०९३ जीवोद्भवः

अथ त्रिनवतितमः पटलः नाडीषु प्राणादिवायुसञ्चारः, तेषां मुख्यः अथैतासु नाडिषु प्राणाऽपानव्यानोदानसमान नागकूर्मकृकल(र) देवदत्तधनञ्जया इति दश वायवस्सञ्चरन्ति। तेषु प्राणादयः पञ्च वायवो मुख्याः तेषु प्राणापानौ मुख्यौ, एतयोः प्राण एव मुख्यः।

प्राणादीनां स्थानं तत् स्वरूपं च प्राणस्थानमास्यनासिकयोर्मध्यं, हृन्मध्यं, नाभिमध्यं, पादाङ्गुष्ठाविति पञ्च। स च प्राणो राजावर्तमणिप्रभो निश्श्वासोच्छ्वासकरः हृत्पद्मं समाश्रित्यावर्त्य मुखनासिके करोति।

अपान इन्द्रकोपसमप्रभो नाभिं(गुद) समाश्रित्य, विण्मूत्रविसर्जनं करोति।

व्यानः सन्धिगतः फेनवर्णः हानोपादानचेष्टादीनि करोति। उदानः किञ्जल्कसदृशः कण्ठमाश्रित्य अन्नपानादिपोषणक्रियां करोति। समानो व्योमाभः [[३८३]] क्षीरे सर्पिरिव सर्वत्र व्याप्य करचरणशयनादिकं करोति। नागः श्वेतः कण्ठं समाश्रित्य उद्गारादीन् करोति। कूर्मो रक्तः नेत्रे समाश्रित्य, निमीलनोन्मेषणादि करोति। कृकरः कृष्णः उदरं समाश्रित्य क्षुत्पिपासादीनि करोति। देवदत्तः पीतवर्णः सर्वगस्तन्द्रां करोति। धनञ्जयः श्यामाभः सर्वगः शोभादिकर्म करोति।

जीवस्वरूपं तस्य कर्म तस्य जननक्रमः जीवात्मा अञ्जनाभः नित्यशुद्धः (बुद्धः बोधनिर्विकारः नित्याणुप्रमाणः) सर्वगत इत्येवं भूतं देहं प्रविश्य शुभाऽशुभकर्माणि करोति।

तत्कर्म द्विधा भवति ऐहिकमामुष्मिकं चेति। तत्रैहिकं भोजनाऽऽच्छादनस्थानगमनाऽऽसनशयनादिकम्। आमुष्मिकम् अहिंसादानधर्मपरोपकारा (रभगवदाराधना)दि पुण्यपापानि सर्वाणि भवन्ति। दैवयोगाद्देहावसाने स्वकर्मानुरूपं परलोकं प्राप्य तत्तत्कर्मफलं भुक्त्वा क्षीणे फले निवृत्य, आकाशं प्रविशति।

वायुर्भूत्वा अग्निं प्रविशति धूमो भूत्वा अपः प्रविशति। अपो भूत्वा अभ्रं प्रविशति। अभ्रं भूत्वा भूमौ वर्षति भूम्या ओषधिवनस्पतीन् प्रविशति ओषधीभ्योऽन्नम् अन्नाच्छुक्लशोणितौ च भवतः। ततः स्वविषयां योनिं प्रविशति। प्रतिदिवसवृद्ध्या परिणतो जायते च। एवं क्षेत्रक्षेत्रज्ञयोश्च परस्परं सम्बन्ध (धादनन्तसंसारस्थावर जङ्गम नरमृग पशुपक्षिजरायुजाऽण्डजस्वेदजोद्भिज्जभेदा बहवो भवन्ति इति विज्ञायते।

(अधिकः पाठः - मातृकान्तरे अथ सप्ताशीतितमः पटलः) त्रिनवतितमः पटलः [[३८४]]

पाञ्चभौतिकप्रलयः

अथातः पाञ्चभौतिकप्रलयं व्याख्यास्यामः यदा पुराकृतवशाद्विनाशमुपयाति तदा प्रथमं गन्धात्मनावस्थितं भूमेर्गुणं तत्कारणभूता एवापः कबलीकुर्वन्ति। एवमद्भिः कबलीकृते तस्मिन् शरीरे कार्त्स्न्येन नश्यति तदा शरीरं कुलालचक्रारूढभ्रमणक्रियामनुभवदिव व्याकुलमवतिष्ठते। एवं स्वकारणभूतास्वप्सु तत्कार्यभूतगुणे प्रणष्टेऽपां गुणप्राचुर्याद्धेतोरिव तदा स्वशरीरमापादचूडं बाह्येनाग्निना दह्यमानमिव मन्यते । ततः कीलालाख्यं रुधिरं शुष्यति तस्यामवस्थायां रुधिरात्मनावस्थितं जलञ्च स्वकारणे तेजसि विलीयते एवमपां विनाशे सति जलाधारत्वात् श्लेष्मा च स्वाश्रयनाशान्मुक्तस्वाश्रयबन्धो भवति। तदा विमुक्तबन्धे श्लेष्माख्ये दोषे पित्ताख्यदोषेण सहाग्नौ पतिते सचाग्निः तं दग्ध्वा पुनर्दाह्यपदार्थाभावादुपरमति । तदाग्निस्स्वकारणभूतं प्राणादिवायुमुपैति तदा वायुरतिवेगो भवति।

एवमग्निसंयोगात् प्रवृद्धो वायुः सर्वस्रोतोमुखैस्तिर्यगूर्ध्वमधश्चापादतलमस्तकं प्रविश्य शरीरम् इतश्चेतश्च कम्पयन्वेदनाभिर्मनोव्याकुलं करोति। तस्मान्मनसो व्याकुलीभावान्नष्टस्मृतिर्मोहमापद्यते। तदात्मीयैर्व्यापारैरुन्मुक्ताः पञ्चवायवः स्वां योनिं विसृज्योच्छ्वासमभिनिष्क्रामयन्ति एवमभिनिष्क्रामितोच्छ्वासो ब्र्रह्मनाडीभूतसुषुम्नारन्ध्रं भित्वा शरीरस्थितमूष्माणञ्च सङ्गृह्य पुनश्चर्मितायां (धूतोपादाद्वायुर्यथा निर्गच्छति मुखं न प्रविशति, तद्वन्मन्दम्मन्दमुदावहति) धूतपादपात् वायुर्यथानिर्गच्छति तद्वन्मन्दम्मन्दमुदावहति मुखं न प्रविशति ततस्तस्मिन् काले वेगेनोत्थाय मुख्यप्राणभूतो वायुर्भ्रमन्निव कण्ठकूबरसप्तद्वारसन्धौ घुरघुरशब्दं कुर्वन् जीवात्मानमेवं प्रकारेण विकृष्य सर्वरक्तग्राहिणीजलूका यथा पदान्तरमलभमानो नोद्गच्छति तथा जीवसहितो वायुरपि स्थानात् स्थानान्तरं विन्दन्नुत्क्रामति एवं गच्छन्तं जीवात्मानं सूक्ष्मशरीरिणं सुकृतदुष्कृते सह प्रतिष्ठेयाताम् एवं पाञ्चभौतिकप्रलयक्रम इति विज्ञायते।

दुष्कृतिनां गतिः अथ दुष्कृतामधर्मचारिणां नास्तिकादीनां गतिं व्याख्यास्यामः- [[३८५]] ते मृताः पाशदण्डधरैर्यमभटैर्निर्दयं पाशैर्दण्डैर्हन्यमाना निशितायसकटकशूलतप्तवालुकास्तृते सिंह्मव्याघ्रशरभादिदुष्टमृगाधिष्ठिते भयङ्करेऽन्धतमसावृते वायुजलादिरहिते मार्गे नीयमानाश्च महता क्लेशेन दुष्प्रवेशं यमपुरं प्राप्य पुराकृतवशेन यमेन रौरवाद्येकविंशतिनरकेषु चोदितास्तत्रतत्र शस्त्राग्नियन्त्रादिभिः पीडित नानाविधयातनामनुभूय दन्दशूकादियोनिं प्राप्य पुनःपुनर्जन्ममरणादिभिः पीडिताः जलकुण्डिकावन्मुहुर्मुहुर्जन्मकूपे मज्जनोन्मज्जनक्रमेण विनश्यति।

पुनरावृत्तिहेतुभूत यज्ञदानादि प्रवृत्तिकर्मानुष्ठानात् कृतदेहत्यागः प्रथमं धूममभियाति तस्माद्रात्रिं ततोऽपरपक्षं तस्माद्दक्षिणायनं षण्मासान् तेभ्यस्संवत्सरं ततः पितृलोकं तस्मादाकाशं ततश्चन्द्रमसमिति क्रमेण देवतास्थानेषु विश्रम्य एवं पितृयाणाद्देवलोकमधिवसन् स्वपुण्यानुरूपभोगमनुभूय क्षीणे पुण्ये निवृत्तस्सन् क्रमेणाकाशं प्राप्य वायुधूमाभ्रमेघरूपाणि भूत्वा वर्षात्सस्यं सस्यादन्नमन्नाद्रेतो भूत्वा ब्राह्मणादि योनिं प्राप्य संसरतीति विज्ञायते।

अर्चिरादिमार्गः

अथातोऽर्चिरादिमार्गं व्याख्यास्यामः अपुनरावृत्तिहेतुभूतनिवृत्तिकर्मणा परब्रह्मोपासनात् प्रपत्त्यादिमार्गरतो जीवः पूर्ववत्पाञ्चभौतिकप्रलयावसाने सूक्ष्मदेहस्थ सुषुम्नानाडिमार्गमधिवसन् ब्रह्मरन्ध्रं भित्वा प्रवृत्तोऽर्चिरभिसम्भवति अर्चिषोऽहरहश्शुक्लपक्षं तस्मादुत्तरायणं षण्मासान् ततस्संवत्सरं तस्मादादित्यं ततस्सोमं राजानं वैद्युतमित्येतेषु देवतास्थानेषु विश्रम्य देवयानमार्गेण भूरादीन्प्राप्य ब्रह्माण्डकटाहं भित्त्वा ततो विरजां प्रविश्य कृतसूक्ष्मदेहपरित्यागः पूर्वोक्तवैष्णवाण्डं गच्छतीति विज्ञायते ःइति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे जीवोद्भवो नाम त्रिनवतितमः पटलः ॥ ९३ ॥ (मातृकान्तरे ८६) त्रिनवतितमः पटलः [[३८६]]