अथ अष्टनवतितमः पटलः धारणलक्षणम्, शरीरे पृथिव्यादिस्थानम्, तत्र ध्येयं रूपम् अथातो धारणानि अष्टधा भवन्ति। तेष्वात्मनि यमादिगुणयुक्त मनसा स्थितिः, हृत्पद्मान्तराकाशे बाह्याकाशे धारणं च, पृथिव्यादि महाभूतेषु पञ्चसु देवानां पञ्चधारणानि, हृत्पद्ममध्ये परमात्मानन्दविग्रहधारणमिति।
पादादिजानुपर्यन्तं पृथिवीस्थानं तत्र लकारसंयुक्तं(नो) वायुमारोप्य, अनिरुद्धमूर्तिं ध्यात्वा, धारयेत्। जान्वोः(नोः)पायुपर्यन्तम् अपां स्थानं तत्र वकारसंयुक्तं वायुमारोप्य, अच्युतमूर्तिं ध्यात्वा धारयेत्। पायोर्हृदयान्तमग्निस्थानं तत्र रेफयुतं वायुमारोप्य सत्यमूर्तिं ध्यात्वा धारयेत्। हृदयात् भ्रूमध्यान्तं वायुस्थानं तत्र यकारसंयुक्तं वायुमारोप्य, पुरुषमूर्तिं ध्यात्वा धारयेत्। आभ्रूमध्यात् मूर्धान्तं व्योमस्थानं तत्र हकारसंयुक्तं वायुमारोप्य विष्णुमूर्तिं ध्यात्वा धारयेत्।
एतेषां देवानां ध्यानस्वरूपं पूर्वं नाडीष्वकारसंयुक्तं वायुमारोप्य हृन्मध्ये प्रणवेन कार्यम्। स्वे स्वे सम्भृ(हृ)त्यकरणे प्रणवस्य नादान्ते परमानन्दविग्रहं परमात्मानं नारायणं शुद्धस्फटिकसङ्काशं ध्यात्वा, धारयेत्। एतां धारणां नियमादिसंयुक्तः नित्यं वा चरेत् इत्याह मरीचिः।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे धारणाविधिर्नाम अष्टनवतितमः पटलः॥९८॥ (मातृकान्तरे ९३) अष्टनवतितमः पटलः [[३९४]]