०९४ भगवत्सायुज्यप्रदानम्

अथ चतुर्नवतितमः पटलः

संसारहेतुः

अथ अयं देहः जन्म कृत्वा भार्यामयपाशनिबन्धितो भगवन्मायया मोहितः कामक्रोधलोभमोहमदमात्सर्यहिंसादीनि करोति।

योनिद्वारेण निष्क्रम्य पुनःपापीयसीं योनिमाश्रित्य पुनर्जायमानः स्वर्गनरकफलेषु कर्मसु प्रवर्तते। तस्माद्भगवन्मायया मोहितत्वात् भगवन्तं समाश्रित्य भक्त्या नारायणमुपासीत।

तत्तरणोपायः

तदुपासनात् सोऽपि भक्तवत्सलत्वात् भक्तानुकम्पया (स्वमायां) मोचयति।

तत आत्मा सम्यज्ज्ञानं प्रविशति। पश्चादाश्रमधर्मयुक्तो भगवदाराधनं करोति।

तदाराधनेन संसारार्णवनिमग्नो जीवात्मा परमात्मानं नारायणं पश्यति।

सोऽप्यपुनरावृत्तिकं दिव्यलोकं प्रापयति। पश्चात्कृतकृत्यो भवति।

मोक्षस्वरूपं तद्भेदः संसारबन्धनवासनान्मुक्तिर्मोक्षः। तदपि समाराधनविशेषाच्चतुर्विधपदावाप्तिः सालोक्यं सामीप्यं सारूप्यं सायुज्यमिति। आमोदप्राप्तिः सालोक्यं, प्रमोदप्राप्तिः सामीप्यम्, सम्मोदप्राप्तिः सारूप्यं, वैकुण्ठप्राप्तिः सायुज्यमिति।

तच्च नित्यानन्दम् अमृतरसपानवत् सर्वदा तृप्तिकरं परमात्मनो नित्यनिषेवणं परञ्ज्योतिः प्रवेशनम्। ’तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय’ इति श्रुतिः॥ भगवन्तं नान्यथा प्राप्नोतीति विज्ञायते।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे भगवत्सायुज्यप्रदानं नाम चतुर्नवतितमः पटलः ॥ ९४ ॥ (मातृकान्तरे ८७) [[३८७]]