श्रीनिवासपरब्रह्मणे नमः
(३. तृतीयस्तबक प्रारम्भः॥)
कौतुकावरण गर्भालय देवताध्यानभेदः
२५. कौतुकपीठे प्रधमावरणदेवाः
कौतुक पीठे प्राच्यां सुभद्रः
असिताब्ज भागकमुदार भूषणं
भुजदण्ड धारित सुचक्रवारिजम् ।
कमलावनी सहचरं सुभद्रकं
कनकाम्बरोज्ज्वलदिशं भजे स्थितम् ॥१
’’नामानि पूर्ववत्’’
आग्नेय्यां प्राङ्मुखस्सर्वः
पीताम्बरधरं स्वर्णच्छायं नानाविभूषणोदारम् ।
सकला विश्वासहितं, सर्वं स्मरेत्सर्वार्थ दायिनम् ॥२
’’सर्वाय । विश्वाय । सर्वाधाराय । सर्वेश्वराय ।’’
दक्षिणे दक्षिणाभिमुखो हयात्मकः
तटिदुपमकान्ति चेलं, धवल समुद्धूत मल्लिकाकलिकम् ।
सहितमिलाविश्वाभ्यां, हयमुखमीडे हयात्मकन्देवम् ॥ ३
’’हयात्मकाय । देवाय । सर्वानन्दाय । सनातनाय ।’’
नैर्ऋत्यां पश्चिमाभिमुखस्सुखावहः
शुभ्रमम्बुवह विभ्रमाम्बरं
शुद्धया विमल याच संयुतम् ।
भावयामि हृदि भूषणोज्ज्वलं
सेवमानस्सुखदं सुखावहम् ॥४
’’सुखावहाय । सुमुखाय । सुरेशाय । सुरप्रियाय ॥’’
[[22]]
पश्चिमे पश्चिमाभिमुखो रामदेवः
तपनीयकान्तिमम्बुदं कमनीयाम्बरमुपासितं ब्राह्म्या ।
विजया सहितं देवं विजयाय भजामि रामदेवम् ॥ ५
’’रामदेवाय । महाबलाय । महाभद्राय । परशुपाणये॥’’
वायव्यामुत्तराभिमुखस्संवहः
किंशुक पुष्पद्युतिनिभं परिस्फुरित हाटक सुचेलम् ।
सुभगा सुमुखीसहितं संवहं तं स्मरामि भगवन्तम् ॥ ६
’’संवहाय । तेजोमयाय । आनन्दाय । सर्वरूपिणे ॥’’
उत्तरे उत्तराभिमुखः पुण्यः
बालादित्याङ्गशोभं मणिमय विलसद्भूषणैर्भूषिताङ्गं
शङ्खारि भ्राजमानद्युतिकरकमलं श्वेतवस्त्रोत्तरीयम् ।
वक्षः श्रीवत्सचिह्नं मणिमय मकुटं शुभ्रयज्ञोपवीतं
ध्यायेच्चित्ते धरण्या सहितमधविभातीन्दिरं पुण्यमूर्तिम् ॥ ७
’’नामानि पूर्ववत् ।’’
ऐशान्यां प्राङ्मुखस्सुवहः
अग्निवर्णमसिताम्बरमीडे
संयुतं सुमतया च जनन्या ।
चारुरत्न मकुटादि विभूषं
शं सतांशुभवहं सुवहन्तम् ॥८
’’सुवहाय । सुकृताय । ज्ञानाय । देवदेवाय ।’’
’’सुभद्रादीनामनुक्तं सर्वं विष्णुवद्ध्यायेत् ।’’
[[23]]
२६. द्वितीयावरण देवाः
द्वितीयावरणे प्राच्यां प्राङ्मुखो मित्रः
वारणेन्द्र वहनं सिताकृतिं
मित्रया सहचरं सृवध्वजम् ।
भेरीनादमध पाटलांशुकं
रोहिणीजमधमित्रमाश्रये ॥९
’’मित्राय । लोकहिताय । विश्वात्मकाय । कविवराय ॥’’
दक्षिणे दक्षिणामुखोऽत्रिः
अग्न्याभं रुरुवाहनं पटहनिध्वानं सतीनायकं
रोहिण्यामुदितं जुहूध्वजयुतं रक्तांशुकालङ्कृतं
राजद्रत्न किरीट कुण्डलधरं केयूरहारोज्ज्वलं
ध्यायाम्यत्रिमकारबीजरुचिरं स्वाभीष्टसंसिद्धये ॥ १०
’’अत्रये । मित्राय । त्र्यात्मकाय । वेदमूर्तये ॥’’
पश्चिमे पश्चिमाभिमुखः शिवः
मातङ्गवाहनयुतं सशिकारबीजं
भेरीरवं सजलकुम्भ पताक वन्तम् ।
रोहिण्युदीतममिताभरणं शिवाख्यं
ध्यायामि रक्त वसनं दयितं शुभायाः ॥ ११
’’शिवाय । मुनिवराय । शुद्धाय । सुखोत्तराय ।’’
उत्तरेउत्तराभिमुखो विश्वः
विश्वं प्रवालरुचिमागमकेतुयान -
युक्तं विबीजरुचिरं धृतरक्तचेलम् ।
रोहिण्युडु प्रभवमानक नादरम्यं
शुद्धापतिं शुभावहं भजताम्भजामि ॥ १२
[[24]]
’’विश्वाय । भूतनायकाय । जगद्वीक्षणाय । सर्वकामाय॥’’
’’एतान् पीठान्ते प्रागादि बहिर्मुखानर्चयेत् ।’’
आग्नेय्यां प्राङ्मुखस्सनातनः
कनकरुचिं लसत्कमल वाहनमब्जरवं
मरकत वर्णचेलमध कूर्चध्वजकम् ।
महित सकार बीजमथ पुष्यकृत प्रभवं
मनसि सनातनं विधृतवर्णितनुं कलये ॥ १३
’’सनातनाय। मुनीन्द्राय। ब्रह्मसम्भवाय। निष्ठानकाय ।’’
नैर्ऋत्यां पश्चिमाभिमुखस्सनन्दनः
कूर्च ध्वजं कमलवाहनमब्जनादं
पुष्योद्भवं हृदिभजामि सकारबीजम् ।
कुन्दद्युतिं हरितचेलमुपेतवर्णि
रूपं सनन्दनमुदार सुवर्णभूषम् ॥ १४
’’सनन्दनाय । गुरवे । सर्वपूज्याय । मन्त्रज्ञाय ।’’
वायव्यां पश्चिमाभिमुखस्सनत्कुमारः
तं ध्यायामि सनत्कुमारमुदितं पुष्ये शुकाभाम्बरं
कूर्चोद्भासित केतुमब्जनिनदं बीजं सकारं श्रितम् ।
पाधोजन्मक वाहनं परिणमद्गुञ्जासमान प्रभं
नानाभूषण भूषिताङ्गमनिशं सुब्रह्मचार्याकृतिम् ॥ १५
’’सनत्कुमाराय । ज्योतिरीशाय । निरुद्वेगाय । अक्रोधाय ॥’’
ऐशान्यां प्राङ्मुखस्सनकः
स्फटिक सदृशमम्भोजातयानं सकूर्च
ध्वजमुदित सकारं बीजमेनं भजामि ।
मरकत रुचिचेलं पुष्यजं शङ्खनादं
सनकममित भूषं ब्रह्मचारि स्वभावम् ॥ १६
[[25]]
’’सनकाय । नियन्त्रे । धर्मज्ञाय । धर्मचेतसे ॥’’
’’एतानाग्नेयादि कोणेषु बहिर्मुखानर्चयेदितिमरीचिः ॥’’
’’तृतीयावरणे इन्द्रादीन् पूर्ववत्’’ ॥
२७. गर्भालयस्थ परिवारदेवाः
दक्षिणे भित्तिपार्म्वे उत्तराभिमुखो ब्रह्मा
कनकरुचिरं हंसारूढं कमण्डलु केतनं
निगमनिनदं सावित्रीशं तधाऽभिजिदुद्भवम् ।
मनसि कलये ब्रह्माणं द्रागुकारबीजान्वितं
करधृत कलशाम्भोजाक्षस्रजं रचिताञ्जलिम् ॥ १७
’’ब्रह्मणे । प्रजापतये । पितामहाय । हिरण्यगर्भाय ।’’
कौतुकदक्षिणे उत्तराभिमुखो मार्कण्डेयः
मार्कण्डेयं कनकरुचिरं कूर्चकेतुं मकारं
बीजं प्राप्तं कमलवहनं ब्रह्मचारि स्वरूपम् ।
शङ्खध्वानं विकसित ज्पारक्त वासोवसानं
देवध्यानावहित मनसं प्राञ्जिलिं भावयामि ॥ १८
’’मार्कण्डेयाय । पुण्याय । पुराणाय । अमिताय ।’’
वामभित्ति पार्श्वे दक्षिणाभिमुखः शङ्करः
व्याफ्रुत्वग्वसनो मृगाङ्कधवलः केतुं वृषं वाहनं
प्राप्तोबीज मकारवान् ध्रुतपरश्वेणश्च गङ्गाधरः ।
आर्द्राजो ढमरुध्वनिर्बहुविधालङ्कार विभ्राजितो
दद्यात्प्राञ्जलिरञ्जसा स्थिरतर श्रेयांस्युमायाः पतिः ॥ १९
’’गङ्गाधराय । वृषभवाहनाय । अष्टमूर्तमे । उमापतये।’’
[[26]]
कौतुकोत्तरे दक्षिणाभिमुखो भृगुः
वन्दे पङ्कजवाहनं हुतवहच्छायं वल्क्षाम्बरं
ख्यातीशं च कमण्डलु ध्वजयुतं रोहिण्युडावुद्भवम् ।
नामाद्यक्षरबीजमब्जनिनदं ध्यायन्तमन्तस्तनुं
विष्णोःकाञ्चन कुण्डलादि विविधा कल्पं भृगुं प्राञ्जलिम् ॥ २०
’’धातृनाधाय । पद्मापित्रे । ख्यातीशाय । भृगवे ॥’’
’’वर्णाधिकारे,’’
मार्कण्डेयभृगुस्थाने दण्डकं वीशमर्चयेत् ।
भूपुण्यावधवा कुर्याद्दक्षिणोत्तरयोस्तु वा ॥
दक्षिणे मार्कण्डेयस्थाने दण्डकः
जटामकुटमण्डितं कमलपत्रकान्तिं पुन
र्वलक्षतर वाससं मधितवार्थिनादं स्थितं
प्रसन्न वदनस्मितं कृतपुटाञ्जलिं दण्डकं
ह्युदङ्मुखमहं भजे विधृत पुण्यरूपं सदा ॥ २१
’’दण्डकाय । मुनिवराय । महायोगाय । महाधृतये ॥’’
वामे भृगुस्थाने वीशः
हेमाभं भूषणाढ्यं करपुटसहितं विष्णुमुद्वीक्ष्यवामे
स्मेरं श्यामं वसानं वसनमरुणितं वीक्षणे वेदपक्षम् ।
शुद्धेशं किङ्किणीकायुत रशनमहं भावयेच्छूडकेतुं
नीलन्नागं दधानं सुमुखमथभुजे वायुवाहं सुपर्णम् ॥२२
’’तुण्डायुधाय । पक्षपातरवाय । यक्षसखाय गरुडाय ॥’’
इति श्री वैखानसे ध्यानमुक्तावल्यां कौतुकावरण गर्भालय
देवताध्यान भेदोनाम तृतीयः स्तबकः ॥