(१. प्रथमस्तबक प्रारम्भः॥)
०१. इष्टदेवतास्तुतिः
ग्राहग्रस्त करीन्द्रमुक्तकरुणा क्रन्दानु सन्धायिनो
यस्य त्रस्यदशेषमर्थ विरतद्यूतस्य लक्ष्म्याःपुरः ।
निर्यच्चक्र निकृत्त नक्र रुधिर प्राग्भारनिर्वापितः
क्रोधाग्निःकिल दृष्टनगरी नाथं तमीडे हरिम् ॥१
करतल विनिष्क्रामच्चक्रावपातपटत्पटत्त्रुटित विलुठन्नक्रग्रीवा विनिस्रुतशोणितैः ।
निजगज घनश्रेणी विद्युत्प्रकाशविमोहकृद् द्विरद-वरदः पातु श्रीदृष्टरत्न पुरीपतिः ॥२
गद्यम् ॥ श्रीमत्यत्र च दृष्टरत्ननगरे पवित्र निजपद कमल परिपूजनाय
दिननाथ मयूखकृत विकासानि, कासार मध्य मध्यासीनानि, बिस प्रसूनानि,
सादरमपिचेतुमम्भसामन्त्तमवतरतः, कुम्भिराजस्य नक्रजवगृहीत चरणतया
किञ्चिदप्यवस्पन्दितुमक्षरस्य रक्षमामादि प्रभापविष्टम्भित द्वारनिष्ठ जयविजया
वा कृष्ण गमनकारणं ससव्भ्रुमोत्धान मुखरमञ्जीर रमामुख महिषीतति
कृतानुसरणं चारणजन स्तोमस्तूयमान पावनस्तवमस्ततन्द्र गन्थर्वगण
समारब्ध वल्लकीवादनं विद्याधर वधूमधुराधर विनिवेशित वंशनाल मराल
समारम्भ स्फुरद्वार रम्भोरूप विभ्रमवाद्यमान बहुविधातोद्यमन्वञ्चित
हेतिपञ्चकेपि दृगन्त सन्दर्शन समाहूत सुदर्शनाब्जं, त्वरमाण सव्भ्रून्त
फणिराज फणामण्डलानुपलब्ध मणिमकुटोर्थ्वभागं, कृतानुगमन समाहित किङ्कर
समर्पित मणिपादुकानभिमुख पदपङ्कज, मशङ्कित निर्गमस्फुरमाण विष्वक्सेन
करकशाभिघात भीत विधिभवाद्यमरवर्गं, भर्ग निष्ठ भगवन्, पद्मासननिष्ठ पद्मलोचन,
पुरुहूत निष्ठ पुरुषोत्तम, यक्षराजनिष्ठ पक्षिराजरथ, वरुणनिष्ठकरुणानिधे,
कृतान्त निष्ठतान्त बान्थव, गभस्तिमन्निष्ठ गरुडध्वज, शीतांसुनिष्ठ श्रीवत्सलक्षित,
स्वामिन्ननुगृहाणेति गीर्वाण प्रमाणवचन निवेदनावकाशानुपलम्भ विरमित
दौवारिकसंरम्भमधावन्नेव, स्कन्धतलावलम्बित मणिगणारुण फणिफणाभूषण
मूलभगवन्निति, परिक्रन्दितमाकर्ण्य तूर्णबद्ध निर्धूत द्यूत विहार समुद्धान
[[2]]
देवाब्रह्ममहेश वासवमरुद्वह्न्यर्कचन्द्रादयो
यस्याज्ञां परिपालयन्ति विनता मूर्ध्नानमोवाकिनः ।
सत्यानन्द चिदुज्ज्वल प्रकृतये सर्वाधिपत्यस्पृशे
तस्मै प्राञ्जलिरस्मि दाशरथये श्री जानकी जानये ॥३
निर्भिद्यापिरणे कबन्धमसिना निश्शेषगीतौजसं
विच्छिद्यापि शरेणलब्धयशसं पत्नी प्रसूमेखलाम् ।
हत्वा पुण्यजनानपि त्रिभुवने सद्भिस्समभ्यर्चितं
ध्यायामो हृदिदृष्ट रत्ननगरी नाथं गिरां सिद्धये॥४
श्रुतीनामुत्तंस स्रजमुपगतस्रैणवपुषं
कदाचिद्ध्यातॄणां करपदयुतां कल्पलतिकाम् ।
दयामेवोदग्रां दशमुख विजेतुस्तनुमतीं
जगद्दृश्यामीडे जनक सुकृतानां परिणतिम् ॥५
श्रिमद्विखनसं वन्दे मरीचिं कश्यपं भृगुम् ।
अत्रिञ्च जनकं कृष्णं वैखानस शिरोमणिम् ॥६
दृष्टरत्न पुरीस्थोऽहं वैखानस परिश्रमात् ।
ध्यानमुक्तावलिं वच्मि वैनतेयो यधामति ॥७
परिभ्रान्त पयोधिकन्यकं पाणिपल्लवासञ्चित पीताम्बरप्रान्तमतिक्रान्त शुद्धान्त
चर परिचारिका करकमल प्रदानमाप्रपदीन मौक्तिकादाम त्रुटिन विशीर्यमाण
मणिगण परिष्कृत नीलोपल कुट्टिमं हृदयाभोग विस्रस्त कौस्तुभवेग विलुण्ठन
पतित वरमालिक, मालिखित प्रतिमाकृति रमाचेटी जनालक्षित पदारविन्द विन्यास
मनस्य साधारणमदृढबन्दकौशेय परिकरं, निर्मृष्टभर्म रुचिरं पन्नगारिपक्ष
युगमध्य मनधिरुह्य दैत्यजन दुस्सहपातेन चक्रेण विनिर्भिद्य नक्रवरं, तदीय
तनुगर्भनिर्भर निस्सरद्रुधिरमिषेण सन्थ्यारागेण मददारणमन्थकार निकरमिव
परिसरे संयोजयन् ससम्भ्रमापत दभ्र विभ्रमवती करतलविमुक्ता
नल्पकल्पद्रुम कुसुमाभि पृष्टः संरक्षण प्रहृष्ट निजभक्त प्रकर प्रस्तुत स्तुतिदत्त
नित्यसन्निधान वरप्रसादो गजेन्द्रवरद इति जगति गीयमानो मानवजन सुकृत
परिणामतः करुणापयोधिः हरिरद्यापि निरवद्याकृतिस्सन्निधत्ते ॥
[[3]]
स्थानकादि ध्रुवबेरध्यानविधिः
त्रेधास्थानकमासनं शयनमित्येवं धृवम्बेरकं
यौगं भौगमथाभिचारिकमधोवैरं चतुर्धा पृधक् ।
यौगं योगफलेच्छुरर्चतुहृदि ध्यायेच्च भोगोत्सुको
भागं वैरमधैष वीर्यफलकाङ्क्ष्यन्यज्जिगीषन्नरीन् ॥८
०२. योगस्थानकम्
स्थानकयोगस्य ध्यानं
सस्यश्यामनिभं चतुर्भुजयुतं शङ्खारि हस्तं कटी
देशालम्बित वामहस्तमभयं हस्तान्तरे बिभ्रतम् ।
सर्वैराभरणैर्विराजित तनुं पीताम्बराच्छादितं
योगावस्थमनुस्मरामि हृदये विष्णुं कृपासागरम् ॥९
देवस्य दक्षिणे इलायाः
अथिष्ठितां भूतलमेकजानुना
श्यामां भजेत्काञ्चन नूपुराङ्घ्रिकाम् ।
गृहीत पुष्पाञ्जलिमादरान्निजं पतिं
नमन्तीं कुसुमाम्बरामिलाम् ॥ १०
वामे मार्कण्डेयस्य
वामे नैवोत्कुटिकमुषितं जानुना दक्षिणेन
त्वध्यासीनं मकुटित जटामण्डलं विद्रुमाभम् ।
ध्यायेत्पुष्पाञ्जलिमुपचयन् भक्तिमालक्ष्य देवं
मार्कण्डेयं कटितटलसद्वल्कलं साक्षमालम् ॥ ११
’’कुड्य कौतुकयोर्मध्ये त्विलापुण्यौ समर्चयेत् ।
दक्षिणे भित्तिमाश्रित्य ब्रह्माणञ्च विलेखयेत् ॥
वामे शङ्करमालिख्य तत्तद्वर्ण समायुतम् ॥
इतिखिले ॥
[[4]]
ब्रह्मणः
चतुर्भुजं हेमरुचिं वहन्तं
सदक्षमालाञ्च कमण्डलुञ्च ।
उदज्मुखं कट्यवलम्बिहस्तं
ब्रह्माणमीडे कलिताभयं तम् ॥ १२
शङ्करस्य
मृगपरश्वध धारिणमाश्रये
दभय कट्यवलम्बि करं सितम् ।
स्थितमवेक्ष्य दिशं खलु दक्षिणां -
धृत चतुर्भुजमेव हि शङ्करम् ॥ १३
०३. भोगस्थानकम्
स्थानकभोगस्य ध्यानं
चतुर्बाहुः श्यामद्युतिरभयभृद्दक्षिण
करोदधच्चक्रं शङ्खं कनकमय भूषोज्ज्वलवपुः ।
करं वामं कुर्वन् तुलितहरि कर्णं कटितटे
हृदि ध्येयो देवस्समतल निविष्टाम्फ्रिुयुगलः ॥ १४
यद्वा
दक्षादक्ष करद्वयेऽरिजलजौ बिभ्रत्पुनर्दक्षिणे ऽ
भीष्टं वाप्यभयं कटेतदितरं कुर्वन् हरेः कर्णवत् ।
यद्वाऽस्मिन्वरमुद्वहन् समहा पीठार्पिताङ्घ्रिद्वय
स्सौवर्णाभरणश्चतुर्भुजयुतः श्यामोऽस्तु देवो हृदि । १५
देवस्य दक्षिणे श्रियः
विष्णोर्दक्षिणतः प्रवालरुचिरां देवीं श्रियं भावये
त्किञ्चित्कुञ्चित वामदेव कमलां सुस्थापितान्याङ्घ्रिकाम् ।
[[5]]
पद्मं दक्षिण पाणिना च दधतीं वामं प्रसार्य स्थितां
पाणिं वल्लभमादरेण किमपि व्यालोकमानां दृशा ॥ १६
वामे महीदेव्याः
अदक्षिण करस्फुरत्कुवलयां शुकश्यामलां
ततेतरकराम्बुजां किमपि वीक्षमाणां हरिम् ।
आसव्यमवकुञ्चितं चरणमादधानां पदं
तदस्यमपि सुस्थितं हृदिभजे हरिण्याह्वयाम् ॥ १७
’’देव्योरछस्तपादौ विपरीतौ वा कारयेदिति मरीचिः’’
दक्षिणे मार्कण्डेयस्य
यथा सरोजाञ्चित वामहस्तं दक्षिणोरौ निहितान्य हस्तम् ।
विशेषणैः प्रागुदितैस्तथान्यैर्युक्तं स्मरेत्पुण्य पदाभिधेयम् ॥१८
’’ब्रह्मणः पूर्ववत्’’
वामेभृगोः
आसीनो दक्षिणेनोत्कुटिकरचनया जानुनाऽन्येन भूमौ
वामं वामे निजोरौ करमितरकरस्थार विन्दो निधाय ।
देवं सम्प्रेक्ष्य भक्ति प्रणिहित हृदयो जाटमाला किरीटो
यद्वा ध्येयः प्रसूनाञ्जलि कलितकरो भृग्वभिख्योमुनीन्द्रः॥ १९
’’शङ्करस्य पूर्ववत्’’
०४. वीरस्थानकम्
शङ्ङ्ख चक्र गदा युक्तं वीरमार्गेण कल्पयेत् ।
निरायुध करं देवं विरहं परिकल्पयेत् ॥
’’इति क्रियाधिकारे’’
[[6]]
स्थानकवीरस्य
विष्णुः श्रीवत्सवक्षा मुखकर पददृग्रक्तवर्णोऽरिशङ्खं
भिभ्रत्फुल्लाम्बुजस्थः कनकमकुट केयूर हारादि भूषः ।
प्रालम्बं यज्ञसूत्रं दधदमरसुतः कीरपिञ्छाम्बरोऽ
व्यान्न्यस्यन्कर्कट्यापसव्यं वरमितरकरे बिभ्रदभ्र प्रभाभः. ॥ २०
वीरमेवं प्रकुर्वीत सर्वाभरण संयुतम् ।
देवीभ्यां वर्जयित्वातु मुनिभ्याञ्च विवर्जितम् ॥ इति खिलाधिकारे
०५. आभिचारिक स्थानकम्
स्थानकाभिचारिकस्य
शुष्कं श्यामाम्बरमथतमोरूपिणं शुष्कवक्त्रं
धूव्रुज्योतिर्वलयित तनुं देवमूर्ध्वाक्षि युग्मम् ।
तिर्यक्चक्रं भुजयुग युतं वा चतुर्बाहुकं वा
ध्यायेद्ब्रह्म प्रमुख दिविषद्वर्जितं चाभिचारे ॥ २१
’’शङ्गं चक्रं विनाकुर्यात्केषाञ्चित्पक्षमुच्यते’’ ॥इति खिले॥
०६. योगासनम्
आसनयोगस्य
श्वेताम्भोजगतं जटाल मकुटं पीताम्बरं पाण्डरं
चोर्ध्वस्थापित दक्षिणाम्फ्रिुकमधोविन्यस्त वामाम्फ्रिुकम् ।
ईषन्मीलित लोचनं धवलरुग्वस्त्रोत्तरीयं चतु
र्बाहुं चक्रधराङ्कमाभरणिनं श्वेतोपवीतम्भजे ॥२२
’’इला पुण्यार्चितं यत्तु योगासनमिहोच्यते ।
स्थानं पूर्वोक्तमुद्दिष्टं योगासन विधानतः ॥ ॥इति खिले॥
[[7]]
०७. भोगासनम्
आसनभोगस्य
श्यामं सिंहासनस्थं दधतमतिनतं दक्षिणाम्फ्रिु तदन्यं
भिभ्राणं कुञ्चितं स्वङ्कटिकृत मृगराट्कर्णवद्वामहस्तं
शङ्खञ्चक्रं दधानं भयहति वरकृद्दक्षहस्तञ्चतुर्दो
र्युक्तं केयूरहार प्रभृति बहुविधा कल्पमीडे मुकुन्दम् ॥२३
दक्षिणे श्रीदेव्याः
वामेनाम्बुरुहं करेण दधतीं विष्णोस्थ्सितां दक्षिणे
वामं सुस्थितमेव पादमपरं किञ्चिद्वितत्य स्थितम् ।
पाणिं दक्षिणमाततं विदधतीं सन्तप्तहेमप्रभां
भद्राय श्रियमाश्रये भगवतीं नानाविभूषोज्ज्वलाम् ॥ २४
वामे महीदेव्याः
वन्दे दक्षिण पाणिना कुवलयं फुल्लं समं बिभ्रतीं
कुर्वाणां विततं करं तदितरं व्यालम्ब्य वामाम्फ्रिुकम् ।
श्यामाभां हरिणीं तदन्यचरणं सुस्थापयन्तीं हरे
र्नित्यं पार्श्वमुपेयुषीं प्रणमतां कल्याणसन्धायिनीम् ॥२५
’’भृगु मार्कण्डेय ब्रह्मरुद्राश्च स्थानक भोगवत्’’
०८. वीरासनम्
आसनवीरस्य
भद्रे सिंहासनस्योपरि विमलतले पद्मपीठेऽथ वामं
पादं त्वाकुञ्च्य किञ्चित्तदितरमधिकं तत्थ्सितं वा प्रसार्य ।
दोर्भ्यां शङ्खञ्च चक्रं दधतमभयदं दक्षिणं सिंहकर्णं
वामं हस्तं प्रवाल द्युतिमसिततराच्छादनं वीरमीडे ॥ २६
[[8]]
०९. आभिचारिकासनम्
आसनाभिचारिकस्य
नीलाभं हृदि वेदिकासन गतं ध्यायेद्द्विबाहुं चतु -
र्बाहुं वा तमसागुणेन कलितं नीलाम्बरालङ्कृतम् ।
आकाशोन्मुखलोचनं विरहितं देव्यादिभिः केवलं
प्राग्वत्पाणिपदायुधान्वितमरिवत् ध्वंससंसिद्धये ॥ २७
१०. योगशयनम्
योगशयनस्य
दक्षं न्यस्योपधाने निजकरमथवोद्धृत्यमौल्यञ्ञ्चलान्तं
दीर्घीकृत्य प्रकुञ्च्यापरमुपरि लसत्कूर्परं वान्ध कट्याम् ।
न्यस्योरौवा प्रसार्याधिशयन ततक्षाम्फ्रिुरन्यं निकुञ्च्य
प्रोन्मीलद्दृष्टिरूढाभरणरतिरवेच्छ्याम पीतो द्विबाहुः॥ २८
११. नाभिपद्मस्थ ब्रह्मा
नाभिपद्मस्थितब्रह्मणः
तन्नाभीपद्मकोश स्थितिरुदित जटामण्डलः स्वर्णवर्णः
पुष्पाच्छादोपवीतोत्तर पटसहितः कुण्डिकामक्षमालाम् ।
बिभ्रद्ब्रह्मासनस्थः कनकमय लसद्भूषणश्च्यैकवक्त्रो
ध्येयो ब्रह्मसुकट्यां निदधदपि करं वाममालोड्यचान्यम् ॥२९
१२. तल्पी भूत शेषः
शेषस्य
त्रिश्चक्रीकृत भोगमञ्च सुलभस्वापस्य शौरेः पदे
वालं न्यस्य तदुत्तमाङ्गमकुटादूर्थ्वं फणैः पञ्चभिः ।
माणिक्यद्युतिमण्डल स्फुरित दिक्कोणैर्युतं दंष्ट्रिणं
शङ्ख स्वच्छतनुं नमामि शिरसा शेषं गिरामीश्वरम् ॥ ३०
[[9]]
’’अनन्तस्य फणपार्श्वेऽर्चनं कुर्यात्’’
’’अनन्ताय, नागराजाय, सहस्रशीर्षाय, विष्णुसखाय’’ ॥
१३. भित्यासीनो ब्रह्मा
दक्षिणभित्तौ ब्रह्मणः
सावित्रीपतिमुत्तरामुखमहं रुक्माभमब्जासनं
चैत्रेमास्यभिजिद्भवं सितगरुद्यानं चतुर्वक्त्रकम् ।
तम्ब्रह्माणमुबीजमात्त सुजटामौलिं भजाम्यादरा -
द्रक्षस्रग्वरदाभयात्त कलशी पाणिं भजत्कुण्डिकम् ॥ ३१
१४. तथा शङ्करः
वामभित्तौ शङ्करस्य
अग्न्याभं वरदाभयेन विलसद्धस्तं यबीजं शिवं
पिङ्गाक्षत्रितयान्वितं शशिकला मौलिं यमाशामुखम् ।
आसीनं वृषपत्र केतनमहं वन्दे सहस्युद्भवं
रुद्रर्क्षे सुतरर्क्ष चर्मवसनं तं पार्वती वल्लभम् ॥ ३२
१५. भोगशयनम्
भोगशयनस्य
श्यामं चाप समाङ्गमर्ध शयनाविष्टं करं दक्षिणं
कोटीराभिमृशं प्रसुप्तमथवा न्यस्योपधानोपरि ।
वामंसक्ध्नि निधाय वामपदमाकुञ्च्य प्रसार्यापरं
ध्यायामि द्विभुजं चतुर्भुजमुत प्रेक्ष्यं सुपुष्टाङ्गकम् ॥ ३३
’’अनादिनिधनाय, अमितमहिम्ने, नित्यानन्दाय, अनन्तशयनाय’’
शिरःपार्श्वे श्रीदेव्याः
शिरः पार्श्वे विष्णो र्भुज कृतविमिश्रां प्रविततं
पदं सव्यादन्यं तदपरमुपाकुञ्च्य दधतीम् ।
[[10]]
श्रियं देवीं ध्यायेत्कमल विलसद्दक्षिण करां
तदन्यं बिभ्राणां कटक निभरूपं कटितटे. ३४
पादपार्श्वे महीदेव्याः
पत्पार्श्वाध्युषितां हरेरधमहीं व्यातत्य वामम्पदं
व्याकुञ्च्यापरमास्थितां भगवतो वामाम्फ्रिु संस्पर्शिनीम् ।
नीलाम्भोरुहधारि दक्षिणकरां वामं करं बिभ्रतीं
कट्यन्ते कटकोपमं बहुविधाकल्पामहं भावये ॥ ३५
’’अथवा देवस्य पश्चिमे शेषोपरि श्रीभूम्यावर्चयेत्’’ ।
दक्षिणे लक्ष्म्याः
मुक्ताहाराऽथ कक्ष्या ग्रधित पृथुकचा पुष्पचूडङ्किरीटं
वामं कञ्जातयुक्तं करमभय करं दक्षिणं बिभ्रतीं माम् ।
श्यामं चेलं वसानां सुविहितनयनां विद्रुमाभां निषण्णां
शोणेपद्मे विलुप्तामुरसि हृदि सदा भावयेत्कुङ्कुमेन ॥ ३६
वामे मह्याः
श्यामाभा पुष्पचेला सरसिजनयना रक्तपद्मासनस्था
कलाछरं दक्षिणेन स्फुटरुचिहिकरेणाभयं वामकेन ।
रक्तोष्णीषा किरीटोपमपद मकुटा कुङ्कुमेनोपलिप्तं
स्फीतं वक्षोजयुग्मं त्रिभुवनमहितं बिभ्रती पातु भूमिः॥३७
’’भृगुमार्कण्डेय ब्रह्मरुद्रादीन् पूर्ववत्’’
१६. वीरशयनम्
वीरशयनस्य
वन्दे श्यामं शङ्खचक्रे दधानं
सव्यंहस्तं सोपधानं विधाय ।
[[11]]
वामं प्राग्वत्सम्प्रसार्योपविष्टं
शय्यामध्ये तं चतुर्बाहुमीडे ॥ ३८
’’शेषब्रह्म भृगुमार्कण्डेय ब्रह्मरुद्राश्च पूर्ववत्’’
१७. आभिचारिकशयनम्
अभिचारिकशयनस्य
द्विवलय फणयुग्मोद्भासितल्लक्षणाहि
प्रवरशयमनुन्न स्वोत्तमाङ्गादि पार्श्वम् ।
सकलसुर विहीनं श्याम शुष्काम्बराढ्यं
समशयमतिनिद्रं श्याममीडे द्विबाहुम् ॥ ३९
१८. लक्ष्मीनारायणरूपः
लक्ष्मीनारायणस्य
वामाङ्कस्थ कलत्र दक्षिणभुजाश्लिष्टस्तदालिङ्गन
प्रोद्यद्वामभुजः प्रसारितपदः सङ्क्षिप्तवामाम्फ्रिुकः ।
देव्यापाणि धृताब्जया ततमिलत्पादाब्जया संयुतो
ध्यातव्यो वरदश्चतुर्भुजयुतः शङ्खारि धारी हरिः ॥ ४०
इति श्रीवैखानसे ध्यानमुक्तावल्यां स्थानकादि धृवबेर ध्यान भेद
विधिर्नाम प्रथमस्तबकः