१०१ ग्रन्थगणनाविधिः

अथ एकाधिकशततमः पटलः

ग्रन्थगणनाविधिः

अथातो ग्रन्थगणनाविधिं व्याख्यास्यामः।

वैखानसं महाशास्त्रं सर्ववेदेषूद्धृतं सर्ववेदार्थसारभूतम् अप्रतर्क्यमनिन्दितं वैदिकैरुपसेवितं विष्णोराराधनं सर्वभूतहितार्थाय शाब्दं प्रमाणमवलम्ब्य विष्णुना विखनसः उक्तम्। विखनसा भृग्वादीनामुक्तम्। भृगुणा काश्यपेन अत्रिणा मया चैव तन्त्राधिकारकाण्डसंहिताभेदैः चतुर्लक्षं प्रोक्तम्। तेषां क्रमेण प्रतिमार्गं ग्रन्थसङ्ख्यां वक्ष्यामि॥

अत्रिग्रन्थसङ्ख्या

अत्र प्रथमं प्रधानं विखनस्सूत्रं पूर्वतन्त्रम्, आत्रेयतन्त्रं, विष्णुतन्त्रम्, उत्तरतन्त्रमित्येतैश्चतुर्भिस्तन्त्रैरत्रिणा अष्टोत्तराशीति सहस्रग्रन्था उक्ताः।

भृगुग्रन्थसङ्ख्या

खिल पुरातन्त्र वासाधिकार चित्राधिकार मानाधिकार क्रियाधिकारार्चाधिकार यज्ञाधिकार वर्णाधिकार प्रकीर्णाधिकार प्रतिगृह्याधिकार निरुक्ताधिकार खिलाधिकाररूपेषु त्रयोदशेष्वधिकारेष्वपि सङ्ख्या पूर्ववत्।

अष्टोत्तराशीतिसहस्रग्रन्था भृगुणाप्युक्ताः॥

काश्यपग्रन्थसङ्ख्या

सत्यकाण्डं, तर्ककाण्डं, ज्ञानकाण्डमिति त्रिविधकाण्डेष्वपि काश्यपेन चतुष्षष्टिसहस्रग्रन्था उक्ताः।

एकाधिकशततमः पटलः [[३९८]]

मरीचिग्रन्थसङ्ख्या

मया च जयसंहिता, आनन्दसंहिता, सञ्ज्ञानसंहिता, वीरसंहिता, विजयसंहिता, विजितसंहिता, विमलसंहिता, ज्ञानसंहितेति अष्टसु संहितासु लक्षाधिकचतुरशीतिसहस्रग्रन्था उक्ताः॥

एतेषां चतुर्विधानां मूलं तद्वैखानससूत्रम्। एतैस्सहाऽष्टाविंशतिशास्त्रेषु चतुर्लक्षग्रन्थाः पूर्णाः तेषु एतद्विमानार्चनाकल्पः आनन्दसंहितायाम् अयुतग्रन्थेनोक्तः।

सर्वशास्त्रसारभूतं गुह्याद्गुह्यतरं चतुर्वेदोद्भवमन्त्रैः चतुराश्रमिणामनुष्ठेयम्।

चातुर्वर्ण्यसमृद्ध्यर्थं चतुराश्रमसिद्धिदम्। चातुर्वर्ण्यसाधनाय चत्वारोऽम्नाया वदन्ति। एतान् पुण्यान् सौम्यान् चतुर्विधान् विष्णोरर्चनाविधीन् यस्तु ब्रूयात्, यस्तु श्रावयेत्, यः पठेत्, यस्तु कर्ता, कारयिता, प्रेरयिता, अनुमोदिता च, सर्वे च विष्णुसायुज्यमाप्नुवन्ति न पुनर्जायन्ते इत्याह भगवान् मरीचिः।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे ग्रन्थगणनाविधिर्नाम एकाधिकशततमः पटलः ॥ १०१ ॥

इति मरीचिमहर्षिप्रोक्तायाम् आनन्दसंहितायाम् अयुतग्रन्थः विमानार्चनाकल्पः॥

ग्रन्थश्चायं समाप्तः॥

* * *