अथ द्विनवतितमः पटलः
नाडीविचारः
नाडिसङ्ख्याः, तत्र मुख्याः, तत्स्वरूपं च अथातो नाडीचक्रं वक्ष्ये।
कन्दोद्भूता(नि) द्विसप्तति सहस्राणि नाड्यः, तासु मुख्याश्चतुर्दश, इडा, पिङ्गला, सुषुम्ना, सरस्वती, वारु(चारणा)णी, पूषा, हस्तिजिह्वा, यशस्विनी, विश् वोदरा, कुहू, शङ्खिनी, पयस्विनी, अलम्बुषा, गान्धारीति।
आसामादौ तिस्रो मुख्याः। तिसृषु सुषुम्नैव प्रधानाव्यक्ता वैष्णवी सात्वि(की) का मुक्तिमार्गेति विद्वद्भिः कथिता। सा कन्दमध्ये (पद्मसूत्रप्रतीकाशा वीणादण्डान्तर्निर्गततन्त्री, अलाबुवद्वंशास्थिना सह मूर्धान्तं स्थिता, तस्या दक्षिणभागे दक्षिणनासान्तं स्थिता पिङ्गला तस्यां भास्करश्चरति। इडा वाम(पर) भागे वामनासान्तं स्थिता। तस्यां चन्द्रश्चरति। तौ राजसतामसौ विषाऽमृत भागौ दिवारात्रौ स्याताम्। सुषुम्नायाः पूर्वभागे च ऊर्ध्वाऽधोगता मेढ्रान्तां स्थिता कुहूः अपरे चो (र्ध्वगता) र्ध्वाधोगता जिह्वान्तं स्थिता सरस्वती पिङ्गलायाः पूर्वभागे चोर्ध्वाऽधोगता दक्षिणपादाऽङ्गुष्ठान्तःस्थिता यशस्विनी अलम्बुसा च, अपरे दक्षिणनेत्रान्तं स्थिता पूषा पूषाऽलम्बुसयोर्मध्ये वामनेत्रान्तं द्विनवतितमः पटलः [[३८२]] स्थिता हस्तिजिह्वा यशस्विनी कुह्वोर्मध्ये ऊर्ध्वगता सर्वगामिनी दक्षिणपाण्यङ्गुष्ठान्तं स्थिता (चरणा) वारुणी पूषासरस्वत्योर्मध्ये दक्षिणकर्णान्तं स्थिता पयस्विनी, इडायाः पूर्वभागे चोर्ध्वाधोगता वामपादाङ्गुष्ठान्तस्थिता (गान्धारी) हस्तिजिह्वा। अपरे वामनेत्रान्तं स्थिता गान्धारी हस्तिजिह्वा कुहोर्मध्ये अधश्चोर्ध्वगता सर्वगामिनी वामपाण्यङ्गुष्ठान्तं स्थिता विश्वोदरा। गान्धारीसरस्वत्योर्मध्ये वामकर्णान्तं स्थिता शङ्खिनी। अलम्बुसा कन्दमध्ये ऊर्ध्वाधोगताः (दधोगताः) सर्वगामिन्यः पायुमूलाग्रगता अन्यास्सिराश्च अश्वत्थपत्रसिरावत्समुत्पन्ना इति विज्ञायते।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे नाडीनिरूपणं नाम द्विनवतितमः पटलः ॥ ९२ ॥ (मातृकान्तरे ८५-प॰)