०९७ प्रत्याहारविधिः

अथ सप्तनवतितमः पटलः प्रत्याहारस्वरूपम्, तद्भेदः अथातः प्रत्याहारः पञ्चधा भवति। इन्द्रियाणां सर्वेभ्यो विषयेभ्यो बलादाहरणम्, आत्मनि सर्वमात्मवदीक्षमाणं, विहितकर्माणि(कर्मणां) बहिर्विना मनसाकृतं, पादाङ्गुष्ठादिमूर्धान्तम् अष्टादशमर्मस्थानेषु वायुमारोप्य, धारयित्वा स्थानात् स्थनादूर्ध्वतोऽधस्ताच्च समाकर्षणं, नाडीमार्गेषु वायुमारोप्य, निरोधनमिति च।

अष्टादश मर्मस्थानानि तल्लक्षणं च पादाङ्गुष्ठ गुल्फ जङ्घा(मध्य)चितिमूल जानूरुमध्य पायुमूल देहमध्य मेढ्र नाभि हृदय कण्ठतालुमूल नासिकामूलाऽक्षिमण्डल भ्रूमध्य ललाट मूर्धान इति अष्टादश स्थानानि।

एतेषां प्रमाणं पादमानं सार्धचतुरङ्गुलं, तदवसान (गुल्फ) मङ्गुलं, ततो दशाङ्गुलं जङ्घामध्यं, ततो दशाङ्गुलं चितिमूलं, तद्व्यङ्गुलं जानु, ततो नवाङ्गुलमूरुमध्यं, नवाङ्गुलं पायुमूलं, तदर्धाधिकं त्र्यङ्गुलं देहमध्यं, ततो द्व्यर्धाङ्गुलं मेढ्र(म्)मूलं, नाभिः चतुरङ्गुलम्, तदेकादशाङ्गुलं हृन्मध्यम्, ततो द्वादशाङ्गुलं कण्ठकूबरम्, षडङ्गुलं तालुमूलम्। ततश्चतुरङ्गुलं नासिकामूलं, अक्षिमण्डलं द्व्यङ्गुलं, द्व्यङ्गुलं भ्रूमध्यं, ततो द्व्यङ्गुलं ललटान्तं त्र्यङ्गुलं मूर्धेति।

तत्र वायुसंयमः प्रकारः एतेषु स्थानेषु मनसा वायुमारोप्य; स्थानात् समाकृष्य निरोधं चोर्ध्वतोऽधश्च यथाक्रमेण करोति। इडापिङ्गलाभ्यां वायुमारोप्य, कुण्डलीपार्श्वयोः आपूर्य, नासाभ्यामुदरस्थं वायुमारोप्य, पूरयित्वा, भ्रूमध्ये कुर्चौ समारोप्य, [[३९३]] धारयति। एवं नित्यं समाचरेत्। आत्मनः प्राणसुषुम्नया भ्रूमध्यान्तं समारोप्य, यावन्मण्डलोदयं तावत् संयमनं करोतीति विज्ञायते।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे प्रत्याहारविधिर्नाम सप्तनवतितमः पटलः ॥ ९७ ॥ (मातृकान्तरे ९२)