रितं वाहनं
हस्तालम्बित वेणुदण्डमनिशं तीर्थं विशोकापतिम् ।
तीर्थाद्यक्षरबीजमुज्ज्वल शराकारध्वजं वारिज
ध्वानं चेतसि भावयामि जलजं चक्रं श्रितं तर्जनम् ॥ १६
’’तीर्थाय । उद्वहाय । सर्वयोग्याय । उदावहाय ॥’’
३२. द्वितीयावरण द्वारपालकौ
द्वितीयावरण द्वारदक्षिणे विघ्नेशः
दन्त्यास्यं सृणिपाशभृत्कुशलसत्केतुं प्रवालद्युतिं
स्फूर्जद्वाहन वेणुकङ्कणयुतं विघ्नेशमार्द्रापतिम् ।
[[32]]
शङ्खध्वानयुतं गबीज सहितं देवं श्रविष्ठोदितं
वन्दे वामनमेकदन्तमनिशं रम्भाफलं बिभ्रतम् ॥ १७
’’वक्रतुण्डाय । एकदंष्ट्राय । विकटाय । विनायकाय ।’’
उत्तरे नागराजः
शङ्खाभो मकुटाञ्चितस्समुषितस्सिंहासने सर्पज
श्शेषाद्यक्षर बीज्वान् जलनिधिं प्राप्तोध्वजं वाहनम् ।
शेषस्सप्त फणापवारितशिरा नीलाम्बरालङ्कृतः
पायान्मञ्जुल तालहस्तनिनदो देवोजनी वल्लभः ॥ १८
’’नागराजाय । सहस्रशीर्षाय । अनन्ताय । शेषाय ॥’’
३३. तृतीयावरण द्वारपालकौ
तृतीयावरण द्वारदक्षिणे शङ्खनिधिः
शुभ्रश्शङ्खनिधिर्विनील वसनो भूताकृतिः पङ्कजं
केतुं वाहनमाप्तवान्वरुणभे जातश्च शुद्थापतिः ।
हस्ताभ्यां जलजं वहन्सुरुचिरश्शङ्खादिबीजान्वितः ।
शङ्खोद्घोष समारवो वितरतु श्रेयांसि नस्सन्ततम् ॥ १९
’’शज्खाय । निधिवराय । वरदाय । मौक्तिकोद्भवाय ।’’
वामे पद्मनिधिः
पाधोज ध्वजवाहनः करयुगे पद्मं वहन् प्रोष्ठपा
ज्जन्मा रक्ततनुश्च रक्तवसनो हर्यक्षनाधोज्ज्वलः ।
भूताकारवपुस्सपद्मनिधिरित्याख्यां जगत्यां भजन्
भूषावांश्च पकारबीज सहितः पायाद्विशुद्धापतिः ॥ २०
’’पद्माय । निधिवराय । रक्ताभाय । भूतनायकाय’’
[[33]]
३४. चतुर्धावरण द्वारपालकौ
चतुर्थावरणद्वारदक्षिणे तुहिणः
रक्ताच्छायो धवलवसनो नागचूलीकमौली
भेरीनादस्तुरग वहनो राज दुद्देश हस्तः
हस्तेजातोदित सुतवरो भामिनीशोऽहिकेतुः
श्रेयोऽस्माकं दिशतु तुहिणः प्राप्ततुष्ट्यादि बीजः ॥ २१
’’तुहिणाय । दैत्यराजाय । विष्णुभक्ताय । गदाधराय ।’’
वामे बलिन्दः
श्यामोरक्ताम्बरतनुः व्याफ्रुवाहोऽहिकेतु
र्जातो हस्ते प्रधितमहिमा नागचूलीकमौलिः ।
उद्देशाञ्चत्कर सरसिजो झल्लरी नादघोषः
पायाद्बीजं बमपिकलयन् मां स्वधेशोबलिन्दः ॥ २२
’’दैतेयाय । महावीर्याय । बलिन्दाय । शूलपाणये’’
३५. पञ्चमावरण द्वारपालकौ
पञ्चमावरणद्वारदक्षिणे नन्दकः
रक्तः खड्गं शिरसि सुवहन् नीलचेलोऽग्नि केतु
र्घोषारावः पवनवहनः खात्मबीजाभिरामः ।
स्वातीजातः कलयतु बलानायको नन्दको मे
श्रेयस्तेजः कनकरुचिराकल्प विभ्राजिताङ्गः ॥ २३
नन्दकाय । खड्गाय । पापहराय । दैत्यनाशकाय
वामे शारङं
क्लीबंशारङं जलदवहनं पञ्चवर्णाभिरामं
मौलौचापाङ्कितमध शराकार केतु प्रसिद्धम् ।
[[34]]
मुक्ता श्वेताम्बरमपि महानादरावं विशाखा
जातं ध्यायन्निखिलशुभदं प्राप्तशाङ्कारबीजम् ॥ २४
’’शाराङ्गय । धनुर्वराय । शत्रुहन्त्रे । वरायुधाय ॥’’
३६. षष्ठावरण द्वारपालकौ
षष्ठावरणद्वारदक्षिणे शङ्खचूली
श्वेताभो नीलवासाश्शिरसि जलजभृद्दण्डयोधिः प्रभूतो
रोहिण्यां हंसवाहस्सकल शुभवहः कर्ण शब्द प्रणादः ।
नन्देशश्शङ्खचूली प्रधित शुभगुणो व्योमगामिध्वजाङ्को
बीजं नामादि वर्णं दधदवतु समां काङ्क्षितार्थ प्रदायी ॥२५
’’शङ्खचूलिने । वृक्षदण्डाय । श्वेताभाय । घोररूपाय ।’’
वामे चक्रचूली
मौलौ चक्रवहस्सिताम्बरधरो रक्तद्युतिः पाशभृ
द्भिभ्रद्दण्डमुदारमेघनिनदो धूमस्फुरत्केतनः ।
तुष्टिप्राणसखः प्रवृत्त वहनो बीजं चकारं भजन्
कल्याणं सततं करोतु भगवान् श्रीचक्रचूली स्थिरम् ॥ २६
’’चक्रचूलिने । महानादाय । उग्राय । भयानकाय ॥’’
३७. सप्तमावरण द्वारपालकौ
सप्तमावरणद्वारदक्षिणे चण्डः
हेमाभं रक्तवस्त्रं त्वरजवधरमुद्देश्य दण्डं दधानं
दोष्णा वामेतरेणापरकर परिमृष्टापसव्यावलग्नम् ।
मेघारावं द्विदंष्ट्रं मृगपति वहनं धूमकेतुं प्रियेशं
किञ्चिद्द्वारं निरीक्ष्य स्थितनिर्ऋतिभजं चण्डमीडे च बीजम् ॥२७
’’चण्डाय । उग्राय । भयानकाय । द्वारपालकाय ॥’’
[[35]]
वामे प्रचण्डः
श्यामं श्वेताभवस्त्रं प्रतिभयधरमुद्देश्य दण्डं दधानं
दोष्णो वामेतरेणापरकर परिमृष्टापसव्यावलग्नम् ।
मेघारावं द्विदंष्ट्रं त्वरितजवधरं धूमकेतुंसुमुख्या
नाधं द्वारं प्रतीक्ष्यस्थित निर्ऋतिभजं नौमि देवं प्रचण्डम्॥२८
’’प्रचण्डाय । भीमाय । घोराय । द्वाराधिपतये ॥’’
३८. सेनापतिः
उदग्द्वार पार्श्वे सोमेशानयोरन्तरे विष्वक्सेनः ॥
वन्दे सिंहासनस्थं ज्वलनसमरुचिं पीतवस्त्रं ज्येशं
पुष्पाभीत्यङ्कपाणिं सुमरथ वहनं पुष्परावं विबीजम् ।
विष्वक्सेनं जलरेक्ष्भवमथहरिवद्भूषणाङ्कं विहाय
श्रीवत्स ब्रह्मसूत्रे करयुगलयुतं काम्यदं शृङ्गकेतुम् ॥२९
’’विष्वक्सेनाय । शान्ताय । हराय । अमिताय ।’’
अपिच ।
विष्वक्सेनमशेष निर्जर महासेनाधिनाधं चतु
र्बाहुं शङ्ख सुदर्शनेच दधतं शक्तिञ्च दण्डं करैः ।
श्यामं रत्नकिरीट कुण्डलधरं पीताम्बरालङ्कृतं
वन्दे सूत्रवती जया सहचरं वैवस्वदाशामुखम् ॥ ३०
’’नामानि पूर्ववत्’’
३९. आलयद्वाराभिमुख देवाः
प्रथमावरण चतुर्थभागे श्रीभूतः
श्वेताभो ब्रह्मचारी जतुरुचिवसनो दण्डधारी भरण्या
मुत्पन्नः फाल्गुणस्य ध्वजवहन पदन्यस्तसिंहस्सभूषः ।
[[36]]
भूबीजः कुम्भरावो बहिरुदितमुखो भूतरूपेण युक्तः
श्रीभूतः पातु पाद प्रणत परिजनाभीष्ट संसिद्धदायी ॥ ३१
’’श्रीभूताय । श्वेतवर्णाय । वैष्णवाय । मुखपालिने ॥’’
द्वितीयावरणे पश्चिमाभिमुखो गरुडः
हेमाभः कीर पिञ्छाम्बरलसितवपुर्झल्लरी मेखलावान्
किङ्किण्याली समेतस्तिसृभिरतिजपाभिश्च चूडाभिरिद्धः ।
कोटीराङ्को विनील त्रिमुख फणिकृतच्छन्न वीरः फणिभ्यां
बिभ्रद्भ्यां पञ्चवर्णीकृत निजतनुगो गुञ्जकाक्षो द्विपक्षः ॥ ३२
’स्वातीजोऽञ्जल्युपेतो हृदिपरिचित चूडा पताकोविशोका
धीशानो वायुवाहोऽङ्गरुहहतिरवस्तुण्डयोधीगबीजः ।
बाहुद्वन्दाभिरामो गरुड इति पदेनानिशं गीयमानो
देवो वीशस्सयाद्बहुविध कनकालङ्कृताङ्गस्सुरूपः । ३३
’’गरुडाय । पक्षिराजाय । सुवर्णाय । खगाधिपतये ॥’’
तत्पूर्वे पश्चिमाभिमुखश्चक्रः
अङ्गाराभः प्रवृत्तं वहनमुपगतस्तर्जरावोदधान
श्चक्रम्मौलौ जपाभं वसनमपि वहन् धूमकेतुश्शबीजः ।
चक्राख्यः पुष्टिकेशः सकलनतजनाभीप्सितार्थप्रदायी
देवोदद्यादविद्याप्रतिहति विमलामात्म बोधानुवृत्तिम् ॥ ३४
’’चक्राय । सुदर्शनाय । सहस्रविकचाय । अनपायिने ।’’
तत्पूर्वेपाञ्चजन्यः पश्चिमाभिमुखः
दुग्थाभः पाञ्चजन्यः शिरसि जलज भृद्य्वोमगामि ध्वजाङ्को
भूताकारः शबीजस्सित खगवहनो व्योमगात्रायुधश्च ।
कर्णारव प्रणादोद्युतितुलित जपाच्छादनोवारुणीश
श्शङ्खाख्यः पातु देवः सकलसुरनराभीष्टदानप्रवीणः ॥ ३५
’’पाञ्चजन्याय । शङ्खाय । अम्बुजाय । विष्णुप्रियाय ॥’’
[[37]]
तत्पूर्वे ध्वजः
स्वातीजः शङ्खकेतुः कनक समरुचिः कीरपि पिञ्छाम्बराढ्यः
पद्मं भिभ्रत्ससर्पः पवन वहनवान् प्राञ्जलिर्बाहुमध्ये ।
पीठे वामं निकुञ्च्य स्थितेतरमृजूकृत्यपादं जयेशः
सिंहारावोज बीजः करयुगलयुतः पातु देवोजयाख्यः ॥ ३६
’’जयाय । अत्युच्छ्रिताय । धन्याय । ध्वजाय ॥’’
तत्पूर्वे यूधाधिपपीठे
’’ऐन्द्रादिषु चतुर्दिक्षु भूतरूपं प्रकल्पयेत् ।
शङ्खनादसमायुक्तान् पञ्चवर्णसमन्वितान् ॥’’
’’तस्मिंस्तु पूजयेत्पीठे महाभूतं भयानकम् ।
ब्रह्म रुद्रादि देवानां प्रमधानामधेश्वरम् ॥’’
यूथाधिपः
आजानु श्वेतवर्णं कनक समदृशं सक्थियुग्मं तदूर्ध्वं
रक्ताभं जत्तृणोः प्राक्तदुपरि जलद श्यामलं दण्डपाणिम् ।
भूतेशं भूतकेतुं प्रणमित विरजानायकं वामनं तं
यूथेशं पञ्चभूत प्रभुमुभयभुजं सन्महाभूतयानम् ॥ ३७
’’इति वर्णाधिकारे ॥ अपिच
श्वेतं रक्ताम्बराढ्यं बहिरुदितमुखं भूतरूपं द्विबाहुं
भूबीजं भूतकेतुं गतिरवनिनदं बिभृतं दण्डमेकम् ।
स्वाकल्पं वाहनेन स्फुरितमपि महाचातकेन श्रविष्ठा
जातं भूतं महाद्यं वयमिह विरजानायकं भावयामः ॥३८
’’यूथाधिपाय । नित्याय । उग्राय । महाभूताय ॥’’
तत्पूर्वे बलिपीठे पावकोऽर्जुनः
गोपुरात्तु बहिः पार्श्वे भूतपीठं प्रकल्पयेत् ।
चतुर्भूतं चतुर्दिक्षु शङ्खनाद समायुतम् ।
[[38]]
विष्णुभूतं सुमद्दिश्य पीठं सम्यक्प्रकल्पयेत् ।
सर्वदेवमयम्पीठं सर्वलोकमयं तधा ॥
सर्वलोकस्य रक्षार्थं कल्पयेल्लक्षणान्वितम् ।
रक्षः पिशाच भूतानां नाशनं धान्यवर्थनम् ॥
श्री सौभाग्याभिवृद्धिश्च भवेत्पीठार्चने नृणाम् ॥
विष्णुभूतः
रुक्माभः पद्मनेत्रोऽसितवसनधरः कुञ्चतानीलकेशो
भूबीजो दण्डहस्तो ध्वजवहन पदन्यस्त सिंहोद्विबाहुः ।
सिंहारावः सुमुख्याः पतिरवतु घटाकारकुक्षिश्च भूता
कारोऽस्मानश्विनीजस्सकल सुरवरैस्सेवितो विष्णुभूतः ॥ ३९
’’पावकोर्जुनाय । पाशहस्ताय । अक्षहन्त्रे । विष्णुभूताय’’
तस्यपत्नी सुमुखी
स्निग्थाञ्जन द्युतिरुषाम्बुज लोचनाढ्या
कर्पूरचन्दनधरा कमलासनस्था ।
कस्तूरिका हिमजलैश्च निषेव्यमाणा
पायादभीष्ट वरदा सुमुखी सुमध्या ॥ ४०
’’सुमुख्यै । अनपायिन्यै।’’
’’एतेषु श्रीभूतगरुडौ प्रासादपार्श्वे चक्रशङ्ख ध्वज
युथाधिप पावकोर्जुनान्बलिपीठपार्श्वे संयोज्य
अर्चयेदितिकेचिदिति मरीचिः ॥’’
इति श्री वैखानसे ध्यानमुक्तावल्यां द्वारदेवता द्वारपाल परिवार
ध्यानभेदोनाम चतुर्थस्त्सबकः