०९६ यमनियमासनप्राणायामविधिः

अथ षण्णवतितमः पटलःथण्णवतितमःपटलः

अष्टाङ्गयोगः

अथातो अष्टाङ्गयोगं वक्ष्ये।

जीवात्मपरमात्मनोर्योगो योग इत्यामनन्ति। ’यमनियमाऽऽसन प्राणायाम प्रत्याहार ध्यान धारण समाधय’ इति योगाङ्गानि॥

यमस्य लक्षणं तेषु यमः अहिंसा, सत्यमचौर्यं, गृहस्थस्य स्वदार निरतिरन्येषां सर्वत्र मैथुनत्यागः, दया, आर्जवं, क्षान्तिः, धैर्यं, मिताशनं, शौचमिति यमगुणा दशधा भवन्ति।

नियमस्य लक्षणं नियमस्तु तपस्सन्तोषास्तिक्य दान विष्णुपूजा वेदार्थश्रवण कुत्सितकर्मसु लज्जा गुरूपदेशश्रद्धा मन्त्राऽभ्यासो होम इति नियमगुणा दशधा भवन्ति। एतैर्विंशतिगुणैर्युक्तो योगाधिकारी भवेत्।

[[३८९]] आसनानि तत्र भेदाः आसनानि नवभेदानि - ब्राह्म स्वस्तिक पद्म गोमुख सिह्ममुक्त वीरभद्र मयूराणि इति॥

ब्राह्मम्

दक्षिणपादमूर्ध्वं, वामपादमधः कृत्वा जान्वन्तरे अङ्गुष्ठौ निगूह्य, अङ्के वामपाणिं तदूर्ध्वे दक्षिणपाणिमुत्थानं न्यस्य ऋजुकायो भ्रूमध्येक्षणमासनं तद् ब्राह्मम्।

स्वस्तिकम्

सीवन्या उभयोः पार्श्वयोः गुल्फद्वयं निक्षिप्य पूर्ववदासनं स्वस्तिकम्।

पद्मासनम्

ऊर्वोरुपरि पादतलौ विन्यस्य पूर्ववद्धस्ततलद्वयं न्यसेत् तत् पद्मासनम्।

गोमुखम्

दक्षिणजानुं वामजानुं संश्लिष्टं निविशयेत् तत् गोमुखम्। (दक्षिणेतरं दक्षिणपार्श्वे, अदक्षिणं दक्षिणोरौ इति गुल्फौ निवेशयेत् - तत् गोमुखम्।

सिंहासनम्

पूर्ववत् वृषणस्याऽधः सीवन्याः पार्श्वयोः गुल्फौ न्यस्य हस्तौ प्रसार्य जान्वोः स्थाप्य नासाग्रं निरीक्ष्य संवृताऽऽस्यो भवेत् एतत् सिंहासनम्।

मुक्तासनम्

गुल्फं सव्यं मेढ्रादुपरि विन्यस्य असव्यं तदुपरि न्यसेत् एतत् मुक्तासनम्।

षण्णवतितमः पटलः [[३९०]]

वीरासनम्

दक्षिणं पादं वामोरोरुपरि न्यस्य वामपादोपरि दक्षिणोरुं न्यसेत्।

एतत् वीरासनम्।

भद्रासनम्

ब्राह्मं जान्वन्तरद्वयमग्नमङ्गुष्ठं निगूह्य भ्रूमध्येक्षणं गुल्फौ वृषणस्याऽधस्सीवन्याः पार्श्वयोः पादौ न्यस्य, पाणिभ्यां बध्वा भद्रासनम्।

मयूरासनम्

करतले भूमौ संस्थाप्य कूर्परौ नाभिपार्श्वयोर्न्यस्य न(उन्नत)तशिराः पादौ दण्डवद् व्योम्नि संस्थितो मयूरासनमिति।

आसनस्योत्तमत्वादिकम्

एतेषु ब्राह्मस्वस्तिकपद्मासनान्युत्तमानि। गोमुख सिंहमुक्तानि मध्यमानि।

वीरभद्रमयूराणि अधमानि इति विज्ञायते। (मातृकान्तरे ९० प॰)

प्राणायामः

प्राणापानसमानयोगः प्राणायामः रेचक पूरक कुम्भक इति स च त्रिविधो भवेत्। निश्वासविसर्गो रेचकः। निश्वासोध्मानं पूरकः। निश्वासनिरो (धः)धनं कुम्भक (क इ)मिति।

रेचकादिप्रकारः

प्राणमपानेन संयोज्य देहमध्ये रेफबीजान्वितं वह्निमण्डलं प्रवेश्य तत्रस्थ पुरुषं पश्यति। अग्निं प्रज्वाल्य अग्निना सममुदरस्थमनिलमिडया समारोप्य पूरयित्वा नासाग्रे ऋकारबीजान्वितम् अमृतं स्रवन्तमिन्दुमण्डलं तत्रस्थ पुरुषं च नेत्राभ्यां पश्यन् मन्दपिङ्गलया रेचयति। पुनरपि पिङ्गलया [[३९१]] वायुमारोप्य पूरयित्वा सकार बीजान्वितम् अर्कमण्डलं तत्रस्थ पुरुषं प्रविश्य (पश्येत्) इडया शनैर्विरेचयेत्।

एवं त्रिसन्धिषु चतुर्मासमाचरेत्। पृथक्चिह्नोपलक्षिता(तां) नाडीशुद्धिमाप्नोति।

प्राणमपानवायुना संयोज्य इडया षोडशमात्रैर्वायुना संयोज्य इडया षोडशमात्रैर्वायुमारोप्य म(अकारमूर्ति) कारं संस्मरेत्। पश्चात् चतुष्षष्टिमात्रं पूरितं धारयेत्। यावच्छक्यं तावच्चरति। पिङ्गलया द्वात्रिंशन्मात्रै रेचयेत्।

पुनः पिङ्गलया षोडशमात्रैर्वायुमारोप्य मकारमूर्तिं संस्मरन् पूरितं प्राणं धारयेत्। अकारमूर्तिं ध्यात्वा चत्वारिंशत्प्रणवं जपेत्। पश्चादिडया रेचयित्वा पुनः पूर्ववदिडया वायुमारोप्य पूरयित्वा धारयेत् प्रणवं संस्मरन् सव्याहृतिकां सप्रणवां गायत्रीम् अन्ते सशिरस्कां त्रिर्जपेत्। एवं त्रिसन्धिषु प्राणसंयमनं करोति।

ततोऽग्निमण्डलं प्रविश्य तत्रस्थ पुरुषेण संयुज्य वह्निना सह वायुमारोप्य, पिङ्गलया आदित्यमण्डलमनुप्रविश्य (तत्रस्थपुरुषेण संयुज्य) पश्चादिडया वायुमारोप्य, चन्द्रमण्डलमनुप्रविश्य, तत्रस्थपुरुषेण संयुज्य, ततो वह्निना कुण्डलीमुखं तप्त्वा, वायुमारोप्य सुषुम्नया चोर्ध्वं नीत्वा कण्ठ(न्द)मध्ये स्थितं हृदयकमलमूर्ध्वमुखं विकसितं कृत्वा तत्र परमात्मानं नारायणं पश्यतीति विज्ञायते।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे यमनियमासनप्राणायामविधिर्नाम षण्णवतितमः पटलः॥ ९६ ॥ (मातृकान्तरे ९१-प॰) षण्णवतितमः पटलः [[३९२]]