अथ शततमः पटलः समाधिस्वरूपं तत्फलम् अथातः समाधिं वक्ष्ये - जीवात्म(नः) परमात्मनो (त्मस) स्समावस्था समाधिः। यथा अनुष्णोपलमादित्यदर्शनादुष्णत्वमाश्रितमिव (तथा) परामात्मदर्शनात् प्रत्यगात्मा नित्यशुद्धबुद्धमुक्तस्वभाव(क) परमानन्दमयत्वं प्राप्य, परमात्मानं नारायणं सदा पश्यत्यनुभवत्येव। अष्टाऽङ्गयोगमार्गेण नित्यमणिमाद्यैश्वर्यं च प्राप्नेति। जीवन्मुक्तो भवेत्।
देहत्यागप्रकारः
अथ चान्त्यकाले सर्वद्वाराणि संयम्य, प्राणमपानेन संयोज्य, शोधयित्वा, सर्वेषु नाडीमार्गेषु निरुध्य ’हंसे’ति सुषुम्नया चोर्ध्वं गत्वा, हृदयाम्भोजे प्राणमारोप्य, तदन्तराकाशे परे ज्योतिषि मनोवृत्तिं सुसंयम्य, परमात्मानं पश्यन् भ्रुवोर्मध्ये प्राणमारोप्य, प्रणवाक्षरेण सबिन्दुनादेन (समुद्घाटयति) समुत्था(प्य)पयित्वा, प्राणमुत्सृजति। प्राणेन सह सर्वमात्मनि प्रलीयते। तदा परमात्मना सह वैकुण्ठमवाप्नोति।
ग्रन्थोपसंहारः
इत्येवं संसारसमुद्रोत्तरणोपायसाधनं ज्ञानयोगं च ब्रह्मणा पुरा मम प्रणीतम्। तदेव युष्माकं मया चोक्तम्। ज्ञानोपदेशं गुरुशिष्यमार्गेण ज्ञात्वा, पश्चात्परमात्मानं सदा पश्येत्।
एवं सदा ध्यातुमशक्यत्वात्, प्रतिमादिषु पञ्चमूर्तिनामभेदैः समावाह्य अभ्यर्चयेत्। एतत्समूर्तार्चनम्। सर्वसिद्धिप्रदत्वात् गृहे देवायतने वा समूर्तार्चनमेव कारयेत्। अन्यथा न परम्पदमाप्नोति। तस्मात् श्रुतिचोदितं परमगुह्यमेतत् ज्ञानयोगं च ज्ञात्वा समाचरेदित्याह मरीचिः।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे समाधिभेदो नाम शततमः पटलः १०० ॥ (मातृकान्तरे ९६ प॰) [[३९७]]