०२ धृवबेरावरण-त्रय-देवताः

[[12]]
श्रीनिवासपरब्रह्मणे नमः

(२. द्वितीयस्तबक प्रारम्भः॥)

१९. ध्रुवभेरावरणत्रयदेवताध्यान भेदविधिः

अर्चकज्ञेयमुख्यांशाः
ऋक्षाख्यादार बीजाक्षर मकुट भुजावर्ण वाहास्त्र भाषा
केतुस्थानासनाच्छादन विहित भिदां जानताऽर्च्येत देवः ।
नोचेद्गृह्णन्ति तस्यार्चन फलमसुरा इत्यतोदर्शयिष्ये
देवस्यर्क्षादि सर्वं तदिह मम दिशेद्देव एवप्रबोधम् ॥ १
निष्कलध्यानं
चित्कम्बुं नौमि तेजश्शरमरिमय संसारमाम्नायपक्ष
स्फूर्जभूतात्म तार्क्ष्यं ककुदन धनुषं प्राणिशक्त्यात्म शक्तिम् ।
विद्याऽविद्याख्या तूणद्वयमवधिगिरि प्रायखेटं यमासिं
वाय्वश्वं प्रेमपाशं हृदयमयरथं दण्डनाभिख्ययष्टिम् ॥२
’’कृतेगोक्षीर वर्णाभं त्रेतायां कनकप्रभं
द्वापरे रक्तवर्णन्तु कलौचाञ्जन सन्निभम् ।’’
’’ध्याने कनकवर्णस्तु पूज्यो विष्णुस्सदाबुधैः ।
बेरन्तु श्यामलं पूज्यं कृतं विष्णोर्बुधैर्मतम् ॥इतिवर्णाधिकारे॥

२०. ध्रुवबिम्ब ध्यानम्

विष्णुप्रकाशः
विष्णुः श्यामोगरुत्मद्ध्वज युतरशनाकुण्डलोष्णीषकोऽव्या
च्चक्राब्जाभीति कट्याश्रित करसहितः श्रावणोऽकार बीजः ।
श्रीवत्सः पीतवासाः कटकमकुट केयूरहार प्रलम्बी
तार्क्ष्योढः पञ्च शब्द ध्वनिरवनिरमेशोऽवतात्कौस्तुभीनः ॥३
[[13]]
ॐ अं विष्णवेनमः । महाविष्णवेनमः । सदाविष्णवेनमः ।
सर्वव्यापिनेनमः । अधवा पञ्चमूर्तिमन्रैैरर्चयेदिति
केचित् । विष्णवेनमः । पुरुषायनमः । सत्यायनमः ।
अच्युतायनमः । अनिरुद्धायनमः । इति पादमूले ॥

२१. प्रथमावरण देवाः

तत्प्राच्यां पुरुषः
श्रीभूनाधो जगति पुरुषः प्राङ्मुखः पीतवासाः
शङ्गं चक्रं दधदभयदः कट्युपेतैक हस्तः ।
श्वेतस्सर्वाभरण रुचिरः पातुमामङ्गुलीय
स्फूर्जत्पाणिः स्फुरदुदरबन्धोऽभिरामाम्फ्रिु भूषः ॥४
’’पुरुषाय । पुरुषात्मकाय । परम पुरुषाय । धर्माय’’
आग्नेय्यां कपिलः
शुभ्रश्चाभयचक्र खड्गहलभृद्वामेतरैर्बाहुभि
स्तेभ्योऽन्यैः कटिशङ्खकार्मुक लतादण्डान् स्पृशन् प्राङ्मुखः ।
गायत्र्या सहितश्च रक्तवसनः सावित्र्युपेतान्तिकः
कल्याणं कपिलः करोतु मकुटाद्यैर्भूषितो भूषणैः ॥ ५
’’कपिलाय । मुनिवराय । शुद्धाय । वेदरूपिणे ॥’’
दक्षिणे दक्षिणाभिमुखस्सत्यः
वन्देऽञ्जनद्युतिधरं ध्रुतरक्त चेलं
पौष्णीधृति स्फुरित पार्श्व युगाभिरामम् ।
केयूरहार मकुटादि विभूषिताङ्गं
सत्यं चतुर्भुजमुपात्त सुदर्शनाब्जम् ॥ ६
’’सत्याय । सत्यात्मकाय । ज्ञानाय । सर्वसंहाराय ॥’’

[[14]]
नैर्ऋत्यां पश्चिमाभिमुखो यज्ञः
यजं्ञ स्वाहा स्वधाभ्यां सहितमध चतुः शृङ्गमारक्त चेलं
युक्तं पादत्रयेण द्रुतकनक निभं दीप्यमानाखिलाङं्ग ।
आज्यस्थाली जुहू सृक्सृवमिलदुपभृद्धारी चक्राब्जहस्तं
स्फूर्जत्केयूर मुख्याभरण रुचिभरं चिन्तयामि द्विशीर्षम् ॥ ७
’’यज्ञाय । सर्वदेवात्मकाय । पुण्याय । क्रतवे ॥’’
पश्चिमे पश्चिमाभिमुखोऽच्युतः
सन्तप्त हेम सदृशं धरणी पवित्री -
युक्तं चतुर्भुजमुपोढ विनील चेलम् ।
राजत्किरीट मणिहार सुवर्णकाञ्ची
भूषोज्ज्वलावयमच्युतमाश्रयामि ॥ ८
’’अच्युताय । अपरिमिताय । ऐश्वर्याय । श्रीपतये ॥’’
वायव्यां पश्चिमाभिमुखो नारायणः
अभयवर शङ्खचक्र स्फुरितकरं स्फटिकरुचिरमसितचेलम् ।
श्रीवत्साङ्कमिला कमलानाधं चतुर्भुजं सुजन सुमुखं
नारायणमुपासे ॥९
’’नारायणाय । जगन्नाधाय । देवदेवाय ॥ त्रयीमयाय॥’’
उत्तरे उत्तराभिमुखोऽनिरुद्धः
कुसुम रुचित चेलं भूप्रमोदायिनीशं
नवफण फणितल्प स्थायिनं विद्रुमाभम् ।
करलसदरिशङ्खं दोर्भिरित्थं चतुर्भि
र्थृतकनक विभूषं चिन्तयामोऽनिरुद्धम् ॥ १०
’’अनिरुद्धाय । महते ॥ वैराग्याय । सर्वतेजोमयाय ॥’’

[[15]]
ऐशान्यां प्राङ्मुखः पुण्यः
बालार्क कान्त्यमल वस्त्रकृतोत्तरीयं
वामेपरेचयुतमिन्दिरया धरण्या ।
श्रीवत्स चारुधृत शङ्खरधाङ्गमीडे
पुण्यं चतुर्भुज महं विमलोपवीतम् ॥ ११
’’पुण्याय । पुण्यात्मकाय । पुण्यमूर्तये । पुण्यादायिने ॥’’

२२. द्वितीयावरणदेवाः

द्वितीयावरणे प्राच्यां प्राङ्मुखो वराहः
श्रीभूमीसहितमुपात्त शङ्ख चक्रं
बाहुभिश्चतसृभिरन्वितं प्रपद्ये ।
वाराहं मणिमकुटाद्यनेक भूषं
श्यामाङ्गं त्वभय कटिस्पृशं कराभ्याम् ॥ १२
’’वराहाय। वरदाय। भूमिसन्धारणाय। वज्रदंष्ट्राय॥’’
आग्नेय्यां प्राज्मुखस्सुभद्रः
हेमाम्बरः कुवलय द्युतिरब्जचक्रे
बिभ्रत्सपातु कमलावनि सेव्यमानः ।
सर्वप्रसाधनमनोज्ञ तनुश्चतुर्धो -
र्भद्रं विनिर्ददतु भद्रगुणस्सुभद्रः ॥ १३
’’सुभद्राय । सुमुखाय । सुखप्रदाय । सुखदर्शनाय ।’’
दक्षिणे दक्षिणाभिमुखो नारसिंहः
द्वाभ्यां कट्यभयावलम्बिन मुखाभ्यां शङ्खचक्रे पुन -
र्बाहुभ्यां दधतं वलक्ष महसं श्रीभूमि संसेवितम् ।
सिंहास्य समयोन्मिषन्नव जपापुष्प प्रभाधोरणि
न्यक्कारैकरसज्ञ शाटकधरं श्रीनारसिंहं भजे ॥ १४
नारसिंहाय । तपोनायथाय महाविष्णवे । महाबलाय ।

[[16]]
नैर्ऋत्यां पश्चिमाभिमुख ईशितात्मा
हेमाभो ईशितात्मा
श्यामाम्बर भासितश्चतुर्बाहुः ।
शङ्खरधाङ्गधरोमां
सततं पद्मास्धिरायुतः पातु ॥ १५
’’ईशाय । वरदाय । सर्वेशाय । ईशितात्मने ॥’’
पश्चिमे पश्चिमाभिमुखो वामनः
वर्णी द्विबाहुरवतात्सुपवित्र पाणिः
कृष्णत्वचं विधृतमेखलको दधानः ।
कौपीनवान्वकुलकान्तिरथोपवीती
श्रीवामनो विधृतदण्डनवातपत्रः ॥ १६
’’वामनाय । वरदाय । काश्यपाय । अदितिप्रियाय ॥’’
वायव्ये पश्चिमाभिमुखः सर्वोद्वहः
कालाम्बुद रुचिराङ्गं
लक्ष्मीधरणी युतं कपीश चेलम् ।
सर्वाभरण मनोज्ञं
सर्वोद्वहमुद्वहामि हृदयेऽहम् ॥ १७
’’सर्वेशाय । सर्वाधाराय । सर्वज्ञाय । सर्वोद्वहाय ॥’’
उत्तरे उत्तराभिमुखः त्रिविक्रमः
श्यामाङ्गं कलये त्रिविक्रममहं पीताम्बरं दोःस्फुर
च्चक्राब्जं स्थितवामपादमवनौ हारादिभिर्भूषितम् ।
फालान्तोद्धृत दक्षिणाम्फ्रिु विसरद्दक्षैकपाणिं कटि
न्यस्तान्यैक करं चतुर्भुजयुतं सर्वार्धसंसिद्धिदम् ॥ १८
’’त्रिविक्रमाय । त्रिलोकेशाय । सर्वाधाराय । सर्वज्ञाय
’’वैकुण्ठाय॥’’

[[17]]
ऐशान्यां प्राज्मुखस्सर्वविद्येश्वरः
बन्धूक द्युति बद्ध विग्रहरुचिं नीलाम्बरालङ्कृतं
श्यामासंयुतमन्वितं कनकया श्री सर्वविद्येश्वरम् ।
कोटीराङ्गद कुण्डल प्रभृतिभिः प्रोद्भासितं भूषणैः
ध्यायेच्छङ्ख सुदर्शनाभयकरालङ्कारदोर्मण्डलम् ॥ १९
’’सर्वविद्येश्वराय । पुण्याय । शुद्धाय । ज्ञानाय ॥’’
तत्तत्स्वकीय लक्षण लक्षित पुरुषादिकान् देवान् ।
अनिरुद्ध विष्णु लक्षण लक्षित रूपानहं वन्दे २०

२३. पुष्पन्यासदेवानां स्थानकादि भेदनिर्णयः

अनिरुद्धं वराहञ्च
नारसिंहं हयाननम् ।
विनाऽन्ये संस्थिते देवे
संस्थितामुनि सत्तमाः ॥
आसीनश्चतथाऽसीने
शयाने यानके तथा ।
ध्यायेत्कौतुकवद्देवान्
शयानेतु विशेषतः ॥
चत्वारस्सर्वदासीना अनिरुद्धादयोऽमराः ।
स्थितौ देवौ सदा ध्यायेद्वामनञ्च त्रिविक्रमम् ॥
एवं स्थानकमुद्दिष्टमासने तु प्रवक्ष्यते
प्रसारितस्य पादस्य परितस्सन्यसेद्बुधः ॥
शयाने पादपार्श्वेतु शयनाय च विन्यसेत् ।
त्रिविक्रमे तु यत्रैव स्थितेपादे प्रकल्पयेत् ॥
वाराहे पादपरितः कल्पयेदिति शासनम् ।
कृत्वैव पुष्पन्यासन्तु पश्चादर्चनमारभेत् ॥इति खिलाधिकारे॥

[[18]]

२४. तृतीयावरणदेवाः

तृतीयावरणे प्राच्यां पश्चिमाभिमुख इन्द्रः
इन्द्रःश्यामतनुर्जपाम्बरधरोज्येष्ठोदितो दक्षिणे
पाणौवज्रधरः करं तदितरं कट्यां निधाय स्पृशन् ।
कोटीरादि परिष्कृतोऽम्बुदरवो वेणुध्वजो वारणा
रूढश्चारु जकार बीजसहितः शच्याःपतिः पातु माम् ॥ २१
’’इन्द्राय । शचीपतये । पुरन्दराय । पुरुहूताय ॥’’
आग्नेय्यां पश्चिमाभिमुखोऽग्निः
अग्निश्शक्तिधरः पलाश कुसुमच्छायो गदीकुन्डली
हारी वानरकेतु वाहनयुतः कीरच्चदाभाम्भरः ।
सर्वामर्त्यमुखस्थितोऽग्नि जननस्स्वाहापतिस्सन्ततं
प्राप्तो बीजमकारमस्तु समहा कल्याणसन्थायकः ॥ २२
’’आग्नये । जातवेदसे । पावकाय । हुताशनाय ॥’’
याम्ये उत्तराभिमुखो यमः
लाक्षारक्ततराम्बरः फणिलसत्केतुर्गदां धारयन्
घण्टानादरवोऽधिरूढ तुरग द्वेषीशुकाङ्गी पतिः ।
ध्यातव्यस्सहकार बीज सहितो जातो भरण्यां यमः
कालाम्भोधर कायकान्ति निभस्सर्वार्थ संसिद्धये ॥ २३
’’यमाय । धर्मराजाय । प्रेतेशाय । मध्यस्थाय ।’’
नैर्ऋत्यां प्राङ्मुखो निर्ऋतिः
मूलोद्भवः पणववाग्रुधिराम्बर श्रीः
श्रीभौतिके भवहन कृकलासकेतुः ।
सम्मोहिनी सहचरः सपकार बीजः
शूली सितेतरतनुर्निर्ऋति श्रियेऽस्तु ॥ २४
’’आरम्भाधिपतये । नीलाय । निर्ऋतये । सर्वरक्षोधिपतये’’ ॥

[[19]]
वारुण्यां प्राज्मुखो वरुणः
नीलाभो रक्तवस्त्रो ध्वजधवलखगः पाशधार्यञ्जनेशो
दन्तीन्द्रं सुप्रतीकं वहनमुपगतो वारुणोडूपजातः ।
प्राप्तोबीजं पकारं मणिमकटधरो दुर्दुरोद्घोषशाली
कल्यालं सन्ततन्नः प्रदिशतुवरुणः काङ्क्षितार्थप्रदायी ॥ २५
’’वरुणाय । प्रचेतसे । रक्ताम्बराय । यादस्पतये’’
वारुण्यां प्राज्मुखो वायुः
हेमाभो धवलाम्बरः करिवरं प्राप्तोनिजं वाहनं
स्वातीसञ्जनितोऽथ वेणु विलसत्केतुस्सदण्डायुधः ।
वायुः पातु कुमुद्वती सहचरो बीजं यकारङ्गतः
शङ्ञध्वानसमन्वितो बहुविधा कल्पाधिरामाकृतिः ॥ २६
’’जवनाय । भूतात्मकाय । वायवे । उदानाय ॥’’
उत्तरे दक्षिणाभिमुखः कुबेरः
श्वेतः श्यामल चालको यवनलानाथो धनिष्ठोद्भवो
दन्डी पुष्पकवाहनोऽथ कृकलासाकार चारु ध्वजः ।
बीजेनोपगतः ककारवपुषा घोषन्मृदङ्ग ध्वनिं
नानारत्न विभूषणोज्ज्वल तनुर्दद्यात्कुबेरः श्रियम् ॥ २७
’’कुबेराय । धन्याय । पौलस्त्याय । यक्षराजाय ॥’’
ऐशान्यां पश्चिमाभिमुख ईशानः
बन्धूक द्युतिरिन्दु शुभ्रवसनः केतुं वृषं वाहनं
प्राप्तो मौलिजटश्चतुर्भुजयुतः शूली त्रिनेत्रान्वितः ।
आर्द्राजश्च शकारबीजसहितो मां पार्वती प्राणरा -
डीशानो डमरुध्वनिः प्रतिकलं पातु स्फुरद्भूषणः ॥ २८
’’ईशानाय । ईश्वराय । देवाय । भवाय ॥’’

[[20]]
’’इन्द्रादयोऽष्टावभ्यन्तरमुखा एतेष्वनिरुद्धं त्रिविक्रमं
वामनञ्च विनाध्रुवे स्थिते स्थितानासीनेत्वासीनान् शयने
यानकेच तत्तत्कौतुकवद्ध्यायन्नर्चयेत् ॥इतिमरीचिः॥’’
देवस्य दक्षिणभागे श्रीः
रुक्माभा सरसीरुहाञ्चितकरा क्षौमाम्बरं बिभ्रती
कक्ष्याबद्ध घनस्तनी कुसुमचूडाङ्का ल्लाटोपरि ।
श्रीबीजोत्तरफल्गुनी कृतजनिः कूजन्मणि ध्वानिनी
श्रीरूरौ विततस्वदक्षिणकरा श्रेयो दिशेद्भूषिता ॥ २९
’’श्रियै । धृत्यै । पवित्र्यै । प्रमोदायिन्यै ॥’’
देवस्योत्तरे हरिणी
श्यामा रक्ताम्बरविलसितालेन बीजेन युक्ता
भूमी रक्तोत्पल परिलसद्दक्षिणस्वीयहस्ता ।
ऊरुप्रान्तप्रवितत लसद्वामहस्ता सुवेषा
शङ्खध्वानाऽनिशमवतु वैशाखे रेवत्युदिता ॥ ३०
’’हरिण्यै । पौष्णे्यै । क्षोण्यै । मह्यै ॥’’
इति श्रीवैखानसे ध्यानमुक्तावल्यां धृवबेरावरण त्रयदेवता
ध्यानभेद विधिर्नाम द्वितीयःस्तबकः

[[21]]