०९९ ध्यानभेदविधिः

एकोनशततमः पटलः

ध्यानस्वरूपम्, तद्विभागः

अथातो ध्यानं वक्ष्ये। परमात्मनो जीवात्मना चिन्तनं ध्यानं,
निष्कलं सकलमिति (तत् द्विविधम्)
निष्कलं देवैरप्य् अनभिलक्ष्यम् अदृश्यं स्यात्।
सकलं द्विविधं - निर्गुणं सगुणं चेति।

निर्गुणं निष्कल-स्वभावः।
परमात्मनो ऽन्यन् नकिञ्चिद् अस्तीति
काष्ठे अग्निर् इव सर्वं व्याप्य
आकाशोपमः सर्वेषाम् आत्म-गुहायां निहितः
अन्तर्बहिश् च संस्थितो
दृश्यादृश्यः स्थूलसूक्ष्मः अमलोऽत्यच्छः
अप्रमेयो निरवयवो निरुद्योगो नित्योऽचिन्त्यो निष्कलः

तम् एव प्राणायाम-प्रत्याहार-धारणाद् आत्म-संस्कारं कृत्वा
आत्मना पश्येत्।
मध्यदेहान् मूर्धपर्यन्तं भ्रुवोर् मध्ये अन्तरात्मानं नारायणं
सर्वजगत्कारणम् अव्ययम् अव्यक्तम् एकरूपं परञ्ज्योतिर् ज्वलति। अवभासयति।
एकं निर्गुण-ध्यानम् ’नारायणपरञ्ज्योतिरात्मा नारायणः परः’ इति श्रुतिः।
तस्मात् प्रधान-परमोऽव्ययो विष्णुस्सदा ध्येयः।

निष्कलमेव प्राणायामैर्विकसितहृदयकमलान्तराकाशे वैश्वानर-शिखामध्ये
परञ्ज्योतिर्ज्वाला-रूपवत् स्वयम् एव पुरुषः कृष्णपिङ्गलः ऊर्ध्वरेता विरूपाक्षः विश्वरूपः परमानन्द-विग्रहो भवेत्।
तं परमया भक्त्या पश्येत्।
तत्र सन्निहितो भवेत्।

इति निर्गुणध्यानं भवतीति विज्ञायते॥ (मातृकान्तरे ९३प॰)

सगुणध्यानम्

अथ सगुणध्यानं वक्ष्ये। प्राणमपानेन संयोज्य, तमनुप्रविश्य तत्र पुरुषं दृष्ट्वा, पुनः पिङ्गलया आदित्यमण्डलमनुप्रविश्य, तत्रस्थ पुरुषं दृष्ट्वा, ततश्चेडया चन्द्रमण्डलमनुप्रविश्य, तत्र मण्डलपुरुषं दृष्ट्वा ततो ज्वलिताऽग्निना कुण्डलीमुख(ख)ज्वलनेन दग्ध्वा, सुषुम्नया चोर्ध्वं गत्वा, [[३९५]] प्राणायामेन विकसित हृदयकमलान्तराकाशे वैश्वानरशिखामध्ये चतुरश्रं हेमाभं बिन्दुना सह यकारबीजान्वितं माहेन्द्रमण्डलं तन्मध्ये अर्धचन्द्राऽऽकृतिं श्वेतं बिन्दुना सह वकारबीजान्वितं वारुणं (मण्डलं) ध्यात्वा, तन्मध्ये प्रणववेष्टितं सुवर्णाभमादिबीजं स्मृत्वा, प्रज्वलितज्योतीरूपमेव भक्त्या सकलं सङ्कल्प्य देवीभूषणायुधैस्सह परिषद्गणैस्सह कल्याणगुणनिधिं पूर्ववद्ध्यायेत्। एतत्सगुणध्यानमुत्तमम्। सर्वसिद्धिप्रदं सर्वत्र प्रयोक्तव्यम्।

हृत्पद्मान्तराकाशे वैश्वानरशिखामध्ये अग्नि (अर्क) मण्डलं पूर्ववद्ध्यात्वा, तन्मध्ये परञ्ज्योतिरेव सकलं सङ्कल्प्य, देवीभूषणायुधैः परिषद्गणैस्सह वृतं यज्ञमूर्तिं पूर्ववत् ध्यायेत्। अग्निहोत्रादिहोमः तदपि सगुणध्यानम्।

हृत्पद्मे वैश्वानरशिखामध्ये अर्कमण्डलं पूर्ववत् ध्यात्वा, पद्ममध्ये परञ्ज्योतिरेव सकलं सङ्कल्प्य, तरुणादित्यसङ्काशं विष्णुं पूर्ववद्ध्यायेत्।

एतत्सगुणध्यानं सर्वत्र प्रयोक्तव्यं सर्वसिद्धिप्रदम्।

हृदयकमलान्तराकाशे वैश्वानरशिखामध्ये सोममण्डलं पूर्ववद्ध्यात्वा, तन्मध्ये परञ्ज्योतिरेव सकलं सङ्कल्प्य, शुद्धस्फटिकसङ्काशं नारायणमूर्तिं ध्यायेत्। सगुणध्यानं सर्वसिद्धिप्रदं सर्वत्र प्रयोक्तव्यम्।

एवं सगुणध्यानं चतुर्विधं भवति। एतानि वैदिकध्यानमार्गाणि अन्यान्यवैदिकानि सर्वाणि जघन्यानि। तैः षड्भिः प्रकारैः भगवन्तं नारायणं नित्यमभ्यसेत्। सर्वं समाधिना पश्यतीति विज्ञायते।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे ध्यानभेदविधिः नाम एकोनशततमः पटलः ॥ ९९ ॥ (मातृकान्तरे ९४) एकोनशततमः पटलः [[३९६]]