०९५ ज्ञानस्वरूपनिरूपणम्

अथ पञ्चनवतितमः पटलः

चतुर्विधभगवत्समाश्रयणम्

अथ भगवत्समाश्रयणं चतुर्विधं भवति (समाराधनमित्यामनन्ति) जपहुताऽर्चना ध्यानमिति। सावित्रीपूर्वं वैष्णवीमृचम्, अष्टाक्षरं (च) वा, भगवन्तं ध्यात्वा अभ्यसेत् स जपः; अग्निहोत्रादिहोमे यत् हूयते तध्दुतं होमः; (पूजा) गृहे देवायतने वा वैदिकेन मार्गेण प्रतिमादिषु पूजयेत् तदर्चनम्; निष्कलसकलविभागं च ज्ञात्वा अष्टाऽङ्गयोगमार्गेण परमात्मानं जीवात्मना चिन्तयेत् तद्ध्यानमिति।

अर्चनस्योत्तमत्वम्

तेष्वर्चनं सर्वार्थसाधनं स्यात्। तत्र परमात्मैव पञ्चधा भवति। ’स वा एष पुरुषः पञ्च वा पञ्चात्मे’ति श्रुतिः।

मूर्तिभेदनिरूपणम्

तस्मादाकाशादि महाभूतानां (क्रमेण) परमात्मनि भेद एव। सभ्याहवनीयाऽन्वाहार्यगार्हपत्यावसथ्या इति पञ्चाग्निवत् ’पञ्चधाग्नीन् व्यक्रमद्विराट्स्रष्टे’ति श्रुतिः। प्राणादिपञ्चवायुभेदैरिव पञ्चमूर्तिभेदैर्भिद्यतेति ’पोपूयमानः पञ्चभिः स्वगुणैः प्रसन्नैः सर्वानिमान् धारयिष्यसी’ति श्रुतिः।

तस्मात् ’विष्णुपुरुषसत्याऽच्युतानिरुद्धा’ इति मूर्तीनां पञ्चानाम् आदिमूर्तिर्विष्णुः तद्भेदाश्च चतस्रो मूर्तयः ’तद्विष्णोः श्रमापनुदाय चतुर्गुणाये’ति श्रुतिः तस्मात् ब्रह्मा चतुष्पात् भवति। पादादर्धात् त्रिपादात् केवलाच्च क्रमेण धर्मज्ञानैश्वर्यवैराग्यैरिति विषयगुणैः चतुर्भिः मूर्तयो भवन्ति। आदिमूर्तेश्चतुर्मूर्तित्वात् क्रमेण विष्णुर्महाविष्णुः सदाविष्णुर्व्यापी नारायण इति चतुर्मूर्तयो भवन्ति। विष्णोरंशः पुरषः महाविष्णोरंशः सत्यः सदाविष्णोरंशः अच्युतः पञ्चनवतितमः पटलः [[३८८]] व्यापिनोऽंशोऽनिरुद्धः इति धर्मा’दिब्रह्मगुणैश्चतुर्धा भिद्यते। पुरुषः पुरुषात्मकः परमपुरुषः धर्ममय इति, सत्यः सत्यात्मकः ज्ञानस्सर्वतेजोमय इति, अच्युतोऽपरिमितः ऐश्वर्यः श्रीपतिरिति, अनिरुद्धः महान् वैराग्यस्सर्वसंहार इति। एषां रूपं पुरा वर्णादिकथने विधिना चोक्तम्। एवं पञ्चमूर्तिनामभिर्भेदैः गुरूपदेशेन अष्टाङ्गयोगमार्गेण ध्यात्वा आवाह्य अर्चयेदित्याह मरीचिः।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे ज्ञानस्वरूपनिरूपणं नाम पञ्चनवतितमः पटलः ॥ ९५ ॥ (मातृकान्तरे ८८)अथातो